Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
Catalog link: https://jainqq.org/explore/004433/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री पार्श्वनाथपरम्पराया इतिहासः (संस्कृत गद्यमय) हिन्दी संस्करण का मूल लेखक आचार्य श्री देवगुप्त सूरि संस्कृत अध्यापकशास्त्री गोरीनाथ शुक्ल साहित्यतीर्थ संस्कृताध्यापक ज्युबीली हाईस्कूल, उमरेठ. Page #2 -------------------------------------------------------------------------- ________________ श्री यदुपकेश गच्छाचार्य श्री देवगुप्तसूरीश्वरजी महाराज जन्म. लग्न स्था० दीक्षा जैन दीक्षा सूरिपद 1637 1655 विजयादशमी | मागसर वद 10 1663 चैत्र वद 3 1972 मोन एकादशी 2000 वैशाख शुद५ Page #3 -------------------------------------------------------------------------- _ Page #4 -------------------------------------------------------------------------- ________________ -- -- - -.... - wesomeonewomen-e श्रीज्ञान-गुण-पुष्पमालायाः 41 पुष्पम् / - - - LAAAAAMALAR --- - - - - श्रीमद्रत्नप्रभसूरीश्वरपादपत्रेभ्यो नमः / श्रीपार्श्वनाथपरम्पराया इतिहासः / . हिन्दीसंस्करणस्य लेखकः श्रीमदुपकेशगच्छाचार्यः श्रीदेवगुप्तमरीश्वरापरनामा ... श्रीज्ञानसुन्दरसूरीश्वरमहाराजः - - - - Knh-Hat HAMIRevkotathiHR-WIKHinde Hd HikediaRKH संस्कृतानुवादकःशास्त्री गौरीनाथशुक्लः / साहित्यशास्त्री / - - साहित्यतीर्थः / - ___ संस्कृताध्यापकः-ज्युबीली हाईस्कुल, उमरेठ - प्रकाशक - - - - - - ADMAbc.AADARASIMURARAMIRRORIhd - श्री रत्नप्रभाकरज्ञानपुष्पमाला-फलोदी (मारवाड़) - वीर सं० 2471 / श्रोसवाल सं० 2401 / वि० सं० 2001 सर्वहक्क स्वाधीन है - - प्रथमावृत्तिः / मुद्रकबाबू चिम्मनलाल जैन द्वारा आदर्श प्रिंटिंग प्रेस, अजमेर र मूल्य रूप्यकद्वयम् - - - - ---more -0000Memesnesengen- on - a -manandeanseenned Page #5 -------------------------------------------------------------------------- ________________ . mode.. Pero...... N . GLEDGERAS u. .000.00 Doors 0.00 Don S s ed....... 0.00Mbe . . o OM Shree Dryaagunan Pushpamal's Book 41 HISTORY OF ..... Des e eeeeeeeeeee ce SHREE PARSHWANATHPARAMPARA OneDoge. Neeeeeeee Peercece LGCDPD Original in Hindi by Doyanasundar Suri Alias Shree Devagupta Suri, Shreemad Upakeshgachhacharya . ed c .. . . ..... " Sanskrit Translation by Shree Gaurinath Shukla Shnstri Shahitya Shastri (Govt.) and Sahitya Tirtha ( Calcutta Sanskrit Teacher Jubilee Institution, UMRETH (Gujarat) .. ... oe Cocoderede . .. . .. Vir Samvat 2471 Osawal 2401 Vikram ,, 2001 Price . First Edition 5 0 0 Copies All rights reserved All rights reserved Rs. 2-0-0 only Rs.2.00 wee p .... .. S.R.ORGOT SPOJ ... .. ... com Monste . . . . GERNING ........... der r er Page #6 -------------------------------------------------------------------------- ________________ किञ्चित प्रास्ताविकम् // इह हि विकरालकरालकलिकालकवलीकृते विरश्चिप्रपन्चे सुखदुःखमिश्रितासु नानायोनिषु बंभ्रम्यमाणा बहवोऽत्रावलोक्यन्ते निरतिशयसुखसंप्राप्तिदृढपरिकरा मानवाः / तथापि तदनुकूलोपायमलभमाना रागद्वेषविमोहितमतयो दुःखेऽपि सुखं मन्यमानाः शाश्वतिकसुखलेशमपि न लभन्ते मृगतृष्णाकुलमतयो मृगाः सलिलमिव / भविष्यति काले समेषामियं दुःखपरम्परामाकलय्य स्वचेतसि परहितनिरताः स्वसुखनिरपेक्षाः परमकरुणावलया महामहिमशालिनः सरलोदारचरित्रचित्रीकृतसकलजनमानसा महामतयो महापुरुषा निखिलजनश्वःश्रेयसाय विविधानुपायभूतान शास्त्रप्रमाणप्रमाणितान् मार्गान् स्वकीयानवद्यविद्याविभूषितान् प्रकटीचक्रुः / यतस्तत्प्रदर्शितमार्गानुसरणेन ते स्वाभिमां सिविं प्राप्नुयुः परत्रेह च कुर्यन निजमनुजजनिकृतार्थतां सौकर्येण / _ भिन्नरुचिहि लोकः / न खल्वेकेनाविष्कृतेन सुदृढेन मार्गेणापि भिन्नरुचीनां सकलजनानां चेतासि सन्तोषं मोदं प्रमोद सुखश्चाप्नुवन्तीति विविधा निखिलसुखसंपादका प्रागमप्रन्थप्रदर्शिता महापुरुषप्रणीताः पन्थानः समुपलभ्यन्त एव / सहायभूतैस्तैरुपायभूतैश्च माजराचरणे क्रियमाणेऽञ्जसास्यात्सुखं मानवानाम् / एवं सति नाममात्रे विविद. मानानां शास्त्राणां सकलानां भगवतः परमात्मनः स्वरूपैक्ये न कस्यचिद् विप्रतिपत्तिः / तथा च "अहिंसा परमो धर्म" इत्यत्रापि सैषा रीतिः / पन्थाश्त्र सार्वजनीनः / परमार्थतः सकलागमोपनिषदोऽव्ययं सिद्धान्तः प्राधान्येन जैनसंप्रदाये प्रचार प्रभूतं प्राप्तो मौलिकता भमत इति निर्विवादम् / सिद्धान्तोऽयं किंस्वरूपः ? कथश्चाचरणीय इत्यत्र बहवो हि तत्प्रतिपादकाः प्रस्ना जिनागमपन्था इदानी प्रसिद्धिं यान्ति / वैश्च तत्संप्रदायप्रचारकैः परिपोषकैश्चानेके ज्ञानकोशाः पुरा निर्मिताः / परं यवनैराकान्ते भारते धन्धिप्रकृतिकस्तैर्दग्धा बहवः, कंचन गुप्तस्यले च संरक्षिताः प्रन्थाः / शैथिल्यं गते तत्संप्रदाये पुनस्तदुद्धारो दुःशक एवेति महान खलु खेदस्यायमवसरः। अधुना वैकमस्य विंशतितमे शतके विज्ञानवादः सर्वत्र प्राधान्यं प्राप्तो येन जैनसाहित्यस्य संशोधन प्राचीन भारतीयमिदं साहित्यमिति पर्यालोच्य गवेषकैः सुनिपुणं निरूण्यानुष्ठीयते / प्रसिद्धाश्च भवन्ति प्रभूता प्रन्यास्तदीयसाहित्त्यस्य भारतस्य विविधासु भाषासु। इदानीन्तनेषु प्राक्तनेषु च प्रन्थेषु तत्संप्रदायसिद्धान्तस्वरूपं तदितिहासच विस्तरशो विज्ञायत एव / भगवतां परमवन्दनीयचरणपंकजयुगलानां श्रीमदाचार्यपर्यागा परम्पराया इतिवृत्तमितस्ततो विक्षिप्तं कचनकदेशे च विस्तृतं यद्यपि लभ्यत एव तथापि क्रमश उपवर्णितं चेतश्चमत्कृतिजनकं सर्वत्र प्रायो दुर्लभमेव / प्रभावकचरितमन्येऽपि च सन्ति चरित्रवर्णनपरा प्रन्थाः किन्तु तत्र प्राधान्येनैव तत्तदाचार्याणामितिवृत्तमुपनिषद्धं, न क्रमानुसारेण समेषाम् / तत्रापीदानीन्तनसंशोधनप्राप्तसाहित्यानुकूल्याभाव एवेति मस्खा समर्चनीयचरणकमलस्य प्राचार्यस्य श्रीदेवगुप्तसूरेः (मानसुंदरसूरः ) प्रयासस्तां क्षतिंदूरीकर्तु भूयसाऽनेहसेति महपरनिवासिनो बलीयसी सास्था। Page #7 -------------------------------------------------------------------------- ________________ [2] श्रीमता तत्रभवता आचार्यवर्येण जैनसंपदायस्यातिमहती सेवा सुविहिता, नूतना काचित् चेतना च समर्पितेति 241 ग्रन्थानां निर्माणमेव निदर्शनम् / संप्रदायस्यास्य कथं कारं समुन्नतिः स्यात् . कथञ्च तहषणानां परिहार भवेदिति निपुर्ण निरूप्य स्वधर्मसंरक्षणं तत्प्रचारश्च स्वकीयं मुख्यं कर्तामिति विचार्य, ममुपेक्ष्य च जनापवादं, विहत्य च यत्र तत्र जीवितनिरपेक्ष परिश्रमः कृत इति नातिशयोक्तिः / विशेषश्च आदर्शज्ञान नाम के हिन्दीभाषायां लिखिते प्रन्थे द्रष्टव्यः / स्वनामधन्येन विद्वद्वरेण्येन प्राचार्येण श्रीदेवगुप्तसूरिणा (श्रीज्ञानसुन्दरसूरिणा ) हिन्दीभाषा * / 2000 पत्रात्मको महान् "श्रीपार्श्वनाथपरम्पराका इतिहास"-नामकः स्वजीवनसर्वस्वरूपो प्रन्थः पायोदधिमन्यनसार भूतं पीयूषमिव निर्माय सकलधार्मिकसुख साधकसाधनभूतः प्रकटीकृत इति जानन्त्येव भवन्तः / परं संस्कृतज्ञा अप्येतदीयं रसं संस्कृतेऽप्यासादयन्त्विति विचार्य तमनुवादकरणेऽहमादिष्टः / मया व स्मृतस्तत्रभवान् कविकुलचूडामणिः कालिदासः-क सूर्यप्रभवो वंशः क चाल्मविषया मतिः / तितीर्घदुस्तरं मोहादुडुपेनास्मि सागरम् / / यतो हि साधारणमतेममायं संस्कृते प्रथमः प्रयत्नः / तदनु विचार्यमाणे "अथवा कृतवारद्वारे. साहसे श्रीः प्रतिष्ठिते" त्यादि च स्मृतिपथमारूढम् / वस्तुन आविष्करणे हि गुणदोषचर्चा, प्रयत्ने सफलता निष्फलता चेत्यपि सुदूरं स्वचेतसि न्यरूपयम् / अत्र लेखनकाय कियदवधिक सौकर्यमासीत् / यतो हि सूरिवर्यसमीपे केनचित् पण्डितेन कृतोऽनुवादः कियत्पर्यन्तं विद्यते स्म / स च वस्तुप्रथनमात्रे मे सहायमकृत / परमत्र सम्प्रदायसिद्धान्तनिरूपणविषये तस्मिन्ननुशदे मूलमन्थे चापि सुरुषष्टं नालेखि किञ्चित् / ततो हि महती विप्रतिपत्तिरजनि / येन तत्स्वरूपानरूपणे मया मौलिकतामनुसरता प्रकृतिवदनुकरणमेव सिद्धान्तितम् / यथा-५० पृष्ठे आत्मतत्वनिरूपणप्रसंगे 4 मुनिवाक्ये "न जायते म्रियते वा कदाचित्" इदं मूल कारलेखाक्षरतात्पर्यानुसारेण मया तथैवोटुंकितम् / प्रायोऽनुवादकानां लेखकानामिव नास्ति स्वातंत्र्यम् / अपरश्च दूरस्थानस्थितिः कादाचित्क प्राचार्यवर्यस्य समागमोऽनियतस्थितिकः, सहायकमन्थानां दौर्लभ्यम्, वर्तमानपरिस्थतेः सापेक्षत्वम् , मुद्रापणे च महती त्वरा, साप्यावश्यकी, सर्वाण्येतानि पन्थलेखनप्रतिकूलानि मे वास्तविकानि कारणानि, तथापि "न निश्चितार्थाद् विस्मन्ति धीरा" इति मे प्रभूतमत्र लेखने प्रोत्साहक सुभाषितम् / ग्रन्थस्योपादेयत्वम् / / "धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः" धर्मदर्थश्च कामश्च "धर्मो विश्वस्य जगतः प्रतिष्ठा" इत्यादिभिः प्रमाणैः सर्वपुमर्थसाधकल्वे धर्म एव मुख्यं निदानम् / स च तत्तसंप्रदायनिरूपितस्वरूपः / ततश्चात्र जेनसम्प्रदाय तत्तदाचार्याणां यत्र तत्र विहरणेन धर्मतत्वोपदेशः, तत्प्रचारः, तीर्थयात्रायै संघनिष्कासनम, अभिनवजिनप्रतिमानां चैत्यानां च निर्मापणम् , पुरातनानां जीर्णोद्धारः, सर्मिभ्यः सजातीयेभ्यश्च सहायप्रदानम्, भागमपन्थानां निर्मापणे मुक्तहस्तो द्रव्यव्ययः, श्रीमद्भगवतीसूत्रवाचनामहोत्सवानुष्ठानम् अन्येषामपि धर्मरुचिसंवर्धकानामष्टाहिकादीनां महोत्सवानां समारोहः ; प्राचार्यचरणानां भव्यः स्वागतविधिः, दीनेभ्यश्वान्नवखादीनां वितरणम्, अहिंसाप्रतपालनार्थ महान् द्रव्योत्सर्गः-एवमादीनि बहुविधानि धर्माचरणानि प्रन्थेऽस्मिन् तत्तदाचार्यजीवनचरितप्रसंगानुषकोण प्रदर्शितानि / ___इदमत्रावश्यं वक्तव्यं यदन्यधर्मापेक्षया जैनसम्प्रदाये स्वधर्माचरणे प्राक्तनपुण्यपुजलब्धं द्रविणराशिमुपयोक्तुमिदानीमपि जैना मनागपि पश्चात्पदं न कुर्वन्ति / किमु वक्तव्यं तत्र विविधसमृद्धिमति प्राचीने भारते सरलोदारसंस्कृतमतीनां धर्ममयकजीवनानां वैश्रवणोपमामां जनानां विद्यमानत्वे / अत्र प्रन्थे भूरिशस्वा Page #8 -------------------------------------------------------------------------- ________________ शानि 'वर्णनानि - समायान्ति / तानि च वस्तुगत्या प्रदर्शितानीतिवृत्तानुसारेण येन पाठकाः पिष्टपेषणाचालोचनक्लिष्टमानसा न भवेयुः / जिनधर्मः पुरा सर्वत्र प्राप्तप्रचारो राजभिर्महाराजैर्धनिकैश्चाहतः पूर्णकलः कलानिधिरिव तदानीन्तने कालेऽत्र भारते विद्योतते स्मेति सूक्ष्मेक्षिकया विचारणीयम् / / अपरञ्च दयाधर्ममास्थाय भावुकानां सांसारिकक्लेशपरिहारपूर्वकं निरतिशयसुखसंपादनाय वीतरागाणामाचार्यकर्याणां मन्त्रबाद्यनुष्ठानेन विविधा महान्तो दरीदृश्यन्तेऽत्र प्रन्थे प्रयत्नाः / उपायेन येन शक्येत साधयितुं शासनसमुन्नतिः, यत्र चान्यमतानुयायिकृता स्वधर्मक्षतिस्तत्र झटिति समेत्य परमतदूषणपूर्वकं स्वसिद्धान्तस्वरुपप्रतिपादनपुरःसरं स्वधर्मस्योपादेयत्वमाचार्याणां शासनशुभचिन्तकानां बहुशो दृग्गोचर भवति / हन्त ! गतः स समयः / अधुना चिराद् विदेशीयैराकान्तं ध्वस्तधर्ममर्यादं स्वेच्छाचारबहुलं विपद्प्रस्तं परवशं कथंकथमपि प्राणान् धारयति भारतम् / इदमत्र दृढमास्थेयम्-न खलु धर्ममन्तरा जातु कश्चिदपि जनः शर्म पर विन्दव इति / .: एतद्ग्रन्थविषये भीमन्तः परममान्याः केशवरामशास्त्रिणः ( क्यूरेटर-गुजरात वर्ना सोसायटी ) श्रीमधुकुमारमहोदयाश्च ( प्रिन्सिपल-ज्युषीली हाईस्कूल ) स्वाभिप्रायप्रदर्शनेन मामुपकृतिभरानतमकार्षः / प्रत्युपकर्तुमशक्तः केवलं भगवन्तं परमेश्वरं सालिबन्धं भूयो भूयोऽभ्यर्थये तेषां भूयसीमभिप्रेतां भूतिं विदयादिति / / अन्यच्च श्रीमन्त- आदर्शमुद्रणालयाध्यक्षाः श्रीरामलालमहोदया अस्य मुद्रणप्रबन्धं कृत्वा महता परिश्रमेण प्रकाशने साहाय्यमाचरंस्तदर्थ ते धन्यवादार्हाः / ____ जानाम्यहमत्र बह व्यः खलु त्रुटयः, ताश्च मदीयपारतंत्र्यनिबन्धनाः / यथामति शुद्धिपत्रे संस्कृताः / तथापि सर्वज्ञः सर्वविदीश्वर एव / मम चान्तर्भावो युष्मदीये पक्षे / अन्ते च गुणदोषौ बुधो गृह्णन्-इन्दुक्ष्वेडाविवेश्वरः / शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति // सं० 2000 विजयादशम्यां ) सौम्यवासरे ताः 27-1-44 / दलालपोल, वडा वजार ) विद्वच्चरणकमचधरीक शास्त्री गौरीनाथशुक्लः। संस्कृताध्यापकः ज्युबीली हाईस्कूल / उमरेठ। गुजरात / Page #9 -------------------------------------------------------------------------- ________________ Some Opinions. Ahmedabad, 1st August, 1944 श्री पार्श्व परम्पराया इतिहासः, a Sanskrit prose work is in the form of narrative biographies of Jain preceptors, from 9732779, the 23rd Tirthamkara in fine style, mostly resembling old was. Such being the case, one should not expect a classical style, strictly observing the orthodoxy of the Sanskrit grammar. The author seems to be conversant with old qerarefits and has been able to get authentic information about the proceptors. To reconstruct the Jain history, publications of such granits are essential, Not only qeraris but also griffats at the ends of MSS and their colophons are very useful in reconstructing history. Old Jain Bhandaras possess - such. literature in great quantity, and it is worth publishing. Such efforts have been already begun and the texts require careful editing. Keshavram K. Shastree Curator, Research and Postgraduate Department, Gujarat Vernacular Society, AHMEDABAD. I have read with interest the Sanskrit book 'sit qpeqze9779T FETA: written by Mr. G. M. Shukla. The History of Jain Tirtham karas is given in chronological order. This might greatly facilitate the compilation of Jain History. In the book we find scattered here and there the jain religious tenets as also the ways and means they adopted for spreading their religion. The language is every easy but terse, Mr. Shukla has made a laudable and patient attempt after compiling a book which may not fiind many readers. The book must however prove a very welcome addition to Jain literature and history. M. S. Desai, m. A., 8. T. O, D. Principal, JUBILEE INSTITUTION, UMRETH. Page #10 -------------------------------------------------------------------------- ________________ अनुक्रमणिका पृष्ठम् / विक्रमपूर्वतः विक्रमपूर्वपर्यन्तम् 696 626 554 626 554 418 . . . - . 342 - 418 386 342 288 288 - 247 217 182 136 136 क्रमाः / श्राचायनाम 1 श्रीशुभदत्तो गणधरः 3 श्रीहरिदचसूरिः 3 श्रीसमुद्रसूरिः / 4 श्रीकेशिश्रमणसूरिः 5. श्रीस्वयंप्रभसूरिः / 6 श्रीतनप्रभसूरिः (1) . 7 श्रीयक्षदेवसूरिः (1) 8 श्रीकक्कसूरिः (1) 9 श्रीदेवगुप्तसूरिः (1) 10 श्रीसिद्धसूरिः (1) 15 श्रीरत्नप्रभसूरिः (2) 12 श्रीयक्षदेवसूरिः (2) 13. श्रीकक्कसूरीः (2) 14 श्रीदेवगुप्त सूरिः (2) 15 श्रीसिद्धसूरिः (2) 16. श्रीरत्नप्रभसूरिः (3) 17 श्रीयक्षदेवसूरिः (3) 18 श्रीकक्कसूरिः (3) 19 श्रीदेवगुप्त सूरिः (3) 20 श्रीसिद्धसूरिः (3) 21 श्रीरत्नप्रभसूरिः (4) 22. श्रीयक्षदेवसूरिः (4) 25 श्रीकक्कसूरिः (4) 24 श्रीदेवगुप्तसूरिः (4) 25. श्रीसिद्धसूरिः (4) 26 श्रीरत्नप्रभसूरिः (5) 27 भीवनदेवगुप्तसूरि:(५) 28 श्रीकक्कसूरिः (5) 19 श्रीदेवगुप्तसूरिः (5) वि. पू. 12 वि. सं. 52 तः वि.सं. 52 तः वि. सं. 115 157 115 174 199 218. 199 218 260 235 260 282 298 310 336 aaaaaaaa 282 298 320 326 Page #11 -------------------------------------------------------------------------- ________________ [2] वि० सं० वि० सं० पृष्ठम् 40. 440 480 520 558 601 Aaaaaaaaa 424 440 480 520 . 558 601 631 660 680 कमाः प्राचार्यनाम 30 श्रीसिद्धसूरिः (5) 31 श्रीरत्नप्रभसूरिः (6) 32 श्रीयक्षदेवसूरि (6) 5 श्रीकक्कसूरिः (6) 34 श्रीदेवगुप्तसूरिः (6) 35 श्रीसिद्धसूरिः (6) 36 श्रीकामसूरिः (7) 37 श्रीदेवगुप्तसूरिः (7) 38 श्रीसिद्धसूरिः (7) 39 श्रीकक्कसूरिः (8) 4. श्रीदेवगुप्तसूरिः (8) 41 श्रीसिद्धसूरिः (8). 42 श्रीकक्कसूरिः (9) 43 श्रीदेवगुप्त सूरिः (9) 44 श्रीसिद्धसूरिः (9) 45 श्रीकक्कसूरिः (10) 46 श्रीदेवगुप्तसूरिः (10) 47 श्रीसिद्धसूरिः (10) 48 श्रीकक्कसूरिः (11) 49 श्रीदेवगुप्तसूरिः (11) 5. श्रीसिद्धसूरिः (11) 680 724 778 837 892 952 892 952 100 1011 105 108 तः तः 1011 1033 1074 1108 1128 1033 1074 1108 1128 . 120 125 a. a. Page #12 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम् *eGo पृष्ठम अशुद्धम् 1 द्रव्यभाहतु 1 क्रिया निमग्नान् 2 माधवो 4 द्वसुती 5 विमानोः 5 भविष्यती 6 भवत्वित्युक्त . शुद्धम् द्रव्यमाहर्तु क्रियानिमग्नान् साधवो द्वी सुतौ विमानो भविष्यतीति भवत्वित्युक्त्वा पृष्ठम् अशुद्धम् 12 पूर्णान्रंग: , ममत्यन्त " सूरिति "सुरि 13 लाक्षेण्येन . 14 नियारय शुद्धम् पूर्णान्तरंगः ममन्यन्त सूरिरिसि सूरि लाक्षण्येन निवारय संघेन 6 बृहये वृदये " संधेन " गौत्रै " सूरिश्वरः 6 श्रावकाना ... 6 गगना. . 7-8 श्रावकाना 8 सोत्सहापुरःसरं ,, कोरेण्टक. , निप्रहीतो " घुपसर्गाः गोत्र सूरीश्वरः मुमूर्छ त्वोवाच आश्चार्ययुक्तो विधायः . . . . मूलाभिधानम् 15 मुमूछी 16 त्वोत्वाच " आश्चर्य युक्तो " विषाय , मूलामिधानम . " Sनने 17 संधस्तु "रामर्श " श्रावो " स्पृशं . श्रावकाणा गमना श्रावकाणा सोत्साहपुरासरं कोरण्टक निगृहीतो धुपसर्गाश्च . ऽनेन रादर्श लक्ष्यीकृत्य धर्मोत्साहो श्रेयान मगृहात् श्रीसंघ अष्टाह्निका - चकार ऐश्वर्यान्विता ত্যার मगृह्णात् द्वितीयः सुनुरुप पित्रोः "मागम "काऽआ 18 वीरपूर " लकित्य 9 धमोत्साहो 1. श्रेष्ठः मगृहात् 11 श्रीसंघ .., अष्टान्हिका "चकार: ,, ऐर्यान्विता .. " करुद्र . "मगृहयात् १२.द्वितिय , सूनुरूप संघस्तु भाद्धःस्पृक् / मराम काऽ वीरपुर : रारब्धः निवृत्ति धर्मा "रारूप ,निवृत्ति : 19 धमा , हि 20 स्वश्रेयसकरः , संख्यकैजनै ,, संघो ,, निर्मित , देहमसृजत् श्वःश्रेयसकरः . संख्यकै .. संघो निर्मित देहमुदसवत् / , पित्रीः / Page #13 -------------------------------------------------------------------------- ________________ पृष्ठम् अशुद्धम् 21 तमलो 22 संधं शुद्धम् संघो तमसस्य 91 संघेना स्यीहं पृष्ठम् अशुद्धम् . 49 संधो 50 धर्म , निरुपितम 51 पदवीम " संधेना दीक्षा 23 त्पीठ 24 दीक्षा ,, बहुविद्या "प्राप्या 25 सूरे "वास्तव्य "न्नाचार्य 52 वरदत्तोऽस्य "तन्त्र "ध्याय बहुविधां प्राप्त्या सूरेः ध्यायाय गुरुणा राचार्य बह व्यो निष्फलाः सूरेर्दा संघ देव्यश्वासन् तानि देवान चिह्ननि 26 गुरुणा 28 राचार्य 31 बम्हयो , निष्फला 32 सूरेदा 33 संघो 34 देव्यश्चा सनतानि निरूपितम् पदवीम वास्तव्य न्नाचार्यों वरदत्तोऽयं तत्र दाह्वान बुमुक्षा श्वशुर . . श्चोरस्तस्या श्वशुरा तीर्थे सहन ठाकरशी दृश्यत अपिच एवानु .. . " देवीन 35 चिन्हानि नसा " सा " रूपदेश संघ 36 मेहति / " कौतुहल " पन्चाननः 38 संसेप्य 40 सख्या 41 मगृहात् 43310 44 राज्यप्राति रुपदेशं मर्हति कौतूहल पन्चाननं संसेज्य संख्या मगृहात 320 राज्यप्राप्तिः, पपन्न सर्वस्मिन् द्रष्टव्यम् सर्वान , दाव्हान ___, बुमूक्षा 52 श्वसुर ,श्चौरो तस्या "श्वसुरा . 53 तीथ " सहस्त्र "ठाकरशी 54 दृश्यन्त , अपिच , एवात्नु "370 55 संधं ,, संघस्था .., ष्टान्हिका ,, पितृ 56 गमिष्यामि , मिष्टान्नकोपाच , स्तपोलिका , स्थापिना , जाश्मा , वह , कर्मकेति 56 सहस्त्राद्. ,कल्याणा "मापमायक संघस्थाः न्टाह्निका पित गमिष्यामि मिष्टान्नपाचको घृतपोलिका. स्थापिताः जामा "पपन्ना 45 सवऽस्मिन "दृष्टव्यम , सर्वेम्यो 47 पृष्ठम . 48336 कर्म करोति सहस्राद् कल्याण मापमायए Page #14 -------------------------------------------------------------------------- ________________ पृष्ठम् अशुद्धम् - 57 साई शुद्धम् "मातत्वे मातृत्वे पृष्ठम् अशुद्धम् 80 रस्नुज्ञां. , निरुशो 80 देहमुदत्सृजत् 81 चैत्यानिवासिना "हिं. " श्वाश्वतो " म्रियते "सधूनां 59 रूत्पद्यते , निरुप्या , याचार्या रनुज्ञ निराशो देहमुदसृजत् चैत्यनिवासिना साधून निर्बुद्धिः ..... निधनता शरीरकाय कालान्तरे एकदा जलबुबुद इवाति शाश्वतो म्रियते चेत्यादि रुत्पद्यते निरूप्या ह्याचार्यो . . वैराग्या वैराग्य - सर्वे चोज्जीविताः क्रमेण स्थान 60 वराग्या " वराग्य 84 निर्दिः ,, नितु घनता 85 शरीरकामंतां 85 कालान्तर 87 एकादा : 88 जलवुद्धद वाति 89 धर्मो 90 प्रतिनिववृत्य ,पयामास 91 शय्या ,, स्वबह्मचर्यव्रते 92 पुण्यगनेना , सर्व चाज्जीविनाः "क्रमण धर्मः प्रतिनिवृत्य , स्थान ,, परिमित 61 सोधर्म परिमि शय्याया " तस्येव " आचर्यो सौधर्मः तस्यैव भृत्याः मध्याहे श्रीसंघः संस्कारो विविधान् ताभ्यां निवेदिकः व्यवहारं तेऽयुध्यन्त सर्वमिम स्वब्रह्मचर्यव्रते पुण्यमनेना आचार्यों स्वधर्मविघातका खलु न तन्मूला च सुस्पष्टमित्थं . स्थविर 62 भृत्या मध्यान्हे , श्रीसंघः 64 संस्कारी 64 विविद्यान् 66 ताम्यं . . , निवेदतः "व्यहारं 71 त अयुध्यन्त , सर्वमिदं , संजहः 71 मुदत्सृजत् नाम्मि. .. 73 दशम्योः यतः 94 स्वधर्म विधातका 95 खलन "तन्मूलाच 97 सुस्पष्टमित्यं , स्वविर 98 यतो . 99 बमुबु , श्रवणसमा " तद्धार्तालापेन. " भावुका , नानवादीत् .. 10 निरुधेमिनः 102 पर्जयामासुः . संजह मुदसमत् नाम्नि दशभ्यः . बभूवु श्रवणसभा तद्वार्तालापेन भावुकाः तानवादीत् / निरुद्यमिनः मर्जयामासुः तद्वचो बाण जपा पौरैः बाल्या कुर्वन्ति .. ___, तद्धचो . 103 वाक्ष्यण . . 77 मुख "धां Page #15 -------------------------------------------------------------------------- ________________ , चिह्नर्थ "अस्चा गन्धं . "तव x पृष्ठम् अशुद्धम् शुद्धम् . पृष्ठम् बशुद्धम् 103 मिलि मिलिता 113 त्युक्त्वसा त्युक्त्वा सा 104 त्यक्तवाक्वा त्यक्तवा , पातायामासा पातयामास 107 माघम् मारब्ध , यन्त्रयुक्तं मन्त्रयुक्तमंजन " जतीयः जातीयः मरेषयत मप्रेषयत् , एवढंशीया एतद्वंशीयाः "धृतं घृतं चिह्नार्थ 114 लधु लघु ,, महिषुः मप्रहीषुः 115 दारिद्रय दारिद्रय अस्या "मत्रं 108 सौज्य सौजन्य "लाडुलः लाडुक: 109 विभूपितं विभूषितं 116 क्षम 1 . भगमत् मगमत् , लोत्पन्ना लोत्पन्ना, . 111 वयमेवा वयमेव "देव्युपम्हार देव्युपहार 117 स्कैन स्तैस्तेन , परामविन्तुकुयात् पराभवितुं शक्नुगत् , विद्यास्ये विधास्ये ,जिनालषा जिनालया- 118 निवेदयतेवि निवेदयतेति " स्याफदादिति सफला स्यादिति ,, निस्तमवो मुनिस्तमवो " भ्रातृध्य . भ्रातृव्य 111 दीशतु दिशतु ,, तमाव्हयत् तमाह्वयत् 112 तयैवासान् तथैवासन् "तस्थतुः तस्थतुः पावितः " मद्र भद्र " चतुः पुषष्ठि चतुः षष्ठि , संन्तिधानया सन्निधानया च्छत्र " नृपत्ति नृपतिः ममान्त ,, संख्यकान संख्यकान् . समधिक " बहिर्मोक्ष्यामति वहिमोक्ष्यामीति 113 श्वरसूरि श्रीश्वरसूरि , पद्मप्रमेण पचप्रमेण . विज्ञापनम् शुद्धिपत्रमिदं शाक्षिणा छोटेलालशर्मणा, शास्त्रिणा च रमणलालशुक्लेन कृतम् / अत्र हि प्रायः पारिभाषिकाः शब्दास्तथैव स्थापिताः। देशभाषायां प्रचलिगनि नामानि यथाकथंचित् कुत्रचित् परिवर्तितानि / साधारणजनोपयोगं च विचार्य संधिरपि साधारणतः स्वीकृतः / मुद्रापणे च बहवः कार्य कराः / कानिचित् पत्राणि मया महाराजेन च शोधितानि सर्वमिदं समीक्ष्य गुणैकगृहयालवो भविष्यन्ति भव्याः पाठका इत्याशासे उपरोक्तयोरुमयोः सहयोगोऽत्र मया चिरं स्मरणीयः प्रियसुहृदोरेतयोरुपकारस्मरणसमुल्लेखोऽ नावश्यकः सुहृद्धर्मत्वेन तत्कर्वव्यात् / अपर मदन्तेवासी मनोहरलाल शाहः प्रभूतमत्र सौकर्यमकृतेत्याशिषा भाषनीय एव / लेखकः। , प्लावितः "मान्त " समाधिक Page #16 -------------------------------------------------------------------------- ________________ श्रीफावपट्टाकली श्रीपार्श्वनाथाझिसरोजलग्नस्तदीयसौगन्ध्यमुदान्वितोऽहम् / अलौकिकानन्दपरम्परायै पुनः पुनस्तच्छरणं प्रपद्ये // इह तावत् त्रिभुवनोपकर्ता परमपिता परमात्मा षट्चत्वारिंशद्गुणसंयुक्तो ब्रह्मविष्णुरुद्रनारदखेचरपूजितः परमशिवंकरः सकलपापसन्तापहर्ता प्रयोविंशस्तीथंकरः पार्श्वनाथो बभूव / स चेक्ष्वाकुवंशसमद्भवो वाराणसीनगरीशस्य राज्ञोऽश्वसेनस्य वामाराज्याश्च पुत्रः पौषकृष्णदशम्यां जन्म लेमे / स भगवान् त्रिंशद् वर्षाणि यावद् गृहे स्थित्वा सप्तति 70 वर्षाणि केवलपर्यायं पूरयामास / सर्वत्र जिनधर्मप्रचारं च कृत्वा दिगन्तकीर्तिमासाद्य च सम्मेतशिखरपर्वते श्रावण शुक्ल 8 मुक्तिमाप / तत्रभगवतः श्रीपार्श्वनाथस्य चरितमावालवृद्धविदितं, नाविदितं च विशेषतो जिनधर्माचरणशीलानां श्रावकाणाम् / अतोऽत्रायुक्तमेव पिष्टपेषणम् / अत्रोदेश्यभूतं तु तत्पट्टाधिष्ठातृणामाचार्यवर्याणां संक्षिप्तमितिवृत्राम् / .. ___ भगवान् श्रीपार्श्वनाथपट्टवर्णनम् वि० पू० 720 तः] १-शुभदत्तो गणधरः [वि. पू. 