Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 143
________________ [ 128 ] समवसरणमपरमन्यत्रेति समवसरणद्वयं भवति / परन्त्वस्मिन्नवसपिणि काले भगवतः ऋषभदेवस्याष्टी समवसरणानि नातानि / तदानी जनाश्च भद्रिका श्रासन् / भगवतः श्रीमहावीरस्य द्वादश समवसरणानि यतो मिथ्याग्रहप्रसिता जना याज्ञिकानां पशुहिंसानिरतानाच प्राबल्यम् / श्रवशिष्टानां द्वाविंशतिसंख्याकानां श्रीतीर्थकराणां प्रत्येक द्वे द्वे समवसरणे / तेषां व्याख्याने बाह्याऽभ्यन्तरीया चेति द्विविधा विभतिः बाह्यायामष्टौ महाप्रतिहार्याणि, आभ्यन्तरं केवलज्ञानं केवल दर्शनश्च / धन्या एव ते महानुभावाः यस्तीर्थकराणां समवसरणं प्राप्य निखिलपातकक्षपणसमर्थानि स्वकल्याणसाधकानि श्रुतानि व्याख्यानानि / सर्वमिदं शाने सुविशई निरूपितं मयाऽत्र संक्षेपेणोक्तम् / श्रीतीर्थकरसमवसरणविषयकं व्याख्यानमाकर्ण्य सभ्या श्रात्मानं धन्यममन्यन्त / प्राचार्यः श्रीदेवगुप्तसूरीश्वर एवं विंशतिवर्षाणि शासनस्यातिमहती सेवामकरोत् / मांसमदिराद्यभक्ष्यभक्षणशीलान् धर्मतत्वामृतं पाययित्वा जिनधर्मदीक्षादिक्षितान् चकार / नूतनानां मन्दिराणां मूर्तीनाच प्रतिष्ठापनं विराट् संघायोजनमिति बहुविधानि शासनकार्याण्यविरतं संपाद्य धर्मलतां दृढमूलामकरोत् / / अन्ते च स्वपट्टे श्रीसिद्धसूरि प्रतिष्ठाप्यानशनसमाधिसेवनेन स्वर्गपथप्रवासी बभव / __ उपकेशगच्छे खटकुम्पशाखा। प्राचार्यस्य श्रीकक्कसूरेरनन्तरं श्रीसिद्धसूरिनामक प्राचार्यो बभूव / असौ सर्वगुणसंपन्नः शासन प्रभावक खटकुम्पनगरे स्थिरवसतिमकार्षीद् येन विहाराधभावेन धर्मप्रचारशैथिल्यमालक्ष्य शुभचिन्तकैः श्रमणैर्विज्ञापितोऽपि स्वामहं नात्याक्षीत् / ततस्तैर्मिथः शासनसमुन्नति विचार्य देषविमलनामानमाचार्यगुणभूयिष्ठं नूतनमाचार्य प्रतिष्ठाप्य तदध्यक्षत्वे सर्वत्र विहरणदेशनादिमिर्धर्मप्रचारकार्यमारब्धम् / खटकुम्पनगरनिवासिनः श्रीसिद्धसूरेरध्यक्षत्वे बहवः साधवः साध्व्यश्वासन् / तथापि न कश्चित्समुचितः शिष्यः स्वपदेऽनेन प्रतिष्ठापितः / अकस्मादेष सः स्वर्गमत्रजत् / अतस्तदीयकार्यभारं तस्य यक्ष महत्तरनामा शिष्य उवाह / ___एकदा परिभ्रमन्नसौ मथुगमयासीत् / तत्र गृहीतारण्यकदीक्षो नन्नभट्टनामा महाप्रभावो नगराद् पहिः सिद्धान्ताभ्यासार्थमवात्सीत् / तमुपदिश्य श्वेताम्बरीयां दीक्षां दत्वा निखिल गुणवरिष्ठं तमाचार्यस्य श्रीसिद्धसूरीश्वरस्य पट्टे स्थापयामास / नाम चास्य श्रीकक्कसूरीति चकार / अयंच जनान् धर्मतत्वं विबोध्य दीक्षां दत्वा स्वगच्छाभिवृद्धिमकार्षीत् / श्रमणानाञ्चातिमहती संख्या बभूव / तत्र कृष्णर्षिनामकः परमतपस्वी तीक्ष्णबुद्धिविप्रश्रमण आसीत् / सर्वगुणसंपूर्तिरसौ जिनागमतत्वज्ञः क्रमेण वभव / किन्तु आचार्यः श्रीकक्कसूरिरस्य दीक्षाग्रहणानन्तरमल्पेन कालेन स्वशरोरमत्यजत् तदानीं यक्षमहत्तरः खटकुम्पा गरे स्थिरवासमझी वकार / कृष्णर्षिश्वतत्र गत्वा कक्करिवृत्तान्तं निवेदयामास / ज्ञात्वा च स्वसमीपे तमुपसंपदादिक्रियाकलापं शिक्षयामास / अन्ते च शासनभारं तस्मै समj सोऽप्यनशनसमाधिव्रतानुष्ठानेन तत्याज नश्वरं देहम् / कृष्णपिस्तु देव्याश्चक्रेश्वर्या अनुज्ञामासाद्य चित्रकूटं गत्वा कस्यचिदाचार्यस्य समीपं कम्चिदेकं शिष्यमध्या. पयामास / सकलगुणमण्डितश्च तमाचार्यपदे संस्थाप्य देवगुप्तसूरीति तन्नाम कृतान / गच्छकार्यभारं तस्मै समर्प्य स्वयं स्वतन्त्रो भत्वा विहरणक्रमेण नागपुरमाययो / तत्र तदीयमलौकिकगुणसमन्वितं धर्मप्रचुरं व्याख्यानं श्रुत्वा नारायणनामा श्रेष्ठी चतुःशवसंख्यकैः कुटुम्बिभिः सार्ध जिनधर्मदीक्षामगृहात् / तदीपप्रभावसमा- . कृष्टमानसः श्रेष्ठी मन्दिरनिर्माणार्थमाज्ञो प्राप्य तन्नगराधिपति राजानमुपेत्य सप्रश्रयमगादीत् / राजन् ! सर्वजनकल्याणसाधकमेकं मन्दिर निर्मापयितुमहमभिलषामि, तस्मात्तदुचितां भूमि मे ददातु भवान् इति तद्वचः सादरमाकार्य सन्तुष्टमना राजा समुचितां दुर्गभर्मि तस्मै तदर्थ ददौ विना मूल्यम् / प्रसन्नमानसः श्रेष्ठी शुभे

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150