Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 144
________________ [ 16 ] दिने बातमुहूर्त कृत्वा मन्दिरकायमारभत / समाप्ते मन्दिरका कृष्णर्षिसमीपमेत्य तत्प्रतिष्ठायै निवेदयामास / स व समवोचत् श्रेष्ठिन् ! अवश्य प्रतिष्ठाविषिः सत्वरं कर्तव्य इत्यहं जाने / किन्तु श्रीदेवगुप्तसूरियर्योऽय गुर्जरदेशे विहरवि स एवात्रागत्य तत्काय सम्पादयिष्यति तदेव न्याय्यम् / अतस्तमाह्वातुमामन्त्रणं प्रेषयतु भवान् / प्रेषिताः सेवकाः। शासनशुभचिन्तकः स देवगुप्तसूरिनार्गपुरं समाययो / शुभे मुहूर्ते प्रतिष्ठाविधि समपादयत्। मन्दिरमिदमतीव विशालमासीद् यस्य व्यवस्थायै द्विसप्ततिपरिमिताः पुरुषास्तावत्यश्व स्त्रियो नियुक्ता आसन् / प्रतिष्ठाकार्य समाप्य कृष्णर्षिः सपादलक्षप्रान्ते विहत्य जिनधर्मप्रचारमकार्षीत् / देवगुप्तसूरीश्वरः स्वपट्टे जयसिंहमुनि सिद्धसूरिनाम्ना स्थापयामास / स च वीरदेवं मुनि ककसूरीति नाम्ना सूरिपदप्रतिष्ठितमकरोत् / कक्कसूरिश्च वासुदेवं मुनि देवगुप्तसूरीत्यभिधेयेनाचार्यपदे नियोजयामास / तस्य स्थानेऽपरः सिद्धसूरिः समायातः / स च चन्द्रावत्या श्रीमेकतिलकमुपाध्याय स्वपदे संस्थाप्य स्वर्गस्थोऽभूत् / यस्य कक्कसूरीति प्रसिद्धिः / एवं सिद्धसूरेटौं पट्टधरौ / एकचन्द्रावतीस्था चन्द्रावतीशाखीयः, अपरश्च खटकुम्पशाखीयः / द्वयोः परम्परा कसूरि-देवगुप्तसूरि-सिद्धसूरीति क्रमेण प्रचलति / चन्द्रावतीशाखा कियत्पर्यन्तं प्रचलितेति निर्धारणं दुःशकम् / खटकुम्पशाखा विदानीमपि नंगी-पोसालो-नाम्ना विद्यत एव / प्राचार्यः श्रीकक्क सूरिः।। मारोटकोटनगरे काकूनामको मांडलिका क्षत्रीयवंशीयो राजा बभव / असौ स्वनगरस्य परितो वर्तमानस्य दुर्गस्य जीर्णोद्धारार्थ दाव्याथै च कर्मकरानादिदेश / तेच पावखननमारभन्ते तावदेव ततो भगवतो नेमिनाथस्य विशाला मूर्ति दशः / दृष्ट्वा च राजानं व्यज्ञापयन् / प्रीतेन च राज्ञा मन्दिर निर्माणाप शिल्पिनः समाविष्टाः / प्रासादस्थितो राजा, अन्तपुरस्थिता राज्ञी चानायासेन दर्शनं कर्तुं शकुयात्तादृशं वृहन् मन्दिरं तैनिर्मितम् / अस्मिन्नेव शुभावसरे तत्रभवानाचार्यः भीककसूरिस्तत्राययो। राजा मन्त्री प्रजाश्च भव्यमस्य स्वागतं चकः / सर्वान् धर्मलाभाशिषा संभावयन् प्रतिष्ठार्थं निवेदितः शुभलक्षणान्विते मुहूर्ते रम्यां मूर्ति प्रतिष्ठापयामास / तस्मिन् समये मारोटकोटनगरे श्रावकाणां चतुःशतानि गृहाणि पंच पौषधशालाश्वासन् / अनेनानुमीयते यत्तदा सन्नगरं जैनानां महत् केन्द्रस्थानमासीदिति यथा राजा तथा प्रजेति नियमेन सर्वे जिनधर्माचरणेनात्मकल्याणाभिरुचयो बभूवुः। प्रतिष्ठाविधि समाप्य धर्मप्रचारार्थ विहरन्नसौ कक्कसूरी गणकदुर्गमाससाद / तत्र धर्मतत्वव्याख्यानश्रवणसमेधितजिनधर्मभावनो राजा सुरदेवो पावत्र मन्दिरं तिष्ठति तावदेव सर्वं धार्मिका दर्शनस्पर्शनमहोत्सवादिमिरात्मभेयासम्प्राप्तो प्रयतिम्यन्ते” इति महान्तं धर्मलाभं मन्यमानः सूरेराज्ञां प्राप्य रमणीयं विशालं मन्दिरमेकं निर्मापयामास / यस प्रतिष्ठाकार्य सूरिणव सम्पादितम् / दीर्घदर्शी सूरियथाधर्मभावना सर्वेषां तथैव वर्धतेति विचार्याष्टाहिकामहोत्सवानुष्ठानमादिदेश / राज्ञा च तद्वचः शिरसाऽभिनन्दितम् / / - एकदा भीकक्कसूरिः शान्तिमुनि स्वशिष्यमगादीत-मुने ! स्वमपि कंचिद् राजानं प्रतिबोध्यामिन देवालयं निर्मापयिष्यसि-किम् ?तेन च तदीयं वचनं साक्षेपं मन्यमानेन तथैवोक्तम् , यद्येवं स्यात्तदा भवानपि प्रतिशाविधये तत्रागमिष्यति किम् / गुरुणा च तथेत्यङ्गीकृतम् / गुरोराज्ञां प्राप्यासी त्रिभुवनदुर्ग गत्वा तदधिपति प्रतियोधयामास / मन्दिरनिर्माणं धर्मव्याख्याने मुख्यमुद्देश्यम् / मन्दिरनिर्माणेनालौकिकपुण्योपार्जनेऽनेकेषा गशामुदाहरणानि प्रदर्शितानि / हृदयंगममुपदेशमस्य श्रुत्वा नूतनजिनालयनिर्माणार्थमभिलाषा प्रकटोचकार राजा। तदनुमतम्ब स शिल्पिन प्रादिदेश सन्निर्माणार्थम् / शीघ्रमेव मन्दिरकार्य शिल्पिभिः समापितम् / शान्तिमुनिः प्रतिष्ठार्थ रामा कमसूरिमामन्त्रयामास / शिष्यस्याज्ञापालनं विचार्य सन्तुष्टमानसः स प्राचार्यस्तत्र गत्वा शान्तिमुनिमभिननन्द / सर्वशुभलक्षणलक्षणीये मुहूर्ते.प्रतिष्ठामकरोत् स्वकीयवरदहस्तेन / सूरीश्वरप्रभावसमाकष्ट

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150