666 पर्यन्तम् श्रीशुभदत्तो गणधरः सूर्य इवाज्ञाननिवारको जिनकुलकमलदिवाकरो भक्तजनहृदयपुण्डरीकविबोधको जिनशासनधुरावाहको शास्त्रविचक्षणश्चारित्रचूडामणिरुत्कृष्टक्रियापालको गणधरपदविभूषितोऽभूत् / एकदा तच्छिष्यो वरदत्तो निर्दिष्टनगराकिमपि नगरं गच्छति स्म / पथि सूर्यास्तोऽभवत् / अथागमपाठानुसारेण तत्रैव तरुशाखामासाद्य ज्ञानध्याननित्यनियमादिषु कार्येषु शिष्यैः सह संलग्नो ऽभूत् / तस्मिन्नेवावसरे स्तेनवृत्तिविशारदाः कुकर्मनिरताः परमाधार्मिकाः हरिदत्तप्रमुखाः स्तेना अज्ञातमनिधर्मा मनीसमीपद्रव्यमाहतुमागच्छन् / ज्ञानध्यानादिविमलक्रिया निमग्नान् मनिपुंगवान् दृष्ट्वाऽश्चर्यनिमग्नास्ते तत्रैवस्थिताः / समयज्ञेन वरदचेनापि सुयोग्यक्षेत्रं ज्ञान दृष्टयावलोक्य तेभ्यो जिनगदितागमानुकूला देशना दत्ता / भगवतः पार्श्वनाथस्य चातुर्यामप्रधानं धर्ममाकर्ण्य सर्वे स्तेनाः संसाराद् विरक्ता वरदत्तसमीपे भागवतीं दीक्षां गृहीत्वा मोक्षमार्गस्याराध काः समभवन् / वि० पू० 666 तः] २-हरिदत्तसूरिः [वि० पू० 626 प. ___ श्रीहरिदत्तपरिविविधशास्त्रविशारदो सर्वविद्याकलापारगो महामहिमशाली जितानेकवादी सञ्जातः / एकदानुक्रमेण ग्रामानुग्रामं विहरन् स्वस्त्याख्यां नगरीमगमत् / तत्रोचितस्थानशय्याधानुकूल्यं दृष्ट्वा तत्रैव धर्मकार्यनिरतोऽभूत् / तस्मिन्नेन समयेतत्र वेदमार्गानुगामी न्यायव्याकरणकाव्यशास्त्रविचक्षणो वैदिकी हिंसा हिंसा न भवतीति वादस्य समर्थकः प्रचारकश्च लोहित्याचार्यो Page #17 -------------------------------------------------------------------------- ________________ वेदपुराणस्मृतिशास्त्रपारदृश्वा पण्डितप्रकाण्डो यज्ञधर्मस्योपदेशं ददाति स्म / अथैकदा भूपप्रवरस्य "अदीनशत्रोः" सभायां लोहित्याचार्यस्य हरदत्तमरिणा सह शास्त्रार्थोऽभूत् / लोहित्याचार्यस्य हिंसाविषयकं मतं खण्डितं तेन सूरिणा स्वबुद्धिप्रभावेण / छात्रसहस्रपरिवृतं तं जित्वा दीक्षया दीक्षयन् अनेकान् शिष्यान् महाराष्ट्रप्रान्ते स्वधर्मप्रचारार्थं च स पाहिणोत् / एवमतीते काले च मोक्षपदवीमवाप / वि० पू० 626 तः] ३-समुद्रसूरिः [वि. पू. 554 प० श्रीसमुद्रपरिः काव्यकलाकोविदः परमसौभाग्यवान् भव्यसहस्रपत्रप्रकाशकः द्वादशांगमर्मज्ञः समागतः / तच्छिष्यो जिननिगमनिगदितयमनियमतत्परो विदेशी मुनिः। स चैकदा पश्चशत 500 संख्याकैः शिष्यैः परिवृतः उज्जयिनीमगच्छत् / तत्र च राजानं जयसेनं केशिकुमारं राजकुमारमनंगसुन्दरीं राज्ञी च पार्श्वप्रभुदर्शितशिक्षोपदेशेन चातुर्यामतत्त्वं सम्बोध्य जिनधर्मदीक्षादीक्षितामकारयत् / एवं सोऽपि मोक्षमार्गमनुससार / वि० पू० 554 तः ] ४-केशिश्रमणाचार्य [वि० पू० 470 50 4 केशिश्रमणसूरिः परमयशोभाजनं विविधविद्याविद्योतितः परमोपकारनिरतो जिनशासनोन्नतिकर्ता तपःकर्मसंलग्नो बालब्रह्मचारी बभूव / तदा हिंसाधर्मस्य यज्ञादौ पशुविशसनरूपस्य प्राबल्यमासीत् / तत्तद्देशीयाः सर्वेऽपि राजानो वेदमार्गानुसारिणो यज्ञधर्मसमर्थकाश्चासन् / पशुप्रधानैर्यज्ञैः सर्वत्र मेदिनीरुधिरप्रवाहपरिपूर्णा नदीवादृश्यत / अस्मिन् संघर्षसमये बहुसंख्याकाः साधवोऽहिंसाधर्मस्योपदेशकाः सर्वत्र धर्मप्रचाराय पर्यटनमकाः / अथ स्वकीयप्रकृष्टज्ञानवलात् श्रीकेशिश्रमणसूरिणा प्रदेशिप्रभृतयोऽनेके महीपालाः प्रबोधिताः जिनमतानुयायिनोऽभवन् / तत्रापरोऽपि केशिश्रमणसरिरभूद् यो गौतमस्वामिना सह शास्त्रचर्चा विधाय पञ्चमहाव्रतधर्म श्रीवीरकथितमङ्गीकृत्य मुक्तिमलभत / अस्मिन्नेव समये चरमतीर्थंकरस्य भगवतो महावीरस्य, बौद्धधर्मप्रवर्तकस्य दयाधर्मनिरतस्य बुद्धस्य च जन्मासीत् / श्रीकेशिश्रमणसूरिरपि मोक्षपथप्रवासी जातः।। वि० पू० 470 तः] ५–श्रीस्वयंप्रभसूरिः [वि. पू० 418 प. स्वयंप्रभसूरिविद्याधरकुलसमुद्रवः जिनशासनप्रचारकोऽतिभाग्यवान् व्याख्यानविचक्षणस्तपस्तेजोराशिः सञ्जातः / सकलशिष्यगणयुतः स पूर्वदेशे विहरन् व्यचिन्तयद् यदस्मिन् देशे बहवः माधवोधर्मप्रचारकाः सन्त्यतोऽन्यत्र गन्तव्यम्" इति पञ्चशत 500 संख्यकान् शिष्यानादाय स शत्रुञ्जयं प्रति प्रतस्थे / विधाय च शत्रुञ्जययात्रामय्दाचलं प्रत्यागतस्तत्राहिंसातच्वं सर्वान् बोधयामास / एवं प्रयाते च काले श्रीमालनगरनिवासिनो गृहस्था दर्शनाय तत्र समागच्छन् / मरीश्वरस्य च प्रभावोपेतं व्याख्यानमाकर्ण्य ते प्रार्थयान्ति स्म प्रभो ! भवानागमनेन श्रीमालपत्तनमप्यलंकरोतु, Page #18 -------------------------------------------------------------------------- ________________ [ 3 ] तत्र च हिंसाधर्मस्यैव प्राधान्यं वर्ततेऽतोऽहिंसाधर्म विस्तारयतु / प्रार्थनाञ्च तेषां विदित्वा क्रमेण विहरन् स श्रीमालपत्तनमगच्छत् / भिक्षासमये मुनयो भिक्षार्थ पर्याटन् गृहस्थानां गृहेषु किन्तु सर्वतः सुरामांसाद्यमेध्यानभक्ष्यांश्च पदार्थान् दीयमानान् दृष्ट्वा यथागतं प्रत्याजग्मुः। ___ततः सर्वजीवदयापरः सूरीश्वरो यज्ञ यज्ञीयानां जीवानां हिंसकं जयसेननामानं राजानं प्रत्यषेधीत् / राजसभायामनेकहेतुदृष्टान्तगर्मितं विशिष्टप्रतिभापूर्ण व्याख्यानं दत्त्वा तेनैव नृपेण सह नवतिसहस्रगृहाणि जैनतत्त्वं संप्रदर्श्य जैनधर्मे न्यवेशयत् / मासपर्यन्तं च तत्रैव स्थित्वा तेषां धर्मभावनामुपदेशेन वर्धयामास / ततः पद्मावत्यां नगर्यां यज्ञस्यायोजनमाकर्णयन् पशुवधनिवारणार्थ गतः। तत्र पद्मसेनस्य राज्ञः सभायां जिनतत्त्वमुपदिश्यात्मकल्याणमार्ग दर्शयामास / विवादमप्यकरोद् विप्रपण्डितैः सह / एवं महामतिः सूरिः प्रत्यरौत्सीत् जीवानां हिंसाम् / पञ्चचत्वारिंशत्सहस्रसंख्यकान् क्षत्रियान् जिनधर्मेऽस्थोपयच्च / तदनन्तरं वीरनिर्वाणाद् द्विपञ्चाशद् 52 वर्षे रत्नप्रभसूरि स्वकीयपढे संस्थाप्य स्वर्ग प्रत्यपद्यत / वि० पू० 418 तः] 6 श्रीरत्नप्रभसूरिः [वि० पू० 386 प. रत्नप्रभसूरीश्वरो विद्याधरकुलभूषणोऽखिलविद्यालंकारभृतो महाजनसंघस्याद्यसंस्थापको बादिमानविमर्दको महाप्रभावकोऽभूत् / तस्मिन्नेव काले स्थनुपुरे महादेवीश्रीलक्ष्मीसमन्वितो महेन्द्रचूडो नाम नृप आसीत् / स स्वपुत्रं रत्नचूडं राजसिंहासनोपरि समारोप्य वृद्धत्वे स्वकल्याणार्थ निवृत्तिमार्गमगीचकार / एकदा तत्रागतेन चारणमुनिना व्याख्यानकाले नन्दीश्वरदीपस्थितद्विपञ्चाश 52 जिनालयानामनुभृतं सौख्यप्रदं वर्णनं विहितम् / सुतरां च तत्समाकये तीर्थयात्रां विधातुं रत्नचूड विद्याधरस्य सकलनगरनिवासिनाश्वेच्छा सञ्जाता / ततो निर्दिष्टनिश्चायांनुसारेण स विमानमारुह्य नन्दीश्वरमभिप्रतस्थे / मार्गे पृथिव्यां देवदेवीभ्यों देशनां ददतः श्रीस्वयंप्रभपूरेरुपरि रत्नचूरविमानोऽवष्टब्धः / किमिदमिति विचिन्तयन्नसौ यावदधः पश्यति तावद्देशनां ददतं तं मुनि ददर्श / दृष्ट्वा च जंगमतीर्थरूपस्यास्य मुनेरुल्लंघनरूपो महानविनयो मे जात इति विचार्य तत्रागत्य तं मुनि प्रणनाम क्षमाञ्च ययाचे / गुरुपदत्तदेशनाञ्च निर्मलचेतसा शुश्राव / श्रुत्वा च स संसाराद्विरक्तः सन् दीक्षा ग्रहीतुमिच्छया स्वप्रतिज्ञां तस्मै व्यज्ञापयद् भो प्रभो ? मम समीपे पर पराप्राप्ता श्रीपार्श्वनाथस्य प्रतिमा वर्तते / तस्या वंदनाचनादिक्रियाकरणनियमोऽस्ति मे / पूर्व लंकेश्वरस्य रावणस्य चैत्यालये साऽसीत् / यदा रामचन्द्रेण लंका विध्वस्ता तदा मदीयपूर्वजेन चन्द्रचूडनरनाथेन सा प्रतिमाऽनीता / अनुक्रमसंप्राप्तां तामहमहर्निशं पूजयामि / तया प्रतिमया सहैबाहं दीक्षां ग्रहीष्यामि / इति तद्वचः समाकये धर्मलाभकारणं च विज्ञाय श्रीस्वयंप्रभसूरिणा पश्चशत 500 संख्याकैर्विद्याधरैः सह रत्नचूडो दीक्षितः कृतः। अनन्तरञ्च रत्नप्रभसूरीति तन्नाम परिवर्तितम् / क्रमेण सोऽपि द्वादशाङ्गी चतुर्दशपूर्वी च बभूव / श्रीस्वयंप्रभसूरिणा वीरनिर्वाणाद् द्विपश्चाशद् 52 वर्षातिक्रमणे सति स्वपट्टेऽधिष्ठापितः / अथ पञ्चशतसाधुभिः सह श्रीरनप्रभसूरिरितस्ततः परिभूमणं चकार / एकदा तीर्थयात्रायै Page #19 -------------------------------------------------------------------------- ________________ अर्बुदाचलं प्रत्याययौ / तत्र तस्याधिष्ठायिका चक्रेश्वरी देवी मरुभूमि प्रति विहाराय तं प्रेरयामास / तदुद्दिश्य स साधुभिः सह मरुभूमिमाजगाम / अस्मिन् विकटविहारकाले क्षुत्पिपासाद्यनेकोपसर्गाः समभूवन् / मिथ्यात्ववशीभूता जीवाः शस्त्रास्त्रैस्ताडयन्ति तर्जयन्ति च मुनीन् किन्तु जिनधर्मप्रचारार्थमेव सर्वस्वसमर्पणमिति निश्चित्य सर्वेषां परिषहाणामुपेक्षणमेव विहितं मुनिभिः / अनन्तरमुपकेशपुरं सशिष्यः सूरिर्ययो। अथ उपकेशपुरनिर्माणवर्णनम् // श्रीसूर्यवंशोद्भवः श्रीभीमसेनः श्रीमालपुर [ भिन्नमाल ] स्यासीद् भूपतिः / तस्य च सुरसुन्दरोत्पलदेवनामानौ द्वौ पुत्रावास्ताम् / सुरसुन्दरो युवराजो राज्यमारधुरंधरः। उत्पलदेवश्च तेनापमानितः / तत्पतीकाराय नूतननगरनिर्माणाय स इतस्ततो बभ्राम / अपरश्च भीमसेनामात्यस्य-उहहोद्धरणनामानौद्वसुतौ / तत्रानुजस्योद्धरणस्य गृहेऽ ष्टादशकोटिसंख्यापरिमितं धनम् / ज्यायस उहडस्य च नवनवतिलक्षमुद्राः / तदा नियमस्त्वे. संविधः-ये कोटीश्वरास्ते दुर्गमध्ये ये च लक्षाधिपास्ते बहिरध्यवसन् / उहडेन नगरमध्येऽधिवासार्थ स्वानुजसमीपे मुद्राणामेकलक्षं याचितम् / भ्रातृपत्न्या सासूयमुक्तम् "न खलु त्वामन्तरेणेदं नगरं शून्यमास्ते येनाधिवासार्थमेकलक्षं दद्यात् ते भ्राता" इति मर्मरुजोत्पादकं तदीयं वचो निशम्य मन्त्रिपुत्र उहडो राजकुमारोत्पलदेवपार्श्वमाययौ / समदुःखाभ्यामुभाभ्याश्च विचारितम्-नूनमा. वाभ्यां नूतनमेकं नगरं निर्मातव्यम्-इत्यालोच्य तदर्थ तो ततो निर्जग्मतुः / मध्ये च संग्रामसिंहो मिलितः / पृष्ठं च तेन कुत्र गच्छन्ति भवन्तः ? राजकुमारेणोक्तम् "अभिनवरमणीयनगरनिमार्णाय स्थानान्वेषणाय वयं यत्र कुत्र व्रजामः" इति श्रुत्वा संग्रामसिंहो जगाद-"कुत्र सन्ति भवदोयानि शस्त्रास्त्राणि 1 नवनगरनिर्माणमिदं न बालानां खेलनम्" अस्तु शस्त्रास्त्राभावेऽपि वयं बाहुबलादेव विजयलक्ष्मी प्राप्स्यामः इति राजकुमारवचनं समाकण्ये परमसन्तुष्टः संग्रामसिंहः स्वसुताया पाणिग्रहणं तेनोत्पलदेवेन सहोत्साहहर्षपुरःसरं चकार / एवं समाप्य तद्विधिं ते त्रयोऽये जग्मुः मध्येऽध्वनि च तानश्वक्रेतारो मिलिताः अशीयधिकशतं घोटकान् ददतु यूयं, मूल्यं च राज्यप्राप्त्यन न्तरमेवावश्यं दास्याम-इति प्रतिज्ञाय तान् घोटकानक्रीणाद् राजकुमारः। ततो ढेलीपुरमासाद तदधिपतये राज्ञे तानुपायनरूपेण ददौ / तेन च परमसत्कारसन्तुष्टेन नूतननगरनिर्माणानुकूल ओसनामा प्रदेशः समर्पितः / निर्माय च तत्र नगरं भिन्नमालातोऽष्टादशसहस्रकौटुम्बिका समाहूता निवासार्थम्, तदधं च द्विजातीनामन्येऽपि भिन्नजातीयास्तत्र निवासार्थ समागमन् तत्प्रदेशस्य समुद्रसामीप्यात् क्षाराधिक्याद् ओस इति नाम प्रसिद्धिं ययौ / अत्र शैवमतानुयायिनां नास्तिकानां, यज्ञादौ . पशुहिंसनकर्मनिरतानां वैदिकानां, वाममार्गानुसारिणाश्च विशेषत प्राधान्यमासीत् / अथ जिनधर्मप्रचारार्थमत्र समागता मुनयः किन्तु सर्वेऽप्युपकेशपुरनिवासिनो जनास्तान Page #20 -------------------------------------------------------------------------- ________________ [ 5 ] तिरश्चक्रुः, न. चात्र ते भिक्षादिकं प्रापुः। यत्र च ययुर्भिक्षार्थ तत्र सुरामिषाद्यभक्ष्यपदार्थान् ददृशुः, अतो भिक्षार्थं महत्कष्टमनुबभूवुस्ते मुनयः। यथैवागतं तथैव तैः प्रत्यागतम् / पात्राणि दृष्ट्वा च मासावधिकं सन्तोषमास्थाय स्थितिं चक्रः / पश्चाद् विहारः कृतः / अनुक्रमेण पुनस्तत्र समाजग्मुः किन्तु कार्यसिद्धिमनवलोक्य पुनर्विहारमैच्छन् / तदा चामुण्डया देव्या कथितम्-भो आचार्य ! सर्वे यूयमत्रैव मासचतुष्टयपर्यन्तं निवसत ! महानुपकारो भविष्यति / न खलु मदीयनगरान्निगंतव्यं संकटेऽपि" इति समाकर्ण्य देवीवाक्यं विश्वस्य च ते 35 संख्यकाः मुनयो मासिका द्विमासिकास्त्रिमासिकाश्चतुर्मासिकाश्च तत्रैव न्यवात्सुः। अन्ये तु चतुर्मासचिकीर्षयाऽन्यत्र प्रतस्थिरे / अस्योपकेशपुराधिपस्य "उत्पलदेवस्य" पाणिपीडनविधिः संग्रामसिंहस्य कन्यया जाल्हणादेव्या सह समभवत् / व्यतीते च कियति काले सा सौभाग्यसुन्दरी नाम तनयां सुषुवे / तदुद्वाहश्चोत्पलदेवेनामात्यपुत्रेण-उहडसुतेन त्रिलोकसिंहेन साकं विहितः। दुर्दैववशात्स कदाचित् केनचिद् भुजंगेन दष्टः / समाहूताश्च सर्वे समन्वतन्त्रविशारदाः किन्तु विफलप्रयत्नास्ते जाताः / कथितं च मृतोऽयं, दाह एषाशु विधीयतां, नात्र प्रतीकारोपायः कश्चित् / सर्वे जनाः सौभाग्यसुन्दरी च सतीभवितुमिच्छती तमादाय दाहार्थ प्रेतचनं (स्मशानं) समावजन् / अस्मिन्नेव काले महानुपकारो भविष्यतीति विचार्य साधुरूपं गृहीत्वा देवी चामुण्डा तत्रैवागता। जनान् सा प्राह सर्वे यूयं जीवन्तमेनं कथं धक्ष्यथ ? इत्याकण्य मन्त्रिणा शवशिविका परावर्तिता, किन्तु स साधुन तेषां दृग्गोचरो बभूव / अथ च सर्वे ते मिलित्वा सूरिपावं ययुः। मृतकविमानोः गुरुसमीपे स्थापितः, रुदन्तस्ते प्रोचुः "दयासिन्धो ! देवोऽस्माकं रुष्टः / पुत्रमरणादस्माकं गृहमरण्यमिव शून्यम् / जीवय सुतम् / याचकानां नो याचनां सफलीकुरु" इति करुणाद्रं वचो निशम्य तेषां किंचिदुष्णं वारि समानीतम् / स्वचरणौ च प्रक्षाल्य तेन तज्जलं मृतकस्योपरि संसिक्तम् / स मन्त्रिपुत्र उज्जीवितः / सर्वे च ते कथयामासुःअहो नूतनं जन्म प्राप्तमनेन पुत्रेण / मन्त्री च सूर्यवर्चसे सूरये तस्मै मणिमुक्ताफलवस्त्रादिकम्पायनमर्पयामास / सूरिणाचोक्तम्-न खलु धनेन मे प्रयोजनम् , अत्रत्याः सर्वे त्वं च निष्कपटं जिनधर्म गृहन्तु समेषामात्मकल्याणाय श्रेयसां पन्था एष एवेति / ते तथैव जिनधर्म स्त्रीचक्रुः / गुरुणा च तेन स्वधर्मोपरि दृढ़श्रद्धार्थ प्रभावपूर्ण सकलजनमनोरञ्जकं व्याख्यानतः शिक्षणं दत्तम् / सपादलक्षकाच जाताः भावकाः / अपरञ्चेयं विशिष्टा घटना, तथाहि श्रावकावस्थायाः पूर्वमेवोहडेन श्रीनारायणमन्दिरनिर्माणार्थ महान् यत्नो विहितः / स दिवा देवालयकायें कारयति रात्रौ च तन्नष्टं भवत्यकस्मादेव / चिन्तासमाकुलषेतसा तेन सर्वे ते दार्शनिकाः पृष्टाः किमत्र कारणमिति, न च तैः समाधानं कृतम्। ततः सः कृताञ्जलिः मूरिपावं गत्वा देवालयपतनकारणमपृच्छत् / तेन सूरिणा चोक्तम्-कस्य देवालयः क्रियते? नारायणस्येति, तदुत्तरं श्रुत्वा पुनः प्रोवाच सरिः-अस्मिन्नेव देवालये महावीरस्य स्थापनां करिष्यामीति संकल्प्य तत्कार्यमारभस्व मङ्गलं ते भविष्यती तद्वचोऽङ्गीकृत्य तेन तथैव प्रतिपन्नं, कार्य Page #21 -------------------------------------------------------------------------- ________________ [6] मारब्धम् / देवप्रासादश्च परिपूर्णो जातः / सर्वे च विस्मयान्विताः बभूवुः / ___ अथ चामुण्डादेव्या सरिः कथितः-भगवन् ! महावीरप्रतिमानिर्माणाय देवगृहादुत्तरस्यां दिशि लुणाव्यभिधानपर्वतोपत्यकायां वालुकया श्रेष्ठिनो घटोध्नीगोदुग्धादहं प्रतिमाविचरनं करोमि। निमार्णकालस्य षण्मासावधिकं मानमित्युक्त्वा सा विरराम / ___ अथैकदा मन्त्री गोदुग्धन्यूनत्वकारणं ज्ञातुं गोपालकमपृच्छत्-तेन च दुग्धस्त्रावस्थलं तस्मै दर्शितम् / किमर्थमत्रैवेयं गौर्दुग्धं स्रावति ? इति कारणान्वेषणाय सोऽखिलान् दार्शनिकानाहूय पप्रच्छ / केचिदत्र स्थले कृष्णस्य, केपि गणपतेः, अपरे बुद्धस्य च प्रतिमाऽधस्ताद् वर्तत इति कथयामासुः / न च ते निश्चयं चक्रुः / अतोऽसौ गत्वा सप्रश्रयं सरि तत्कारणं पप्रच्छ / सूरिया चोक्तम्-भो मन्त्रिन् ! प्रातस्ते सन्देहसमाधानं भविष्यति / तद्वचः श्रद्दधानोऽसौ गृहं प्रत्याययौ / सूरिश्च ध्याने स्थितः / रात्रावागता देवी / सूरिश्च तामुवाच हे देवि ! प्रत्यक्षीभूय सर्वमेतत्कारणं स्वमुखेनैव हि सचिवस्योहडस्य सम्मखम् / सा च निद्रानिलीनं तं प्रत्यक्षीभूय प्रोवाच भो मन्त्रिन् ! मदनुज्ञाता त्वदीया गौस्तत्र दुग्धं स्रवति, तत्क्षीरेणाहं महावीरस्य प्रतिमा विरचयामि-इदं कारणं ज्ञापयितुं गुरुणाप्रेरिताहमत्रागता, अतः संशयं दूरीकुरु, कल्याणं ते भवत्वित्युक्त्व सा तिरोदधे / प्रातःस मरिसमीपं गत्वा रात्रिवृत्तान्तं निवेद्य तदने महावीरप्रतिमादर्शनेच्छां प्रकटीचकार। आचार्येणोक्तम्-अधुना नियतकालाकिंचिदवशिष्टं कार्यस्यातो विलम्वं कंचित्सहस्व / तेनोक्तम्गुरुकृपया तत्प्रतिमाकार्यमवशिष्टमपि पूर्णमेव भविष्यति-इति तदाग्रहात्पूज्यो मुनिस्तेन साई तत्र गतो यत्र जिनेश्वरप्रतिमा / तत्र स्वर्णमययवस्वस्तिककुसुमादीनि च विकीय स्वयमवर्वी खनित्वा मन्त्री जिनप्रतिमा बहिरानयत् / सप्तदिनसमयस्य न्यूनत्वादृये निम्बफलसमग्रन्थियुक्तो महावीरो बहिराजगाम / व्योममण्डलाच पञ्चवर्णा पुष्पवृष्टिः पपात / हस्तिन उपरि समारोप्य प्रतिमां मन्दिरमानयत् / विशुद्धबुद्धिरसौ प्रतिमाप्रतिष्ठापनलग्न सर्वदोषविवर्जितं निश्चिकाय / प्रतिष्ठा माघशुक्लपञ्चम्यां बृहस्पतिवासरे धनुर्लग्ने कर्तव्येति निश्चितम् / तस्मिन्नेव काले कोरंटकात् श्रावकानामाह्वानमागतम् "भगवन् ! प्रतिष्ठार्थ सत्वरमागच्छतु" इति विचार्योवाच-अत्रापि प्रतिष्ठाकार्य तत्रागमनं कथं घटते ? तच्छु त्वा सर्वे कोरंटकवास्तव्या विनिश्चितलग्नसमये विषादान्विता अभवन् / तान् दृष्ट्वा स आह यूय मा विषीदत, तत्राप्यहं आगमिष्यामि / हर्षिताश्च ते प्रत्यागच्छन् / ततः श्रीमत्युपकेशपुरे महावीरप्रतिष्ठाविधि समाप्य निजरूपेण, वैक्रियरूपेण च व्योममार्गेण कोरंटकं गत्वा तस्मिन्नेव धनुर्लग्ने मूर्तिप्रतिष्ठां चकार। श्रीवीरजिनेश्वरनिर्वाणात् सप्ततिवत्सरेपु व्यतीतेष्पकेशपुरे श्रीमद्वीरस्थापनं समजनि / एकदाऽचायेंणोक्तम् "श्रावकाः ! किमर्थं यूय देवीमन्दिरं गच्छथ ? विविधवधस्थान तद्" इति तद्वचः श्रुत्वा ते प्रोचुः प्रभो! युक्तमेतत् किन्तु रौद्रस्वभावां देवीं छलयामस्तदा कुपिता साऽस्मत्कुटुम्बमवसादयेत् / पुनराचार्येणोक्तम्-अहं रक्षा करिष्यामीति श्रुत्वा ते मन्दिरगगमानिवृत्ता बभूवुः / अपरत्र देव्या विचारितम्-अयमेवाचार्यो यस्य मया बहुपकृतम् / सोऽपि मदुपास Page #22 -------------------------------------------------------------------------- ________________ [ . ] कान्मम मन्दिरमागन्तुं निषेधति, मयाऽवश्यमेव किमप्यस्य दर्शयितव्य प्रभुत्वमिति / किन्तु मुनानज्ञानादिक्रियानिरतत्वात्सा कालं प्रतीक्षमाणा स्थिता / एकदा विकालसमये ज्ञानध्यानादेर्निवृत्तस्यास्य वामनेत्रे कापि पीडा विहिता तया / देव्या एवेदं कार्यमिति ज्ञानदृष्ट्या विचार्यैवमेव सः स्थितः / प्रत्यक्षीभूता च सा जगाद-यदि त्वं करडा मरडा (मांस मदिराश्च) दास्यसि तदेव ते पीड़ा नक्ष्यति नान्यथेति / आचार्येणोक्तम्-अवश्य ते दापयिष्यामि। सा चाकण्य तिरोदधे / ____ अन्येधुरुपकेशपुरवास्तव्याः श्रावका आचार्यपाश्र्वंमागत्यावदन्-भो आचार्य ! देव्याः कोपाद्भवतोऽपीदृशी पीडा तदात्वस्माकं का वार्ता ? श्वस्तु नवरात्रदिवसोऽतः किमप्यनुष्ठानमनष्ठेयम्, तच्च परम्पराप्राप्तम्। त्यक्त्वा तद् वयं कथं सुरिवनः स्यामेति श्रुत्वा मुनिनोक्तम्-अहं युष्माभिः सहागच्छामि नात्र कापि चिन्ता विधेयेति श्रद्दधानास्ते शान्तिमवलम्ब्य स्वगृहमगमन् / आगत्य च सूरिकथितविधिना कुंकुंमकर्पूराद्यर्चनोपचारान् सज्जीचक्रुः / अथ सर्वे ते प्रभाते पक्वान्नखज्जकादिकं कुंकुंमकर्पूराद्यपचारांश्चादायाचार्येण सार्द्ध देव्यर्चनाय मन्दिरं ययुः। श्रावकपाात् पूजनं कारयित्वा पाणिभ्यां पक्वान्नं चूर्णयताऽचार्येण प्रोक्तम् देवि 1 तेऽभिमतं गृहाण / ततो रोषारुणनेत्रया तया चोक्तम्-मया कथितमन्यत्, त्वया चोपहृतमप्यन्यद् / आचार्येणेरितम्-त्वया पशुवधरूपो बलियोचितःस तु कर्तुमयितुञ्चाशक्यो न चात्मकल्याणकरः। हे देवि ! लोकास्त्वां प्रीणयितुमेव त्वदने पशुहननं कुर्वन्ति, कृत्वा गृहं गत्वा च त एवादन्ति न तु त्वमश्नासि / मुधैव हिसां कुर्वाणा कारयन्ती च त्वं न खलु नरकाद् बिभेषि ? पापकर्मनिरतानां देवमानुषाणां सर्वेषामेव नारकीया गतिरवश्यमेव भवति / सर्वसिद्धान्तसम्मतो दयाधर्म एव त्वयाऽश्रयणीय इति मुनिकथितं वचः समाकर्ण्य प्रबुद्धा सा प्राह सत्यमुक्तमतः परं साधुसमर्पितरक्तपुष्पमप्यहं न धारयिष्यामि / श्रावकैः कुंकुंमनैवेद्यकुसुमादिभिरेव मे पूजा विधेया / भवतो भवत्परम्परागतस्याचार्य स्य श्रीमहावीरस्य च समुपासकानां समेषामुपद्रवानखिलान्नाशयिष्यामि स्तुता पूजिता चाहं सदैव कुमारीशरीरं प्रविष्टाऽसंशयम् / स्बया ममापि धर्मलाभो देय इति अत्वा सूरिणा च तदङ्गीकृतम् / सा च तिरोदधे / ततःप्रभृति सा सच्चिका ( सत्यका ) इति प्रसिद्धिं जगाम / ब्राह्मणपुत्रकथा मुनेश्चमत्कारश्च / / . कस्मिश्चित्समये कोट्यधीशस्य ब्राह्मणस्य पुत्रः केनचिद् दुष्टभुजंगमेन दष्टो मृतकल्प आसीत् / जनकेनापि मन्त्रतन्त्रज्ञानखिलानाहूय विषापहरणोपायाः कारितास्ते च विफलाऽभवन् / अतो दुःखविव्हलाः पितृप्रभृतयो विप्राः करुणं क्रन्दन्तः शिबिकायां संस्थाप्य ब्राह्मणपुत्रं दाहार्थ स्मशानं ययुः / सरिरप्यन्तर्लब्धसंज्ञं तं जानन् धर्मोन्नत्यै शोकसंविग्नमानसं तज्जनकमाकारयामास / भो विप्र ! यदि जीवेत्तव तनयस्तदा त्वं किं करिष्यसि ? / स आह भगवन् ? तव किंकरो भविष्याम्यहमाजीवनं, किं बहुना श्रावकानामिव भवानेव मे माता पिता देवतेति स्वीकरोमि / ततो मुनिना पादप्रचालितं वारि मृतपुत्रस्योपरि प्रक्षिप्तं येनासौ संज्ञा लेमे / उत्तिष्ठमानः स चैतन्यशीलं किमेतद् इति पृष्ठवान् पितरम् / पित्रोक्तम्-कृपासिन्धुना सूरिणानेन त्वं पुनर्जीवनं लन्धवान् / ज्ञात्वाऽसौ Page #23 -------------------------------------------------------------------------- ________________ [8] सादरं मुनिचरणौ ववन्दे, जगाद च भगवन् ! विप्रश्रमणयोःरमिति लौकिकोक्तिः स्वसाधुत्वं दर्शयता भवता मिथ्याकृता, अतः प्रभृति श्रावकानामिव ब्राह्मणानामपि त्वमर्चनीयः। ततः सर्वे ब्राह्मणाः श्रावका इव सुरेगौरवमादधिरे / सुरेराज्ञाश्च नावमेनिरे / एवंविधप्रभावशाली स मरिरष्टादशसहस्र 18000 संख्यकान् जनान् जिनधर्म स्वीकारयामास, धर्मतत्वं च बोधयामास / राजसचिवेन-उहडेनेव-उत्पलदेवेनापि पार्श्वनाथमन्दिरनिर्माणार्थ सामग्री सज्जीकृता / प्रतिमा च शिल्पकर्मकुशलैः शिल्पि भिरतिरमणीया विरचिता। वीरमन्दिरनिर्माणात् सप्तवर्षसम्मिते काले पार्श्वनाथप्रतिष्ठामवलोकयितुमपकेशपुरे सोत्सुकाः सर्वे परिभ्रमन्तीतस्ततः / श्रीरत्नप्रभकनकप्रभसूरिभ्यां भगवतः पार्श्वनाथस्य सच्चिकाया ( चामुंडायाः ) श्च प्रतिमा शुमे मुहूर्ते प्रतिष्ठापिता। कोरंटकगच्छोत्पत्तिः / श्रीरत्नप्रभसरिणा कोरंटकोपकेशपुरयोर्मध्ये महावीरमन्दिरप्रतिष्ठा धनुर्लग्ने वैक्रयिकसाक्षाद्रूपाभ्यां च विहितासीदित्युक्तं प्राक् / अतस्तत्रत्या जना विचिन्तयन्ति स्म यन्मायिकरूपधरेण कृतायाः प्रतिष्ठाया न किमपि फलं स्यात् / अस्माभिः कनकसूरये तच्छिष्यमण्डलमध्यादस्थिताय सरिपदं देयम् , एवं विचार्य सर्वे ते श्रावको: सोत्सहापुरःसरं सुरिपदमहोत्सवं समारेभिरे / अतिक्रान्ते च कोले गच्छभेदकारणं विज्ञाय स्वयमेव रत्नप्रभसूरिः कोरंटकमगमत् / स्थिरप्रशान्तमनसा च सर्वान् समाश्वास्य सरिपदे कनकप्रभमुनि स्थापयामास / इतः प्रभृति कनकप्रभवरिपरम्परा कोरण्टकगच्छनाम्ना लोके प्रसिद्धिमियाय / वि० पू० 386 तः] ७-यक्षदेवसूरिः [वि० पू० 342 पः ___यक्षदेवमूरिः सकलशास्त्रवेत्ता विमलक्षत्रियवंशोद्भवः सत्यार्थप्रकाशको वादिकुंजरकेशरी यक्षपतिबोधको बभूव / तन्मूलाभिधानं वीरधवलेत्यासीत् / ___ अनुक्रमेण ग्रामनगरेषु विहरन् सूरिप्रवरः पञ्चशतसंख्यकैमुनिभिःसार्द्ध कोरेण्टकपुरं ययौ / तत्र तदीयवालशिष्येण खल्वेकदा यक्षपतिमोपरि पात्रप्रक्षालितं जलं पातितम् / ततो रुष्टो यक्षः प्राकृतिकराक्षसवृत्तितो मुनेर्देहे विकृतिं चकार सरिरपि ज्ञानदृष्ट्या विकृतिकारणं विज्ञाय यक्षनिग्रहं चकार / निग्रहीतोऽसावपि सुरेर्दासत्वमङ्गोचकार / एवमेव कस्मिश्चिद्राजगृहेऽनने मरिणा यक्षः प्रतियोधितः संघविध्वंसश्च निवारितः ततः प्रभृति यक्षदेवेत्यन्वर्थंकनामाऽभवत् / - ___ पूर्वाचार्याणामार्दमनुसृत्य वङ्गकलिंङ्गपञ्चालादिषु प्रान्तेषु शत 100 परिमितैः शिष्यैः सह परिभ्रमन् सरिः सिन्धदेशं जगाम / पथि यत्र यत्र वाममार्गिणां गृहाण्यासन् / तत्र तत्र भोजनादिखाद्यपदार्थच्छलः ताडनतर्जनायुपसर्गाः प्राप्ताः / धर्ममार्गाभिमुखो मुनीश्वरस्तान सर्वांनुपेक्ष्य रत्नप्रभसूरेरादार्श लाकृत्य शान्तचेतसा सुखदुःखलाभालाभशीतोष्णाद्युपसर्गान् सहित्वा धर्मप्रचारमार्गाग्रसरो भूत्वाऽग्ने गच्छति स्म / एवं तत्र देशेदुःसहान्यनेकानि कष्टान्यनुभूतानि सशिध्येण तेन सूरिणा / तथापि सिन्धदेशमाजगाम / Page #24 -------------------------------------------------------------------------- ________________ कदाचिदरण्यभूमिं गच्छन् सूरीश्वरो मृगयायै व्रजन्तमश्वारूढं राजपुत्रमद्राक्षीदध्वनि / मृत्युभयत्रस्त्ता मृगशशकादयो दीनाः पशवोऽश्वस्याग्रे धावन्ति स्म। इदं करुणाजनकं दृश्य विलोक्य सूरिणोक्तम् कुमार ! तिष्ठतु कुत्र गच्छति भवान् ! इत्याकश्विारूढेन तेन प्रोक्तम्, महात्मन् ! यत्कथनीय तत् सत्वरं कथयतु / कुरंगशशकादयो ममाखेटकस्योपस्करभूता अग्रे गच्छ. न्त्यतो मा विलम्बस्व / आचार्येण सक्षेत्रं विज्ञायोक्तम् भव्य ! पापात्मकमिदं कर्म त्यक्त्वा दयाधर्म भजस्व / एष एव सर्वदर्शनसंमतो मार्गः / यादृशी भवतः पीड़ा तादृश्येव सर्वेषां प्राणिनां भवति / अतो दुःखोत्पादिका जीवानां हिंसा न कर्तब्येत्युपदेशप्रतिबुद्धोऽसौ सूरिं शिवपुरं प्रति विहाराय प्रार्थयामास / नृपात्मजः कक्ककुमारोऽपि पादचारीभूत्वा सूरिणा सहैव चचाल / क्रमेण शिवपुरं प्राप्य बहिरुद्याने सशिष्यो मुनिरतिष्ठत् कुमारस्यानुशासने। प्रातःकाले जिनतत्वं सम्बोध्य रुद्राटनृपसहितान् सर्वान् जनान् जिनधर्मरतान् विधाय सूरिमन्दिरनिर्माणार्थ तानुवाच / धमोत्साहोत्साहितः शिवपुराधीशोऽपि सूरेरुपदेशात्प्रभावशाली विनयप्रणतो देवगृहमकारयत् / शुभे महूर्ते तत्र शासनाधीशस्य महावीरस्य मनोहरा प्रतिमा प्रतिष्ठापिता तेन सूरिणा। ___वैराग्योत्पादकमपदेशं च श्रुत्वा वैराग्यपरिपूर्णहृदयः कककुमारः पितरावापृच्छ्य-विपुलसंख्यकैर्मानवैः स्त्रीभिश्च जनकेन च सार्द्ध सूरेः पावं दीक्षामङ्गीचकार / गृहीतदीक्षश्च स जननी जन्मभूमिञ्च भव्यर्जिनालयैरुज्जहार / क्रमेण द्वादशाङ्गी चतुर्दशपूर्वी च बभूव / वीराद् 128 वर्षे व्यतिक्रान्ते श्रीयक्षदेवसूरिः श्रीकक्कमुनि स्वपट्टे प्रतिष्ठाप्य स्वर्गमगमत् / वि. पू. 