Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 139
________________ [ 124 ] धर्ममयकजीवनो महता दुःखेन समयं यापयति स्म / तदीयां दुर्दशामालोच्य सुहृद्धर्ममनुस्मरन् कृतोपचार जानन् गधाशाहो रहस्तपार्श्वमुपेत्यावोचत्-मित्र ! मा ते दुःखं भवतु / भवदीयमेवेदं धनमिति मत्वा गृहाण / त्वया च बहूपकृतम् / मया च तन विस्मर्तव्यम् / उपकारस्तु प्रत्युपकारेण शोभते / इयमेव नीतिः / यथा अचिरादुपकर्तुराचरेदथवात्मौपयिकीमुपक्रियाम् / पृथुरित्थमथाणुरस्तु वा न विशेषे विदुषामिह ग्रहः // श्रुत्वा च तद्वचोऽसौ तमवादीत्-अयि सखे ! त्वदुक्तं सर्वमेव सत्यम् / यच्चोपस्थितं शुभम शुभं वा फलं तदेवानुभवितव्यम् / भोगेन कर्मणां क्षयः। कर्मक्षयं विना न निरतिशयसुख्खास्वादः / तदभावे च किमिदं जीवनम् / यत्रात्मकल्याणं नासायते कर्मबन्धनेनेदं दुःखमनुभूयते / पुनरहं त्वत्साहाय्यं प्राप्य कथमपरमप्यनर्थजनकं गृह्णीयाम / यच्चाकर्तव्यं तत्तु नैव कर्तव्यम् / अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि / कर्तव्यं तत्तु कर्तव्यं प्राणैः कण्ठगतैरपि / श्रत आत्मकृतानां कर्मणां फलमात्मनैवानुभवितव्यमित्येवं जानामि / त्वं तु मित्रधर्ममतुसरसीति प्रशंसनीय एव / बहुविधं बोधितोऽप्यसौ स्वनिश्चयं न तत्याज / अथैकदा परोपकारी लब्धिसंपन्नः करुणा वलयः श्रीककसूरि भ्रमणनिमित्तेन तत्रायासीत् / स्वयमेव गोचरीचर्यायै तदीयगृहं जगाम / अनेन च खिनचेतसा परमधार्मिकेण बर्जरीधान्यं (बाजरी ) गोचरीरूपेण दत्तम् / तदीयां भक्तिं परीक्ष्य सूरीश्वरस्तद्धान्य राशेरुपरि रजोहरणं भ्रामयामास / येन धान्यगशिः सुवर्णमयो जावः। एतद् दृष्ट्वाऽश्चर्ययुतमानसः स प्राचार्यचरणकमलयुगले प्रवृद्धभावनो बभूव / प्राक्तनकर्मक्षयेऽस्योपादानकार• णात्पृथक् सूरीश्वरसमागमरूपं निमित्तं कारणं प्राप्तमतः पूर्ववदेव धनाधिपोऽभवत् / महात्मना किं दुःसाध्यम् सुरीश्वरश्च ततो विजहार / भैंसाशाहोऽपि गुरुपादपद्मवन्दनं विधाय गृहमायातः / अक्षयद्रविणराशिलाभेनासौ गदइया-नामिकाः सुवर्णमुद्रा - निरमापयत / गुरुकृपाप्राप्तधनराशिनाऽनेन भव्यो जिनालयः, प्रवासिनामुपयोगार्थमगाधजलः कूपो, नगरपरिरक्षणार्थञ्चाभेयो दुर्गश्च निर्मापितः / अधापि तत्स्मारका एते विद्यन्त एव / गदइयामुदानिर्माणेन जना तं गदइयेत्युपनाम्ना संबोधयामासुः / एतदीया वंशजास्तथैव ख्यातिमगमन् / . प्राचायवर्योऽतीते कियति समये मिन्नमालनामक भैंसाशाहस्य श्वसुरनिवासभत नगरमगात् / तत्रोपस्थितोऽसौ नवलक्षपरिमितद्रव्यव्ययेन निरुपमं स्वागतं चकार / संघसभायोजनमपि कृतम् / दूरदूरमामन्त्रणानि प्रेषितानि / समागताः सहस्राधिकाः साधवः साध्व्य उपासकाश्च / वर्तमानपरिस्थितिपर्यालोचनेन धर्माराधन• . प्रचारार्थ हृदयंग व्याख्यानं कृत्वा देवभद्राय सूरिपदं, ज्ञानकल्लोलादिभ्यः सप्तभ्य उपाध्यायपदं, हर्षवर्धनादिभ्यः सप्तभ्यो गणिपदं, देवसन्दरादिभ्यो नवभ्यो वाचनाचार्यपदं, शान्तिकुशलादिभ्य एकादशभ्यः पण्डितपदं च दत्वा सूरीश्वरः सभा विससर्ज / अत्रातिमहति पुण्यकर्मणि दानवीरः श्रेष्ठी भैसाशाह एकादशलक्षसंख्यका मुद्रा विन्ययुंक्त। एवं धर्माचरणेनात्मकल्याणमाससाद / ईदशा दानवीरा धर्मवीराश्च तदानीन्तने काले बहव आसन् यैर्धर्म एवं धनमिति सिद्धान्ति मासीत् / प्राचार्यवर्यः श्रीककसूरीश्वरश्चतुस्त्रिंशद्वर्षाणि शासनसेवा पूर्णपरिश्रमेण सर्वत्र संपादयामास / वार्द्धके भगवतः श्रीमहावीरस्य मन्दिरे चिंचटगोत्रोयेण जयकरणशाहेनारग्धेऽष्टाह्निकामहोत्सवे देवचन्द्रमुपाण्याय

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150