342 तः] 8 श्रीककसूरिः [वि. पू. 288 पः श्रीककसरिः सर्वसत्वशिवंकरो ज्ञानाम्भोधिर्जिनशासनरतोऽखिलशास्त्रविचक्षणोऽतितेजस्वी समायातः / अयमपि मातुलादेव्याः परामर्शमासाद्य सर्वोपसर्गान् दूरीकृत्य कच्छपान्तं प्रति प्रतस्थे / ___.. एकदा विस्मृतमार्गोऽसौ मार्गभ्रान्त्या समीपवर्तिपर्वतपार्श्वस्थं देव्यालय ययौ / तत्र देव्यै बलिकरणायोपनीतं राजपुत्रं ददर्श / भयत्रस्तं च तं विलोक्य सरिर्घातकान् वधकर्मसमुत्सुकान् जगदम्बिकोपासकान् सप्रगल्भमाह - भो मनुजाः 1 किमर्थमिदमनर्थकरं कर्म कुरुथ ? इत्याकये क्रूरकर्मणि तत्परास्ते मोचुः-महात्मन् / पश्य नरममु वयं देव्य प्रसन्नतार्थ बलिं समर्पयामः / अस्मादेव कारणाद् वयं ग्रामीणा मिलिताः स्मः / समाकण्यं तदीय वचो मुनिस्तानाह - नैतत्सौख्यसंवर्धकं कर्म / जगदम्बिका हि सर्वेषां प्राणिनां रक्षिका न तु भक्षिकेति / / अथ ते मुनिवचोऽवगण्य हठांग्रहात्कुठारमादाय देवीसमीपे तं हन्तुमुद्यता बभूवुः, मुनेः प्रभावातिशयाच सः कुठारः कुण्ठितोऽभवत् / हस्तावप्यवरुद्धौ / तत आचार्यप्रभावप्रभावितास्ते विस्मयमादधुः। बलिकरणायोपनीतो राजपुत्रो देवगुप्तश्च प्राणसंकटान्मुक्तः / ततश्च राजकुमारो मुनिचरणसरोजसंलग्नशिराः सविनयं तमाह-प्रभो ! पुरीं मे भद्रावतीं समागच्छतु / आचार्येणोक्तम्-देवगुप्त ! वयं पञ्चशतसंख्याका मुनयस्त्यक्तमार्गाः परिभ्रमन्त इत. स्ततोऽत्र समागताः / अवशिष्टा मुनयः कुत्र गता इति न जाने / अतोऽस्माकमागमनं कथं भवेत् ? Page #25 -------------------------------------------------------------------------- ________________ [10] तेन चोक्तम्-प्रभो ! प्रातस्ते सर्वे भवता सह मिलिष्यन्त्यतो नात्र चिन्ता विधेया। देवगुप्तस्यातिशयमाग्रहं वीक्ष्य कक्कसरिरपि भद्रावतीममिप्रतस्थे / ____ अवशिष्टा मुनयस्तु सूर्यास्तमनवेलायां समीपस्थपर्वतस्थितवृक्षस्याधस्ताद् ज्ञानध्यानादिक्रियानिरताअभवन् / तेऽपि प्रभाते तेनैव सरिणा सा समागच्छन् / अथ क्रमेण विहरन् निर्दिष्टस्थानमासाद्य मुनिर्वाटिकायां स्थितः / प्रातश्च महत्यां सभायां मुनिना धर्मतत्वप्रतिपादिका जिनोक्तदेशना दत्ता / अतस्ते सर्वेऽपि पौराः स्वेच्छया दयाप्रचुरं जिनधर्म भेजिरे / शिवगुप्तराज्ञः कुमारो देवगुप्तस्तु विरक्तः। क्रमेण पितरावापृच्छ्य कतिपयमुमुक्षुभिः सह महतीं जिनधर्मदीक्षामाप / अस्मान्महती जैनधर्मप्रभावना प्रादुरभवत् / इतश्च शिवदत्तस्याध्यक्षत्वे लक्षाधिकैर्भावुकैः सार्द्ध सिद्धाचलयात्रायै संघः शत्रुञ्जयं प्रति निर्जगाम / विधाय च तीर्थयात्रां संगत्यागी सूरीश्वरः संघमामन्त्र्य प्रोवाच-अयं देवगुप्तः सर्वधर्मकर्मधुरीणः सकलशास्त्रनिष्णातः सूरिपदसमुचितः, अहममुसूरिपदे नियुज्य सर्वथा शान्तिं सममिलषामि ततोऽत्रैव सरिपदोत्सवो विधेयः / सूविचःसंमाननं कृत्वा धर्मोत्साहसंभृतास्ते जिनधर्मप्रवर्धक महोत्सवमनुतिष्ठन्ति स्म / एवं देवगुप्तं महामुनि पट्टे प्रतिष्ठाप्य तत्रैवानशनं विधाय च समाभिना देहं जहौ। वि० पू० 288 तः] 6 देवगुप्तसूरिः। [वि. पू० 247 पः श्रीदेवगुप्तसरिः संसाराम्बुधिनौकर्णधारकश्चारित्र्यचूडामणिरुत्कृष्टक्रियाकलापको वादिमानविमर्दकोऽभवत् / एकदा कर्मशाह-नामापश्चनददेशवास्तव्यः श्रावको दर्शनार्थमाजगाम / मुनेमुखकमलाद् हिंसाधर्मस्य हेयतां श्रुत्वा मुदितः सन् जगाद / प्रभो ! पश्चालदेशे यज्ञधर्मप्रचारकः श्रीसिद्धाचार्यों वर्तते / तदुपदेशात्सर्वेजना उन्मार्गगामिनो दृश्यन्ते / यदि कल्पवृक्षकल्पो भवान् पञ्चनददेशमागमनेनालंकुर्यात्तदा दयाप्रधानस्य जिनधर्मस्य प्रचुरः प्रचारोऽवश्यं भवेदिति दृढं विश्वसिमि / प्रेमपीयूषपूर्ण तदोयं वचनं श्रुत्वा मूरिः पञ्चनददेशगमनमकरोत् / क्रमेण स्वस्त्याख्यां नगरीं प्राप्य तत्रैव बसतिं चकार / प्रातःकाले विद्वत्सभायां दयाधर्ममाहात्म्यं वर्णयामास / इतश्च सिद्धाचार्यो “यजेत स्वर्गकामः" इति वेदप्रमाणतो यज्ञधर्म प्रतिपादयामास / पारस्परिकविरोधोत्पादकं व्याख्यानमाकर्ण्य सर्वेऽपि किमिदमित्याश्चर्यान्विता बभूवुः पौराः। सञ्जातसंशयाश्च ते "अनयोः कतरः श्रेष्ठः" इति निर्णयाय समुत्सुका राजसमीपं ययुः / अथैकदा नीतिनिपुणेन राज्ञा तत्वनिर्णयाय वादिप्रतिवादिपक्षौ समाहूतौ / केशरिकुञ्जरयोरिव तयोर्मध्ये महान् संघर्षोऽभूत् / अन्ते च मुदितेन नृपेण जयपत्रं सूरये समर्पितम् / अतो जिनधर्मस्य चमत्कृतिजनकः कोऽपि महान् प्रभावः सर्वेषां चेतसि पदं लेभे / सिद्धाचार्योऽपि सर्पः कञ्चुकमिव स्वकीयं दुराग्रहं त्यक्त्वा सशिष्यो जिनधर्मदीक्षामगृह्वात् / ___ततो विहरन् कोरण्टकपुरमागतो देवगुप्तसरिः कोरण्टकगच्छाधिपेन सोमप्रभसूरिणा मिलितः / उभयोर्व्याख्यानमप्येकस्मिन्नेवावस्थानेऽभवत् / चंद्रावत्यामेकदा तीर्थयात्राजनितफलं Page #26 -------------------------------------------------------------------------- ________________ [ 11 ] व्याख्यानतः श्रुत्वा शुभाशयो जिनदेवः श्रावकोऽभ्युत्थाय श्रीसंधं व्यज्ञापयत् सिद्धाचलयात्रायै संघनिष्कासने ममाभिलाषा वर्तते / श्रीसंघोऽपि तद्वचनं स्वीचकार / श्रीजिनदेवस्य संघाधिष्ठातृत्वे शुभ मुहूर्ते श्रीसंघः शत्रुञ्जयं प्रति प्रतस्थे। अष्टान्हिकामहोत्सवादिकानि पुण्यजनकानि कर्माणि कृत्वा श्रीसंघस्तु चन्द्रावतीं प्रत्याजगाम, किन्तु शान्तिनिकेतनः श्रीदेवगुप्तसिरिस्तु तत्रैव स्थितिं चकारः। ___क्रमेण च श्रीसिद्धसूरिं स्वपट्टे संस्थाप्य वीरनिर्वाणात्त्रयोविंशत्यधिकद्विशत 223 तमे वषेऽतिक्रान्ते स्वर्गपथप्रवासी बभूव / वि. पू. 247 तः] १०-श्रीसिद्धसूरिः। [वि. पू. 217 पः विद्यावारिधिर्धारधीषणः काव्यकलाकलापकः श्रीसिद्धसूरिः समागतः / स च चन्द्रपुरीपालकस्य कनकसेनराज्ञः कनीयान् पुत्र आसीत् / शिशुत्वेऽप्यसौ संसाराद्विरक्तः सिद्धार्थाचार्यस्य समीपे वैदिकी दीक्षां जग्राह / पञ्चालप्रान्ते सूरिणा सह धर्मतत्वं दृढं विनिश्चित्य दृढ़पतिज्ञया जिनधर्मरतिर्दीक्षितो बभूव / सिद्धसाधुना सत्वरमेव गुरोरनुग्रहात्सकलशास्त्रवैदग्ध्यमासादितम् / / ___ अथ सूरिपदमासाद्य धरणीतले परिभ्रमन् कदाचित् पालिकानगरी ययौ / तत्रैका श्रमणसभी कारिता / सहस्राधिकाश्च शासनोन्नतिसमुत्सकाः साधवश्च समाययुः। मिथश्च मिलितास्ते शासनोत्कर्षसाधकान् नियमान् व्यरचयन् / तत्रत्यं कार्य समाप्य चन्द्रावतीमियाय सूरिः / तत्र च वैदधर्मप्रकाशकः शिवाचाय आसीत् / स एकदा चन्द्रावतीनगराधिपतिमकथयत् राजन् ! नगरीयं नूनं यातना पीडिता भविष्यत्यतो कस्यचित्तदुपद्रवनाशकस्य यज्ञस्यायोजनं कर्त्तव्यमन्यथा प्रकुपितो देवो महान्तं संक्षयं विधास्यति, शान्तिस्तुष्टिः पुष्टिः कार्या सिद्धिश्चावश्यं भविध्यतीति श्रुत्वा जिनदासो नाम तत्सचिवोऽब्रवीत् न हि स्वीकुर्मो वयमिदं भवदीयमनृतं वचः, कर्ममार्गतत्परा अपि वयं यज्ञार्थं पशुहननं कदाचिदपि न करिष्यामः इति मन्त्रिगदितं निशम्य स्वापमानखिन्नमानसोऽसौ नगराद् बहिर्निगत्य मन्त्रतन्त्रादिसाधनैरनेकविधानुपद्रवान् चकार / नागरिकाश्चदुःखभाजोऽभवन् / अतः सर्व मिलित्वा सूरिपावं ययुः प्रार्थयामासुश्च भगवन् ! निवारयतु चास्माकमिदं कष्टम् , ऐश्यान्विता अपि भवादृशाः सन्तः संघ नमस्यन्ति, संघसेवा च पुण्यफलपदा / विमृश्य च सरिराह-नात्र भवद्भिश्चिन्ता विधेया,अत; परं न विघ्ना न चोपसर्गाः भविष्यन्ति / एवं संघ सन्तोष्य मुनिः शान्तचेतसा ध्यानस्थितस्तस्य विद्याप्रभावं शिथिलोचकार / शिवाचार्योऽपि स्वशक्तिशैथिल्यं वीक्ष्य विस्मयमाययो। किमिदम् ! शक्तिशैथिल्य किंहेतुकम् ! इति निपुणं निरूपयन मुनेरेवेदं कार्यमिति स निश्चित्य तत्समीपमाजगाम / तच्चरणयोः सन्निवेशितशिरा उबाच-प्रभो! प्रमादकृतमपराधं मे क्षमस्व संसाराम्बुधिनिमग्नं मां करावलम्बनेन त्वरितमुद्धर / एवं सप्रश्रयमाद्रञ्च वचो निशम्य करुर्णाद्रचेता मुनिस्तन्मस्तके हस्तं निधाय प्राहआत्मकल्याणसाधकः सर्वत्रागाधितो जिनधर्मः स्वीक्रियताम् ,संप्राप्यताञ्च श्वः श्रेयसम् +" इति परमप्रेमपीयूषपूर्ण मुनिवचनमुररीकृत्याऽसौ मुनेः पार्थादेव दीक्षामगृह्णात् / ' Page #27 -------------------------------------------------------------------------- ________________ [ 12 ] निमित्तज्ञानेन स्वमृत्युकालं परिज्ञाय श्रीसिद्धसरिस्तस्य रत्नप्रभेति नाम विधाय स्वपट्टच प्रतिष्ठाप्य वीरनिर्वाणात् त्रिपञ्चाशदधिकद्विशत 253 तमे वर्षे स्वर्गमवजत् / वि० पू० 217 तः] ११-श्रीरत्नप्रभसूरि: द्वितिय / [वि० पू०१८२५० तत्पट्ट भव्यकुलकमलदिवाकरो विविधवाङमयविदग्धः क्षत्रियवंशालंकारभूतः श्रीरत्नप्रभसूरिः समायातः / अलौकिकमभावपुञ्जपुञ्जितवदनपुण्डरीकोऽसौ राज्ञ उत्पलदेवस्य वंशपरंपरायां सूर्यवंशीयक्षत्रियालंकारभूतस्य असलरावस्य सूनुरूपकेशपुरवास्तव्यः। माता चास्य ललनाकुलललामभूता सतीशेखरमणिजैतीदेवी / तयोरयं रत्नसिंहनामा कुलदीपकस्तनयः / शैशवे शिशुजनसमुचितां केलिमनुभवन्नसौ पित्रौः स्वान्ते समधिकमानन्द मातेने / लक्षणान्यप्यस्याधारणाभ्युदयसूचका न्यासन् / पितृसंपर्क संलग्न धर्मसंस्कारो धर्मेऽधिकां रुचिं दधौ / समतिक्रान्ते कियति काले पुरातनसंस्कारवशादमोघदर्शनस्याचार्यवर्यस्य सकललोकैकमण्डनस्य तत्रभवतः श्रीसिद्धसरेदृग्गोचरतामियाय / तस्यैवोपदेशामृतास्वादनपरिपूर्णान्रंगः शिक्षितमतिरसौ दीक्षितोऽभूत् शुभेऽहनि / अभिधेयश्च दीक्षानन्तरमस्य रत्नमुनिरिति ख्यातिमलभत / तदनु च जिनप्रनतत्वचित्तापरवशोऽध्यैत जिनागमानखिलानाचार्यसकाशम् / _कस्मिश्चित् समये श्रीसिद्धसरिरुपकेशपुरमात्मना भूषयामास / रावसारंगदेवेन श्रीसंघेन च समारोहपुरः सरंस्वागतं विहितम् / आत्मकल्याणसाधकानि व्याख्यानानि चाभवन् / रजितानि समाप मानसानि भावुकानाम् / कलयनसारत्वं संसारस्य रोवंसारंगदेव आत्मनः श्वःश्रेयसे समर्प सर्वस्वं पुत्राय धनदेवाय निवृत्तिमागोभिरुचिर्वभूव / अन्येऽपि स्वधर्मतत्वं वोधिता जन्मनः कृतार्थताममत्यन्त / आचार्यवर्योऽपि रत्नमुनेरसाधारणं पाण्डित्यं योग्यताञ्चसमीक्ष्य शुभेऽहनि मुहूर्ते च तत्रैव स्वपढे श्रोसंघसमक्षं तंस्थापयामास / श्रीरनप्रभसूरिति नाम्ना च समाजयामास / सम्प्राप्य चासौ सूरीश्वरःस्वधर्म प्रचार एव परमः पावनो मदीयोऽनुष्ठेयत्वेन प्राधान्यं प्राप्तः पन्था इति निपुणतरं स्वस्वान्ते निरूपयन् तदर्थमितस्ततः परिभ्रमणच्छलेन भावुकानुरोधयामास / ____एकदाऽवन्तिकायामाचार्यःसुहस्ती सभामेकामकारयत् / तत्र सुरिमप्याह्वयत् / स च धर्मोन्नतये ययौ / क्रमेण विहरन्नवंती प्राप / ततः सम्प्रतिनामकेन राज्ञा महासमारोहपूर्वकं कोटिप्रमाणकं द्रव्यं व्ययीकृतम् / स्वधर्मप्रचारको तौ द्वौ मुनीश्वरौ मिलितौ / ततः सत्ववत्सलः सुहस्ती सम्प्रतिमुवाच-राजन् ! अस्य मुनेः पूर्वजैर्जिनधर्मस्य महती सेवा विहिता, ओसमहाजनसंघश्च प्रतिष्ठाप्य सुदृढो जैनसंस्कारः कृतः। अयमपि सूरिः कर्मठः जिनधर्मप्रचारकश्चेति स्तुतिवचनं समाकर्ण्य-भगवान्नाहं प्रशंसनीयः, पूर्वेषामाचार्याणामपेक्षया नाहं किंचिदपि कर्तुं शक्नोमि, भाग्यवान् तु संप्रतिरेव येनाचार्यसुहस्तिसेवा सर्वसिद्धिप्रदा लब्धा / एवं ते सर्वे परस्परं प्रशंसन्ति दर्शयन्ति च मिथः सद्भावम् / श्रमणोचितान् धर्मनियमांश्च विरचयन्ति / अहो कियान् प्रमोदः? ततो विहरन् मुनीश्वरो रत्नप्रभसूरिः लवपुरीं [ लोहाकोटं ] ययौ। तंत्र व्याख्यानकाले सम्मेतशिखरयात्रायाः पुण्यप्रदं फलं विशदीचकार / अतः आश्चर्यान्वितेन मन्त्रिणा पृथुसेनेना Page #28 -------------------------------------------------------------------------- ________________ भ्युत्थाय निवेदितम् -भगवन् ! यात्रायै संघनिष्क्रमणमहमिच्छामि, अहमेकाकी श्रीसंघस्याज्ञामधिगन्तुमभिलषामि। संघेन च नृपामात्यस्य वचः श्रुत्वा सहर्षमाज्ञा दत्ता / शुभे च मुहूर्ते मन्त्रिणः पृथुसेनस्य संघो लक्षावधिकजनसंयुक्तः प्रयाणं चकार / स्पर्शनदर्शनपूजादीनि च धार्मिकाणि कृत्यानि विधाय संघस्थास्ते सदानन्दनिमग्ना बभूवुः। ततो गुरुचरणसरोजसमर्पितमस्तकास्ते व्याख्यानं शुश्रुवुः / समाप्य च मुनिस्तान्सर्वानुवाच-सञ्जातवार्द्धकोऽहं सर्वतः शान्तिमिच्छामि ततः पृथुसेनात्मजं धर्ममुनि पट्टे नियुज्यात्रैव स्थास्यामि / श्रावका अपि मुनिकथितमादृत्य पट्टमहोत्सवं विदधिरे। अथ संधस्तु यक्षदेवसरेरध्यक्षत्वे प्रतिनिवृत्तः / आत्मशान्तिमनुभवितु श्रीरत्नप्रभसूरिस्तत्रैव स्थितः / तत्र च समाध्यनशनादिभिः शरीरं विमुच्य वीरनिर्वाणाद् 288 वर्षे स्वर्गमगच्छत् / / वि० पू० 182 तः] 12 श्रीयक्षदेवसूरिः। [वि. पू. 136 प. .. श्रीयक्षदेवमूरिः . चारित्रज्ञानपारावारोऽर्थिमनोरथकल्पद्रुमः लवपुरवास्तव्यश्वासीत / भानूदये तम इव सर्वे पाखण्डिनो मुनिसमीपं स्थातुं नाशक्नुवन् / पूर्वबङ्गदेशे गुणाकरैः शिष्यैः सह गत्वा धर्मविवादे बौद्धाचार्य पराजयत / अथ कदाचित् सूरिसमीपं सच्चायिका (चामुण्डा) देवी वन्दनार्थमाजगाम / प्रणम्य चावदत मुने ! मरुभूमौ तेऽनन्यसाधारणः शिष्यलाभोऽवश्यं भविष्यति यश्च त्वयाऽत्र वृद्धत्वे विचिन्त्यते इति कायत्वा सा तिरोदधे / मानयित्वा च तद्वचनं मरुभूमिमुद्दिश्य स चचाल / विहरंश्च क्रमेणोपकेशपुरमाययौ / तत्र विरक्त्युत्पादकं मुनेाख्यानं श्रुत्वा तत्पुराधीशो रावः खेतसिंहः कनीयसा लाक्षेण्येन पुत्रेण सह मूरिपार्श्वे दीक्षामग्रहीत् / अथ कालान्तरे निजमृत्युसमयं ज्ञात्वा लाक्षण्यं मुनि तस्पट्टे नियोज्यात्माराधनमुद्दिश्य स शत्रुञ्जयं प्राप। वि. पू. 136 तः] १३-श्रीकक्कसूरिः। [वि० पू० 76 प. श्रीयक्षदेवसरिपट्ट श्रीकक्कसरिः / स चोपकेशपुरवास्तव्यो खेतसिंहनृपस्यात्मजः / प्रभावभूयिष्ठोऽसौ विहरन्नितस्ततश्चन्द्रावतीं पुरीमाययो / तत्र तदधिपतिं त्रिभुवनसेनमुपदिदेश-राजन् ! अत्रैव पुरे श्रमणोनामेका बृहती सभा कर्तव्या। सोऽप्यन्वमोदत / प्रेषितानि चामन्त्रणानि / यथासमये सर्वे तत्र समाययुः / मुनीन् संबोध्याह सरि:-भो व्याख्यानान्ते युष्मभ्यं मे वक्तव्यमस्ति तच्च श्रोतव्यमनुष्ठेयश्च / व्याख्यानमारब्धम् / जातश्च महान् धर्मलाभः / अन्ते सः प्राह-दक्षिणदेशे वाममार्गानुगानांसुगतानाञ्च प्राबल्यं, जिनधर्मश्च निस्तेजस्का, सर्वैश्वा स्वधर्मोद्धारे प्रयत्नो विधेयः / शिरोमान्यं तद्वचो हृदये कृत्वा ते दक्षिणस्यां दिशि प्रतस्थिरे। कोरण्टकगच्छाधीशो द्वितीयः सोमसरिरपि मुनेरनुज्ञां गृहीत्वा पूर्वदेशं जगाम / कक्कसरिस्तु योगाराधनाय -अर्बुदाचलं ययौ / - कदाचिदुपकेशपुरे स्वयंभूश्रीमहावीरस्नात्रविधिकालेऽष्टान्हिकामहोत्सवं विदधता जनानां मध्येऽपरिणितवयसां केषांचिन्मनसीदमभूत्-अहो प्रतिमा वचसि प्रन्थिद्वयमिदं शोभाविधातकम् , Page #29 -------------------------------------------------------------------------- ________________ [14] मशकव्याधिसंयुक्तमिव दूरीकरणीयमिति निश्चित्य ते स्थविरान् प्रोचुः / -वृद्धैरुक्तम्-इदमवाच्यमपुण्यजनकं वचः कदाचिन्न वाच्यम् / अनादृत्य वृद्धानां वचनं ते सूत्रधारं प्रलोभ्य तद् ग्रन्थिद्वयच्छेदनमकारयन् / सूत्रधारस्तु तत्क्षणमेव प्राणान् जहौ / छेदस्थलाच्च रक्तधारा निर्गता। तद्रोधनार्थे कृतप्रयत्नास्ते निष्फला अभवन् / अतः श्राद्धाः व्याकुला जाताः। ततः सूरिमाह्वातुं ते सविज्ञप्तिकं कञ्चनौष्ट्रिकं माण्डव्यपुरं प्राहिण्वन् / असौ गतस्तत्र / श्रुतं मुनिनेदं दुःखाकरमुदन्तजातम् / अन्ते चोपकेशपुरं गन्तुं विहारं चकार। अथागत्य च तत्र संघयुक्त न तेन मुनिनोपवासत्रयं विहितम् / तृतीयोपवासावसाने शासनामरी (चामुण्डा) प्रत्यक्षं प्राह-बालश्रावकर्मन्निर्मितं विम्बमाशातितं तन्न युक्त कृतम्, अतोत्र परस्परं जनानां विरोधः जनाश्च दिशो दिशं परिभ्रमिष्यन्ति, किंबहुना कियद्भिर्वासरैश्च नूनं पुरभंगो भविष्यति / सूरिः प्रोवाच-कर्मयोगेन जीवानां यद् भावि तन्नकोऽपि मिथ्याकर्तुं शक्नोति / अतो येन केन प्रकारेण स्रवद्रक्तं तु नियारय / देव्या प्रोक्तम्-चतुविधसंघेन शुद्धाष्टमं तपो विधाय सर्वोषधिभृतैर्दधिदुग्धधृतेक्षुरसपूरितैर्घटैरष्टादशगौत्रैमख्यपुरुषैः संमील्य स्नानं कारयितव्यम् / वीरप्रतिमाया उभयपार्वेऽष्टादशगोत्रपुरुषास्त्वधोदर्शितक्रमेण ज्ञेयाः / प्रथमतो दक्षिणपार्वे यथा तप्तभट्टो बप्पनागस्ततः कर्णाटगोत्रजः / तुयो बालभ्यनामाथ श्रीमालः पञ्चमस्तथा // कुलभद्रो मोरिशश्च मिरिहियाह्वयोऽष्टमः / श्रेष्टिगोत्राण्यमून्यासन् पक्षे दक्षिणसंज्ञके // ततो वामपार्वे यथासुचिंतितादित्यनागौ मोरोभाद्राथ चिंचिटिः / / कुंभटः कान्यकुब्जोऽथ डिडुमाख्योऽष्टमोऽपि च // तथाऽन्यः श्रेष्ठिगोत्रीयो महावीरस्य नामतः / नव तिष्ठन्ति गोत्राणि पंचामृतमहोत्सवे // मूलप्रतिष्ठानन्तरं वीरप्रतिष्ठादिवसात् 303 वर्षातिक्रमे चतुर्मासानन्तरं गुरूपदेशप्रभावित आसलः शत्रुञ्जययात्रार्थ संघं निःसारितवान् / तीर्थयात्रानन्तरं सूरिश्वरः संघमामन्त्र्य प्रोवाचअहं तु सर्वथा शान्तिमिच्छामि / सूरिपदसमुचितो देवसिंहो मुनीश्वरोऽतोऽत्रैव सूरिपदमहोत्सवं कुर्वन्तु / यात्रार्थमायातास्ते सर्वे मुनिवचनमनुमान्य सोत्साहं तथैव चक्रः। संघश्च स्वस्थानं प्रतिनिवृत्तः / कक्कमरिश्च तत्रैव स्थितः / निमित्तज्ञानेन स्वमृत्युकालं परिज्ञायाऽनशनसमाधिना 361 वर्षे स्वर्ग जगाम / वि० पू. 76 तः] १४-श्रीदेवगुप्तसूरिः। [वि. पू० 12 10 . पितास्य रावखती मातादेवी कुमारिका / बाल्य एव श्रीमतः ककस्रेाख्यानमाकये संसाराद्विरक्तः / गृहमागत्य पितुः समीपे स्वस्य दीचाया इच्छा प्रकटीचकार / श्रुत्वा च Page #30 -------------------------------------------------------------------------- ________________ [ 15 ] पिता मुमूछी / जलाभावे कमलिनीव माता म्लानिमाप / न चापि कुमारो वैराग्यभावनां तत्याज / तदीयं दृढं वैराग्यं वीक्ष्य तावपि तत्क्षणादेव विरक्तौ / अन्येऽपि कोट्यधिपास्तेन सह विरक्ता बभूवुः / क्रमेण 35 भावुकैः, 60 स्त्रीभिश्च युतो दीक्षामग्रहीत् / अन्पीयसि काले सर्वशास्त्रपारहश्वा स परमपण्डितो बभूव / समुचितोऽयमिति ज्ञात्वा सूरिपदे प्रतिष्ठापितः। ततो विविधग्रामनगरेषु विहरन्नसौ दयाद्रचेताः क्रमेण मरुधरप्रान्तमाययौ / तत्र स्थितश्च श्रीमालनगरे यज्ञारंभमशृणोत् / असौ तत्र यातः / सूरेश्चागमनं ज्ञात्वा शंकितमानसा यज्ञकर्मनिष्णावा याज्ञिका नृपसमीपमीयुः प्रोचुश्च राजन् ! नास्तिको यज्ञोत्थापकोऽश्रद्धेयो वेदविध्वंसको जैनाचार्यः समागतः, किन्तु न तत्र विश्वासो विधेयो भवता, इति निवेद्य निर्वेदमुक्तास्ते स्वस्थानमगमन् / राजाऽपि तद्वचः श्रुत्वा स्थितः। इतश्चानेकवादिमतजिष्णुर्धामिकाग्रणीः सूरिनित्यं सर्वशिकरं दयाधर्म प्रत्यपादयत् / तदीयवाङ्माधुरीचातुर्यात् व्याख्यानश्रवणसमुत्सुका विपुलसंख्याका जनास्तत्सभायां समाजग्मुः। एकदा व्याख्यानश्रवणसमुत्सुका मन्त्रिणो यज्ञदत्तस्य गृहं ययुः। व्याख्यानश्रवणार्थञ्च तं प्रेरयामासुः / सुरेरसाधारणं पाण्डित्यं ज्ञात्वा यज्ञदत्तो नृपसमीपमेत्योवाच राजन् ! देवगुप्तमूरि-इति नामको धुरन्धरो जैनाचार्योऽत्र समागतः,स च नित्यं शास्त्रप्रमाणतो दयाधम सयुक्तिकं वर्णयति जनाश्च निर्निमेषनयनास्तदीयं वदनकमलमालोकयन्तो न तृप्तिमधिगच्छन्ति, श्रवणसादरा व्याख्यानञ्च शृण्वन्ति" इति वचो निशम्य धर्मतत्वनिर्णयाय राजा सूरीन् विप्रांश्चामन्त्रयामास / ते च यथाकालं सभायामाजग्मुः / पारस्परिकचर्चासु प्रवर्तमानासु सुरिराड् विमान संबोध्य प्राह-यज्ञकरणेनैव स्वर्गप्राप्तिश्चेद् यज्ञकर्तारस्तदर्थ स्वपुत्रादीन् बलिहेतवे कथमग्नौ न जुह्वति ! किमयमेव न्याय्यः पन्थाः 1 वराका मूका निर्दोषाः पशव एते ज्वलने प्रवेश्यन्त इत्यहो धर्मविडम्बनम्, तत्वज्ञा ये, ते कदाप्येवं नानुमन्यन्ते न समाचरन्ति चेति" वचः श्रुत्वा ते सर्वे विप्रपण्डिता लज्जाभरावनतमस्तकाः पराभूताः / परश्च जिनधर्मानुयायिनोऽभवन् / ' एवं विविधस्थानेषु परिभ्रमता ज्ञाननिधिना देवगुप्तमरिणा जिनधर्मपताकाः सर्वत्र प्रसारिता / योग्यकाले च मृत्यु परिज्ञाय धनदेवं नाम मुनि स्वपट्टे प्रतिष्ठाप्य श्रीवीरनिर्वाणाद् 458 वर्षे दिवं जगाम। वि० पू० 12 तः] १५-श्रीसिद्धसूरिः। [वि० सं० 52 . विशालयशाः श्रीसिद्धसूरिः परदुःखदारिद्रयदलनपटुः-ओसवंशविवर्द्धकः समागतः। अस्य पिता रूपणसिंहो माता च जाल्हणदेवी / धर्मव्रतपरायणोऽसौ बाल्यादेव भोपालो देवगुप्तसूरेाख्यानं श्रुत्वा विरक्तो गृहमागत्य दीक्षार्थ पितरौ पप्रच्छ / तद्वचो निशम्य तस्य पिता रिसमीपमेत्यावदव-प्रभो ! भोपालो दीक्षाविषयमेव न जानाति शिशुकल्पो दीक्षानहः। अहमेव दीक्षा ग्रहीष्यामि / ततः सूरिः प्राह भवदाज्ञाभावे नाहं तं दीक्षितं विधास्यामि, किन्तु भवानात्मनः श्रेयोमार्गे प्रयान्तममुं कथं निवारयति विनभूतो भवति च / प्रभावपूर्ण चेतस आल्हादकं सूरेर्वचः श्रुत्वा पुत्रेण सार्द्धमसौ दीक्षार्थ तत्परोऽभवत् / जाल्हणदेवी च पतिपथानुसरणशीला बभूव / अथ सप्तत्रिंशन्नागरिकसमा Page #31 -------------------------------------------------------------------------- ________________ वृतो भोपालो दीक्षामग्रहीत् / प्रव्रज्यासौ धनदेवाभिधानं लेमे। शास्त्रवैदग्भ्यश्चासाद्य सूरिपदे प्रतिष्ठितः। ___ अथ क्रमेण विहरन् स सौराष्ट्रदेशं ययौ / वल्लभी नगरी प्राप्य तत्रैव मासावधिकमुवास / तदधीशः शिलादित्यः सूरिणा प्रतिबोधितः / अन्ये च बहनो जनाः सत्पथे स्थापिताः। तत्पाव शत्रुञ्जयमाहात्म्य श्रुत्वो शत्रजये बहूनुद्धारान् विदधे / पर्युषणे चतुर्मासीत्रये च राजा नियमतः शत्रुञ्जययात्रायै गच्छति स्म / राज्ञ आग्रहात् सूरेश्चतुर्मासस्तत्रैवाभवत् / तत्र मुनेाख्यानं श्रुत्वा शोभनोऽसावसारात्संसाराद्विरक्तः / ततः सा वृद्धा निराश्रिया शिलादित्यमुवाच-राजन् ! एक एव मे पुत्रः स च दीनां समीहते / अतो दीक्षानिरोधः कतव्योऽन्यथाहमात्मघातं करिष्यामि-इत्याकये दयाद्रचेता नृपः सूरीश्वरमुवाच-प्रभो ! तस्मै दीक्षा न देया, वृद्धस्य यष्टिरिव सर्वालम्बनरूपः सूरिराह नाहं कालत्रयेऽपि दीक्षां दास्यामि किन्त्वयं मे पुत्रः, इयं मे मातेति मोहोऽनर्थजनकः सर्वथा त्याज्य एवेत्याकये जातवैराग्या वृद्धा प्रसन्नतयाज्ञां दीक्षायै ददौ / शोभासिंहेन सानन्दं सप्रश्रयं दीक्षा गृहीता / ततः परमसौ तपःकर्मणि संलग्नः / मासानन्तरं सोऽभिग्रहं जग्राह / तदर्थं वने पुरे ग्रामे रथ्यायाश्च नित्यं पर्याटत्, किन्तु मनसा यन्निधारितं तत् सफलं न जातम् / जैनसाधूनामभिग्रहव्रतं पाखण्डमेवेति ब्रुवाणो योगिराड् मुनिमनुगच्छति स्म / आत्मोपशमनतत्परो मनिः कदाचिन्नित्यनियमानुसारेण विपिनं प्रत्यगच्छत् / तत्र दैवयोगादेका सिंही दृष्टा / तां दृष्ट्वा च पात्रमभिमुखं गृहीत्वोत्वाच मुनिः-भिक्षा मे देहोति / सा च किंचिद् भैक्ष्य ददौ / समभावान्वितः साधुर्भिक्षामादाय स्वस्थानमगमत् / सूरिपार्श्वमागत्यावेदयदखिलं वृत्तान्तम् / विबुधाग्रणीः सूरिरपि प्रसन्नवदनोऽभवत् / तत आश्चर्ययुक्तो योगी क्षमामयाचत / सरिपार्थे मुदा न्वितो जैनदीक्षामग्रहीत् / ततः परं योगकलानिपुणः सः कल्याणमूर्ति-इत्याख्या जगाम / अथ ग्रामानुग्रामं विहरन्मुनिः सिद्धसरिरुपकेशपुरमाजगाम / तदधिपति रत्नसिंहं प्रबोध्य महती श्रमणानामेका सभा कारिता। 'रत्नसिंहोऽपि' पूर्वजानामादर्शमनुसृत्य स्वीचकार सुरेराज्ञाम् / सभायामुपाध्यायगणिपदादिभिर्वहवो मुनयो विभूषिताः / सभासमाप्तौ च धर्मप्रेमभरितमानसासं मुनय इतस्ततः परिभ्रमणं चक्रुः / ___ कालान्तरे च श्रीसिद्धसरिनिअशिष्य गुणचन्द्रं सकलशास्त्रार्थतत्ववियोधकं निखिलगुणगण गणनीयकीर्ति श्रीरत्नप्रभ-नाम विषाय स्वपट्टे नियोज्य वीरनिवाणात् 522 वर्षे दिवमगात् वि० सं० 52 तः] 16 श्रीरत्नप्रभसूरिः ( तृतीयः) [वि० सं० 115 प. __ श्री सिद्धसरिपट्ट' श्रीरत्नप्रभसूरिः समायातः। असौ च ॐकारपुरवास्तव्यः। कुल्लीन मन्यां मातरि शाहपेथा-संज्ञकेन जनकेन तस्य जन्मासीत् / राजसिंह इति मूलामिधानम् / सकल शिशुशिरोमणिरसौ बाल्येऽपि मुनिवदेव कांचित् क्रियामकरोत् / यदा श्रीसिद्धसूरिस्तत्राजगा तदास्य जननी तं पप्रच्छ-सुरे! मदीयः पुत्रो मुनिवत् कांचित् क्रियां करोति किं तस्य कारणम् ? सूरिराह प्राक्तनजन्मसंस्कारोऽयम् / दीक्षामसौ स्वीकुर्यात्तदा महामुनिप्रभावकः सकलविद्वद्गणललाम भूतो धुरंधरो भवेदिति / Page #32 -------------------------------------------------------------------------- ________________ [ 17 ] एवं मरिकथितमाकर्ण्य गृहमागत्य च सा पतिमुवाच-स्वामिन् ! राजसिंहस्य सत्वरमेवोद्वाहः कर्तव्यः, अन्यथाऽसौ विरक्तो भविष्यति / भयत्रस्तमानसः स तस्य भेष्ठया लावणवत्या कन्यया सह पाणिग्रहणमकारयत् / षण्मासा व्यतीताः। दैवयोगाच्च मूरिस्तत्पुरमाजगाम क्रमेण विहरन् / सूरिवदनकमलाच्छ्रुतं व्याख्यानं संसारासारविषयकम् / राजसिंहो विरक्तः सन् पितरौ पर्यपृच्छत्-दीक्षामङ्गीकुर्यामिति / पुत्रस्याग्रहातिशयं ज्ञात्वा तावप्यनुमोदनं ददतुः। अन्येऽपि बहवो भावुका दीक्षायै तत्परा बभूवुः / सर्वैस्तैः सहितः, स दीक्षामग्रहीत् / प्रव्रज्यानन्तरमसौ गुणचन्द्रेति संज्ञां लेमे। गुरुप्रसादपरिपूर्णो व्याकरणादिसकलशास्त्रपारगोऽसाधारणः पण्डितप्रकाण्डश्चाभवत् / सरिणा च स्वपट्टऽधिष्ठापितः।। ___ अथानुक्रमेण विहरन् विविधान् देशान् सूरिः पद्मावतीं प्राप / तत्र व्याख्यानेन शत्रम्जयमाहात्म्यातिशय प्रतिपादितवान् / रमणीयतरं तन्माहात्म्य श्रुत्वा प्राग्वटवंशीयो राणकनामा श्राद्धो शत्रुञ्जययात्रायै संघ निःसारितवान् / अस्मिंश्च संघे पंचसहस्रसंख्यकाः साधवः पञ्चलक्षपरिमिताश्च श्रावका मिलिताः ! यात्रां च विधाय संधस्तु प्रतिनिवृत्तः / सूरीश्वरश्च कच्छसिन्धपान्तयोर्विहारं विधाय पञ्चनदप्रदेशे तक्षशिलामाजगाम / तत्र सूरीश्वरस्योपदेशं समाकण्य मंत्री सम्मेतशिखरयात्रायै ‘संघं निष्कासितवान् / यात्रां विधायाङ्गबङ्गकलिंगादिषु विहरणक्रमेणासौ मरुधरप्रान्ते वीरपुरमाययौ / तत्र. च वाममार्गिणां महती संख्याऽसीत् / वीरधवलो नाम नगराधीशोऽपि तन्मार्गानुसरणशीलो येन तदनुयायिनो जना अपि तद्धर्मावलम्बिन आसन् / दीर्घदर्शिना तेन सूरिणा। धर्मरहस्य प्रतियोधितास्ते / सर्वतोगामि मर्मस्थलस्पृशं परमानन्दजनकं -च व्याख्यानं श्रुत्वा राजकुमारो वीरसेनस्तु विरक्तो जातः / कतिपयैव्यैर्भावुकैश्च सह दीक्षां जग्राह / अल्पसमयेनैव सर्वाणि शास्त्राण्यधिगमय्य सूरिणोपाध्यायपदं प्रापितः सोमकलश इत्यभिधानेन / ... इतश्च कोरण्टकगच्छाधिपतिः सर्वदेवसूरिः स्वपट्ट कमपि मुनिमसंस्थाप्य स्वर्गमागमत् / ततः कोरण्टकगच्छीयाः सर्वे मिलित्वा रत्नप्रभसूरिपार्श्वमेत्यावदन्-भगवन् सर्व देवसूरिर्दिवं यातः, अतः कस्मैचिद् योग्याय मुनये सूरिपदं देयं पट्टाभिषेकोऽपि भवतैव विधेयः। सूरीश्वरस्तत्र गत्वा तद्गच्छादेव योग्यं सोमहंसमुनि सूरिपदालंकृतं कृत्वा पट्ट' स्थापयामास / ___ व्यतीते हि कियति काले सर्वत्र स्वधर्मप्रचारं विधाय रत्नप्रभसूरिः स्वमृत्युकालं ज्ञानदृष्टया ज्ञात्वा सोमकलशं तत्पट्ट स्थापितवान् / श्रीरत्नप्रभसूरिणा 63 वर्षाणि जिनधर्मस्य जीवितनिरपेक्षं सेवा विहिता / वि० सं० 115 तः] 17 श्रीयक्षदेवसूरिः (तृतीयः) [वि० सं० 157 प. तत्पर श्रीयक्षदेवसूरिः समायातः / असौ धीरपुरवास्तव्यः / पिताऽस्य वीरधवलो, माता च गुणसेनाऽसीत् / तयोश्च वीरसेननामा तनयोऽभवत् / षोडशवर्षवयस्कस्यास्य पाणिग्रहणमुपकेशपुराधीशस्य कन्यया सोनलदेव्या सहाऽभूत् / विज्ञातजीवाजीवादितत्वविस्तरा सोनलदेवी जिनधर्मोंपासिका श्राविकाऽआसीत् / तया वीरसेनस्तत्कौटुम्बिकाश्च जिनधर्मपरायणाः कृताः / Page #33 -------------------------------------------------------------------------- ________________ [1] अथ कदाचिद्विहरन् रत्नप्रभसरिवरिपूरमागच्छत् / सूरीश्वरागमनञ्च विज्ञाय सर्वे ब्राह्मणा नृपसमीपं गत्वाऽवदन् राजन् ! जिनधर्मानुयायिनो नास्तिकाः साधवोऽत्र समागताः / ते च श्रुतिप्रतिपादितयज्ञादिकर्मकलापस्योत्थापनमेव कुर्वन्ति / अतो भवता तैः सार्धं वार्तालापोऽपि न विधेय "इति तेषां वचनमादृत्याह भूपतिः-भवद्भिः सर्वैः सत्यमेवोच्यते परन्त्वस्य निर्णयो वादविवादेनैव भवितुमर्हति / पश्चात्तत्र रत्नप्रभसूरिमाहूय वादविवादस्तैराख्धः / सूरेः सर्वशास्त्रविचक्षणेन निधानमूर्तिनामकेन शिष्येण स्वधर्ममाहात्म्य सिद्धान्तपूर्ण दर्शयित्वा सर्वे विभाः पराजिताः / तत्र कैश्चित्कल्याणमभिलपद्भिः सरिपदारविन्दमुपस्पृश्य सर्वकल्याणसाधिका दीक्षा गृहीता। वीरधवलो भूपोऽपि जिनधर्मे कृतादरोऽभूत् / चतुर्माससमाप्तौ किमपि कमनीय व्याख्यानं श्रुत्वा वीरसेनो वीतरागो भूत्वा पितरावामंत्र्य पञ्चचत्वारिंशद्भावुकैः सह दीक्षामग्रहीत् / अधीतजिनधर्मतत्वोऽसौ व्यतीते कियति काले सूरिणा स्वपदे यक्षदेवनाम्नाऽधिष्ठोपितः। . ___ अथैकस्मिन् काले द्वादशाव्दीय दुर्भिक्षमभवत् / बहवश्च साधवोऽनशनं कृत्वा स्वर्गमगच्छन् / अतीते च दुर्भिक्षसमयेऽवशिष्टाः साधवः सौपारपतने संगताः / तैश्चैका महती सभा कृता / अतीते च दुर्भिक्षकाले श्रीवज्रसेनसूरिश्चन्द्र-नागेन्द्र-निवृत्ति-विद्याधरनामकान् श्रेष्ठिपुत्रान् दीक्षितान् कृत्वा तैः सह सौपारपत्तनमगमत् / यक्षदेवसूरिसमीपे ऽध्ययनं कुर्वत्सु तेषु सहसा वज्रसेनरिर्दिवं ययौ / सूरीश्वरस्तान् स्वधर्मशास्त्रमध्याप्य पदवीप्रदानञ्च चकार / पश्चादेव तत्तन्नामकानि तेषां चत्वारि कुलानि प्रसिद्धिमगमन् / यथा 1 चन्द्रकुलम्, 2 नागेन्द्रकुलम्, 3 निवृत्तिकुलम्, 4 विद्याघरकुलम् // ततो विहरन् यक्षदेवमूरिमुग्धपुरमाययौ / तत्र म्लेच्छानां भाव्यागमनमशृ. णोत् / अतो म्लेच्छागमनवृत्तान्तं ज्ञातुमसौ शासनामरी देवी प्राहिणोत् / दैवयोगाच्च सा म्लेच्छदेवताभिर्गृहीता। ते च म्लेच्छदेवा अहर्निशं तत्रागत्य कथयामासुः-प्रभो ! जिनालये म्लेच्छाः सन्ति / तेषां वचसि विश्वस्य स सूरिस्तत्रागच्छत् / न च कोऽपि दृष्टिपथमायातः, तथापि शङ्कितमनाः सूरिः सर्वान् श्रावकानाहूयावदत्-अस्मिन् विषमे संकटे प्राणव्ययेनाऽपि प्रभोः प्रतिमाऽवश्यमेव रक्षणीयेति / अथ रात्रौ बहवः साधवः श्रावकाश्च प्रभुपतिमां शिरसि निधाय कस्मिंश्चित् स्थाने रक्षितुमगमन् / इतश्च म्लेच्छदेव विमुक्ता देवी सरिसमीपमागत्य शीघ्रमवादीत् -भगवन् ! म्लेच्छाः समागताः / सत्वरमेव तत्प्रतीकारो विधेय इति श्रुत्वा सूरिस्तमाह-देवि ! तब विश्वासेनैव वयमत्र स्थिताः, त्वं तु चिरादागता / तया च प्रोक्तम्-किं करोम्यहं तत्र व्यन्तरैधृताऽसम् / ___ ततश्च म्लेच्छागमनं जातं नवेति ज्ञातुं सूरिः शिष्यावप्रेरयत् / स च पञ्चशतसंख्यकैः साधुभिर्ध्यानमङ्गीचकार / समागता म्लेच्छाः आगत्य च प्रतिमामदृष्ट्वाऽपृच्छन् सूरिप्रभृतीन मुनिवरान् किन्तु नोत्तरमासादितवन्तः / अतः केचन तैर्मारिता, धृताश्च केचित् , पलायिताश्च केऽपि / म्लेच्छैबन्दीकृतं मूरि कश्चिद् भूतपूर्वः श्रावको बलात्कारेण म्लेच्छत्वं प्राप्तः कारावासद्वाररक्षकोऽमोचयत् / अन्यै रक्षकैश्च सार्द्ध खटकुम्पपुरमप्रेषयत् / यत्राऽन्येऽवशिष्टाः साधवः संमागच्छन् / मरिमेकाकिनमवस्थितं वीक्ष्य तन्नगरमधिवसन्तः श्रावकाः दीक्षार्थ पुत्रानर्पयामासुः / सं च तानेकादश Page #34 -------------------------------------------------------------------------- ________________ [ 16 ] परिमितान् दीक्षयामास / पश्चात् स्थिता बहवः साधवोऽत्र संगता अभूवन् / तदनु सुरिराधाटपत्तनं ययौ। तत्रापि गच्छोद्धारहेतवे श्राद्धाः स्वपुत्रान् सूरिसमीपे दीक्षां ग्राहयामासुः। संसारासारतां समालोच्य केचित्त स्वयमेव दीक्षां स्त्रीचक्रः। ततः सपरिच्छदो विहरन् सः स्तम्भतीर्थमगमत् / तत्रत्येन संघेन श्रोपार्श्वनाथस्य पित्तलमयी प्रतिमा कृता / सर्वश्रावकनिवेदनमनुमान्य मूरिणा स्वहस्तेन तस्य प्रतिष्ठा कृता / एवं धमार्थमेव समयमतिवाह्य वीरनिर्वाणात् 627 वर्षे देवभद्रमुनि स्वपट्टे प्रतिष्ठाप्य स्वर्गमगात् / वि० सं० 157 तः] 18 श्रीकक्कसूरिः (तृतीयः ) [ वि० सं० 174 50 __ अथ श्रीयक्षदेवसरिपट्टे श्रीकक्कमरिः समागतः असौ कोरण्टपुरवास्तव्यः। प्राग्वटबंशीयो झालाशाहोऽस्य जनको, माता च ललितललनाजनशेखरीभूता जिनधर्मानुरागिणी ललिता। ___ एकदा प्रभृतधनसंपत्तेलालाशाहस्य प्रियतमाया गर्भभरालसगतेश्चेतसीत्थं विचारः प्रादुर्भतो पदहं शत्रुजयतीर्थयात्रां कुर्याम् / सो च समुचितसमये पतिमवोचद्-दयित ! भवानवश्यं मां शत्रुजयतीर्थयात्रायै नय त्विति / श्रुत्वा च सोऽचिन्तयद्-इयं खलु पूर्णदौहृदा, कथं तत्र गन्तुं शक्नुयादिति विचार्येदं सुहृदे यशोदेवाय निवेदितम् / तेनोपायं चिन्तयित्वाऽपि न पारितम् / ततो मुनिसमीपमेत्य तौ निवेदयामासतुः / मुनिश्चावोचत्-कल्याणिन् ! नगराद्वहिरेव त्वं शत्रुजयतीर्थप्रतीक रचयित्वा तीर्थयात्रा निर्वाहय, अयमेव सामयिक आचार इति तद्वाक्यं मनसि स्थिरीकृत्य स्वसंपदनुसारेण तथैव तेन कृत्रिमं तीर्थ निर्मापितम् / साऽपि तत् तीर्थरूपमेव मन्यमाना तत्र भगवन्तमादीश्वरं प्रणम्य सखीजनपरिवृता चाष्टाह्निकामहोत्सवं चकार / महतोपायनेन च सन्धमामन्त्रयामास श्रेष्ठी / संपूर्णा तीर्थयात्रां विधाय साऽत्मानं कृतार्थममन्यत / यतो गर्भस्थस्य जीवस्यापि महानानन्दो जातः / अस्मिन् कार्ये तेन श्रेष्ठिना लक्षत्रयपरिमितं धनं व्ययीकृतम् / .. कदाचित् प्रतिक्रमणे "तियलोए चइय वन्दे" सूत्रमागतं स्मृत्वा तस्या "अहं त्रिलोकीस्थितानां चैत्यानां वन्दनं कुर्यामिति' भावना समुद्भूता / गर्भस्थेन केनचिन्महात्मना प्रेयमाण इवाऽसौ श्रेष्ठी तस्या दौहृदं पूर्ववदेव पूर्णमकरोत् / ईदृशी धार्मिकी भावना भविष्यतस्तनयस्यालोकिकं महिमानं सूचयन्ती न सर्वसाधारणस्त्रीणां भवति / ... अथ संपूर्ण दिवसा सा रात्रौ शुभ मुहूर्ते रमणीयमूर्तिं पुत्रं सुषुवे / सर्वे च नागरिका आनन्दममा बभूवुः / परमसन्तुष्टेन श्रेष्ठिना जिनमंदिरेऽष्टाह्निकामहोत्सवो महता समारोहेण कृतः / क्रमशस्तेन त्रिभुवनपाल इति सार्थकमेव नाम कृतम् / अध्ययनकाले प्राप्ते कुशाग्रबुद्धिरसौ वालो व्यावहारिक-राजनैतिक-धार्मिकविषयकमसाधारणं ज्ञानं प्राप। राज्ञा च लालाशाहो मन्त्रिपदमारोपितः / एवं महता प्रमोदेन ते सर्वे कालमतिवाहयन्ति स्म धार्मिकवतनियमादिभिः / / कदाचिद् विहारं कुर्वन् यक्षदेवसूरिस्तन्नगरमगच्छत् / श्रेष्ठिना संघेन च समहोत्सवं तस्य नगरप्रवेशो विहितः, प्रवृत्तानि धर्मप्रचुराणि व्याख्यानानि / एकदा स मूरिब्रह्मचर्यविषयमवलम्ब्या. वोचत्-ब्रह्मचर्य नाम सर्वेषां व्रतजपतपउपवासादीनां नियमानां परमं प्रधानम् / शरीरिणाश्चायुस्तेजो. Page #35 -------------------------------------------------------------------------- ________________ [20] वलमेधावृद्धिकरम् / ब्रह्मचर्येणैव परिपुष्टं शरीरं सर्वार्थसाधनक्षमं दृढ़ञ्चोपजायते। तत्प्रभावेण सर्वथाऽत्मानं समुद्धरन्तोऽपरानपि समुद्धर्तुमर्हन्ति महात्मानः / न च ब्रह्मचर्याद् ऋते स्वश्रेयसकरः सर्वश्रेष्ठः पन्था अवलोक्यतेऽत्र अगति, येनात्मकल्याणं साधयितुं शक्यते / प्रतिकूला अनुकूलाथ सर्वे जन्तवो ब्रह्मचर्यनिष्ठं मनागपि धर्षयितुं नैव प्रभवन्ति कदाचिदिति / सभायामुपस्थितस्त्रिभुवन पाल इदं व्याख्यानं श्रुत्वा ब्रह्मचर्यपालनव्रतं स्वीचकार / एवंविधान्यन्यानि धर्मभावनापरिपूर्णानि व्याख्यानानि समाकये चान्त मात्रा पित्रा चानुमोदितः सूरेः सकाशाद् दीक्षामग्रहीत् / अनन्तरमस्य देवभद्रेति नाम परिवर्तितम् / अथ सशिष्यः सूरिाटसौराष्ट्रकच्छदेशेषु विहरन् क्रमेण शिवनगरं जगाम / तत्र परमप्रीतान्तःकरणेन गोंदारावेण, श्रीसंघेन च समहोत्सवमस्य नगरप्रवेशः सम्पादितः / अत्र धर्मप्रीतिसंवर्धकानि व्याख्यानानि श्रावयित्वा जातवैराग्यान-अष्टचत्वारिंशजनान् दीक्षयामास / चातुर्मासः सर्व भक्तजनमतमनुमान्य विहितः / सर्वेषामाग्रहेण, सच्चायिकापरापर्शन, गोंदारावस्य सूचनाश्च विचिन्त्य, स्वस्य वृद्धत्वमपि समालक्ष्य देवभद्रं सूरिपदे संस्थाप्य श्रीककसूरि-इति नाम कृतवान्। यक्षदेवमूरिः / चातुर्माससमाप्तौ बहवो दीक्षार्थमुत्सुका अभूवन् / पञ्चषष्ठि 65 संख्यकैजनैर्दीक्षा गृहीता / सूरेरनुज्ञया गोंदारावेण शत्रुजयं प्रति संधो महता समारोहेण निष्कासितः / तत्र च श्रद्धा भक्तिसमन्वितेन नवलक्षपरिमिता मुद्रा विनियुक्तास्तेन। तीर्थयात्रां विधाय मूरिः सशिष्यः प्रतिनिवृत्तः। अथ विहरनसौ लवपुरं [ लोहाकोट ] नगरमेत्य धमदेवाग्रहात्तनिर्मितनूतनमंदिरे श्रीपार्श्वनाथस्य प्रतिमायाः प्रतिष्ठामकरोत् / तदेव धर्मकार्य विधाय तक्षशिलामागच्छत् / तत्र च चेतश्च. मत्कारजनकेन व्याख्यानेन भक्तिप्रवणान् द्वादशपरिमितान् भिन्नभिन्नजातीयान् दीक्षितान् चकार / एवं महता समुत्साहेन सर्वत्र धर्मप्रचारं विदधदसौ सूरिरासन्नकालं योगदृष्टया ज्ञात्वाऽनशनपूर्वकं सप्तविंशतिदिनानि स्थित्वा समाधिना देहमसृजत् / __अथ नभोमध्यमारूढस्तीक्ष्णमरीचिमाली सूर्य इव ज्ञानोपदेशेन सर्वान् धर्मतत्वं संबोधयन् कक्कसूरिविहारक्रमेण शिष्यमण्डलयुतः श्रीपुरपत्तनमगच्छत् / संघेन राजपालेन च स्वागतं विहितम् / भद्वितीयप्रभावपूर्णेन धार्मिक प्रवचनमारब्धम् / सर्वं च स्वधर्मतत्वरहस्यं ज्ञात्वाऽश्चर्यनिमग्नमानसा अभूवन् / तत्र राजपालश्चतुर्विध संघमामन्त्र्य सम्मेतशिखरं प्रति यात्रां कारयामास / महापरिमाणक द्रव्यं धर्मकर्मणि व्ययीकृतं तेन / / सम्मेतशिखरयात्रायाः प्रतिनिवृत्य विहरन्नसौ कलिंगदेशे खण्डगिरेरुदयगिरेश्च दर्शनं विधाय मधुरापुरीमलंचकार / तत्रोपकेशीयैः कृतं सद्भावभरितं स्वागतं स्वीकृत्य परमहष्यत् / सर्वेषां धार्मिकाणामभिलाषां पूरयन् चातुर्मासव्रतं चकार / सूरिवदनकमलावस्थितोपदेशामृतास्वादलुब्धहृदयेन पनाशाहेन भीभगवतीसूत्रवाचना कारिता / सपादलक्षपरिमिताभिमुद्राभिः श्रीभगवतीसत्रवाचनामहो. त्सवं सहर्षमकरोत् पनाशाहः / तत्र कृतावस्थितिना मूरिणाऽधो लिखितानि धार्मिकाणि कार्याणि संपादितानि / Page #36 -------------------------------------------------------------------------- ________________ [ 21 ] 1 श्रीमद्भगवतीसूत्रसमाप्तिमहोत्सवः / 2 षष्ठिपरिमितानां मुमुक्षूणां जिनधर्मदीक्षा / 3 सहस्रसंख्यकानां नूतनमूर्तीनामजनशलाकाविधिः / 4 नूतननिर्मितानां पञ्चानां जिनालयानां प्रतिष्ठा / 5 विशालमूर्त्यादिभ्यः पञ्चभ्य उपाध्यायपदम् / 6 सोमतिलकप्रमुखाणां, साधूनां पण्डितपदवीप्रदानम् / 7 धर्मशेखरादीनां सप्तानां वाचनाचार्योपाधिवितरणम् / 8 कुमारश्रमण-प्रभृतीनामेकादशानां गणिपदप्रदानमिति / अपरञ्च मायो दशसहस्रसंख्यकान् जैनेतरान् जनान् जिनधर्मदीक्षादीक्षितानकरोत् / स्वसमीपे साधूनां महती संख्यां विचार्य तान् धर्मप्रचारार्थमसौ यत्र तत्र प्रेषयामास / अथ स विहरन् मरुधरं ययौ / संघस्वागतं सत्कृत्य तत्र धर्मोपदेशं कृत्वा धर्मे दृढ़परिकरान् व्यधात् सर्वान् / ततश्च विहारक्रमेण शाकम्भरी-मुग्धपुरादिषु स्थानेषु, पर्यटन उपकेशपुरमाययौ / तत्र संघस्यानुज्ञां स्वीकृत्य चातुर्मासके स्थितः / सुचन्तिगोत्रीयेण आम्रशाहेन सानन्दं श्रीभगवतीसूत्रवाचना कारिता / सूरिणा व्याख्यानेषु तात्विक-दार्शनिकाध्यात्मिकैतिहासिकविषयाणां सुविशदं विवेचनं विवेचितम् / आत्मकल्याणाय विरक्तिमार्गोपदेशस्तु प्रथमं स्थानमोप्नोद् व्याख्याने / बहबस्तत्मभाववशीभूतमानसा दीक्षां जगृहुः। बहुसंख्याका गृहस्थाश्रमिणोऽपि जिनधर्मे दृढादरा बभूवुः। चातुर्माससमाप्तावेकादशभिर्भावुकैरपि दीक्षा गृहीता / नूतनानां जिनमन्दिराणां प्रतिष्ठाऽपि सूरेवरदहस्तेन जाता। ___ तस्मान्निगतो विहरन्नसौ सूरिन गपुरमगमत् / व्याख्यानादिना धार्मिकान संतोषयामास / हंसावतीनगर्याः संघाधिपतेर्जसाशाहस्य सप्रश्रयां विनतिमादृत्य तत्र संघानुमत्या तेन सूरिः श्रीभगबतीसत्रवाचनां कारितः। तन्निर्मिते महावीरमन्दिरे मूर्तिप्रतिष्ठा महता समारोहेणाजनि / अथ स कोरण्टकपुरमागतः / तदधिपतिना श्रीसंघेन च भन्यसमारोहेण स्वागतेन संमाननं कतम् / कोरण्टकगच्छीयो नभप्रभसूरिरपि समीपदेशे विहरन् ककसूरेरागमनं ज्ञात्वा तत्राजगाम सशिष्यः। महताऽनन्देन हर्षयुतमानसः सूरिः संघेन स्वागतसहितं नगरप्रवेशमस्य कारयामास / ततो व्याख्यानपीठमारूढी प्रसन्नवदनपुण्डरीको तौ पूर्णिमायां नभस्थलस्थितौ शशिदिवाकराविव सभामण्डलसमुपस्थितानां सकलजनमनांसि मोदयामासतुः / अहो ! विविधगच्छीयानां सूरीश्वराणां पारस्परिक सौमनस्यं दृष्ट्वा को नाम मुदं न प्राप्नुयात् / श्रीमतः ककमरेरत्र प्राथमिकमेवागमनमिति कत्वा तत्रत्यः संघश्चतुर्मासाधिवासार्थ तस्मै प्रार्थयामास / सोऽपि तदीयां धर्मभावनां पोषयितुं तरङ्गीचकार / सकलजनमनोऽवस्थितगाढान्धतमसो विभेदकं रमणीयतरं व्याख्यानमाकानन्दसागरनिममा वभूवुः सर्वे / / विहारक्रमेण भिन्नमालासत्यपुरीशिवगढादिषु ग्रामनगरेषु धार्मिकमनासि व्याख्यानेन रज्जयमसौ परमतीर्थभूतमबुंदाचलमगमत् / तत्र तीर्थयात्रां विधाय पुनश्चतुर्मासस्थितये कोरण्टकपरमवजत् / तत्रोभौ सूरीश्वरौ जनानां हृदये जिनधर्मभावनायाः संवर्धनं स्यात्तथैव महान्तं प्रयत्न छत्वा स्वकर्तव्यपालनस्य चरमां सीमां प्रापतुः। ततश्च समाप्ते चतुर्मासे निर्गत्य मथुरानगरीं स्वप Page #37 -------------------------------------------------------------------------- ________________ [ 22 ] दार्पणेन भूषयाश्चकार / तत्र हंसावतीनगरीसंघाधिपतिर्जसाशाहः सपुत्रो दर्शनार्थ सूरेश्चामन्त्रणार्थमागच्छत् / तद्वचोऽनुपाल्य सूरिस्तत्र ययौ / संघाधिपतेः पुत्रेण राणाशाहेन शत्रुञ्जयतीर्थयात्रायै संघायोजनं कृतम् / क्रमेण शत्रुञ्जययात्रां विधायाऽसौ तत्र सूरिहस्तेन दीक्षामग्रहीत् / आचार्यः कक्कमरिः पुनः कोरण्टकपुरं प्रतिनिवृत्तः। रात्रौ देवी सच्चायिका अर्द्धनिद्रितं तं वियोध्य प्रणम्यावादीत् सूरे! मासावधिकमेव ते जीवितम् / अतः कंचिदुचितं शिष्यं स्वपट्ट स्थापय / विशालमूर्ति रेव सर्वथा योग्य इति सूरिणोक्ते साऽपि तमन्वमोदत पश्चात्सा तिरोदधे / सरिरेतदर्थ संधं पप्रच्छ / संघेनापि सुरेरवस्था समीक्ष्य तदीयं वचः प्रमाणीकृतम् / शुभे दिवसे श्रीविशालमूर्ति स्वपट्टोनियोजयामास श्रीकक्कसरिः / पश्चात् तत्रैकविंशतिदिनान्यनशनं विधाय स्वर्गपदवीं प्रतस्थे / वि.सं. १७४तः] १६-श्राचार्यः श्रीदेवगुप्तसूरिः (तृतीयः)[वि.सं. 177 प० श्रीकक्कसूरिपट्टे श्रीदेवगुप्तसूरिः स्थानं पाप / असौ नागपुरवास्तव्य आदित्यनागगोत्रीयचासीत् / अस्य पिता मेराशाहो माता च नन्दानाम्नी। अथ क्रमेण विहारं कुर्वन् यक्षदेवमूरिन गपुरमाययौ / तत्र व्याख्याने विभवे सति मनुष्यस्त्रीणि कार्याणि जनहितार्थमवश्यं कर्तव्यानि यथा-(१) नूतनमन्दिराणि निर्माय तत्र मूर्तिप्रतिष्ठा, (2) तीर्थयात्रायै संघस्यायोजनम्, (3) श्रीभगवतीसूत्रवाचनेति / इदं श्रुत्वा सभायां संस्थितेन वैश्रवणोपमेन भेराशाहेन विचारितम्-इद कार्यत्रयं सर्वजनहिताय कथमहं न विदध्याम् ! द्रव्ये सति सन्निमित्त व्ययः साधीयान् मत इति विचार्य सुरेराज्ञामधिगत्य कुशलान् शिल्पिनो जिनालय. निमार्णायादिदेश / स्वपुत्रो धनदेवश्च तन्निरीक्षणे नियुक्तः। पश्चात्सोऽचिन्तयत् यदि सूरिरत्र चातुमासे वसतिं कुर्यात्तदाहं श्रीभगवतीसूत्रवाचनामहोत्सवमारमेय / समाप्त च महोत्सवे संघायोजनमपि शक्येत / तावच्च मन्दिरमपि पूर्ण भवेदिति कृत्वा तं सूरिं नत्वा साञ्जलिवन्धमब्रवीत्-भगवन् ! भवदुक्त व्याख्याने सर्वमहं भवत्कृपया साधयितुमिच्छामि / सूरिस्तमभिनंद्य तथैव तत्र वसति चक्रं / शुभ मुहूर्ते श्रीभगवतीसूत्रवाचनाया : प्रारम्भी जातो महता समारोहण / श्रद्धाभक्तिपुरःसरा जनास्तत्र समायाताः / क्रमेण स्वसंपदनुसारेण महोत्सवसमाप्तिः कृता / प्रतिप्रश्नं सुवर्णमुद्रिका अन्ते च मणिमौक्तिकप्रकरं समर्पयामास / संधेनाऽपि महोत्सवस्यालभ्यो लाभो लब्धः / एवमनेन सपादलक्षपरिमिता मुद्राः सत्कार्ये विनियुक्ताः / ततः सरिमामन्त्र्य सम्मेतशिखरयात्रायै संघ आयोजितः / तीर्थयात्रां विधाय पुनर्नागपुरमाययौ सपरिवारो मेराशाहः / देवगृहे प्रभुपतिमा प्रतिष्ठापयितुमसौ सुरिं न्यवेदयत् / सूरिश्च तमवादीत्-श्रेष्ठिन् ! सर्वजनहितानि त्रीणि कार्याणि साधितानि, परमात्मकल्याणसाधकं त्ववशिष्टं तच्च न द्रव्येण, किन्त्वात्मविचारणया परमवैराग्यलभ्यम् / सादरं समाकर्पोऽसौ तमाह-भवदुक्तं सर्वमेव संपादितं, कथमिदं भवदादिष्टं विफलीकुर्यामित्युक्त्वा स दीक्षायै समुत्सकोऽभूत् / प्रथमं सूरिहस्तेन जिनालये प्रभोः प्रतिमा प्रतिष्ठापिता। तदनु तेन दीक्षा ग्रहीप्यामीति निवेदिता सा पतिव्रतपरायणा नन्दाऽपि पत्या सहैव दीक्षां ग्रहीतुमुद्यता। . इतश्च धनदेवो जनकस्य प्रव्रज्यानन्तरं दैववशाद् दारिद्रयपीडितोऽभूत् / तस्मिन्नेवावसरे Page #38 -------------------------------------------------------------------------- ________________ [23 ] श्रीकक्कसूरिविहरन् तत्राजगाम / तदा तन्नगरस्थिता जनास्तमाहुः भगवन् ! भेरामुनेस्तनयोऽयं कालप्रभावाद् दारिद्रयमनुभवति / जनैरुक्तं वचः श्रुत्वा मूरिर्धनदेवमकथयत् “भो वत्स ! कर्मणःप्रभावं ज्ञात्वा धर्मध्यानमेव समाश्रय, अशाश्वतानां पदार्थानां मध्ये धर्म एव शाश्वतः" इति सहर्ष सूरिवचनं श्रुत्वा धैर्यमास्थाय धर्माचरणे कृतप्रवृतिरभवत् / क्रमेण व्यतीते पापक्षये पुनर्वैश्रवणोपमो बभूव / ततचतुर्णां पुत्राणां विवाहादिकृत्यं सम्पाद्य व्यवहारभारं तेभ्यःसमय शुभावसरोऽयमिति कृत्वा चतुर्दशभिर्भावुकैःसह दीक्षामग्रहीत्सूरिसमीपे / पुत्रो धनदेवोऽपि तदर्थमुद्युक्तोऽभूत् / प्राक्तनादृष्टवशादेव माता पुत्रश्च दीक्षाया विरतौ बभूवतुः। जनकेन केवलं दीक्षा गृहीता। ___ आचार्यस्य शिष्या अपि विविधशास्त्रपारावारपारगामिनः स्वधर्मप्रचारायैव सर्वत्र जनान् धर्ममार्ग प्रापयन्तोऽलौकिकचमत्कारकारिण्या विद्यया आश्चर्यान्वितचेतसश्चक्रः / पट्टावलीकारैःकेषांचित्परिचयः प्रदर्शितो यथा। देवगुप्तसूरेः शासनसमये धर्ममूर्तिनाम वाचनाचार्यों महालब्धिसंपन्नोऽभूत् / प्राप्याऽसौ सूरेराज्ञां सिन्धप्रान्ते विहरन् वीरपुरमागच्छत् / तत्रैकः सन्यासी योगविद्याबलेन पृथ्वीतलस्पर्शमन्तरा स्थितः सर्वोन् विस्मयान्वितानकार्षीत् / एवं चमत्कारेण धर्ममार्गाद् भ्रष्टानकरोत् / तस्मिन्नेव समये स वाचनाचार्य उपस्थितः / श्रावकैःसत्कृत्यासौ निवेदितो मुने ! महाप्रभावोऽयं परिव्राजको भतलमस्पृश्यैव तिष्ठति / मुनिनोक्तम् नायं चमत्कारो, योगविद्याबलमेतत् / किं नास्तीदृशी विद्याऽस्मच्छास्त्रे ? स्याद्वा, तथापि या धर्मध्वंसकाल उपयुक्ता न स्यात्तर्हि किं तया ? इत्याग्रहयुक्तं श्रावकवचः श्रुत्वाऽसौ तानकथयत्-श्वो व्याख्यानकाले यदाऽहं पीठमारुह्य व्याख्यानं कुर्या तदा भवद्भिस्तत्पीडं दूरीकर्तव्यम् / तदा ज्ञातं भविष्यतीति / अन्येयुः व्याख्याने तैश्च तथैव विहितम् / मुनिराधारं विनाऽपि स्थितः / जनाश्च विस्मयमापुः / अथेदं वृत्तमसौ परिव्राजकोऽशृणोत् ।क्षमाश्च ययाचे कथयामास च-भगवन् ! इयमपि विद्या मया जैनाचार्यादेव सम्प्राप्ता / वीतरागविषयकचर्चायां जातायां स मुनिपार्श्वे दीक्षा जग्राह / ___ 'अथापरो' ज्योतिर्विद्यानिपुणो राजसुन्दरो विहरन्नेकदा भृगुपुरमुपस्थितः / तदा तत्र विदुपामेका सभा मिलिता। आमन्त्रणं पण्डितेभ्यो दत्तम् / अस्मै राजसुन्दराय च नो दत्तम् / अनामंत्रितोऽप्यसौ तत्र ययौ / सर्वैरासनं दत्तम् / अथ विचारा आरब्धाः। भविष्यत्कालकं विविधमतविडम्बनमासीत् / राजसुन्दरं ते पप्रच्छुः / सोऽवादीत् अद्यैव रजन्यामष्टघटिकासु व्यतीतासु, परञ्चाष्टचत्वारिंशत्परिमितेषु पलेषु वृष्टिर्भविष्यत्येव / सर्वैः पण्डितैस्तत्कथनमुल्लेखितं पत्रे / नियतसमये प्रचुरधाराप्रवाहा दृष्टिः पपात / सर्वे ते तमुपहसन्तो म्लानवदना जाताः / सर्वे चाध्ययनार्थ तत्समीपे ययुः / राजसुन्दरस्य महान् प्रभावः सर्वत्र व्याप्तः। राज्ञा प्रजाभिश्च संमानितोऽभवत् / पद्मकलशनामोपाध्यायः परकायप्रवेशविद्यानिपुणो बभूव / स तया विद्यया भूपतीन् रञ्जयन् जैनधर्मोपासकान् विदधाति स्म / . नागपभ आकाशगमनविद्यापारगस्तृतीयोपवासपान्ते शत्रुञ्जयोपकेशपुरयोर्यात्रां विधाय Page #39 -------------------------------------------------------------------------- ________________ / 24 ] पारणामकरोत् / अथ कदाचिद् व्योमविहारिणस्तस्य नभोमार्गे पादलेपप्रभावेणाकाशसंचारी परिः वाजको मिलितः। मिथो वार्तालापेन संचरन्तौ तौ शत्रुञ्जयमागच्छताम् ! नागप्रभचरणोपरि लेप द्रव्यमदृष्ट्वाऽसौ तमब्रवीत् / पादलेपामावे कथमाकाशसञ्चरणं त्वया कर्तुं शक्यत इति कथितः स प्राह इदन्तु पारतन्त्र्यम् , कश्चित् लेपं प्रक्षालयेत्तदा गतिस्खलनं स्वस्याडम्बरश्च प्रतीयेत / अत आत्मप्रभावसम्पादिता सा सर्वत्राप्रतिहतप्रभावा स्यादिति / अवश्यमेव त्वं मां तां विद्यामध्यापय, न तवो. पकारमहं कदापि विस्मरिष्यामीत्युक्तो नागपभस्तमवादीत-न खलु दीक्षामन्तरेण साध्येतुं शक्यत इति / तेनाऽपि तद्वचनमङ्गीकृत्य दीक्षा गृहीत्वा संयममाश्रित्याकाशगामिनी विद्या सम्प्राप्ता / एव. मनेन नागपभमुनिना बहवो भव्या आत्मकल्याणं प्रापिताः / स्वविद्याचमत्कारश्च दर्शित : / __ न्यायमुनिस्तु देवीवरप्रसादसमासादित विद्याप्रभावः सर्वथा सर्वदा सर्वत्र शास्त्रार्थविजयी बभूव / अनेकासु राजसभासु बौद्धान् वेदान्तिनश्चासौ समधिगतशास्त्ररहस्यवेत्ताऽनेकशः पराजयत / भृगुपुरशिवनगरोजयिन्यादिषु नगरेषु च धर्मप्रचारं विधायाऽन्यमतावलम्बिनों मानविमर्दनं कृतं न्यायमुनिना। ईदशा विवधविद्यापारदृश्वानो मुनयोऽस्य सूरेः शासने विशेषतो जिनधर्मसमुन्नति चक्रः। देवगुप्तमरिरेकादश 11 वर्षाणि उपाध्यायपदे, त्रीणि 3 वर्षाणि सरिपदे चैवं चतुर्दश 14 वर्षाणि जिनशासनस्य बहुविधां सेवामकरोत् / स्वनिधनकालमासन्नं विज्ञाय स्वपट्टे राजहंसं संस्थाप्य वीरनिर्वाणात् 647 वर्षव्यतिक्रमेऽनशनं 13 दिनपर्यन्तं विथाय समाधिना शरीरमुत्ससर्ज। वि०सं० 177 तः ] 20 प्राचार्यः श्रीसिद्धसूरिः (तृतीयः) [वि०सं० 166 प. श्री देवगुप्तसूरिपट्टे श्रेष्ठिगोत्रीयः श्रीसिद्धसूरिः समायातः / असौ माण्डव्यपुराधिपतेः सुरजनस्य प्रधानसचिवस्य नागदेवस्य तनयोऽस्य माता कमलवदना कमलादेवी / द्रव्ये वैश्रवणोपमस्य, बुद्धौ वृहस्पतिसदृशस्य नागदेवस्य रमानाम सुशीला भार्याऽनपत्या. ऽसीत् / अतो हरनारायणसिंहस्य देवलां नाम तनयामसौ परिणिनाय / कर्मयोगादियमपि तथैवापत्य. लाभहीना बभूव / नागदेवेन कुलदेव्याःसच्चायिकाया आराधनं कृतम् / उपवासत्रयसमाप्तौ देवी प्रत्यक्षमब्रवीत्-मन्त्रिन् ! उपकेशपुरस्थस्य चिंचटगोत्रीयस्य रामाशाहस्य तनया कमला त्वया परिणेतव्या, तस्याः पुत्रप्रजालाभोऽवश्यं भविष्यति / असौ देवीवचने विश्वस्य तथैव कमलायाः पाणिग्रहणमकरोत्। व्यतीते च काले क्रमशः सप्त पुत्राः कमलायाः, केवलं न, रंभाया देवलाया अपि सप्त सप्त तनया अभवन् / जिनधर्मोपासकस्याऽप्यस्य पुत्ररत्नप्राप्याऽतिमहती श्रद्धा वृद्धिमाप / स्वधर्मप्रचारार्थमसौ कोटिपरिमितद्रव्यव्ययेन सहयोगमदात् / आचार्यः श्रीसिद्धसूरिरस्य तेजसिंह इति नामकः सौभाग्य. वत्याः कमलायाः सूनुः / पूर्वकृतपुण्यप्रभावादेकदा विहरन् श्रीकक्कमरिमाण्डव्यपुरमलंचकार / सूरीश्वरस्य व्याख्याने मनुष्यजन्ममाहात्म्यं संसारासारताश्च विज्ञाय तेजसिंहः परं वैराग्यमलभत / पिता नागदेवस्तस्य द्वे भार्येऽन्ये च सप्त पुत्रा दीक्षायै समुत्सुका अभूवन् / शुभ मुहूर्ते सप्तपञ्चाशत्परिमितजनैः साई Page #40 -------------------------------------------------------------------------- ________________ [25] तेजसिंहादयो दीक्षा लेभिरे / तेजसिंहस्य राजहंसेति नाम परिवर्तितम् / सूरिश्च सहैव नीत्वा तं न्यायव्याकरणसाहित्यादीनि शास्त्राण्यल्पेनैव कालेनाध्यापयामास / जिनधर्मशास्त्राणि त्वेतदपेक्षया पूर्वमेवाध्यापितान्यासन् / एवमधिगतसकलशास्त्रार्थतत्वोऽप्यसौ गुरुचरणकमललनचञ्चरीकः शुश्रूषायामेव कृतमतिरभूत् / श्रीकक्कसूरेषत्रयानन्तरमेव श्रीदेवगुप्तरिर्दिवमगात् / अतस्तत्पट्ट राजहंसस्य श्रीसिद्धसूरिरिति नाम विधाय प्रतिष्ठापयामास तं शुभेऽहनि श्रीदेवगुप्तसूरिः / अथ क्रमेण विहरणं कुर्वन्नसौ वल्लभीपुरमाजगाम / श्रीसंघेन सत्कृतश्चासीत् / तस्मिन्नेव काले बुद्धमतप्रचारको बुद्धाचार्यः सशिष्यो बुद्धमतोपदेशनायै तत्रागतोऽभूत् / सूरे शिष्येण वादिचक्रवर्तिपदवीकेन विमलकलशमूर्तिना राज्ञः शिलादित्यस्य सभायामसौ पराजयं प्रापितः। पश्चात् शिलादित्यः सूरेरुपदेशादेकां श्रमणसभामकारयत् / बहवो मुनयस्तत्र समागता अभूवन् / तत्र जिनधर्मस्याभ्युन्नतये विविधा उपायाश्चिन्तिताः / सर्वत्र स्वधर्मप्रचाराय साधून प्रेषयामास सूरिः / स्वयं च दक्षिणस्यां दिशि मदुरामगच्छत् / शिष्यमण्डलमण्डनायमानोऽसौ तत्र चातुर्मास्यं विधाय धर्मव्याख्यानमदात् / सूरीश्वरस्याल्पवयस्कोऽपि वीरशेखरमुनिर्विद्याचमत्कारचिन्तामणिरासीत् / एकदा तस्याध्वनि योगकलाकलापकोविदोऽवधूतः कश्चित् संगतोऽभूत् / स तं पप्रच्छ-मुने ! किमपि चमत्कारकरणं भवान् जानाति न वा ? मुनिस्तमुवाच-किमाश्चर्य बाह्यविद्यायामात्मश्रेयस्करी विद्याऽनल्पाय श्रेयसे कल्पत इति / गर्वपूर्णमिदं वचो निशम्य परीक्षार्थमसौ योगी योगविद्यया सानाविश्चकार / मुनिरपि तदवलेपपरिहाराय मयूरानुत्पादयामास / ततो रुष्टः स गजान् दर्शयामास / मुनिनाऽपि तदङ्कुशधारिणो हस्तिपका निर्मिताः। ओषधिबलेन सोऽवधृत आकाशगमनमकरोत् / सोऽपि तदभावेऽपि व्योमविहारं कृतवान् / एवं सर्वातिशायिविद्यापारावारपारगमिनं मुनि ज्ञात्वा लज्जाभारातिक्रान्तवदनोऽवधूतो मुनिं प्रणम्य दीक्षामग्रहीत् / ____ अथ विहारक्रमेण सूरीश्वर आघाटपत्तनमाययौ / तत्र श्रीसंघस्यादरातिशयमालक्ष्य चतुमासो विहितः / अनन्तरं सरेरुपदेशात्-श्रेष्ठिगोत्रीयो मुकुंदश्रेष्ठी संघ निष्कासयामासोपकेशपुरयात्रायै / विक्रमाद् 164 वर्षव्यतिक्रमे दुर्भाग्यवशात् दुष्कालोऽभवत् / तस्मिन् भीषणे काले सूरेरुपदेशात् तत्पुरवासिभिमिलित्वा कोटिसंख्याकाः मुद्रा व्ययिताः / द्वितीये वर्षेऽपि तथैव प्रबन्धो विहितः / ततः सुभिक्षसमये कोरण्टकपुर-सत्यपुर-भिन्नमालादिषु पत्तनेषु धर्मप्रचारं कृतवान् सरिः शाकंभरीनगरीमात्मना भूषयामास / तत्र नृपो नागभट्टः सूरेः स्वागतमकरोत् / प्रभावपूर्णोपदेशेनाऽसौ गार्हस्थ्यदीक्षादीक्षिवोऽभूत् / प्रजा अपि “यथा राजा तथा प्रजा" इति न्यायेन जिनधर्माभिरुचिर्बभूव / नागभट्टः सूरीश्वरं प्रार्थयामास-भगवन् ! भवतो वृद्धावस्था विद्यतेऽतः कमपि समुचितं शिष्यं स्वपदे स्थापयतु / सोऽपि तद्वचोऽनुमान्य सच्चायिकानुमोदनश्चासाद्य श्रीरत्नभूषणोपाध्याय सूरिपदमदात् / रत्नप्रभसूरीति नाम तस्य चकार / तत आचार्य उपकेशपुरमेत्य 27 दिनान्यनशनं विधाय समाधिना देहमुत्ससर्ज / Page #41 -------------------------------------------------------------------------- ________________ [ 26] वि.सं. 196 तः ] 21 प्राचार्यः श्रीरत्नप्रभसूरिः (चतुर्थः) [ वि० सं० 218 पर ___ श्रीसिद्धसरिपदमाचार्यः श्रीरत्नप्रभसरिरलञ्चकार / असौ श्रेष्ठिगोत्रीयो हंसावलीनगरीवास्तव्यश्चासीत् / पिताऽस्य जसाशाहो माता च पातोलीनाम्नी / तयोः सूनुः-राणानामा / पिता तु निर्धनोऽपि धर्मप्रियोऽभूत् / यदाऽसौ पुत्रो गर्भावस्थायामासीत्तदा प्राक्तनजन्मसुकृतप्रभावेण जसाशाह पारसमणिं प्राप्नोत् / तत्प्रभावाच्च संप्राप्तं सुवर्ण प्रभूतम् / ततः स जिनमन्दिरमकारयत् / षण्णवत्यङ्गुलपरिमिता श्रीमहावीरस्य प्रतिमा निर्मापिता। प्रतिष्ठामहोत्सवाय कोटिमुद्राणां संकल्पः स्वमनसि निर्धारितः। ____अथ नागपुरमलंकुर्वाणं श्रीकक्कसरि श्रीसंघद्वारेणामन्त्रयामास / सूरिरपि भक्तजनस्य प्रणतिततिपुरःसरां विनतिं स्वीकृत्य शिष्यगणगीयमानयशोऽवतंसको हंसावलीमियाय / श्रीसंघः सहितोऽसौ जसाशाहोऽपूर्वस्वागतेन सूरेनगरप्रवेशमकारयत् / स्वधनस्य सद्व्ययार्थं सर्वेषामात्मनश्च कृतार्थतामासादयितुं तेन श्रीभगवतीसूत्रवाचनामहोत्सवः प्रारब्धः / श्रीमती देवी पातोली षट्त्रिंशत्सहस्र 36000 परिमितानां प्रश्नानां तावतीभिरेव सुवर्णमुद्रिकाभिः पूजनमकरोत् / ताभिरेवाऽसौ श्रेष्ठी जिनागमग्रन्थान् लेखयित्वा ज्ञानकोशेऽस्थापयत् / अहो ! येन पारसमणिःप्राप्तःसःकिं किं कर्तुं न शक्रुयात् / तत्रापि धर्ममयैकजीवनः कथं नाम धर्माद् धनमधिकं कुर्यात् / अस्तु / आचार्यस्य चतुर्मासस्थितावेव सर्वग्रहानुकूले शुभ मुहूर्ते पातोली शारदशीतांशुसदृशवदनकान्ति सुतं सुषुवे / महतोत्सवेन तस्य राणाशाहेति नामकरणं स चकार / क्रमेणाऽसौ सूनुः शुक्लपक्षे शशीव वृद्धिमवाप। आचार्यस्तस्य हस्तरेखामाकलय्य तां देवीं पातोलीमवादीत्-तवायं तनयो जिनधर्मे महाप्रभावशाली स्मरणीययशा भविष्यति / तया सहर्षमादृतं सूविचनम् / एकदा जसाशाहः सविनयं सूरिमुवाच-भगवन् ! नूतनमन्दिरे प्रतिष्ठा यदा स्यात् ततः प्रागेकामाद्याचार्यश्रीरत्नप्रभसूरेः प्रतिमा स्थापयितुमभिलषामि भवदाज्ञां संप्राप्य / आचार्येणोक्तम्श्रीतीर्थङ्करप्रतिमास्थापनमात्मकल्याणसाधनाय गुरुमूर्तिस्थापनमनतिप्रयोजनं, गुरुचरणसरोजयो श्वेतसि दैनंदिनं भक्तिभावेन चिन्तनमेव परमार्थतत्वसाधकं "प्रधानाप्रधानयोर्मध्ये प्रधाने संप्रत्ययः" इति न्यायेन त्वमेव तावत् सूक्ष्मदृष्टया विचारयेति / अन्ते चाज्ञा गुरुणामविचारणीयेति स तत्प्रस्ताव स्वमनस्येव स्थापयामास / ततस्तेनमन्दिरसमीप एवौषधालयं ज्ञानकोशालयञ्च निर्मापयितुमादेश दत्तः शिल्पिभ्यः। ____ अथ क्रमेण संप्राप्ते प्रतिष्ठामहोत्सवे तदामन्त्रिता विविधदेशस्था जना अनेकसंख्यकाः साधवः साध्व्यश्च श्रीसंघाश्च समाजग्मुः / न केवलं साधारणा मनुष्याः, बहवो राजानोऽपि तदादरं संमान यितुमत्राययुः / आचार्यस्य वरदहस्तेन मूर्तिप्रतिष्ठा विहिता / जसाशाहेन तत्रत्याः सर्वे सुवर्णमा लामिः सुवर्णकङ्कणैर्याचकाश्च यथेष्ठं वस्त्रान्नादिभिरितरे च सुवर्ण मुद्रिकाभिश्च सत्कृताः। / अहो! सर्वस्वं ददताऽनेन श्रेष्ठिना शाश्वतं यश एव क्रयीकृतमित्येव तत्वम् / / आचार्येणाप्यस्मिन्नवसरे बहवो योग्यता प्राप्ताः मुनयः पदवीप्रदानेनाधिकयोग्यतां लम्भिताः। Page #42 -------------------------------------------------------------------------- ________________ [27] इदमेव केवलं न, अपितु तन्नगराधिपतिर्नृपतिरसौ रामदेवोऽपि मांसमदिराद्यभक्ष्यपरिहारपूर्वक "न हि केनापि राज्येऽस्मिन् जीवहिंसाऽप्रमादेनापि कर्तव्येति सर्वत्रादिदेश / अयमेव वन्दनीयचरणस्य सूरीश्वरस्यालौकिकः कोऽपि विलक्षणः प्रभावविशेषः / परश्च किं वक्तव्यम्-यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन-इति / संक्षेपतः सूरेरुपदेशतः श्रेष्टिना “सन्निमित्त वरं त्यागश्चञ्चले विभवे सति" न्यायप्राप्तमिदं सार्थकतामापादितम् / ___ अथ सर्वकार्यसमाप्तौ मूरिः क्रमेण लाट-सौराष्ट्र-सिन्ध-पञ्जावशौरसेन-प्रभृतिषु देशेषु धर्मप्रचारं कुर्वन् मथुरायामाजगाम / अपरत्र राणाशाहोऽधीतनित्यक्रियो जिनागमकृतप्रवेशस्तत्वजिज्ञासु धर्मभावनाभावितहृदयश्चतुर्मासाधिवासार्थ सूरिं निमन्त्रयामास / सूरिश्च तद्विज्ञापनमङ्गीकृत्य तत्राजगाम। अपूर्वस्वागतविधिना नगरप्रवेशमकारयदसौ श्रेष्ठिपुत्रः। तत्र क्रमशो धर्मरतिसंवर्धनानि व्याख्यानानि जातानि / पश्चाद् राणाशाहस्य संघपतित्वे महान् संघः शत्रुञ्जययात्रायै शुभेऽहनि संपादितप्रस्थानमङ्गलः प्रतस्थे / यस्य कमलाधिवासभृते गृहे पूर्वमपि धर्मकार्याण्यभूवन तदेवावालोच्य संघे कियती जनसंख्येति कथनमनावश्यकम् / एवं क्रमेण शत्रुञ्जयं गत्वा तीर्थयात्रा सम्पाद्य राणाशाहः सूरीश्वरचरणसमीपे दीक्षामगृह्णात् / सूरिणा च रत्नभूषणमुनिरिति तन्नाम कृतम् / / निसर्गत एव तीक्ष्णबुद्धिं सरस्वतीलब्धवरप्रसादं रत्नभूषणमुनिमसौ व्याकरणतर्कसाहित्यादीनि शास्त्राण्यध्यापयत् / अल्पेनैव कालेन स्वप्रतिभातिशयात् सूरेश्च कृपया स एकादशाङ्गपूर्वकं पूर्वाध्ययनं कण्ठेऽकरोत् / एवं सकलशास्त्रकलाकलापकलापिनमसौ श्रीसिद्धसूरिर्वाचनाचार्यपदेन भूपयामास / शास्त्रार्थतत्ववेत्तारश्च तं शाकम्भरीनगर्यधिपतिर्नागभट्टोऽपि वादिचक्रवर्ती-इति पदवीप्रदानेन संमानयामास। . आचार्यः श्रीककसरिः स्वनिधनकालं ज्ञात्वा स्वपट्ट उपाध्यायपदविभूषितं विशालमूर्ति संस्थाप्य तस्य देवगुप्तसूरीति नाम कृत्वा तदनु एकविंशतिदिनान्यनशनं कृत्वा समाधिना स्वर्गमगमदिति पूर्वमुक्तम् / श्रीदेवगुप्तसूरिस्तु -स्वपट्टे वर्षत्रयमेवाधिष्ठितः / तदनन्तरं श्रीसिद्धसूरिस्तत्पट्टमलंचकार / तस्यैवाल्पवयस्के रत्नभूषणमुनावतिमहती कृपाऽतीदिति सुधीभिर्विभाव्यम् / . अथ श्रीसिद्धसरिरासनमृत्युसमय योगदृष्ट्या विज्ञाय रत्नभषणवाचनाचार्यस्य रत्नप्रभसूरिरिति नामपरिवर्तनं विधाय पट्टे प्रतिष्ठाप्य दिवमगमत् / आचार्य श्रीरत्नप्रभसरिरपि गुरोः पद्धतिमनुसरन् क्रमेण धर्माभ्युदयाय विहरन् सत्यपुरमाययौ / चतुर्मासा नन्तरमष्टादश भावुकान् दीक्षयामास / तत्र लक्ष्मणशाहस्य तनुजस्य धर्मसिंहस्य धर्ममयैकजीवनत्वाद् धर्ममूर्तिरति नामाकरोत् / तत उपकेशपुरं गत्वा श्रीमहावीरदर्शनं विधाय सूरिनागपुरमाययौ। तत्रादित्यनागगोत्रीयस्य सहजपालस्याग्रहातिशयाच्चतुर्मासाथ स्थितिं चकार / सहजपालेन च श्रीभगवतीसूत्रवाचना सपादलक्षव्ययेन कारिता / भद्रगोत्रीयेण देवाशाहेन सुरेरनुमोदन माप्य महान् संघः शत्रुञ्जययात्रार्थ निष्कासितः। यत्र सहस्राधिकाः साधवो लक्षपरिमिताश्च भावुका Page #43 -------------------------------------------------------------------------- ________________ [28 आसन् / आचार्यस्य दक्षिणापथे विहारेच्छां ज्ञात्वा संघस्तीर्थयात्रा सम्पाद्य प्रतिनिवृत्तः / देवाशाहेन च संघस्थितेभ्यो जनेभ्यो बहुमानपुरःसरं प्रतिजनं पञ्च मुद्रा उपहारीकृताः / संघश्च विसर्जितः / अथाचार्यस्तु महाराष्ट्रदेशे विहरन् सशिष्यो नन्दपुर-पिष्टपुर-गुडतुरादिषु नगरेषु जिनधर्मप्रचारं कुर्वन् श्रीसंघस्यामन्त्रणमनुमान्य मानखेटनगरे चतुर्मासमकरोत् / महाराष्ट्रप्रान्ते बहवों जैनधर्मस्य दीक्षां प्रापिताः / इतरे च धर्मरहस्यं बोधिताः / अत्र सरेराज्ञां प्राप्य पूर्वमेवागताभ्यां देवभद्र-वीरभद्राभ्यां बौद्धमतानुयायिनो वेदान्तिनश्चाद्वितीयशास्त्रार्थबलेन पराजिता आसन् / आचार्यस्यागमने हेम्नः परमामोद एव / लोहित्याचार्येणात्र पुरा जिनधर्मलताबीजं निक्षिप्तमासीत् / ततो विहरद्भिरन्यैराचायैस्तद्वीजं धर्मप्रचुरव्याख्यानैः सिञ्चितमाचार्येण रत्नप्रभसरिणा च वर्षद्वय पर्यन्तमत्र विहरणेन समुद्भुतपत्रशाखाप्रशाखं विकासितम् / परिपूर्णविकासाय तत्र शिष्यान् संस्थाप्य स ततो विहारमकरोत् / अथ क्रमेण पर्यटन्नवन्तिकामागच्छदाचार्यः तत्र श्रेष्ठिगोत्रीयेणामात्येन रघुवीरेण सूरीश्वरस्य नगरप्रवेशमहोत्सवे सपादलक्षं व्ययितमासीत् / तत्रैव श्रीसंघश्चतुर्मासार्थ प्रार्थयत / भद्रगोत्रीयेण मालाशाहेन श्रीभगवतीसूत्रवाचना कारिता / प्रतिप्रश्नं सुवर्णमुद्रिकया, समाप्तौ च हीरकनीलपद्म रागादिभो रत्नैश्च पूजा विहिता / बप्पनागगोत्रीयो मेघाशाहः स्वनिर्मितजिनालये श्रीपार्श्वनाथप्रतिमायाः प्रतिष्ठापनं मूरिहस्तेन कारयामास / तस्मिन्नवसर एकविंशतिपरिमितैर्भावुकैर्दीक्ष गृहीता। ___एवमवन्तिप्रान्ते विहरन्तं तमाचार्य मथुरानगरीसंघाधिपतिरागत्य प्रणम्यावादीद्-भगवन् बौद्धाचार्यो बुद्धकीर्तिमन्त्रबलेनास्मान् पीडयति / बहव उपद्रवास्तेन कृताश्चरमा सीमा वर्तते एवं निशम्यासौ मथुरापुरीं सशिष्यः प्रतस्थे / सभायां शिष्येण धर्ममूर्तिना प्रतिज्ञा कृता-यःकोजी धर्मवाद-विद्यावाद-मन्त्रवादेषु शास्त्रार्थ कुर्यात्तदर्थमहं दृढपरिकरोऽस्मीति / श्रावकाश्च पुनरुज्जीवित इवानन्दमग्ना बभूवुः / ततो रात्रौ बद्धकीर्तिः सूरेनिवासस्थलेऽभिमन्त्रितां शक्तिं प्रेषयामास ध्यानादिक्रियासक्तास्ते शिष्या नाजानन् / किन्तु सर्वविद्यापारगो धर्ममूर्तिबुद्धकीर्तिप्रेषिता शक्ति रियमिति ज्ञात्वा स्वविद्याबलेन तस्या अवष्टम्भनमकार्षीत् / तदवष्टम्मेन सहैव स बुद्धकीर्तिरप्य वष्टब्धः / प्रातर्जनास्तं तदवस्थं ददृशुः / असौ तु दिवाभीत उलक इव मुखमपि दर्शयितुं : शशाक / अन्ते च सूरेः सकाशं क्षमामयाचत / बन्धनाच मोचितः / एवं तत्र तं पराजित्य पंजाब सिन्धकच्छसौराष्ट्रादिषु विहरणक्रमेण सूरीश्वरः कोरण्टकपुरमगमत् / तत्रावस्थितेन कोरण्टकगच्छी येन कनकप्रभसू रणा श्रीसंघेन चास्य नगरप्रवेशो विहितः / श्रीसंघस्यादरातिशयात्तत्रैव चतुर्मा विहितः / सूरेरुपदेशश्रवणायागतः प्राग्वटवंशीयश्चन्द्रावतीनगरीमन्त्री कर्णः सविनयमवद आचार्य ! चन्द्रावतीमलंकर्तुमर्हति भवान्, भगवतीं दीक्षा ग्रहीतुमिच्छामि / सूरिरपि तदङ्गीचकार चतुर्माससमाप्तौ तत्र विहारमकरोत् / शुभागमनसंफुल्लवदनकमलो मन्त्री भव्यसमारोहेण नग प्रवेशमकारयत् / जिनमन्दिरेष्वष्टाह्निकामहोत्सवश्च विहितः / तत्र सपादलक्षमुद्रिका विनियुक्ताः Page #44 -------------------------------------------------------------------------- ________________ [ 2 ] अन्ते चाष्टादशभिर्भावुकैरसौ कर्णो दीक्षामग्रहीत् / ततो बहुषु ग्रामनगरेषु विहरन्सरीश्वर उपकेशपुरमाजगाम / सूरेरुपदेशमासाद्य तत्रत्यो राजा मूलदेवः श्रमणसभायोजनमकरोत् / तत्र पञ्चसहस्राधिकाः श्रमणा लक्षाधिकाश्च श्रावकाः समागच्छन् / सर्वत्र धर्मप्रचार एव युष्माकं कल्याण. साधकः पन्थाः स एवाश्रयणीय इति सर्वानुपदिदेश / तत्रैव धर्ममूर्तिं स्वपदे सर्वानुमत्याऽस्थापयत् / पक्षदेवसूरिरिवि नाम चकार / ततः सच्चायिकावचनानुसारेण पट्टाभिषेककालेऽष्टमासाधिकसप्तविंशतिदिवसमध्ये केवलमेकविंशतिदिनान्यवशिष्टानीति मत्वा समीपस्थं लुणाद्रिं गत्वाऽनशनेन समाधिना च देहमत्यजत् / ____अनेन सूरिणा जिनशासनस्यैकोनविंशतिवर्षाणि महती प्रभावना विहिता / वि० सं० 218 तः] २२प्राचार्यः श्रीयक्षदेवसूरिः (चतुर्थः)[ वि० सं० 235 प. श्रीरत्नप्रभारिपट्टे श्रीयक्षदेवमूरिः समायातः / असौ सत्यपुरवास्तव्यः सुचन्तिगोत्रीयश्चासीत् / अस्य पिता लक्ष्मणसिंहः, सुशीला मांगीनामिका च माता / अस्य वाल्योचिता क्रीडा प्रतापगुणसंपन्नपुरुषसदृशी, विनयादिगुणा धार्मिकाः संस्काराश्च कुलपरम्पराप्राप्ता आसन् / अस्य जनको व्यापारेऽपरिमितं द्रव्यमवाप / ततो धर्मभावनासमन्वितमानस उपाध्यायपदवीकेन पद्महंसेन प्रेरितः सत्यपुरे जिनालयं विशालं निर्माय तत्रैकचत्वारिंशदंगुलप्रमाणां भगवतः श्रीपार्श्वनाथस्य प्रतिमां कारयित्वा प्रतिष्ठापयामास / शत्रुञ्जययात्रार्थ संघनिष्कासनमपि व्यधात् / संघस्थितेभ्यः तीर्थयात्राप्रतिनिवृत्तोऽसौ रजतस्थाली सुवर्णचषकसहितां पंचमुद्रासंयुक्तां प्रतिजनं ददौ / एवं कोटिप्रमाणं द्रव्यं धर्मकर्मणि विनियुज्य प्रभूतपुण्यमासेसाद / अतस्तस्य सूनुरपि यथा पिता तथा पुत्रः स्यादेव / / ___एकदा सत्यपुरे कश्चिद् योगी समागच्छत् / असौ स्वविद्यावलेन विविधान् पशुपक्ष्यादीनुत्पाद्य, गगगगामिन्या च विद्यया सर्वान् विस्मयतामापाद्य समतोषयत् / स धर्मसिंहोऽपि तत्र गत्वा तं पप्रच्छ-प्रभो ! आत्मकल्याणमार्ग जानाति भवान् ! / तेनोपदिष्टं ब्रह्मचर्यव्रतपालनम् / यथा = नैष्ठिकं ब्रह्मचर्यन्तु ये चरन्ति सुनिश्चिताः / देवानामपि ते पूज्याः पवित्रं मंगलं तथा / शीलानामुत्तमं शीलं व्रतानामुत्तमं व्रतम् / ध्यानानामुत्तमं ध्यानं ब्रह्मचर्य सुरक्षितम् // मैथुनं ये न सेवन्ते ब्रह्मचर्यदृढव्रताः ते संसारसमुद्रस्य पारं गच्छन्ति सुव्रताः / एकराव्युषितस्याऽपि या गतिब्रह्मचारिणः / न सा शक्रसहस्रेण वक्तुं शक्या युधिष्ठिर // इत्याकर्ण्य ब्रह्मचर्यव्रतमसौ जिनमुनिपार्श्वमाययौ / ततोऽपि जं विवित्तमणाइन्नं रहिअंयोजणेण य / बंभचेरस्सरक्खहा आलयं तु निसेवए // इत्यादिभिर्जिनागमप्रतिपादितनियमैर्ब्रह्मचर्य जग्राह / इतश्च सद्भाग्यवशाद् रत्नप्रभसरिः समाजगाम सत्यपुरम् / तत्र सूरेाख्यानं श्रुत्वा जातवैराग्यो जनकमापृच्छ्याष्टादशभिः श्रावकैर्दीक्षां स्वीचकार / ततश्च धर्ममूतिरित्यमिधानं प्राप / कालान्तरेऽधीत्य सर्वविद्यापपश्चोऽद्वितीयपाण्डित्यपञ्चाननः सरिपदमासाद्य यक्षदेवसरिरिति नाम्ना भगतीतलविश्रुतो वभूव / Page #45 -------------------------------------------------------------------------- ________________ [30] अथासौ यक्षदेवसूरिविहारक्रमेण भिन्नमालनगरं भूषयामास / तत्र महामहिमशालि व्याख्यानमभवत् / अत्र वेदधर्मानुयायिनो विप्रास्तेषां जिनधर्मानुरागिणामुत्कर्षमसहमाना एवं मिथोऽब्रुवन्-महतीमपि योग्यतां दधाना जैनाचार्या गौरवेणास्मानुल्लङ्घयितुं कदापि न शक्ताः, “वर्णानां ब्राह्मणो गुरुः, "ब्राह्मणश्च जगद्गुरुः" इत्यनेन गुरुपदभाजामस्माकं तु ते शिष्यभूता एवेति ब्राह्मणानां परमार्थतस्तदानीन्तने समये भ्रष्टचारित्र्यादहंभावयुक्तानि वचांसि श्रुत्वा श्रावकास्तथैवाचार्य निवेदयामासुः / सूरिस्तानाह सभायां सप्रमाणम्-"सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः / सर्वभूतदया ब्रह्म एतद् ब्राह्मणलक्षणम्" क्षमा दमो दया दानं सत्यं शीलं धृतिघृणा / विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् / इति तद्धर्मशास्त्रोक्तानि लक्षणानि स्युस्तेषां तावश्यमेव ते जगद्गुरुत्वेन संमाननीया एव सः / किन्त्विदानीं ये हि दृश्यन्ते ते तु नाममात्रधारका ब्राह्मणमात्मानं मन्यमाना ब्राह्मणब्रुवा एव / न खलु ब्राह्मणत्वेन ब्राह्मणोऽसौ कथ्यते, शास्त्रप्रतिपादिताचारानुष्ठानेनैव स तथैव तत्वतो ब्राह्मणपदवाच्यो भवति / अन्यथा-सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियनिग्रहः / सर्वभूतदया नास्ति एतच्चाण्डाललक्षणम् // चतुर्वेदोऽपि यो भूत्वा चण्डं कर्म समाचरेत् / चण्डालः स तु विज्ञेयो न वेदास्तत्र कारणम् // इत्यादिभिः प्रमाणैर्ज्ञायते यद् वेदाध्यनशीलोऽपि तपःसत्यदयादिगुणेहींनश्चाण्डाल इत्युच्यते शास्त्रेष्वपि / अस्मदीयशास्त्रेष्वपीदं मतमेवं प्रतिपादितम्-नवि मुंडिएण समणो-न ऊंकारेण बंभणो, न मुवणीरण्ण वासेणं कुस चिरेण ताबसो / समयाए समणो होइ बंभचेरण बंभणो, नाणेण मुणी होई तवेण होई तावसो। कम्मुणा बंभणो होई कम्मुणा होई खत्तिओ, वइस्सो कम्मुणा होइ सुद्दोहोइउ कम्मुणा // इत्येवं, प्रचुरप्रमाणपूर्ण वस्तुतो ब्राह्मणधर्मनिरूपणरूपं व्याख्यानमाकर्ण्य ते ब्राह्मणा स्वस्वरूपं वुबुधिरे। अन्यान्यपि स्वमताक्षेपपरिहाराय दृढ़तरप्रमाणपुरं व्याख्यानान्यदात्सूरिः सभायाम् / अन्ते ते ब्राह्मणाः पञ्चदशशतपरिमिता जिनधर्म स्वीचक्रुः। _____ एवं सर्वत्र परमार्थतो धर्मप्रचारेण विहारं कुर्वन् चक्रवर्तीव चतुर्दिक्षु दुन्दुभिनादमिव जिनधर्मव्याख्याननादं कुर्वन् क्रमशश्च स्तम्भतीर्थमाययौ। तस्मिन्नेव समये बौद्धाचार्यों जयकेतुरपि बुद्धमतप्रचारार्थ तत्रागतोऽभूत् / अपरेयुः शौचादिक्रियायै बहिर्गच्छद्भिः सूरेः शिष्यैः सह मतमतान्तरविषयको वार्तालापोऽभूद् बौद्ध भिक्षुकाणाम् / तत्र जिनधर्मरहस्यावेदकानि वचनान्याकर्ण्य तैरनुमितं यन्नात्र वयं सफलप्रयत्ना भविष्याम इति विचिन्त्य तेऽपरेऽहनि पलायिताः / ततः श्रीसंघस्य प्रार्थनां स्वीकृत्य तत्रैव चतुर्मासमकरोदाचार्यः / चतुर्माससमाप्तौ प्राग्वटवंशीयस्य धरणशाहस्य संघपतित्वे शत्रुञ्जययात्रार्थ संघः प्रस्थितः। महताऽनुकूल्येन तत्र तीर्थयात्रां कृत्वा संघः प्रतिनिवृत्तः / ___ अथ शिष्यमण्डलयुत आचार्यस्तु सौराष्ट्रदेशमगच्छत् / तत्र धर्मव्याख्यानादिना महती धर्मवृद्धिः सम्पादिता / पूर्वमेव धर्माभ्युदयार्थ विहरद्भि : सूरिशिष्यः सप्रश्रय सेवा विहिता / ततः कच्छदेशे रहीड-नडिया-कोमनपुरादिषु ग्रामनगरेषु धर्मतत्वं बोधयन्नसौ तत्प्रान्ते सर्वत्र धर्मजागृति Page #46 -------------------------------------------------------------------------- ________________ [31] मकार्षीत् / तदनु सिन्धप्रान्तमेत्य केषांचिन्नूतनमन्दिराणां प्रतिष्ठा बहुसंख्यकानां धार्मिकाणां दीक्षाप्रदानमप्यकरोत् / ततोऽसौ पञ्जाबदेशे विहरन् लवपुरं [लोहाकोटं] जगाम / तत्रैव चतुर्मासो विहितः / सूरिकृतज्ञानोपदेशेन मंत्री नागसेनः पञ्चदशपरिमितेर्भावुकैर्दीक्षामग्रहीत् / तस्य निधानकलशेति नाम चकार / पश्चात् तक्षशिलायां यात्रां विधाय हस्तिनापुरे सिंहपुरे च धर्मोपदेशं कृत्वा क्रमेण मथुरामात्मना भूषयाञ्चकार। तत्र बौद्धाचार्यों जयकेतुरपि स्वशिष्यमण्डलीयुतः समाजगाम / तेन स्तम्भतीर्थेऽपमानस्य प्रतीकारार्थमाह्वानं दत्तम् / ततो बलभद्रमहीपालस्य सभायां शास्त्रार्थो निश्चितोऽभवत् / तत्रापि सूरीश्वरशिष्यौ वीरभद्र-देवभद्रौ तं पराजय प्रापयामासतुः / मथुरायामेव चतुर्मासं विधाय भावुकान् दीक्षयामास, अभिनवजिनालयाना प्रतिष्ठां च संपादयामास / ततो विहरन् सूरीश्वरोऽवन्तिदेशमलंचकार / धर्मोपदेशमदात् भावुकेभ्यः / भक्तजनवचनमाकाऽसौ चित्रकूटमगात् / श्रीसंघेनादरातिशयानगरपवेशः कृत आचार्यस्य / असाधारणचमत्कारजनकं धर्मभावनाभावितं व्याख्यानं श्रुत्वा श्रोष्ठिगोत्रीयः सादामन्त्री श्रीभगवतीसूत्रवाचनां कारयामास / सपादलक्षव्ययेनासौ शाश्वतं कल्याणमाससाद / तदनन्तरमेकविंशतिसंख्यकैनैः सूरीश्वरपार्श्वे दीक्षा गृहीता। पश्चादसौ सरिराघाटपत्तनमाययौ / तत्र समुचितयोग्यतां प्राप्तेभ्यो मुनिभ्य उचितपदार्पणविधिमकरोत् / अध्यापितसकलागमतत्वं सर्वगुणसंपन्नं निधानकलशं मुनि कुमटगोत्रीयेण मन्त्रिणा रणदेवेन सम्पादित महामहोत्सवे उपाध्यायपदेन भूषयामास / ततश्च मरुधरमाजगाम / तत्र व्याख्यानदानेन सर्वे भक्तजना आदृताः कृताः / पश्चादुपकेशपुरं सशिष्यः सूरीश्वरोऽगमत् / श्रीसंघो भव्यमहोत्सवेन नगरप्रवेशमकारयत्। तत्रोपाध्याय निधानकलशं सरिपदे संस्थाप्याऽनशनेन समाधिना च स्वर्गमगमत् / पट्टावलीकारैः श्रीयक्षदेवसूरिशासनकाले बह्वयो धर्मोपदेशादिभिः परिपूर्णा घटना उल्लिखिताः किन्तु तत्र दिक्प्रदर्शनमात्रमत्र प्रदर्श्यते / / आभानगयां बप्पनागगोत्रीयस्य देशलशाहस्य- पुत्रो जगाशाहः, पितुरिव परमधार्मिको दानवीरश्वासीत् / देशलशाहस्य व्यापारकाले महद् दुर्भिक्षमभूत् तदा कोटिद्रव्येणाऽसौ प्राणिनां प्राणत्राणमकार्षीत् / तथैवाऽस्य जगाशाहस्य समयेऽपि तादृश एव भयंकरो दुष्कालोऽभवत् / दानवोरो परमकारुणिकः स महता द्रव्येण सर्वान् प्राणिनः पोषयामास / अन्नादिकमपि तदालभ्य जातम् / तथापि समुद्रयानद्वारा तदानेतुं प्रयत्नमकरोत् / दुर्भाग्यवशात्तान्येव समुद्रयानानि मध्य एवामजन् / ततः परमदुःखितो जीवानामुद्धाराय स्वदयिताया मणिमौक्तिकसुवर्णमयान्याभूषणानि भूभ्यादिकमपि च विक्रीय कर्तव्यपालनोत्सुकोऽभवत् / तथापि दुष्कालोऽसौ न पूर्णतां प्राप / याचका गृहमायाता निष्फला प्रतिनिवृत्ताः / असौ श्रोष्ठिपुत्रः स्वप्राणानुद्दिश्येदमस्मरत्-व्रजत व्रजत प्राणा पर्थिनि व्यर्थतां गते / पश्चादपि हि गन्तव्य पुरस्ताद् गमनं वरम् / अन्ते देवीं सच्चायिकां मनसा चिन्तयामास / देव्या च तस्मै द्रव्यकोशोऽक्षयो दर्शितः / ततः सर्वानन्नादिभिः परिपोष्य दुष्कालभविवाहयाञ्चकार / Page #47 -------------------------------------------------------------------------- ________________ [ 32 ] व्यतीते हि कियति काल उपकेशपुरमुद्दिश्य स संघ निष्कासितवान् / प्रभूतं धनं तेन तत्र व्ययितम् / पश्चाद् रैवताचलं शत्रुजयगिरिं च गन्तुमियेष / किन्तु निदाघकालस्यासन्नत्वात्तत्र यात्रार्थ यातुं नाशनोत् / अतः कोटिपरिमितं द्रव्यं तत्र प्रेषितम् / तावदेवोपकेशपुरे याचकेभ्यो ददौ / तस्मिन् समये 222 विक्रमसंवत्सरोऽभूत् / अतो याचकैरेव जगाशाहस्य स्मरणीयकीर्तये ओसवालजातीयानां प्रादुर्भावसमयः संस्थापितः / इदं वस्तुतो भ्रममूलकमेव / यतस्तस्मिन् काले ओसवालेति शब्दोऽपि जन्म न लेंभे / वि० सं० 235 तः ] 23 श्राचार्यः श्रीकक्कसूरिः। चतुर्थः [ वि० सं० 260 पं० श्रीयक्षदेवसूरिपट्टे श्रीकक्कमरिः स्थानमवाप / असावादित्यनागगोत्रीयो लवपुरनगरवास्तव्यश्चासीत् / कनकसेनोऽस्य पिता, माता च शीलसौजन्यादिप्रभाववती प्रभावती / तयोरसौ नागसेनो नाम सूनुः / प्रभावती पूर्णदौहृदाऽसनप्रसवाऽसीत्तदा सा स्वप्ने नागेन्द्रं ददर्श / ततः समाप्ते दशमे मासे शुमे मुहूर्ते सा तेजःपुंजप्रभावपूर्ण सुतमसूत। स्वप्नदर्शनानुकूल तस्य नागसेनेति नामकरणमकरोत् / क्रमशः पाठशालायां विद्याध्ययनं कुर्वाणोऽसौ प्राक्तनजन्मसंस्कारेण सकलशिष्यमण्डलीमण्डनायमानो गुरुप्रसादसमासादितविद्यामृतप्रवाहः सकलकौटुम्बिकानां मनांसि रंजयामास विद्याकृतविनयादिभिगुणैः / अथ युवावस्थायामेवास्योद्वाहविधिः खेमाश्रावकस्य कन्यया प्रशस्तकुलवत्या नन्दया सहाऽभूत् / अतीते काले राजनैतिकचातुर्येण स्वपितुरेव मन्त्रिपदं राज्ञा लम्भितः / स्वकर्तव्ये दत्तादरो बभूव / ___ अथ तस्मिन् समये पंचनद (पंजाब) प्रान्ते विहरन् श्रीयक्षदेवमूरिर्लवपुरमाययौ / परमानन्दसंभृतान्तरंगस्तत्रत्यः श्रीसंघो भव्यसमारोहेण सूरेः स्वागतविधिना नगरप्रवेशं व्यधात् / मन्त्री नागसेनोऽपि धर्मरुचिरधिकप्रमोदमोदमानमानसो बभूव / सूरेदार्शनिकतात्विकविषयकं, संसारे कुटुम्बिनां स्वार्थसाधकताप्रतिपादक, लक्ष्म्याश्चञ्चलतासूचकं, जीवितस्य क्षणभंगुरतानिवेदकं च व्याख्यानमेकमना अशृणोत् / ___ तत एकदा पर्वदिनेऽनेन पोषितव्रतमनुष्ठितम् / अवकाशसमये वैराग्यरागरंजितस्वान्तोऽसौ सूरिमभ्येत्य सविनयमिदमवादीत् भगवन् ! कथमहमात्मकल्याणं साधयामि, कथं च पंकमग्नानां पशूनामिव पामराणामस्मत्सदृशानामसारसंसारादुद्धारो भवेदिति / सम्पादितसर्वकर्मणस्ते निवृत्तिमागोंश्रयणादृते नान्यः कश्चन क्षेमङ्करः पन्था इति तमेवानुसरेति सूरिकथितमुपदेशामृतं पीत्वा पूर्णहृदयोऽसौ नमस्कृत्य गुरुपोषितशालामाजगाम / शयनकाले च पौरषीं पठन् -एगोऽहं नत्थि मे कोइ नाहमन्नस्स कस्सइ / एवं अदोणमणसो अप्पाण मणु सासई / 1 / एगो मे सासओ अप्पा नाण दंसण संजुओ। सेसामें वाहिरा भावा सब्बे संजोग लक्षणा / 2 / संजोग मूला जीवेण पत्ता दुःख परम्परा / तम्हा संजोगसंबंधं सव्वं तिविहेण वोसिरिअं / 3 / एतासां गाथानामुपरि सूक्ष्मदृष्टया विचारमकरोत् / ततः सुप्तोऽसौ स्वप्ने सूरेवरदहस्तेन न केवलं दीक्षितमपित्वाचार्यपदारूढमात्मा Page #48 -------------------------------------------------------------------------- ________________ [ 33 ] नमपश्यत् / राज्ञा निवारितोऽन्ते चानुज्ञातः शुमेऽहनि प्रवज्यामङ्गीचकार परिकरकमलेन / पश्चान्निधानकलशेत्यभिधानकोऽभूत् / क्रमेण काव्यव्याकरणतर्कशास्त्रकुशलो जिनागमधर्ममर्मावेदनकर्मपारगो गुरुकृपाप्राप्तपूर्णप्रसादोऽसौ श्रीककसूरिरितिनाम्ना विश्रुतयशोनिधिरोचार्यों बभूव / ___ अथोपकेशपुराद् विहरन् मरुधरप्रान्ते धर्मोपदेशं कृत्वा सर्वान् सत्पथमार्गानुगामिनश्चकार श्रीककसरिः / तस्मिन्नेव कर्मणि स सफलयत्नो बभूव / शुभोज्ज्वलभावनानुष्ठितं कविश्यमेव सफलं भवति। ___एकदाटवीं गच्छन्नसौ देव्यै बलिकरणायोग्रतान् बहून् जनान् विलोक्य दयार्द्रचेतास्तान् सद्धर्ममुपदिश्य सन्मार्गेऽस्थापयत् / . ____ ततश्चन्द्रावती भूषयामास / श्रीसंघस्याग्रहातिशयं दृष्ट्वा तत्रैव चतुर्मासावस्थितिं व्यधात् / तत्र सूरीश्वरस्यालौकिकप्रभावपूर्ण व्याख्यानमाकर्ण्य डाबराशाहस्यात्मजः कल्याणादिभिर्दीक्षा गृहीता / डाबराशाहोऽपि शत्रुञ्जययात्रायै संघं निष्कासितवान् / एवं तीर्थयात्रां कृत्वा सूरिः सौराष्ट्रदेशं ययौ / तत्र वर्धमानपुरे देदाशाहेन श्रावकेण महावीरमन्दिरं निर्मापितमासीत्तस्य प्रतिमास्थापनपुरःसरी प्रतिष्ठामकरोद् वरदहस्तेनाचार्यः / ततो विहरन्नसौ कच्छपान्ते माण्डव्यपुरमाजगाम / तत्र चतुर्मासो विहितः / धर्मतत्वं च पोधिताः सर्वे / / : एकदा व्याख्याने कश्चिद् एवमवादीत जिनधर्मः केन कदा प्रचारितः 1 सूरिस्तमाह अनादिकालादेव प्रवृत्तो जिनधर्मः / सृष्टेरनादित्वेन तत्सहकृतसंबन्धेन धर्मोऽयमप्यनादिरेव / तत्र का ते शङ्का वर्तते / अस्तु, तर्हि कथमेवमुच्यतेऽत्र प्रथमस्तीर्थङ्करः ऋषभदेव इति / सूरिरुवाच कालापेक्षामाश्रित्यैवमुच्यते / जिनागमे द्विविधः कालो वर्णितः-उत्सर्पिणीकालः, अवसर्पिणीकालश्चेति / अवसर्पिणीकाल एव 24 तीर्थङ्कराः प्रादुर्भूताः। व्यतीता एवमनन्ता उत्सर्पिणीकालावसर्पिणीकालाः / व्यतीतेषु तेषु चतुर्विंशतिपरम्परास्तीर्थङ्कराणामपि व्यतीताः / एवं सुविशदीकरणेन व्याख्यानेन तत्र सर्वे सूरेरसाधारणागमकौशलं ज्ञात्वा विस्मयान्विता बभूवुः / अत्र प्रान्ते विहारकाले बहूनां नूतनमन्दिराणां प्रतिष्ठा, भावुकानाञ्च दीक्षाप्रदानमुपदेशेन च धर्मप्रचारश्च सूरिणा कृतोऽभूत् / - अथैवं धर्माभ्युदयाय दृढमत्यत्नः सूरिः सिन्धदेशमलंचकार / डमरेलपुरे चातुर्मासी निर्धारिता / महादेवनामा श्रावकः संपत्तिशीलस्तत्राऽसीत् / एकदा सूरिं प्रणम्यावदद् भगवन् ! यक्षदेवसूरिपार्श्वे मया परिग्रहवतं स्वीकृतमासीत् / अत एतावत्कालावशिष्टं प्रभूतं द्रव्यं सञ्चितं कस्मिंश्चित्सत्कर्मणि विनियोक्तव्यमास्ते / तद् भवानेवादिशतु / तीर्थङ्करनिर्वाणभूमिभृतश्रीसम्मेतशिखरयात्रायै संघायोजनमेवातिश्रेयस्कर कार्यमिति सूरिस्तमाह। एवमाचार्यवचनमादृत्योपस्थितं चतुर्विधं संघमामन्त्र्य च सूरीश्वराधिष्ठातृत्वे संघो शुमेऽहनि निष्कासितः। प्राप्य च सम्मेतशिखर विधाय च तीर्थयात्रामाचार्यः संघपति महादेवमाहूयाब्रवीत् / विचार्यमाणे सत्ययमेव तेऽभिप्रेतकल्याणसाधको दीचाकालः / सूविचः समधिकश्रद्धयाऽनुमान्य पुत्रानापृच्छ्य भार्यासहितोऽसौ ज्येष्ठं पुत्रं संघपतित्वे Page #49 -------------------------------------------------------------------------- ________________ [ 2] नियुज्य चतुर्दशसंख्यकैर्भावुकैः सह दोक्षामग्रहीत् / एकदा रात्रौ निद्रामुक्तमाचार्यमुपेत्य देवी सच्चायिका तत्र वन्दनं विधायात्रवीत्-सरे ! कल्याणकलशं मुनिमाचार्यपदे संस्थाप्य भवांस्तु पूर्वदेशे विहारं करोत्विति / ततः साऽन्तर्दधे / आचायोऽपि संघमेकत्र कृत्वा कल्याणकलशं स्वपट्टे स्थापयामास / देवगुप्तसूरिरिति तदभिधानमकरोत् / पञ्चशतसंख्यकैः शिष्यैः सह श्रीकक्कसूरिस्तत्र स्थितः / देवगुप्तसूरिरवशिष्टान् शिष्यानादाय संघेन सह प्रतिनिवृतः महादेवस्य ज्येष्ठपुत्रो लाखाशाहो डमरेलपुरमागत्य स्वामिवात्सल्यं विधाय प्रतिजनं पञ्चसुवर्णमुद्रापभावनां कृत्वा संघं विससर्ज / अथाचार्यः पूर्वदेशे बौद्धधर्मस्य प्राधान्यमासीदतः पूर्वपान्तीयग्रामनगरेषु योग्यान् शिष्यान् प्रेषियत्वा स्वधर्मप्रचारं कारयामास / स्वयमपि तत्र तत्र विहरन राजगृह-चम्पा-वैशाला-कपिलवस्तुवाणिज्यपुरादिषु जिनधर्माभिवृद्धिकराणि व्याख्यानानि दत्वा स्वकर्तव्यपालनं यथार्थमकरोत् / योगवलेन स्वमृत्युसमयं विचिन्त्य सम्मेतशिखरमेत्यानशनेन समाधिना च दिवमगमत् / __ आचार्यस्य शासनकाले वंशावल्यामेका रमणीया घटनोङ्किता-यथा सिन्धदेशे वीरपुरनगरे वाममार्गानुयायिनां सोमरुद्रनामाऽग्रेसरः समागच्छत् / स मन्त्रविद्याबलेन चमत्कारं दर्शयितुमेकदा सायंकाले जिनमन्दिरात प्रतिमां तडागे नीत्वा पश्चान्मन्दिरमानयति स्म / जनांश्चावादीत्-जैना जिनालयस्थं देवं जलमेव न पाययन्ति तत एव प्रतिमा स्वयं जलं पातुं तडागमागच्छति / एवं हि दिनान्यष्टौ व्यतीतानि / जैनाश्च परमदुःखिताः ‘कमपि विद्याविचक्षणं जिनमुनिमानेतुमितस्ततः प्रयतमाना विफलप्रयत्ना बभूवुः / अथ कदाचित्तः कर्णपरम्परया श्रुतं यद् डमरेलपुरे सर्वागमनिपुण आनन्दनामा मुनिः सर्वातिशायिविद्याबली वर्तत इति / ते च संघस्याप्रेसरं प्रेषयित्वा तमानाययामासुः / कृतश्च समारोहपूर्वकं तस्य स्वागतम् / असौ सोमरुद्रो दैनंदिनक्रमेणाद्यापि तां प्रतिमां तडागं प्रति नेतुं कृतमन्त्रबलो बभूव / प्रतिमा तु मन्दिरान्निर्गत्यापण एव स्थिरीभूता प्रयत्नेनाप्यग्र नेतुमशक्याऽसीत् / अपरत्र आनन्दो मुनि गरे स्थितानि यावन्ति शिवलिंगानि देवा देव्यथा सन्तानि सर्वाण्येव स्वविद्याबलेन नीत्वा तत्रैवास्थापयत् यत्र जिनप्रतिमा स्थिताऽभूत् / उभयत्र चोभौ स्थितौ / जनाश्च दर्शनाय बहव उपस्थिताः / जिनमुनिः सोमरुद्रमब्रवीत्. महात्मन् ! सर्वा इमाःप्रतिमा भवान् तडागं स्वमन्त्रबलेन नेष्यति तर्हि भवदीयः शिष्योऽहं भविष्यामि / अहं यदि ता जिनालये मदीयविद्याबलेन नयेयं तर्हि भवता मदीयं शिष्यत्वमङ्गीकर्तव्यम् / लोकनिन्दया यद्यपि स्वीकृतमिदं सोमरुद्रेण किन्तु किमपि कर्तुं नासौ समर्थोऽभूत् / अथ मुनिरानन्दः सर्वान् देवीन् देवीश्चादिदेश-भो देवताः! यूयं सर्वे प्रतिमामेतां जिनालयं प्रापयत / एवमुक्ते सर्वे ते जिनालयं मस्थिताः। मन्दिरमागत्य प्रतिमा स्वस्थाने स्थापिता / असौ दीनवदनः सोमरुद्रोऽपि मुनेः शिष्योऽभवत् / अनेन चमत्कारेणातिमहती जिनधर्मप्रभावना जाता। वंशावलीकारो लिखति यदधुनापि जिनमन्दिरे देवा देव्यश्च विद्यन्त एव / Page #50 -------------------------------------------------------------------------- ________________ [ 35 ] वि सं 260 तः] 24 श्राचार्यः श्रीदेवगुप्तसूरि:- (चतुर्थः) (वि. सं.२८२ 50 - श्रीककररिपट्टे कुमटगोत्रोद्भवः काव्यकलाविचक्षणः श्रीदेवगुप्तसरिः / चन्द्रावतीनगरीवास्तव्यः / अस्य जनकोवाणिज्यकलानिष्णातो डाबराशाहो माता च धर्मपरायणा पन्नानामिकाऽसीत् / तयोः पुत्रः कल्याणनामा प्राक्तनादृष्टवशादधिकप्रभावपूर्णमानसोऽभूत् / / ___एकदा ग्रामानुग्रामं विहरन् सूरीश्वरश्चन्द्रावतीमाययौ / अन्येद्याख्यानसमये सूरिणा सामुद्रिकशास्त्रप्रतिपादितानि शुभाशुभचिह्नानि वर्णितानि / आचार्यस्य सारगर्भितां देशनां निशम्य कल्याणः सूरेः समीपमुपेत्य सविधवन्दनां विधाय स्वहस्तं दर्शयामास / सूरिश्च हस्तस्थितानि शुभसूचकानि चिन्हानि दृष्ट्वा तमवदत्-यदि त्वं दीक्षितः स्यास्तदा महान् जिनशासनप्रभावक एवेति / भव्य ! जाजावच्चइ रयणी तसा पडिनियत्तइ / अधम्म कुणमाणस्स अफला जन्ति राइओ // जाजा वच्चइ रयणी न सा पडिनियत्तइ / धम्म कुणमाणस्स सफला जन्ति राइओ // . इति गाथां विज्ञायात्मनः कल्याणमार्गमाश्रयस्व कल्याणिन् ? एवं परमवैराग्यपूर्ण सूरेरूपदेशं निशम्य विरक्तहृदयोऽभूत् कल्याणः / पितरौ चामन्त्र्य द्वाविंशतिपरिमितैर्जनैः सार्द्ध दीक्षामगृह्णात् / परिश्च तं जिनागमसिद्धान्तरहस्यावेदकानि शास्त्राणि, न्यायव्याकरणसाहित्यादीनि चाध्यापयामास / प्रकृत्या कुशाग्रबुद्धिरसावल्पसमयेन सर्वागममर्मपारगो व्याख्यानाख्यानेतिहासादिषु पण्डितप्रकाण्डो बभूव / कालान्तरे सूरिश्च स्वपट्टे प्रतिष्ठापयामास श्रीदेवगुप्तमरिनाम्ना / ____ असावपि पूर्वाचार्य परम्परागतविहरणप्रवृत्या धर्मप्रचारं कुर्वन् क्रमेण चन्द्रावतीं प्राप / अस्य नगरप्रवेशमहोत्सवे डावराशाहेन सपादलक्षरूप्यका व्ययीकृताः। श्रीसंघपार्थनामादृत्यात्रैव चतुर्मासावस्थानमकरोत् स आचार्यः / ___ अथ तस्मिन्नेव काले कश्चिदेकोऽवधूतस्तत्रैव नर्गयां चतुर्मासार्थमाजगाम / स च स्वकीयव्याख्याने सप्त द्वीपान्, सप्त सागरान्, पञ्च देवलोकान् विहायान्यत् किमपि नास्तीति न्यरूपयत् / योगिकृतविवरणमुद्दिश्याचार्योऽसंख्यातद्वीपसमुद्रदेवलोकानां निरूपणमकरोत् / सूरितिपादितमरूपणामाकये संदिग्धमना असौ योगी समुद्रद्वीपादिविषये,पश्चादीश्वरक त्वविषये चापृच्छत् सूरेः पार्श्व गत्वा / ततः समुचितप्रत्युत्तरमासाद्य सन्यासिवेशं विहाय दीक्षामग्रहीत् / चतुर्मासानन्तरं 32 श्रावकैः श्राविकाभिश्च सह डाबराशाहेनापि दीक्षा गृहीता / डाबराशाहस्य ज्येष्ठात्मजेन कानडेन दीक्षामहोत्सवे प्रभूतं द्रव्यं व्ययीकृतम् / ततो विहरन् सूरिः कान्यकुब्जमगमत् / एकदा तदधिपतिरश्वारूढः सन् किमपि स्थानं प्रति गच्छन् सूरेाख्यानस्थानसमीपमार्गान्निःसृत्य तस्मै मनसैव प्रणाममकरोत् / सरिरपि ज्ञानदृष्टया तदीयनमस्कारं ज्ञात्वा महता स्वरेण तं धर्मलाभेन संभावयामास / राजा तु महामहिममहनीयकीर्तिरलौकिकज्ञानप्रभावोऽयमाचार्य इति निश्चित्य पासादमाययौ / सरीश्वरस्यास्य व्याख्यानं राजसभायामेव भवितुमर्हति सर्वथाइदर Page #51 -------------------------------------------------------------------------- ________________ [6] गीयोऽसावस्माभिरिति मन्त्रिणं राहुलमाहूयावदत् / मन्त्री राजसभायामागत्य व्याख्यानेन राजानं संभावयितुमहति भवान्-इत्याह सूरीश्वरम् / महान् कोऽपि धर्मलाभातिशयोऽयमिति विचिन्त्य तत्र व्याख्यानमदादाचार्यः सशिष्यः। द्वितीयेऽह्नि सभायां देव-गुरु-धर्म-स्वरूपं व्याख्याने निरूपितम् / यथा-१ देवः-तदीयं लीलाकौतुहलरागद्वेषादिरहितं चरित्रमालोच्य जनानां जीवनं तथैवाचर . णेन दोषरहितं पवित्रमुपजायते। विश्वोपकारप्रयोजनिकां तदीयजीवनयात्रां विचार्य च स्वस्यापि सर्वोपकारकरणात्मिका पारमार्थिकी सर्वप्राणिहितकारिणी बुद्धिर्भवति / शान्तमुद्रां ध्यानावस्थितां देवप्रतिमामाराध्य बाह्याभ्यान्तरशुद्धिः देवसायुज्यप्रापिका समुत्पद्यत इत्येव देवोपासनाप्रयोजनम् / __ 2 गुरु:-कनककामिनीपरित्यागी ब्रह्मचर्यव्रतपालकस्त्यक्तपरिग्रहः संसारान्मुक्तः कषायचतुष्टये पञ्चस्विन्द्रियेषु प्राप्तसंयमो गुरुः स्वपरकार्येषु कृतप्रयत्नश्च सर्वथाऽत्मकल्याणमार्गदर्शनाय भव्यालम्बनत्वेनोपकल्प्यते। __3 यत्राहिंसा, स्याद्वादो, जिनाज्ञा च प्राथम्यं प्राप्ताः, सत्यास्तेयब्रह्मचर्यपरोपकारादयोऽपि सहचारिणः स्युः, स धर्मोऽपि जीवनोन्नतये तृतीयो हेतुरुच्यते / एवं जनजीवनहितकरमार्गोपदेशकं सूरिवचः श्रुत्वा चित्राङ्गदो राजाऽचार्यस्य जिनधर्मस्य च परमोपासको बभूव / आचार्योपदेशान्नूतनो जिनालयः, सुर्वणमयी भगवतो महावीरस्य प्रतिमा च निर्मापिता / प्रतिमानेत्रस्थले सपादलक्षरूप्यकाणां द्वौ मणी निवेशितौ यो रात्रावपि दिनकर इव तेजःपुञ्जप्रकाशकावभूताम् / सूरेवरदहस्तेन स राजा प्रतिष्ठामकारयत् / एवं धर्मकार्य सम्पाद्य पञ्चाललाटकच्छादिषु देशेषु परिभ्रमअसो क्रमेणोपकेशपुरमागच्छत् / तत्र परमवैराग्योद्बोधकं व्याख्यानमाकर्ण्य जैताशाहस्य कुमटगोत्रीयः सारङ्गकुमारो दीक्षामग्रहीत् सूरिसमीपे। तदनन्तरमसौ सौभाग्यकीर्तिरित्यभिधानं लेभे / अथ स अवन्तिकामेत्य श्रमणानामतीमहतीं सभामकरोत् / तत्र . 1 सौभाग्यकीर्तिप्रभृतिभ्य उपाध्यायपदं दत्तम् / 2 राजहंसाद्येकादशमुनिभ्यो वाचनाचार्यपदं वितीर्णम् / 3 दयामूर्तिप्रभृतिभ्यः पश्चभ्यः पण्डितपदवी समर्पिता। 4 चारित्रसुन्दरादिभ्यः पञ्चभ्यो गणिपदमुपहारीकृतम् / 5 मङ्गलकलशादिभ्यः पञ्चभ्यः प्रवर्तकपददानं कृतम् / एकदा-अम्बा-पद्मा-अच्छुपता-विजया देव्यः श्रीतीर्थङ्करस्य सीमन्धरस्य व्याख्यानश्रवणाय विदेहेषु गताः / व्याख्याने च सीमन्धरेण भगवता प्रोक्तम्-अस्मिन् हि भारते क्षेत्रे ब्रह्मचर्यव्रतसमासादितसर्वसिद्धिसमायुतं व्याख्यानपञ्चाननः श्रीदेवगुप्तसूरिं विहाय नान्यः कश्चनोपलभ्यते साधुः / एवं समाकर्ण्य ता / महाप्रभावं देवगुप्तमरिं द्रष्टुमागच्छन् / असौ तदा अर्बुदाचले ध्याननिमम आसीत् / तत्रागतास्ता अनुकूलान् प्रतिकूलांश्च बहुनुपसर्गान् चक्रः / सूरिस्तु प्रचण्डप्रलयार्णवबृहत्तरङ्गास्फालितो मेरुरिव मनागपि न चकम्पे / ततः पराभवं प्राप्ता देव्यस्तस्य क्षमा ययाचिरे / सूरिपि देवकर्तव्यविषये सारगर्भितानि शास्त्रवचनानि श्रावयामास / Page #52 -------------------------------------------------------------------------- ________________ [37 1 स्वकर्तव्यविषयं ज्ञात्वा ताश्च प्रसन्नमुखकमला यथागतं प्रतस्थिरे / . एवमद्वितीयब्रह्मचर्यबलेन रविरिव दुःसहप्रतापः सूरियं द्वाविंशतिपरिमितवर्षाणि जिनधर्माभ्युदयकर्मण्यतिवाह्य पवित्रे शत्रुञ्जपतीर्थे निखिलागमपारदृश्वानं सकलगुणगणगणनीयप्रभावसमुपार्जितकोर्तिमुपाध्यायपदविभूषितं सौभाग्यकीर्ति स्वपदे प्रतिष्ठाप्यानशनसमाधिम्यां शरीरमुत्ससर्ज / ____अहो ! महनीयगुणावतंसानां महाभागधेयानामीदृशान माचार्यचरणानां किमप्यलौकिक चरित्रं, यत्र स्वहस्तेनैव मातुः पितुश्च दीक्षादानम् / अतः सुष्ठुक्तं केनचित्-सजातो येन जातेन याति वंशः समुन्नतिमिति / वि० सं० 282 तः] 25 प्राचार्यः श्रीसिद्धसूरिः ( चतुर्थः ) [वि० सं० 298 प. श्रीदेवगुप्तवरिपट्ट श्रीसिद्धसरिरलंचकार / असौ श्रेष्ठिगोत्रीय उपकेशपुरवास्तव्यश्चासीत् / अस्य पिता जेताशाहो माता च चम्पकावलीव शीलसौरभरमणीया चम्पादेवी / तयोरयं सारङ्गनामा सनुरासीत् / महाकुटुम्बोऽसौ जेताशाहो दारिद्रयदुःखपीडितमानसोऽभूत् / अथैकदा तद्भाग्यवशादेव देवगुप्तसूरिरुपकेशपुरमगमत् / ततः स श्रेष्ठी स्वीयां दारिद्रयदरिद्रितां सकला परिस्थिति सूरये. साजलिवन्धं न्यवेदयत् / अस्मिन् जन्मनि नरः पूर्वकतानां कर्मणामेव फलं सुखदुःखादिकमश्नुतं इति हेतोधर्मध्यानमेव ते निःश्रेयसकरमिति दृढं विश्वस्य तमेवानुतिष्ठ / धर्म ए शाश्वतसौख्यनिरतिशयानन्ददायकोऽसारे संसारे स एव सर्वासां सम्पदा परमं निधानमिति सूरिस्तमुपादिशत् / तस्मिन्नेव समये तत्पुत्रः सारङ्ग उपस्थितः / विलोक्यैव च तं महाभाग्यवानय तनय इति सूविचः समाकये जेताशाहः प्रसन्नाननो बभूव / मासकल्पं तत्र स्थित्वा सरिरन्यत्र विहारमकरोत् / सारङ्गोऽपि गार्हस्थ्यक्लेशक्लिष्टचेता नगराबहिर्निरगच्छत् / पन्थानं प्रतिपन्नं तं कोऽपि सिद्धपुरुषः संगतोऽभूत् / दुर्दैवादसौ सिद्धो मार्ग एव दुःसहज्वरनिपीडितो बभूव / करुणान्तिरङ्गसारङ्गस्तस्य महता प्रयत्नेन शुश्रूषामकरोत् / येनाऽल्पसमये स सम्पाप्तस्वास्थ्यो जातः / ततः प्रसन्नहृदयः सिद्धपुरुषः सारङ्गाय सुवर्ण सिद्धिनाम्नी विद्यां ददौ / यत्प्रभावेणाऽसौ प्रभूतं सुवर्ण मुत्पाद्य मध्य एवं दरिद्रान् दुःखेभ्यो मोचयामास / तेषामाशीर्वादपरम्परामलभत / एवमसौ गच्छन् सौपारपत्तनमासाद्य तत्रैव वसतिमकरोत् / अपरिचितोऽप्यसौ सुर्वणसिद्धिप्रभावेण परोपकारवृत्या च सर्वजनविदित आदरणीयशासनो बभूव / उक्त च “यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः, स एव वक्ता स च दर्शनीयः। सर्वगुणाः काञ्चनमाश्रयन्त" इति / असौ तु "दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य / यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवतीति" विचार्य दीनेभ्यो बहु धनं दत्वा तदीयाश्रुप्रमार्जनेनाक्षयं पुण्यमाससाद। परमधार्मिकश्च सविनयं जनानामन्व्य शुभ दिने संघ मुनिजनसंयुतं निष्कास्योपकेशपुरयात्रायै जगाम। तत्रागतं तं सारङ्गं संघाधिपतित्वे स्थितं दृष्ट्वोपकेशपुरवास्तव्याः सर्वे जना आश्चर्यान्विताचित्रचित्रिता इवाभूवन् / जेताशाहः पुत्रमागतं ज्ञात्वा तदर्शनसंगमोत्सुकस्तत्राजगाम / तथाविधं संघपति पुत्रमसौ वीक्ष्य सन्तुष्टा Page #53 -------------------------------------------------------------------------- ________________ [38] न्तरङ्गः प्रमोदपीयूषबृहत्तरङ्गः सूरीश्वरवचनस्मरणमकार्षीत् ततश्च समधिकाचार्यचरणसरोजभक्तिरासीत् / सारङ्गः संघ यात्रां कारयित्वा सुवर्णमुद्रादिभिः सन्मानं कृत्वा तं प्रस्थापयामास सौपारपत्तनम् / अथ गृहमागत्य सर्वान् कुटुम्बजनान् सविनयं संभावयामास / तत्रत्या धनाढ्याः श्रेष्ठिनः स्वतनयाविवाहार्थं जेताशाहमामन्त्रयामास / स पितरमाह-पूर्वसुकृतापेक्षया सुवर्णसिद्धयधिगमः पुण्यक्षये तु नक्षत्येव / यतो येनोपयोगेनात्मनः कल्याणाधिगमः कर्तुं शक्यते तदेवाऽस्माकं परमं कर्तव्यम् / अहन्त्विदं मन्ये यत्तदेव नाम परमात्मकल्याणमार्गो देवेन मदर्थ पूर्वमेव निश्चितः, सूरिणा च भविष्यद्पेण भवत उक्तप्राय आसीत् / अतो न मे संसारसुखोपभोग आत्मश्रेयःसाधनप्रवृत्ती प्रतिरोद्धं शक्ष्यति कदाचित् / भवताऽपि धनेनानेन जिनालयप्रतिमा संघायोजनमाचार्यचरणोपदेशामृतरसास्वादश्च सवेथा संसेप्य एवेति / एनं न कोऽपि स्थिरनिश्चयाद्वारयितुं शशाक / सत्यमेवोच्यते "क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् / न च धीरप्रकृति तं सौन्दर्यसौजन्यादिगुणवत्याः कुलसुगया अभ्यर्थनमपि निश्चयात् खिलीकर्तुमशनोत् / "विकारहेतौ सति विक्रीयन्ते येषां न चेतांसि त एव धीरा इति धीरपुरुषाणामियमेव प्रकृतिर्न कदाचिदपि विकृतिमाप्नोति / ___एवं पुत्रकथितं वचः सादरं श्रुत्वा जन्मनः साफल्यमिच्छनासौ जेताशाहः शत्रुञ्जययात्रायै संघ निष्कासितवान / उपकेशपुरे जिनालयनिर्माणमारेभे। चतुरधिकशताङ्गलप्रमाणा भगवतो महावीरस्य प्रतिमापि चतुरैः शिल्पिभिर्निर्मापिता / अथ तदीयभाग्यवशात् श्रीदेवगुप्तसरिस्तत्र विहारक्रमेणाययौ / जेताशाहोऽपि महता स्वागतविधिना सूरीश्वरस्य नगरप्रवेशमकारयत् / प्रणिपत्य सविनयमेनमाचार्यमवदत्-भवदीया संभावना संपूर्णा फलिता किं किं न मया साधितं किं नानुभूतम् / अपि तु सर्वमेव सांसारिकमात्रमेव कर्म भवदीयकृपाकटाक्षकटाक्षित एव कर्तुं शक्तोऽभवमिति / अत्र मदपेक्षया सारङ्गस्तु सारङ्ग इव संसारे सारभुग जात इति किमत्र वक्तव्यं महात्मनामुदारवचसामेषः कोऽप्यनिर्वचनीयो महिमा कारणत्वेन कल्प्यते मया / धर्मलाभेन संभाव्य तं सूरिः सारङ्गमुवाच-सारङ्ग ! प्रवृत्तिपथे प्रवृति विधाय कृतान्येवाखिलानि कर्माणि ततो निवृत्तिमार्गानुसरणं ते न्यायमाप्तम् / स च सूविचः सादरं श्रुत्वा दीक्षायै तत्परो बभूव / तदा जेताशाहेनोक्तम्भगवन् ! क्षणं प्रतीक्षस्व, वयं सर्वेऽपि दीक्षाममिलषामः / पूर्व तावजिनेश्वराञ्जनशलाकाप्रतिष्ठामहोत्सवश्वावशिष्टः, स च भवदीयकरकमलेन सम्पादनीय एवेति / अथ शुमे दिवसे प्रतिष्ठाविधिं समादृत्य सारङ्गकुमारादयः षट्पञ्चाशत्परिमिता दीक्षादीक्षिता बभूवुः। सौभाग्यकीर्तिरित्यभिधानेन प्रसिद्धिमाप सारङ्गः / असौ यथार्थनामा सारङ्गो निसगत एव सर्वशास्त्रसारसंग्रहणोत्सुकः सूरीश्वरपार्श्वे साङ्गानि जिनागमगूढरहस्यानि, दार्शनिकता. . विकविषयकाणि शास्त्राणि चाधीत्य शाणोल्लिखितो मणिरिवानवद्यविद्याविद्योतितयशोनिधिर्वभूव / तत उपाध्यायपदवीप्रदानेनाचार्येण सम्मानितोऽभूत् / काले च व्यतीते सूरीश्वरस्तं स्वपट्टे संस्थाप्य सिद्धसरिरिति नाम चकार / अन्ते च दिवमगमत् / Page #54 -------------------------------------------------------------------------- ________________ [ ] - - इतश्चावगतं सिद्धपुरुषेण सारङ्गस्य दीक्षावृत्त तदा स तस्य पार्श्वमेत्यात्मकल्याणभावनया तद्विषये शास्त्रचर्चा विदधाति स्म / सूरेः सकाशात् सत्स्वरूपं विज्ञाय सिद्धपुरुषोऽपि सिद्धसूरिपार्श्वे सिद्धाचले दीक्षामग्रहोत् / तदनन्तरमसौ तपोमूर्तिनाम्ना जगति विश्रुतो बभूव / स आचार्यसमीप एवाध्ययनं विधाय विद्याध्ययनाद् ज्ञानबलाच्च जिनशासनोन्नत : दृढ़प्रयत्नोऽभवत् / / अथ सिद्धाचलयात्रां विधाय तपोमूर्तिमुनिसहितः सरिः सौपारपत्तनमाजगाम / तत्र व्याख्यानकाले सरिः कपिलदृष्टान्तमुपावर्णयत् ___कौशाम्बीनगराधिपतेः पुरोहितस्य काश्यपस्य कपिलो नाम पुत्रो बभूव / नानेन बाल्ये किञ्चिदधीतम् / पिता च दैववशादिवमगच्छत् / अतो राजाऽन्यं ब्राह्मणं पुरोहितपदे न्ययुक्त / स्वगृहसमीपमार्गादेव तदुत्सवसंगतं जनसमूहं दृष्ट्वा सा ब्राह्मणी म्लानमुखी जाता। तां च तथाविधां दृष्ट्वाऽसौ कपिलो हेतुमपृच्छत् / पितुस्तव पुरोहितपदं त्वद्योग्यताभावेऽन्यस्मै ब्राह्मणायापितं तदर्थमेवायं समारोहस्त्वं च मूखे एवासि येन दुःखावेगान्म्लानवदनाहमासम् / अहमपि तथाविधो भविष्यामीति कृत्वा कुत्रचिदध्ययनार्थं गच्छामीत्युक्त्वा तूष्णीं बभूव / मात्रा चादिष्टं सावत्थ्यां तव पितुः सखा पंडित इन्द्रदत्तो वर्तते तत्र गच्छाध्येतुम् / असौ तत्र गत्वा दरिद्रोऽस्मीति भवता सर्वप्रकारेणानुग्राह्योऽहमित्युवाच / गुरुणा कस्यचित् श्रेष्ठिनो गृहे भोजनप्रबन्धः कृतः / तदर्थमा. दिष्टा दासी / असौ नियतसमयेऽधीत्य भोजनास्वादलुब्धमानसो दास्या सह संभाषणादिप्रसंगेन विषयाभिमुखस्तस्यामासक्तमना आसीत् / व्यतीतः कालः / श्रेष्ठिना ज्ञातं यदेषा स च मिथः समासक्तचेतसौ विशेषतश्चेयं दासी प्राप्तगर्भा वर्तत इति कृत्वा तौ निष्कासितौ / स्वसमीपस्थितं सर्व मार्गे व्ययीकृतम् / निर्धनौ तौ कस्मिंश्चिन्नगरे रात्रावायातौ / दास्या तस्मै निवेदितं मूर्ख ! न ते देशकालादिज्ञानमहमासन्नप्रसवा धनश्च नास्ति कथं व्यवहारो विधेयः 1 अत्रत्यो राजाऽहर्निशं 'द्विमासप्रमाणं सुवर्ण ब्राह्मणाय ददाति तद् गच्छ येन सामयिको व्ययः क्रियेत / असौ तु गतोऽपि ब्राह्मणागमनात्पश्चादुपस्थितत्वान्न तदलभत / एकदा रात्रावृत्थितो बहिर्गच्छन् राजसेवकैर्धतो राजसमीपमुपस्थापितः / राजा तमब्रवीत्-अयि ब्राह्मण ! एवमर्द्धरात्रसमये परिभ्रमणं तव किं हेतुकम् ? तेन सर्व एव दासीसंगमनादिको वृत्तान्तः शुद्धभावेन राजे निवेदितः / राज्ञा च विचारितमहो! आस्मन् कालेऽपीदृशाः सत्यप्रियाः जनाः सन्ति किम् ! परमसंतुष्टो राजा तमाह-यथेच्छं यद्रोचते तद् याचस्व / ततस्तेन मनसि चिन्तितम्-किं याचे ! मासद्वयप्रमितं सुवर्ण कियदुपयुक्त स्याद् व्यवहारविषये / नैवं रूप्यकपरिमितम् / तदपि नामोत्पन्नस्य बालस्य संरक्षणवस्त्राभरणाध्यापनादिकार्ये किमुकारकं भवेत् / एवं क्रमशो विचारक्रमेण राज्ञो राज्ययाचनेच्छामकरोत् / तस्मिन्नेव क्षणे पूर्वादृष्टसंस्कारवशात्तन सिंहावलोकनेन-किं पूर्वमासीत् , कोऽहं, कुत्र समायातः, किं मया विहितम् / तदपि क्षुद्रजीवनजीवनार्थमुपभोगलिप्सयैवेति मां धिक् / द्विमासमात्रके सुवर्णेऽलभ्येऽद्य मया राज्योपभोगेच्छा क्रियते / अहो ? सत्यमिदं जिनागमे प्रोक्तम् जहालाहो तहालोहो लाहालोहो पवढइ / दोमासा कणयं कर्ज कोडिए विन निइह // Page #55 -------------------------------------------------------------------------- ________________ [ 40 ] एवं विचारीमाणस्यास्य जिनदेवताचिन्तने जाते कैवल्यं ज्ञानं प्रकटितम् / सद्य एव साधुभूतस्ततोऽष्टादशयोजनपरिमितात्स्थानाद् दूरेऽटव्यां बलभद्रादयः पञ्चशतसंख्यकाचौराः सन्तीत्युपश्रुत्य तदुद्धारार्थ तत्रागमत् / ते चौरास्तु तं गानार्थ न्यवेदयन् / तेन च जिनधर्मागमानुरागिणा ज्ञानिनाअधुवे असासयम्मी संसारम्मीदुकख पडराए / किं नाम होजतं कम्मर जेणाहंदोग्ग इंनगच्छे जा // इयं प्रतिबोधिका गाथा गीता / चौराश्च क्रूरकर्माधभिग्रहेण मुक्ताः सन्मार्गबोधिता दीक्षामगृह्णन् / ___एवं धर्मरतिप्रवर्धनक्षमामाख्यायिकां समाकण्य विरक्ताः पञ्चाशत्परिमिताः श्रावका श्राविकाश्च दीक्षोद्यता बभूवुः / तान् दीक्षितान् कृत्वा स आचार्यो मरुधरप्रांते विहरन् क्रमेण नागपुरमयात् / तत्रादित्यनागगोत्रीयेण कानडशाहेन निर्मापिताया भगवतः पार्श्वनाथस्य प्रतिमायाः प्रतिष्ठा कृता / व्याख्यानादिना सर्वे पौरा धर्माचरणेऽधिकां रुचिमापादिताः। ततोऽसौ सूर्लािट- . सौराष्ट्र-कच्छ-सिन्ध-पाञ्चाल-शौरसेनादीन् पूर्वस्यां दिशि च अङ्ग-ग-मगध-कलिंगादिदेशान् विहरणेन व्याख्यानेन धर्मप्रचारपरिपूर्णामृतोपमोपदेशेन च जिनधर्माधिकोत्सुकान् सत्पथानुसरणशीलांश्चकार / तत आचार्यों मथुरामाससाद / तत्र समारोहपुरःसरं नगरं प्रवेशितः। कुलभद्रगोत्रीयेण कोट्यधिपेन ढड्डरशाहेन स्फटिकरत्नमयी पार्श्वनाथस्य प्रतिमा, अन्याश्च शतत्रयप्रमिता धातुमय्यः पाषाणमय्यश्च मूर्तयो निर्मापिता आसन् / सूरीश्वरस्य वरदहस्तेन तासां प्रतिष्ठापनविधि महता समारोहेण स श्रेष्ठी कारयाश्चके / नवलक्षप्रमिता रूप्यका अत्र श्रेष्ठिना धर्मकार्य उपयुक्ताः / ___ततः सच्चायिकादेवीवचनानुसारेण सर्वशास्त्रसंपन्नं निखिलव्याख्यानकलाकोविदं गुणतिलक सूरिः स्वपट्टेऽस्थापयत्। श्रीरत्नप्रभसूरिति नामधेयेन तं भूषयामास / अन्ते मथुरायामेवानशनं विधाय पञ्चपरमेष्ठिमहामन्त्रस्मरणपूर्वकं शरीरमुत्ससर्ज। वि० सं० 268 तः] 26 प्राचार्यः श्रीरत्नप्रभसूरिः (पञ्चमः) [वि० सं० 320 प. श्रीसिद्धसरिपट्ट' चारुचरित्रचित्रीकृतमनुजमानसो विद्वजनमण्डलीमण्डनीभूतः श्रीरत्नप्रभसूरिः समायातः / असौ सौपारपुरवास्तव्यो भद्रगोत्रीयश्चासीत् / सौपारपुरे धनाढ्यवर्यस्य देदाशाहस्य राणा-साहरण-लुम्बाशाहाख्यास्त्रयः पुत्रा बभूवुः / तत्र राणाशाहेन सप्तवारं सम्मेतशिखरपय॑न्तानां तीर्थानां संघायोजनं कृत्वा यात्रा विहिता। द्वितीयेन च साहरणेन शत्रुञ्जयपर्वते चतुरशीतिसख्याकोपमंदिरयुक्तो भव्यो भगवतो महावीरस्य देवालयो निमापितः / तृतीयेन लुम्बाशाहेन च सौपारपत्तने चतुरशीत्युपमन्दिरयुक्तो भगवत. आदीश्वरस्य रमणीयो जिनालयश्च निमार्पितः / सजातीयाश्च सुवर्णमुद्रिकास्वर्णपात्रप्रदानेन, तथैव श्रीसंघश्च सत्कृतः। एवं सर्वथा धर्ममयैकजीवनमिदं देवाशाहस्यकुलं विख्यातयशश्चासीत् सर्वत्र / Page #56 -------------------------------------------------------------------------- ________________ [4] असौ लुम्बाशाहः क्रयविक्रयादिवाणिज्यकलाकुशलोऽभूत् न केवलमत्र भारत, पाश्चात्यदेशेष्वपि वाणिज्यप्रचार आसीत् / सदैव धर्मरतेरस्य पञ्च पुत्रा आसन् / तत्र खेमानामकः सूनुः सर्वगुणसम्पन्नः परममेधावी बभूव / अध्यात्मज्ञाने त्वस्य नैसर्गिको वृत्तियोगाभ्यासार्थमसौ शनैः शनैः कृतप्रयत्नोऽभूत् / नगरेन समागतानां साधूनां शुश्रूषणं त्वस्य परमं कर्तव्यमेवेति सर्वे जानन्ति स्म / येन धार्मिकसंस्काराणां प्रोत्साहनं विशेषतः प्राप्तम् / एकदा प्रबलतरपुण्योदयबलात् श्रीसिद्धसूरिः सौपारपत्तनमाययो। श्रीसंघेन समारतो नगरप्रवेशमहोत्सवेनालङ्कृतश्च स आचार्यः / तत्र नियमानुसारेण धार्मिकव्याख्यानानि प्रारब्धानि, एकदा व्याख्याने सूरिरिह दृष्टान्तमुपवर्णयामास / कश्चिदेकः श्रेष्ठी त्रीन् पुत्रानाहूय तेभ्यः सहस्रपरिमितान् रूप्यकान् पतिपुत्रं दत्वा विदेशं प्रेषयामास / एकेन संसारसुखोपभोगलिप्सनाऽहारविहारभोगविलासैश्च मूलधनं व्ययितमपरमपि तत्र-ऋणं कृतम् / द्वितीयेन साधारणतो वाणिज्यं कृतं तेनैव स्वकुटुम्बपोषणमकरोत् / तृतीयेन सूक्ष्मदर्शिना क्रमशो व्यापारे कृते मूलापेक्षया प्रभूतं धनमासादितम् / काले गते पिता तान् स्वदेशमाह्वयत् / तेजागताः / पूर्वदनं धनं जनकेन तेभ्यो याचितम् / प्रथमेनोक्तं व्ययीकृतमपरमपि मेऽन्येभ्यो देयमास्ते / द्वितीयेन सहस्ररूप्यका दत्ताः / तृतीयेन व्यापारण लब्धा लक्षाधिका जनकाय दत्ताः / एवमेवेदं 'दृष्टान्तमात्मविषये दृश्यताम् ! सहस्रसंख्यकधनसदृशोऽयं मानवो देहो लब्धः / तत्र एको भोगविलासेन व्यर्थमेव तं देहं प्राप्य मुधैव जीवनमतिवाहयति / द्वितीयस्तु शरीरं प्राप्य न पुण्यं न च पापमाचरति / ततोऽसावप्यात्मकल्याणं नासादयति / तृतीयश्च महता पुण्येन लब्धो दुर्लभोऽयं मानषो देह इति मत्वा दानने पुण्येन सेवया तीर्थयात्रया मन्दिराणां मूर्तीनां च प्रतिष्ठापनेन सार्थकं करोति / ततः कुटुम्बपोषणं भोगविलासानुभवमन्ते च संसारस्यानु. भवेन हेयतां ज्ञात्वा परमात्मकल्याणायैव दृढतरवैराग्यभावनामावितहृदयो दीक्षां च गृहीत्वा त्वधिकमात्मल्याणसाधको भवति / एवमसारसंसारसमुद्रनिमग्नानां प्राणिनामिह वैराग्यभावनासेवन विहाय न कोऽपि परमसुखसंपादकः पन्था इति स्पष्टमेवोच्यते यथा जहा य तिनि वणिया मूलं चित्तण निग्गया / एकोऽत्य लह इलामं एगो मूलेन आगओ // ___ एगो मूलं पि हारित्ता भागओ तत्थ वाणिओ / ववहारे उवमा एसा एवं धम्मे वियाणह / एवं मनुष्यदेहपरमकल्याणायुरस्थैर्यत्वादिविषयकमाचार्यस्य परमरमणीयं व्याख्यानमाकण्यं तत्र स्थितः खेमाशाहः संसारादुद्विविजे / सूरेश्चरणयोः प्रणम्य दीक्षाश्च ययाचे सूरिणानुमतः पितरावामन्त्र्य दीक्षामगृह्वात् / ततो गुणतिलकेति नाम प्राप / सरिपार्वे क्रमेण न्यायव्याकरणसाहित्यागमलक्षणादीनि शास्त्राण्यधीत्याकरोद्भवः कृतसंस्कारो मणिरिवाषनौ / तपश्चर्यायां योगाभ्यासे च परमप्रयत्नशीलो लब्धसिद्धिर्वभूव येन महामहिमानो भूमिपतयोऽप्यस्य चरणसरोजानतमस्तका आत्मानं धन्यं मेनिरे / श्रीसिद्धसरिरेनं गुणतिलकं रत्नप्रभसूरीति नाम्ना स्वपढे प्रतिष्ठापयामास / स्वयं च समाधिना स्वर्गभागभवत् / Page #57 -------------------------------------------------------------------------- ________________ [ 42 ] अथैवमाचार्यपदारूढः श्रीरस्नप्रभसरिः विहरणक्रमेण भित्रमालनगरमुपागमत् / तत्र स्वव्याख्यानश्रवणाख्यातधर्मप्रभावः श्रीभिन्नमालाधिपोऽजितदेवो, महिषी रत्नादेवी तथा चान्ये नागरिका जिनधर्मोपासका अभवन् / नृपात्मजो गंगदेवोऽपि विप्राणां संसर्गप्रभावेण मधुमासाअभक्ष्यभोक्ता निशाहारी चासीत् / एकदा पाचकस्यासावधानत्वात्पाके कश्चिद्विषमिश्रो जन्तुः पतितः पाकेन सह पक्कोऽभवत् / पाकश्च विषावलीढो जातः / रात्रौ कृताहारोऽसौ विषमविषदुःसहवेगावलीढसवोवयवो बभूव / / अथ प्रातःकाले ब्रामणा मन्त्रतन्त्रादीनुपायान् बहून कृत्वा विफलजीवनाशा मृत एव कालदष्टोऽसौ गंगदेव इत्युच्चेरवादिषुः / ततस्तत्पितरौ सरिसमीपमाजग्मतुः। सर्वमेव तस्य दुराचरणादिकं ब्राह्मणसंसर्गत एवेति सर्वमुदन्तजातमाख्याय कथमपि जीवेदयं ततः कुशलं मवेदित्यूचतुस्तमाचायम् / आत्मयोगवलमास्थाय पूरिस्तं लन्धसंज्ञं व्यधात् / सर्वे ते प्रणम्योपकारं स्मरन्तो राजगृहमाययुः। अथापरस्मिन् दिने रात्रिभोजननिषेधविषयकं व्याख्यानमारब्धं समायाम् / अहो ! तीर्थङ्करा अपि रात्रिभोजनं निषेधन्ति न केवलं वयम् / स्वास्थ्यरक्षणेनापि तनिषेधो रागप्राप्तः / शास्त्रेष्वप्यस्य विषये सुविशदं निरूपणं विद्यते / दिङ्मात्रन्तु-चत्वारो नरकद्वाराः प्रथमं रात्रिभोजनम् / परस्त्रीगमनं चैव सन्धानानन्तकायके / मृते स्वजनमात्रेऽपि सुतकं जायते किल / अस्तं गते दिवानाथे भोजनं क्रियते कथम् / एवं शास्त्रयुक्तिपुरःसरं सुस्पष्टमिदं व्याख्यानं श्रुत्वा न केवलमसौ गंगदत्तोऽपरे च रात्रिभोजनं तत्यजुः / एवं धर्मरहस्यं सर्वेभ्यः श्रावयित्वा सरिर्जाबलीपुरमगमत् / तत्र झालाश्रावकेण भगवतीसूत्रभवणेच्छा सूरये प्रदर्शिता / अतः सूरीश्वरस्य तत्रैव चतुर्मासो जातः / पूर्व तावतेन ज्ञानपूजा कृता। कोटिसंख्यका मुद्रास्तत्र विनियुक्ताः / आरब्ध उत्सवः / प्रारंभो भगवतीसूत्रवाचनाया जातः / सर्वे तत्र श्रवणार्थमुत्सुका बभूवुः / श्रीसंघोऽप्यत्र संयुक्तोऽभूत् / अन्ते च श्रेष्टी नीलहीरकपारागादिमिः प्रभूत रत्नैः पूजामकरोत् / सर्वे समारोहसमागता वस्त्राभरणादिभिः संमानिताः / मिलितेन द्रव्येणागमपुस्तकानि लेखयित्वा स श्रेष्ठी ज्ञानकोशेऽस्थापयत् / एवं महताऽनन्देनोत्सवः समापितः। ततः परं प्राग्वटवंशीयेन पोमाशाहेन निर्मापितस्य श्रीविमलनाथदेवस्य मन्दिरे प्रतिष्ठाविधिः सरेरेव पवित्रकरकमलेन विहितः / ___अथ मरेः पमहंस-मङ्गलकलशनामानौ द्वौ मुनी लब्धिसंपन्नावास्ताम् / एकदा शौचादिनिर्वाहार्थ दरं जग्मतुः / तत्राखेटरमणाः पशुघातकाः क्षत्रियाः समागच्छन् / सम्मुखमागतान् एनो तावूचतुः-भोः क्षत्रियाः ! विचिन्तयन्तु भवन्तो यः यावन्ति पशुरोमाणि पशुगात्रेषु भारत ! / तावद् वर्षसहस्राणि पच्यन्ते पशुपातकाः॥ Page #58 -------------------------------------------------------------------------- ________________ एवमादिकानुपदेशयुतान् श्लोकान् तदर्थाश्चाकये ते सर्वे मुनिचरणयोः शिरो निवेश्य पूर्वकृतानां पापानां पार्याश्वतमकार्षः। ततो जिनधर्मस्वरूपं ज्ञात्वा मनोऽनुकूलानि श्रावकवतानि स्वीचक्रुः / मुनीभ्यां सहैव तत्रागत्य सूरये स्वमुखेनैव सर्व वृत्तान्तं ते निवेदयामासुः / सूरिणा च धर्मोपदेशस्तेभ्यः कृतः / एवं धर्माचरणानुरूपं जिनालये तेऽष्टाह्निकामहोत्सवमारेभिरे / सन्तुष्टेनाचार्येण ताभ्यां पद्महंस-मङ्गलकलशाभ्यां मुनिभ्यां पण्डितपदवी श्रीसंघसमक्षमर्पिता। . एवं सत्यवती-पद्मावती-चन्द्रावत्यादिनगरेषु धर्मप्रचारं विधाय सिन्धप्राते विहारं कुर्वन् सूरिवीरपुरमाययौ तत्र बप्पनागगोत्रीयः श्रेष्ठी गोशलनामाऽसीत् / राहुली नाम्नी पतिव्रतपरायणा भायां परमधर्मानुरागिणी। धरणो नाम तयोः पुत्रो निखिलगुणगणालंकारभूतश्वासीत् / तस्मै दीक्षामाचार्यों ददौ / तं च निखिलागमतत्वानि क्रमेणाध्यापयत् / परमप्रतिभोपपन्नोऽसौ गुरुपदेशशिक्षाग्रहणपटुरल्पकालेन विद्वदग्रेस बभूव / शास्त्रार्थविजयी भविष्यतीति हेतोर्जयानन्देति नाम कृतं सरिणा / ततश्च विहरन् नागपुरमगमत् / सर्वे श्रावका भव्य स्वागतं व्यदधुः / तत्र धर्मसंवर्धनप्रचुरा उपदेशा अनेकशी विहिता आसन् / सूरिरसौ व्यतीते काले निजनिधनकालमागतं वीक्ष्य सच्चायिकाकथनानुसारेण श्रीसंघानुमत्या जिनानन्दं श्रीयक्षदेवसूरीति नाम परिवर्त्य स्वपट्टे शुमेऽहनि स्थापयामास / अस्मिन् भव्ये महोत्सवे सहर्षमादित्यनागगोत्रीयेण मेराशाहेन लक्षत्रयपरिमितं धनमुपयुक्तमासीत् / सूरीश्वरस्ततः परं 27 दिनान्यनशनं कृत्वा नश्वरमिमं देहमुत्ससजे / [वि० सं 310 तः 27 प्राचार्यः श्रीयक्षदेवसूरिः। (पञ्चमः) 326 प.] श्रीरत्नप्रभसरिपट्टपदं श्रीयक्षदेवसरिभूषयामास / असौ वीरपुरवास्तव्यो भूरिगोत्रीयश्वासीत् / अस्थ पिता बुद्धौ बृहस्पतिरिव सक्ष्मेक्षणीयकार्यविचक्षणः श्रीकोकरावस्य राज्ञः प्रधानसचिवो गोशलशाहनामा / माता च क्षत्रियवंशोद्भवा सतीशिरोमणीभूता राहुलीदेवी / तयोरङ्गजो धरणनामा धरणोधरणक्षमोऽभिनवेन्दुनिभाननश्वासीत् / ___ असौ सूनुर्धरणो बाल्यकालादेवाननुभूतसंसारसुखो मुनिखि वीतरागो बभूव / एकदा स मात्रा सह कमप्युद्वाहादिपसंगमुद्दिश्य स्वमातुलगृहमगमत् / तत्रोपस्थिताः क्षत्रिया मांसाद्यभक्ष्यभोजनमकार्षमिलिताः / ते च तमवादिषुः वत्स ! गृहाचैतद् भोजनम् / अथ तदनु ते तमाग्रह व्यदधुः / असौ करुणाद्रचेताः सर्वानज्ञानोपहतहृदयान् बोधयामास / भो! मान्याः किमिदं जगतीतले भगवता भवतां कृते निर्मितं भोजनं येन अन्यस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यत इति भवदाहारार्थ के नाम कृपणा दीनदीना मुकाः पाणिनः कामवस्थामनुभूताः / अहह भगवता जगदीश्वरेण नाम्ना तु क्षत्रिया रक्षणार्थ स्थापिताः। किन्तु शब्दस्य प्रवृत्तिनिमित्तं किं तेनैव परिवर्तितं वा स्वच्छन्दचारिभिस्तैरेव क्षत्रियैः 1 क्षतात् किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः इति दुःखे निमग्नानामुद्धरणेनैव क्षत्रियः सार्थकःक्षत्रियशब्दवाच्यो भवति / न केवलं नाममात्रधारणेन / जीवदया तु क्षत्रियाणामेव मुख्यो धर्मस्तदर्थमेव सर्वेषां संरक्षणमारस्तेषामुपरि स्थापितः Page #59 -------------------------------------------------------------------------- ________________ [ 44 ] शाखे। यचोदरदरीपूरणार्थमेव क्रियत इदं भोजनमगणितपापपांशुलं किं तेनैव यावज्जीवं भविष्यति तृप्तिः।। साञ्जलिबन्धमहं भवद्भयो भूयो भूयः प्रार्थये-शृण्वन्तु सार्वजनीनमिदं शास्त्रवचनम् / न हिंसा सदृशं पापं त्रैलोक्ये सचराचरे / हिंसको नरकं गच्छेत् स्वर्ग'गच्छेदहिंसकः // तत्किं निरयमात्रफलकमिदं मांसभोजनं कुर्वन्ति भवन्तः / नायं मनुष्याणामाहारः / राक्षसानामेष रुधिरप्रियाणामाहारः / यस्मिन् परमपवित्रचरित्रचित्रीकृते कुले महावीररामचन्द्रादयो महावीराः समुत्पन्नास्तत्रैव सर्वाभयप्रदानदीक्षिते यस्मिन् कुले रक्षका एव भक्षका भवन्तीति किं नाम महत्कष्टं सर्वजनोद्वेगकरं न स्यात् / अनवरतमदमदिरोन्नतास्ते तं भृशमुपहसन्तोऽब्रुवन्-भो धर्मप्रिय ! आपणं गत्वा गान्धिकस्तैलिको वा भवितुमर्हसि, न क्षत्रियोचितं समराङ्गणे वीरोचितं क्षत्रधर्ममाचरितुते शक्तिः / एवं स्वार्थकलुषितचेतसां मदोद्धतानां तेषामपमानजनकं वचनमाकयासौ भूयस्तानगादीत्-किं मांसभोजिनामेव क्षत्रियाणां राज्यपातिर्जगतीतले दृष्टचरा ? पूर्वस्मिन् काले बहवोऽलौकिकपुरुषार्थप्रभावेण दिगन्तविश्रुतकीर्तयो भव्यभावनोपपन्नामानसाः क्षत्रियवंशोमवा राजानः प्रबलतरान् शत्रूनपि पराजयन्त, ये शत्रवस्तेषां नामश्रवणमात्रेण विभ्यमाना यत्र कुत्रापि पलायनं चक्रुः / अपरञ्च नाहं चक्रवर्तित्वमभिलषामि / तत्र खलु सम्पदामुपभोग एव प्रधानं फलम् / उक्तं च केनापि सुकृतिना-लक्ष्मास्तोयतरङ्गभङ्गचपला * विद्युत्समं जीवितम्-इति विनश्वरं वस्तु विहाय शाश्वते वस्तुनि रुचिरुचिता सर्वार्थसाधनक्षमा कथंकारं न विधेया ? यत्र चात्मदृष्टान्तेनावगम्यते--प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा / आत्मौपम्येन सर्वत्र दयां कुर्वन्ति साधवः / इदमेव सूक्ष्मेक्षिकया क्षणं विचिन्त्य सार्वजनीनसुखसम्पादनक्षमः-अहिंसा परमो धर्म इति प्रधानभूतं तमेव सर्वभावेन भावयन्तु भव्या अत्रभवन्तो भवन्तः स्वान्ते स्वकीये / एवं मननीयं विचारचारु धरणेनोक्तं सर्वमेव विचार्य ते स्वकर्तव्यं प्रतिपन्ना बभूवुः। अथासौ धरणो मातुलगृहात्स्वगृहमाजगाम / तस्य चेतसि नवराज्यस्थापनेच्छा सर्वतोभावेन जागृता पूर्वकृतापमानप्रसंगेनेन / कदाचिद् वीरपुरं नगरं केनापि बलवता शत्रुणा सहसाऽक्रान्तम् / धरणस्य पिताऽमात्यो गोशलशाहः समरोद्यतो बभूव / ततो धरणोऽसौ सेनापतिपदे कार्य कर्तु सज्जीबभूव / राजाऽत्र विषये संदिग्धमानसोऽभूत् किन्तु तेनैव वचनबलाद् विश्वस्तः कृतः। अथ प्रवृते भीषणे समरभूमौ संग्रामे दुःसहविक्रमबलेन धरणेन शत्रुः पराजितः शीघ्र पलायितो, येन मुदितमनसा राज्ञा सप्त ग्रामाः धरणाय पुरस्काररूपेण प्रदत्ताः। एकदा प्राक्तनपुण्यवलपमावाद् भवार्णवपारङ्गमनौवाहकः करुणावलयः श्रीरत्नप्रभसूरिराचार्यः क्रमेण विहरन् पादारविन्दचंक्रमणेन वीरपुरं पावयामास / सूरीश्वररस्यागमनं विज्ञाय पौरा: प्रमुदितमानसा अलौकिकसमारोहेण नगरप्रवेशमकारयन् / अथ धर्मागममर्मपारगः सूरिरेकदा "दुर्लभं Page #60 -------------------------------------------------------------------------- ________________ [ 45 ] मानुषं जन्म" एतद्विषयोपरि हृदयंगमं व्याख्यानमदात् / सर्वजनचेतश्चमत्कारजनक सरिषचा श्रुत्वा, सविनयं तं प्रणम्य सर्वे स्वस्थानमाययुः। कोकरावो राजा धरणं सहैव नीत्वा राजभवनं विवेश / एकान्ते च तो मिथो वार्तालापे समासक्तो बभूवतुः / राजा तमाह-सखे अद्य सरिणा यदुक्तं तत्तत्वतस्तथैव मां भाति / धरणः प्राह-ममाऽपि सैव भावना प्रबलतरा यदात्मश्रेयोऽनुसंधानम् / ततो राज्ञा प्रोक्तम्-किं विचारेण / शीघ्रमेव कर्तव्यमनुचिन्तय / श्रुस्वैवं स धरणोऽवादीत्-किन्त्वेका तृष्णा मां भृशमेव परिवाधते / सम्यगवधारिततदीयमानसो राजा तमगादोत्-मो गृहाणेदं राज्यम् / ततस्तेनोक्तम्-राजन् ! जानाम्यहं राज्य नाम विविधानां नरकाणां द्वारं तत्कथमहमङ्गीकुर्याम् / अस्तु सायमेवावां सूरिसमीपं गमिष्याव इति निश्चित्य धरणः स्वगेहमव्रजत् / अथ राजाऽचिन्तयत् अहो सत्यमुक्त राज्य नाम नरकद्वारमिति धरणेन, अहं कदाचिद्राज्यं त्यक्ष्यामि, कदाचित्तदपिमां त्यक्ष्यतीति निश्चितमेव किमर्थमेवं चञ्चले बस्मिन्निमग्नः 1 एवं बहुविधं विचार्यासौ वैराग्ये दृढमना बभूव / ततः सायमुभौ मिलितौ कृतनिश्चयौ मरिसमीपमेत्य मनोगतं निवेदयामासतुः / सूरिश्च राजानमुद्दिश्याह-राजन् तव तु राज्याधिपतित्वं किन्तु सवऽस्मिन् विश्वस्मिन् चारित्रापेक्षया न किमप्यतिरिच्यते / भरिप्रभावश्चकवतिभी राजभिश्चारित्रग्रहणोद्यतैः क्षणेनैव राज्यसमृद्धिः सुदरमुत्क्षिप्ताऽभूत् / नचायुषो विश्वासः, अत एव शुभस्य शीघ्रत्वमेव न्याय्यम् / ततस्तौ सूरिं नत्वा गृहमागच्छताम् / राजा कोकरावो ज्येष्ठं पुत्रं राहुपं राज्येऽम्यषेचयत् / तदनन्तरं तावुभौ सूरिपार्श्वे दोबामगृहीताम् / गोसलशाहेन मन्त्रिणाऽत्र दीक्षामहोत्सवः कृतः। सिन्धप्रान्ते राज्ञो रुद्राटस्यानन्तरं द्वितीयं दोक्षाग्रहणमनेनैव सम्पादितमिति दृष्टव्यम् / तस्मिन् दीक्षाकाले पञ्चत्रिंशत्परिमिता जना अपि दीक्षां प्रापिताः सूरिणा / दीक्षानन्तरमसौ धरणो जयानन्दनाम्ना, कोकरावश्च कल्याणभूतिनाम्ना विश्रुतौ / जयानन्दमसौ सरिः निखिलागमतत्वानि क्रमेणाध्यापयत् / परमप्रतिभोपपमोऽसौ गुरुप्रतिपादितोपदेशशिक्षाग्रहणमननधारणपटुरस्पेनैव कालेन विद्वज्जनमण्डलालङ्कारचूडामणिभूव / अथ क्रमेण विहरन्नसावाचार्यों नागपुरमागच्छत् / तत्र क्रमशो विचार्यमाणे स्वनिधनकालं समीक्ष्य देवी सच्चायिकाकथनानुरूपं जयानन्दं सबेलक्षणलक्षण्यं यक्षदेवसूरीति नाम विधाय शुमे मुहूर्ते स्वपट्टऽस्थापयत्। श्रीसंघेनात्र महामहोत्सवः संमानितः / अस्मिंश्च भव्य समारंभे प्रमोदमोदमानमानसेनादित्यनागगोत्रीयेण भेराशाहेन लक्षत्रयपरिमितं द्रव्यं विनियुक्तमभत् / आचार्यः श्रोरत्नप्रभसरिः सप्तविंशतिदिनान्यनशनं विधाय समाधिसंस्थोऽनश्वरं देहमुत्ससर्ज। अथ श्रीयक्षदेवसरिराचार्यः स्वकर्तव्यानुपालनमुद्दिश्य नागपुरान्निर्गत्य क्रमेण मेदिनीपुरमुग्धपुरादिषु ग्रामनगरेषु धर्मभावनामुपदेशेन संवर्धयन्तत उपकेशपुरमाययौ। नवोद्यतं चन्द्रमण्डलमिव नूतनमाचार्यमवलोकयितु समुत्सुकमानसाः सहर्षे तं जना महता स्वागतेन संमानयामासुः। आचार्यचरणशुश्रूषणशुद्धहृदयास्तेऽलभ्यं व्याख्यानामृतोपदेशं सुधालाममिव मन्यमानास्तृप्तिं नाध्यगच्छन् / अत एवोक्तं श्रेयसि केन तृप्यते / ततः सर्वेभ्यो धर्मलाभाशिषा संभाव्य विहरन् माण्डव्यपुरमलंकृत्य धार्मिकी भावनां श्रावकाणां प्रबलयन् ततः पाल्हिकानमरीमाजगाम / अनतिप्राप्ताचार्यचरणशुषमा Page #61 -------------------------------------------------------------------------- ________________ / 46 1 ईव जनाः प्रत्युद्वजन्तः सभाजनेन विधिना नगरीमानयाञ्चक्रिरे। तत्र श्रीसंघस्यादरातिशयमनुमान्य चातुर्मासिकी स्थितिः स्वीकृता / ततो दैनन्दिनक्रमेण व्याख्यानानि प्रारब्धानि / प्रथमन्तु तान् धर्माचरणे प्रायुक्त श्रावकाः ? आलस्यादिमहादोषान् दूरीकृत्य स्वधर्माचरणरूपं वीरव्रतमनुपालयध्वम् / भगवती महावीरस्य यूयं धर्मवीरा बालका वीरपचारितधर्ममार्गे सदैव सञ्चरणेनात्मकल्याणरूपं परमतत्वं प्राप्तुं सर्वथा दृढ़परिकरा भवतेति प्रोत्साहनपूर्ण विविधागमप्रमाणपूर्ण दृष्टान्तादिभिः सयुक्तिकं रमणीयतरं व्याख्यानं धर्मभावनायै दत्तम् / अथैकदा भगवताऽचार्येण दानधर्मविषयकं व्याख्यानं कृतम् / यथा व्याजे स्याद्विगुणं वित्त व्यवसाये चतुर्गुणम् क्षेत्रे शतगुणं प्रोक्त पात्रेऽनन्तफलं भवेत् / एवं दानं पात्रविषयकमेव प्रशस्यते शास्त्रे / पात्रमपि द्विविधं दर्शितम् यथा स्थावरं जङ्गमं चेति सत्पात्रं द्विविधं मतम् / स्थावरं पत्रपुष्पादि प्रासादं प्रतिमादिकम् // ज्ञानाधिकं तपः शान्ति निममं निरहङ्कतिम् / स्वाध्यायब्रह्मचर्यादियुक्त पात्रश्च जङ्गमम् / / पात्रे दत्वा दानं प्रयाण्युक्त्वा च भारत / अहिंसाविरतः स्वग" गच्छेदिति मतिर्ममः // ततः स्थावरतीर्थरूपस्य शत्रुञ्जयतीर्थाधिराजस्य यात्रापुण्यफलं वर्णयामास / येन बलाहगोत्रीयः केसाशाहो यात्रार्थ संघस्यायोजनं चकार / ततश्चतुर्विधसंघस्यादेशमासाद्य केसाश्रावकस्य संघपतित्वे संघः शत्रुञ्जयमभिप्रतस्थे / पञ्चलक्षमुद्रिका असौ पुण्यमार्गे व्ययीचकार / तत्र सर्वेषां तीर्थानां सुखेन यात्रा विहिता / अस्यां तीर्थयात्रायां पश्चसहस्रसंख्याकाः साधवो साव्यश्च लक्षपरिमिताः श्रावकाः संगता आसन् / तीर्थयात्रां विधाय संघस्तत्रतः प्रतिनिवृत्तः क्रमेण स्वस्थानमाययौ / आचार्योऽसौ परमज्ञानवान् तपश्चर्यानिरतश्वासीत् / तत्र विचारमकरोत् न खलु तीव्रतपस आश्रयणं विना कर्मक्षयः कर्तुं शक्यः / तदभावे कथमात्मोन्नतिः सुलभा स्यात् ।अतः पुनरपि तपस आश्रयणमेव वरमिति कृत्वा तत्रैवात्मरतिबभूव / ततः तपःप्रभावसमासादितालौकिकप्रभावः क्रमेण सौराष्ट्रमान्ते विहारमकरोत् / बहवो बौद्धाः शास्त्रार्थचर्चायां पराजिताः / सर्वथा ते नतमस्तका यावदुषितं तावदेव तथैव स्थितिमकुर्वन् / सौराष्ट्रदेशे श्रावकैर्निर्मापितानां मन्दिराणां मूर्तीनां च नहीनां प्रतिष्ठापनं, मुमुक्षूणां दीक्षादानं, जैनेतराणां जिनधर्माभिरुचिश्चोत्पादिता सूरिणा। पश्चात्ततो विहारानुक्रमेण कच्छदेशमलंचकाराचार्यः / अत्र साधवस्तु तेन पूर्वमेव सम्प्रेषिता आसन् / तैस्त विद्याविचक्षणः सूरेः कार्यभारो लघूकृतः / सूरेरागमनं ज्ञात्वा श्रावकाणामुत्साहोऽधिकतरं ववृधे / शिष्यः सम्पादितं कार्य ज्ञात्वा सूरिः सहर्ष योग्यपदवीदानेन तान् प्रोत्साहयाश्चकार / यदा सूरिः कच्छ Page #62 -------------------------------------------------------------------------- ________________ [ 47 ] प्रान्तमात्मना भूषयत्यधुनेतिवृत्तं सिन्धपान्तीयैः संपाप्तं तदातस्तत्रागत्य निवेदितम् / भगवन् ? एकवारं जन्मभूमिमागत्य सर्वेषां धर्मतत्वामृतोपदेशेन वधंयतु धर्मभावनाम् / लोकवादरता अपि वयमेवं जानोमो यत्-जननी जन्मभूमिश्च स्वर्गादपि गरीयसो / ततः परं कल्याणभूति ( राजाकोकरावः ) रपि विज्ञापितः- पूज्यवर ! किमुच्यतेऽस्माभिः / सिन्धदेशस्तु भवदीय एव / राजत्वे सर्वसन्मानपात्रं भवानधुना तु सविशेषत इति / परमतपःक्षपितमनोमलो ज्ञानध्यानमात्रनिरतो मुनिराह-अत्रैव गुरुकृपापूर्णमानसो मानसन्माननिःस्पृहोऽहं-प्रतिजन्म जिनधर्म एव भूयो भूयः शाश्वतं शरणमित्यभिलषाभि ।संसारार्णवतारकस्तीरप्रापकः सर्वश्रेष्ठसाधनभूतः सर्वधर्ममार्गशेखरीभूतः स एव एको विजयतामित्येव मामकीनं हृदयम् / एवं जिनधर्मभावनारञ्जितहृदयं प्रणम्य, सूरिं च पुनः पुनरभ्यर्थ्य यथागतं जग्मुः / आगमनस्वीकरणेनानन्दमग्नास्ते गतमप्यध्वानं न बुबु धिरे / एवं कच्छदेशं स्वावस्थानेन पावयित्वा सूरिः सिन्धप्रान्ते ग्रामनगरेषु विहरन् वीरपुरमाससाद / सूरेरागमनं विज्ञाय राजा राहूपो, मन्त्री गोशलशाहः सपरिवारः, श्रीसंघश्च नगरप्रवेशमहोत्सवाय सप्रवृत्तिका बभूवुः / इदमेवात्र विशेषप्रवृत्तौ निमित्तं यदेकतस्तु नगरीनाथो राजा पश्चाच धर्मराजोऽसौ मुनिनगरीमिमामलङ्करिष्यतीति / माता राहूली पुत्रमागतं दृष्ट्वा परमप्रमोदमुदितान्तरङ्गा बभूव / सवैनगरवास्तव्यैः स्नेहभरितं भव्य स्वागतं सम्पादितम् / ततः क्रमशो मिन्नविषयमवलम्व्य व्याख्यानमदात् / इदमेव सर्वतोऽधिकं वैशिष्टयमासीत् तत्र यदा सरिरसौ संसारस्य निःसारतापतिपादकं तादृशं व्याख्यानमकरोत्तदा तद्विचार्य जना हृदयमर्मप्रत्याघातेन सञ्जातरोमाञ्चा अभूवन् / इदमसारताबोधकं व्याख्यानं श्रुत्वैव तत्र चत्वारो भावुका दीक्षोद्यता बभूवुः / अतो दीक्षाव्रतमुण्डनाय पञ्च नापिताः समाहूताः / दीक्षागृहीतारश्च चत्वार आसन् / अतोऽवशिष्टो नापितः खिन्नमानसो वभ व / तदा समीपस्थेन श्रेष्ठिना केनचित्तस्य दैन्यकारणं पृष्ठम् / नापितश्चाह-लाभाशया समागतोऽहं निराशोऽस्मि ततः खेदमुपागतः / श्रेष्ठिना तदैन्यापहरणार्थं दीक्षाव्रतग्रहणार्थञ्च तत्सकाश एव मुण्डनं कारितम् / ईदृशा अपि कारुणिकास्तदानीन्तने कालेऽभवन् / एवं पञ्चमिर्भावुकैः सूरीश्वरसमीपे दीक्षा गृहीता। ततः प्रणतिततिपुरःसरं विज्ञापितो जनानामभिलाषां पूरयितुमसावाचार्यस्तत्रैव चातुर्मासिकी स्थितिं चक्रे / / परमधर्माचरणशीला गहूलीदेवी स्वसम्पदनुसारेण श्रीभगवतीसूत्रवाचनामहोत्सवमारभत / मन्त्री गोशलशाहोऽत्रोत्सवे नवलक्षसंख्यकान रूप्यकान् विन्ययुक्त, प्रतिप्रश्नं तत्र सूवर्णमुद्रामदानं तु किं वक्तव्यम् / नागरिकैरयं पुण्यप्रदोयकमहोत्सवस्यालभ्यो लाभो लब्धः किन्त्वामन्त्रितैः समीपग्रामनगरवासिभिरपि स धन्यमात्मानं मन्यमानैरपि लब्धः / एवं सूरिणा श्रीभगवतीसूत्रवाचनानिमित्त न समग्रः सिंधदेशोऽनुगृहीतः। समाप्ते चतुर्मासे देवी सच्चायिका सविनयमुपकेशपुरागमनप्रार्थनामकरोत् महानलभ्यो लामो भविष्यति, तत्राहमपि सहयोगार्थ सदा सन्निहिताऽस्मीति / ततः पञ्चालदेशे पूर्वस्यां दिशि च विहारस्येच्छां दूरीकृत्य तत्रैव मरुधरप्रांते विहारं व्यधात् / मार्गागतानि ग्रामनगराणि हृदयङ्गमेन Page #63 -------------------------------------------------------------------------- ________________ धर्मोपदेशेनालंकार्य क्रमेणोपकेशपुरसमीपमागच्छत् / उपकेशपुरे चाभानगरीस्थः कर्मशाहः संघन सह महावीरयात्रार्थमागतोऽभूत् / अहो ! स्थावरतीर्थेन सह जङ्गमतीर्थभूतस्याचार्यचरणस्य परमालभ्यो लाभोऽलौकिकप्राक्तनपुण्यकर्मप्रभावेण मयाऽसादित इति विचारयन्नसौ श्रेष्ठी स्वागावधिना नगरमलङ्कारयामास सूरीश्वरागमनेन / ततो वैराग्यापादकं प्रभावपूर्ण सयुक्तिकं शास्त्रप्रमाणप्रमाणितं व्याख्यानमकरोत् संघसमक्षमसावाचार्यः / येन तद्भावनामा वतमानसाः प्राप्तवैराग्या जना दीचोद्यता बभूवुः / कर्मशाहो ज्येष्ठपुत्राय व्यवहारभारं समर्घ्य दीक्षोद्यतोऽभवत् / एवमस्य दृढीयसी धर्मभावनामालक्ष्य त्रिंशन्संख्यका भावुका अपि दीक्षायै समुद्यक्ता जाताः। शुभेऽहनि सूरोश्वरस्तान् दीक्षितानकरोत् / कर्मशाहस्ततः परं धर्मविशालेति नाम्ना प्रथितो बभव / क्रमेण स मूरिसमोपे शास्त्राध्ययनमकरोत् / आगमपथप्रदर्शकानि व्याकरणन्यायसाहित्यादीनि पूर्वमध्यैत / तत * आगमशास्त्राणां क्रमशोऽध्ययनेन प्रकाण्डपण्डितो बभूव / / एकदा ब्याख्याने सूरिः श्रीशत्रुञ्जययात्रामाहात्म्यमुपावर्णयत् / ततः प्राग्वटवंशीयो. रावलशाहः पुण्यतीर्थस्य यात्रायै संघायोजनमकरोत् / सर्वत्रामन्त्रणानि विधाय महता समारोहेण संघः सूरेग्नुज्ञया निष्कासितः / संघे च सपादलक्षपरिमिताः यात्रिकाः प्रभूतसंख्यकाः साधवः साध्व्यशासन् / क्रमेण पुण्यस्थानं प्राप्य सकलां तीर्थयात्रा सम्पादयामास श्रेष्ठी। अस्मिन् धर्मकर्मणि नवलक्षं मुद्राणां व्ययितमासीरोन / अमितं च पुण्यमासादितम् / मार्गे यानि जीर्णानि जिनमन्दिराण्यागतानि तेषां जीर्णोद्धारं दीनेभ्यश्चान्नवस्त्रादिदानमकरोत् / एवं. पर्यटन संघः कतिपयैः साधुभिः सह प्रत्यागतः / सरिस्तु कच्छसिन्धपश्चालादिषु देशेषु विहारं कुर्वन् वर्धयंश्च धर्ममार्गाभिरुचि लोकानां रञ्जयन् मानसान्युपदेशामृतपदानेन हस्तिनापुरमाययौ। तत्र तप्तभट्टगोत्रीयेण नन्दाशाहेन निष्कासितेन संघेन सह संगत आचार्यः सम्मेतशिखरयात्रया सह पूर्वदिगागतानां तीर्थस्थलानां संपूर्णा यात्रा चकार। पुनश्च हस्तिनापुरमागमनेन भषयामास / तत्र धर्मस्य महती प्रभावना विहिता! तत्र भावुकानामाग्रहेण चतुर्मासो विहितो येन जनानां जीवने सूरिव्याख्यानस्याप्राप्यो लामो मिलितः / ततः समाप्ते चतुर्मासे मथुरा-सोरीपुरादिषु परिभ्रमन् शाकम्भरीमगमत् / तत्र सूरीश्वरस्य शरीरेऽकस्मात्कापि वेदना प्रादुर्भता / अतः शरीरस्यास्थैर्य विचिन्त्य धर्मविशालं मुनि स्वपट्टस्थापयत् / कक्कररीत्यभिधेयं तस्य विहितम् / ततः पञ्च दिनानि समाधौ स्थित्वा दिवमगात् / // इति श्रीयक्षदेवमरिचरितम् // [वि. सं. 336 तः २८-प्राचार्यः श्रीकक्कसूरिः ( पञ्चमः) 357 प. 1 श्रीयक्षदेवसूरिपट्टे श्रीकक्कमरिश्चारित्रचूडामणिरुत्कृष्टक्रियाकलाकलापकः समायातः / असौ श्रेष्ठिगोत्रीय आभापुरीवासी चासीत् / पिता धर्मणशाहो प्रचुरतरवाणिज्य क्रियाकुशलो, माता च सतीशिरोमणिर्जेतीदेवी / तयोः पुत्रः कर्मशाहो बभव / धर्मासक्तचेता धर्मणशाहो वाणिज्यः कर्मासादितद्रव्येण वारत्रयं तीर्थयात्रायां संधनिष्कासनमकार्षीत् / आमापुयां भगवत आदीश्वरस्य विशालं मन्दिर निर्माय श्रीसंघाय समर्पितम्, एवं लक्षाधिक द्रव्यं धर्मकर्मण्येवोपयुक्तमासीत् / Page #64 -------------------------------------------------------------------------- ________________ [ 4 ] अन्ते च व्यवहारकार्यभारं कर्मशाहाय समर्प्य सम्मेतशिखर एवानशनपूर्वकं देहोत्सर्गमकरोत् / असौ कर्म.शाहोऽपि पितुर्मार्गेणैव सर्वकार्याणि संपादयन् पितुरुज्वला कीर्ति सर्वत्र प्रसारयामास / स्वयमुदारस्वभावो धर्मकार्ये प्रधानत्वं प्राप्तः सर्वथा धर्माराधनतत्परोऽभूत् / व्यापारजालजटिलीकृतहृदयोऽपि नित्यनियमेन देवमन्दिरदर्शनादिकायें सदैव सप्रयत्नोऽभूत् / स्वबुद्धिचातुर्येण व्यापारक्षेत्रमधिकं विस्तारितमनेन / व्यापारोऽपि पाश्चात्यदेशेषु विशेषतः प्रसृतोऽभवत् / एवमपि नगर्यामागतानां साधूनां शुश्रषणं तु तदीयमेव मुख्यं कर्तव्यमासीत् / तत्संसर्गतस्तस्य धर्माराधने प्रतिदिन रुचिरधिकां वृद्धि मवाप / एकदाऽर्धनिद्रितं देवी सच्चायिका तमगादीत्-वत्स ! उपकेशपुरस्थितस्य भगवतो महावीरस्य त्वं तीर्थयात्रां कुरु येन ते महान् लाभो भविष्यतीत्युक्त्वा साऽन्तर्दधे / तत उत्थाय स्वचेतसि निश्चयं कृत्वा प्रातरीयं धर्मकर्म समाप्य स्वस्य भार्या सुतांश्च स्वप्नवृत्तान्तं न्यवेदयत् / तैरपि शुभकर्मणि प्रोत्साहनं दत्तम् / अन्यैरपि कौटुम्बिकैरनुमोदितम्-कर्मशाह ! भाग्यवानसि त्वं, तव पूर्वजा जन्मभूमो गन्तव्यं गमिष्याम इति विचारयन्त एव दिवं याताः / स एव लाभोऽद्य कुलदेव्या दत्तः / प्रथमं तु यात्रालाभः परं जन्मभूमिदर्शनम् / ततो भगवतो महावीरस्य दर्शनलाभो देवीसच्चायिकायाश्च वन्दनम् / एवं सर्वपुण्यसाधके कर्मणि न ते विलम्बो योग्य इति / अथ कर्मशाहः शुभे दिने संघं निष्कास्य विहारक्रमागतस्य देवप्रभवाचनाचार्यस्याधिष्ठायकत्वे स्वस्य च संघपतित्वे प्रतस्थे / ___ क्रमेणासौ उपकेशपुरमेत्य चिरकालेप्सिता तीर्थयात्रां महता द्रव्यव्ययेन समपादयत् / दैववशात्तस्य कर्मशाहेन श्रीयक्षदेवसूरीश्वरस्यापि दर्शनलाभः प्राप्तः / इदमेव देव्याः सचायिकायाः प्ररणमासीत् / तत्र सः परमानन्दमग्नान्तरङ्गः सूरीश्वरस्य परमविरक्तिजनकं संसारस्य सर्वथैव हेयत्वप्रतिपादकं व्याख्यानमाकर्य दीक्षामाहीत् / तस्य विशालमूर्तिरिति नाम जातम् / पश्चादसी योग्यतां गतः सूरिपदे प्रतिष्ठापित इत्युक्तं प्राक् / अथ कक्कसूरिर्गामानुप्रामं सशिष्यो विहरनागपुरमलंचकार / तत्र बप्पनागगोत्रीयः पुनडशाहो भव्यसमारोहेण नगरप्रवेशविधिमकरोत् तत्र च संपादलक्षं धनं व्ययीकृतम् / अहो पूर्वकाले जनानामाचार्यचरणयोः कीदृशी भावनाऽसीत् यत्तेषामागमनस्वागतविधावेवेहशो धनव्ययः सहसा कर्तुं शक्य आसीत् / सूरिस्तत्र धर्मसंभावनां कृत्वा व्याख्यानेनापदेशं सर्वेभ्यो विघाय धर्मेऽधिकतरां रुचिमभिवर्धयाञ्चके / ततश्चरडगोत्रीयः कपर्दीशाह उपकेशपुरयात्रार्थ सूरेरनुमत्त्या संघं निष्कासयामास / पन्थानं प्रस्थितः संधो मुग्धपुर-मेदिनीपुरमाण्डव्यपुरादिषु प्रामनगरेषु गच्छन्नुपकेशपुरं प्राप / तत्रत्यः श्रीसंघः श्रीसूरीश्वरस्यागमनं जानन शीघ्र नगरप्रवेशव्यवसाये जनानादिदश / भ्वजतोरणादिभिः सर्व महोत्सवोचितं कर्म कृत्वा महासमारोहणाचार्यचर. णस्पर्शेन पुरमलं कारयामास / तदनन्तरं स कपर्दी सर्वविधां यात्रा विधायाष्टाह्निकामहोत्सवध्वजारोपणादिकायें प्रभूतं द्रव्यं विनियुज्यापरिमितं पुण्योपार्जनमकरोत् / ___ उपकेशपुरे सूरीश्वरस्य व्याख्यानं प्रत्यहमेवाभवत् / एकदासूरिर्व्याख्याने सर्वानुद्दिश्यावदत्-भोः श्रावकाः ! मोक्षमार्गाराधकानि सन्ति यद्यपि बहूनि कारणानि तथापि तत्र सजातीयेषु समभावो, मिथो वात्सल्य साहाय्यकरणं शुश्रषणं चापि कारणत्वेन गण्यते / शास्त्रेऽपि दृश्यते यत् एगस्थ सव्व धम्मा साहिम्मिश्र वच्छलं तु एगत्थ / बुद्धि तुलाए तुलिया देवि अतुल्लाई मणिपाई॥ अपररूच तावद् वात्सल्यभावेनैव श्रीसंघेऽद्य लक्षादारभ्य कोटिपरिमिता जनसंख्याऽवलोक्यते / एवं संख्यावलाधिके संघे या सर्वार्थसाधनिका शक्तिरत्र दृश्यते तारशी नान्यत्र दृष्टचरा / अत एवोक्तम्-संघे शक्तिः कली युगे / संघबलेनैव साधारणा अपि भावुका अलभ्यं यात्रादिलाभं सोकण प्राप्य पुण्योपार्जन Page #65 -------------------------------------------------------------------------- ________________ [ 50 ] कुर्वन्ति / ततश्च सर्वे धर्मरचयश्च भवन्ति / एवं सजातीयवात्सल्यादिविषयकं मननीयं व्याख्यानं श्रुत्वा ते मिथः समभावनोपेतमानसा बभूवुः / एवं धर्मप्रचारकार्य विधाय श्रीककसूरिः शिष्यमंडलसहितः कोरण्टकपुरमगात् / तत्र परस्परं विक्षुब्धचेतसो भावुका उदासीना इवास्य स्वागतविधौ शिथिलादर। आसन् / ततश्च तत्र स्थित: कोरण्टकगच्छीयः श्रीमेरुशिखरमुनिः सर्वानेकीकृत्याह-भावुकाः ! महानयं खेदस्य विषयो यद्भवन्तः सर्वेऽद्य पारस्परिकवैमनस्य. मासाद्याचार्यस्य स्वागतविधावुदासत इति किमधिकमतः परं लज्जास्पदम् / यश्च मिथो विवादविषयः स तु. सूरीश्वर एव शमयिष्यति, किन्त्वघुना प्राप्तकालं स्वागतं शीघ्रमेव सम्पादयन्तु / ते चोपाध्यायवचनमाकर्ण्य संमिलिता महान्वं स्वागत विधि विधाय नगर प्रवेशमकारयन् / आचार्यश्च धर्मलाभाशिषा तान् सर्वान् संभावयामास / अथापरस्मिन् दिने विवादनिर्णयायाचार्य व्यज्ञापयन् / भगवन् ! अत्रैकेनोपकेशवंशीयेन कस्यचित क्षत्रियस्य कन्यया सह पाणिग्रहणं कृतमेतदर्थमस्माकं मिथो वैमनस्यमस्ति श्रुत्वैतत् सूरिस्तान सयुक्तिकं बोधयामास-उपासकाः ! अत्र भवतां का विप्रतिपत्तिः ? एका क्षत्रियकन्या भवत्संप्रदाये समागता जिनधर्माचरणं विधास्यति, पुण्यं च प्राप्स्यति / अपरन्च भवन्तोऽपि क्षत्रिया एवासन् / किञ्च व्यावहारिक क्षेत्रं . . यावद्विशालं तावदेवानुकू ल्यं वर्तते / तस्य संकोचकरणेनैव महती हानिर्भवति / अतः क्षत्रियकन्या जिनधर्मस्य वासःक्षेपं गृहीयात् शिक्षा दीक्षां च स्वीकृत्य भगवतो महावीरस्य स्नात्रमहोत्सवं करिष्यति तदा संघस्थेन केनापि दुराग्रहो नैव विधेयः / शास्त्रे नीतिविषयेऽपि अयं निजः परो वेति गणना लघुचेतसाम् / उदारचरितानान्तु वसुधैव कुटुम्बकम् / अतः सर्वे मिथो वात्सल्येन व्यवहरन्तु / ततः सर्वैरेव गुरुवचः शिरसाऽभिनन्दितम् / बिरोधश्च विभान्तिमगात् / अपरोऽपि वरदत्तस्य विषये जातः कलहः सूरिणा दूरीकृतः / वरदत्तोऽपि गुरुप्रभावप्रभावितो दीक्षामग्रहीत् / अयं सूरेः कार्यदक्षतायाः समवर्तित्वस्यैव शुभः परिणाम आसीत् / अथकदा सूरिवों व्याख्याने कर्मव्यासक्त्या मोहं गतो जीवोऽनादिनि संसारे चक्रवत् परिभ्रमन्नुत्पद्यते म्रियते च / मोहनीयकर्मण उत्कृष्टा स्थितिस्तु सप्ततिकोटिकोटिसागरोपमा विद्यते, तत्रोनसप्ततिपरिमिता मिथ्यात्वदशायां जीवः क्षपयति / यदा धर्मप्राप्तियोग्यानां द्रव्यक्षेत्रकालभावानां निमित्तकारणानां तस्य लाभो भवति तदा मिथ्यात्वमोहनीय-मिश्रमोहनीय-सम्यक्त्वमोहनीया-नन्तानुवंन्धिक्रोधा-नन्तानुबंधिमाना नन्तानुबन्धिमाया-नन्तानुबन्धिलोभरूपाणां सप्तानां प्रकृतीनां क्षयं करोति / एवं सप्तविधप्रकृतिक्षयवशादस्य जीवन दर्शनगुणः (सम्यक्त्वम् ) प्राप्यते / यदाऽस्य क्षायकगुणप्राप्तिस्तदात्र संसारेनोत्पद्यते न च म्रियते / दर्शनेन सह ज्ञानचारित्रयोरप्यावश्यकत्वं श्रीभगवतीसूत्रस्याष्टमे शतके दशमोडेशे विस्तरतो वर्णितम् / ईशं तात्विकज्ञानमस्माकमागमेषु बहुशो निरुपितम् / अतः संसारनिःसारतां विचिन्त्यात्मकल्याणसाधकः पन्थाः समाश्रयणीय इति। एवं परमतत्त्वविषयकाणि बहूनि व्याख्यायानि दत्त्वा ततश्चन्द्रावतीसंघस्यामहातिशयेन तत्राययो / तत्र च श्रीमालगोत्रीयेण दुर्गाश्रावकेण निमाप्तिस्य श्रीशान्तिनाथस्य प्रतिमायाः प्रतिष्ठामकरोत् / सर्वेषां च विज्ञप्तिमनुमान्य चातुर्मासिकमवस्थानमपि चकार येन धर्मप्रचारकार्य सविशेषतः सम्पादितम् / समाप्ते च चतुर्मासे तेनाचार्यानुमत्या शत्रुञ्जययात्राथै संघो निष्कासितः / क्रमेण तत्र तीर्थयात्रा समाप्य सूरेः संसर्गसंसेवनेन प्राप्तसंस्कारः संसारस्य हेयतां च ज्ञानोपदेशेन ज्ञात्वा शुभे दिवसे एकादशसंख्यकैर्भावुकैः सहाईती दीक्षां जमाह / Page #66 -------------------------------------------------------------------------- ________________ / 51 / संघपतिश्च तदीयो ज्येष्ठपुत्रः कुम्भाशाहः संघेन सह चन्द्रावती प्रतस्थे। दीक्षामहोत्सवे सूरिरधोलिखितेभ्यः पदवीप्रदानं चक्रे / 1 पूर्णानंदादिभ्यः पञ्चभ्यो मुनिभ्य उपाध्यायपदम् / 2 राजसुन्दरादिभ्यः , मुनिभ्यो महत्तरपदम 3 कुमारहंसादिभ्यः , मुनिभ्यः पण्डितपदवीम् / . एवं पदवीप्रदानेन मुनीन् संतोष्य तेषां चेतसि धर्मप्रचारकार्यप्रोत्साहनं विधाय सूरिः सौराष्ट्रदेशे विहारमकरोत् / तत्रापि प्रामनगरेषु धर्मस्य जागृतिं प्रचारञ्च विधाय मांसाहारिणां मांसत्यागवतमहिंसापालनञ्चादिशदुपदेशदानेन / मौलिकप्रन्थानां निर्माणमत्र सावकाशेन सम्पादितं सूरिणा / बहूनां नूतनमन्दिराणां मूर्तीनाश्च प्रतिष्ठापनमाचार्यस्य परम्पराप्राप्तमिति नोच्यत एव / एवमेव कच्छसिन्धदेशयोधर्मप्रचारं विधाय पजाबप्रान्तमाजगाम / कियन्तं कालं तत्र विहृत्य धर्मामृतपानप्राप्तसंस्कारान् जनान् धर्ममयैकजीवनान् कृत्वा हस्तिनापुरे मथुरापुर्याञ्च तीर्थयात्रामचीकरत् / ततश्च बुदेलखण्डावन्तिमेदपाटादिषु विहृत्य मरुधरदेशमात्मना विभूषयामास / प्राचार्यस्यालौकिकव्याख्यानप्रभावेण दीक्षितानां साधूनां महती संख्या बभूव / ततः सर्वत्र देशे धर्मप्रचारार्थ तान् प्राहिणोत् / विहरणक्रमेणोपकेशपुरमागच्छदाचार्यस्तत्र कुमटगोत्रीयेण लाधाशाहेन प्रारब्धे महामहोत्सवे सूरीश्वरो देवीसच्चायिकासंसूचनमनुमान्य शुभे मुहूर्ते पूर्णानन्दमुपाध्यायमाचार्यगुणभूयिष्ठं देवगुप्तसूरिनाम्नाऽलंकृतं पट्टे प्रतिष्ठाप्य षोडशदिनानन्तरं योगवलेन स्वर्गमगच्छत् / वि० सं०३५७ तः ] 26 श्राचार्यश्रीदेवगुप्तसूरिः ( पञ्चमः )वि० सं०३७६ प०] श्रीककसूरिपट्टे परमसौभाग्यशाली जिनागमगदितयमनियमतपोनिष्ठो मुनिपुङ्गवः श्रीदेवगुप्तसूरिः प्रतिष्ठापितोऽभूत् - असौ श्रीमालवंशीयः कोरण्टकपुरवास्तव्यश्चासीदस्य रिता लुम्बाशाहो माता च संफुल्लवदनपुण्डरीका ' पविभक्तिपरायणा फुल्लादेवी / ततोः पुत्रो वरदत्तनामा। बाल्यादेवासौ वरदत्तो धर्मप्रियो भगवतो.महावीरस्य मन्दिरे स्नात्रपूजा नियमेनान्वतिष्ठत् / दुर्दैववशादस्य शरीरे रक्तविकृतिको रोगः प्रादुर्बभूव / किन्तु नित्यनियम एवासीदतः-अङ्गीकृतं सुकृतिनः परिपालयन्तीति वचनादसी जिनालये भक्तिप्रवणमानसः पूजां विदधाति स्म / यदास्य रोगस्य प्रबलतरा वृद्धिर्जाता तदा कोरण्टकपुरवासिनः श्रावका भगवत आशातनामयात्तं न्यवारयन् / केचिदस्मै प्रोत्साहनमपि ददुर्यत्श्रीपालेन कुष्टरोगे सत्यपि भगवतोऽर्चना कृताऽसोदतो नात्र कोऽपि दोषकलङ्कले शोऽपि, ततः करोतु नामाऽसौ स्नात्रविधि सुखेनेति तत्र पक्षद्वयं स्थितम / महांश्च पारस्परिको विरोधो दैनंदिनं प्रावध / वरदत्तोऽपि प्रभोः पूजनरूपां प्रतिज्ञामविहाय श्रीसंघस्य मिथः कलहप्रशमनार्थमनशनं चकार / ___एवं प्रभोरर्चनामकुर्वतस्तस्य नव दिनान्यतिक्रान्तानि / तथापि स्वां प्रतिज्ञामनुपालयन्नसौ नवदिवस. पर्यन्तमन्नजलादिकमपि नाप्रहीत् / अथ भगवता महावीरेणास्यानुप्रहाथै प्रेरित इव श्रीककसूरिरत्र समाययो / सर्वैरपि श्रावकैः सूरेः शुभागमनरूपः समुचितावसरो निर्णयार्थ प्राप्तः / समारोहपूर्वकं विधाय च पुरप्रवेशमस्य पुरस्तादिममेव वृत्तान्तं मूलतो निवेदयामा नुः / उभयतो विचारं कुर्वन्नाचार्याऽत्र कमपि निर्णयं सहसा दातुम. शक्नोत् / ततो देवी सच्चायिकां सस्मार / साऽपि सर्वाभिलषितसंपूरण कमलतिकेव तत्र समागता / तमाचाथैच ज्ञापितवती भगवन् ! अस्य वरदत्तस्य रोगो मद्रवप्र रामनकालः समाप्तप्राय एव / अत आगामिनि दिवसेऽस्मै वासःक्षेपो देयो भवतेति कथयित्वा वन्दनं विधाय वरदत्त पार्श्वमेत्य तं जगाइ-भो वत्स ! श्वः सूरि. समीपं गया त्वया वासापोऽवश्यं महोतव्य इत्युक्त्वाऽदर्शनमयासीत् / सोऽपि देवोकथितववनमनुस्मरन् Page #67 -------------------------------------------------------------------------- ________________ [ 52 ) सूरीश्वरपार्श्व गत्वा गृहीत्वा च वासःक्षेपं मन्दिरे स्नात्रपूजार्थमगच्छत् / असौ पूजायै मन्दिरं गत इत्युपलभ्य प्रतिकूलपक्षीया आचार्यसन्निधिं प्राप्यावीचन् भगवन् ! वरदत्तोऽस्यं प्रबलतररक्तविकृतिकरोगावस्थायामपि स्नात्रपूजायै गच्छतीति महदनुचितमेतदिति सर्वास्तानाश्वास्य शनैरवादीत्-गा त्वरयत, मया सर्वमेतच्चिन्तितम् / अस्य व्याधिशमनसमयः समाप्त एवेति कृत्वा मयाऽनुगृहीतः स तत्र गत इति नासौ तस्यापराधः / सर्वे प्रकृति प्राप्ताः / अतः परं वरदत्तोऽप्युपस्थितः / एतं गुरुकृपाकटाक्षकटाक्षितं दृष्ट्वा सर्वे ते परस्परं क्षमामयाचन्त गृहं च प्रत्यागच्छन् / अथान्येद्युः सूरिर्व्याख्याने कषायस्वरूपमित्थमवर्णयत् "कषायस्वरूपवर्णनम्" अस्मिन् जगति सर्वेषां प्राणिनामात्मोन्नतिपथप्रबलविरोधकाः क्रोधमानमायालोभाख्याश्चत्वारः सन्ति कषायाः / ते हि प्रकृतिवैषम्यं विधाय कर्तव्यज्ञानशून्यतामापादयन्ति देहिनाम् / तन्त्र क्रोधमानी द्वेषमूली रागमूली च मायालोभी। अतश्चतुणां कषायाणां प्रेरकरूपेण स्थितावेतो संसरणशीलस्य संसारस्य बीजमित्युच्यते / 1 अनतानुबधिनश्चैते कषाया मौलिकं सम्यक्त्वमुच्छेदयन्ति / 2 अप्रत्याख्यानिनश्चत्वार एते देशवतिगुणं प्रतिबध्नन्ति / 3 प्रत्याख्यानिनश्चत्वारः सर्वव्रतिगुणस्य प्रतिबन्धका भवन्ति / 4 संजलस्यैते कषाया वीतरागिगुणमवरोधयन्ति / एवं सर्वज्ञानविरोधका एवं स्वस्वरूपज्ञाने महतीमेव विप्रतिपत्तिमातन्वते / संसारे प्राणिन एत एव परिभ्रामयन्ति / सर्वमिदं श्रीभगवतीसूत्रस्य द्वादशे शतके प्रथमोडेशे भगवतो महावीरस्य शंखश्रावकस्य च संवादे सुस्पष्टं प्रतिपादितम् / सर्वे च भवन्तः सदस्या नैव जानन्ति यत् .कषायचतुष्टयावेशयुतानां कीदृशी दुःखदावस्था भवतीत्यत्रोदाहरणेन विशदीकरोमि / यथा-ढेलीप्रामे चंडानाम्नी स्थविरामहर्निशमेवोष्णभोजिनं पुत्रमारुणमुपलालयन्ती निर्धनत्वात् पौराणां धनिकानां गृहे कर्मकरी बभूव / एकदा कस्यचिच्छोष्ठिनो गृहादाव्हानमागतं दृष्ट्वा दारिद्रयपीडिता ततः पुत्रस्नेहमपि दुरीकृत्य झटिति पार्क निर्माय नागदन्ते संस्थाय श्रेष्ठिनो गृहमगच्छत् / इयं पुत्रं चण्डप्रकृतिं ज्ञात्वाऽपि बहिर्गतं तं प्रतीक्षमाणाऽत्रागंतासीत् / अथासौ पुत्रो गृहमेत्य तत्रासंनिहितां दृष्ट्वा क्रोधपूर्णहृदयो यावत्सा कार्य समाप्यागता तावत् तां भर्त्स यन् जगाद-श्राः! पापिनि ! मामपि दूरीकृत्य कुत्र गताऽसीः 1 अद्य शूल एवारोपयामि किम् ? बुभूक्षापीडितं मां न पश्यसीति पुत्रवचनं श्रुत्वा साऽपि क्रुद्धा तमाह-मूर्ख ! किं तव हस्ती छिन्नी ? येन नागदन्तावस्थितमपि नीत्वा न भक्षितम् ! एवं कलहं कृत्वाऽन्ते तो विरती बभूवतुः / कालान्तरे तो निधनमगच्छताम् / ततः परमसौ कस्यचित् श्रेष्ठिनः, सा चापि तथैव धनिकस्य गृहे जन्म लेभे / व्यतीते च काले दुर्भाग्यवशात्तयोरेव वाग्दानमभूत् / स च प्राप्तवयस्को देशान्तरं गत्वा प्रभूतोपार्जितधनस्तस्यै कङ्कणद्वयं प्राहिणोत् / स्वदेशमागन्तुमसौ केनचिन्मित्रेण सह निर्गतस्तस्या एव कन्याया प्राममागतोऽपि नाजानादयं श्वसुरमाम इति / बहिरुद्याने स्थितः। अथ सा च सायं शौचार्य गता केनापि तस्करणाकान्ता भृशं चुक्रोश। ततश्चौरो तस्या हस्तौ छिरवा कंकणद्वयं गृहीत्वा मध्य एव राजसेवकानां समापततामागमनं ज्ञात्वा तस्मिन्नेवोद्याने समागतो यत्राऽसौ श्रेष्ठिपुत्रः सुप्तः। भयादनेन तत्समीप एव मुषितं कंकणद्वयं स्थापितम् / आगता राजसेवकास्तमेव चौरं मन्यमाना राजसमीपमनयन् / शूले च से आरोपितो राज्ञा / सुहृदसौ परं पीडितः श्रेष्टिपुत्रस्य श्वसुरालयं गत्वाऽसौ वजामाता एव शूलारूढः कृतो राज्ञेति सर्व तस्मै न्यवेदयत् / तेनाप्युक्तमेषा मे तनया छिन्नहस्ता, किं करोमि ! अहो महत्कष्टं खलुभयतः प्राप्तं मयेति / अनेन स्पष्टं ज्ञायते क्रोधेन कीहशी परम्परामनर्थानामवाप्नोति जनः। अतः सर्वथा विचार्य Page #68 -------------------------------------------------------------------------- ________________ कषायचतुष्टयाधीनमनस्कैन कदापि भवितव्यम् / प्राप्तेष्वपि संयमनेन तद्विनोदनोपायः कर्तव्यः / एवमेव शनैः शास्त्राणां श्रवणेन गुरूणामुपदेशेन, धर्मकर्माचरणेन च शाश्वती कल्याणसाधिका, आत्मोन्नतिर्भवति, / अथ वरदतो गृहं गतोऽचिन्तयत्-अहो मदर्थमेव महानयं संघे कलहो जातः / अस्तु / तथापि कि नामात्र मया प्राप्तम्, यच्च प्राप्तव्यं तत्तु नैवात्मकल्याणमासादितमतो धर्मदीक्षयैवात्मन उद्धारं करोमीति निश्चित्य स्वकीयं दृढं निश्चयं सूरिसमीपे स्फुटमवोचत् / सूरिरपि कल्याणसाधकमेव निश्चयमनुमान्य सप्तभिः श्रावकैः सहितं दीक्षयामास / ततः पूर्णानन्देत्यभिधानं प्राप्य क्रमेण गुरुकृपासमासादितशास्त्रवैदग्ध्यः तपःप्रभावोत्पन्नज्ञानचक्षुः शास्त्रार्थचातुरीविरसीकृतविद्वजननिकरो योग्योऽयमिति सूरिणा विचार्य देवगुप्तसूरीति नाम्ना स्वपट्टे प्रतिष्ठापितः / ___पट्टपदमलकत्यैव पूर्वाचार्यपरम्पराप्राप्तधर्मप्रचारकर्तव्यैकमानसः सूरिरसौ विहरणक्रमेण महदेव विहारस्य क्षेत्रं सर्वतोभावेन पूर्णविकसित व्यधात् / शिष्यमण्डलं सम्यग् विभज्य सर्वत्र धर्मप्रचाराय प्रेषयामास, स्वयमपि तथैव विहारपरिपाटीमुररीचकार / यस्य शिष्यमण्डलमेव कार्यक्षममासीत् तस्य कार्यभारे सौकर्यन्तु स्वाभाविकमेव, शिष्यसमुदाये देवप्रमनामामुनिराकाशगामिविद्यापारगामी, योनिप्रभृतशास्त्रनिपुणश्वासीत् / स च प्रत्यहं शत्रुब्जयतीर्थयात्रां विधायान्नं जलं पागृहात् / एकदा शत्रुजययात्रार्थ गच्छतः संघस्य म्लेच्छैः सहाक्रमणप्रसङ्गोजातः / तेन देवप्रममुनिनेदमवगतं तदा स्वविद्याबलेनासंख्यकान् योधानुद्भाव्य यवनान् पराजयत, पराजितास्ते शत्रुब्जयतीथऽपि संघं त्रासयामासुः / सुष्ठक्तं खलु-शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः। एवं रक्षितजीवना मध्य एव त्यक्ताः, पुनरुपद्रवायोग्रताः, ततोऽसौ मुनियाघ्ररूपं, निर्माय कांश्चित्पातयामास, कांचन प्रजहार, अपरान् विदारयामास / संघश्च दुःखादुन्मोचितः / प्राप्ताया विद्यायाः परोपकारेणैव कृतार्थता भवति / या तदर्थमेवाधिगता सैव प्रभूतपुण्यसंचयमासादयति / अत एवोच्यते विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय / खलस्यसाधोविपरीतमेतद् ज्ञानाय दानाय च रक्षणाय // द्वितीयः सोमकलशनामा सरस्वतीप्रदत्तवचनसिद्धिरूपवरप्रदानयुक्तः तृतीयश्च गुणनिधानो वचनलब्धिसमन्वितश्चाभूत् / सूरेश्चतुर्थः शिष्यः पुरन्धरहंसो नाम वाचनाचार्यः / असो वाचनाकार्ये परं प्रावीण्यमुपागतः स्वगच्छीयान्न केवलम् , अपि तु भिन्नगच्छीयानपि साधूनागमवाचनां कारयामास केवलमागमवाचनां प्रदाय ज्ञानप्रचार एवास्य मुख्य उद्देशोऽभूत् / - एवमादयो बहवः शिष्याः परममेधाविनः शास्त्रचर्चाविद्योतितदिग्विभागा आचार्यस्यैव महती कीर्ति दिगन्तगामिनीमकार्षुः / शिष्योत्कर्षणाचार्यस्यैवोत्कर्षः सर्वत्रैव दृष्टचरः। कविकुलगुरुणा कालिदासेनेदं स्फुटमुक्तम् / सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः, संभावनागुणमवेहि तमीश्वराणाम् / किं प्राभविष्यदरुणस्तमसां विभेत्ता, तं चेत्सहस्त्रकिरणो धुरि नाकरिष्यत् // अथ सूरीश्वरो मरुधर-लाट-सौराष्ट्र-कच्छ-सिन्ध-पञ्चालादिषु देशेषु धर्मप्रचारं कुर्वन् चित्रकूटमाजगाम / श्रीसंघेन सालिबन्धमभ्यर्थितस्तत्रैव चतुर्मासमकरोत् / सर्वागमसाररूपाणि दार्शनिक-तात्विकादिविषयकाणि व्याख्यानानि विधाय जिनधर्मे दृढामास्थामभिवर्धयाञ्चकार / तत्र मेदपाटप्रान्तीया अन्ये च भूमिपतयः सूरीश्वरस्य न्याख्यानैः संप्राप्तधर्मसंस्काराः ठाकरशौश्रावकेण सूररुपदेशादामन्त्रितायाः श्रमणसभायाः कार्यभारनिर्वाहका Page #69 -------------------------------------------------------------------------- ________________ बभूवुः / नानादेशेभ्य आगतानां श्रमणानां महत्या संख्यया सर्व एव समूह एकत्रैव संन्निहित एकनगरीवास्तव्य इवादृश्यन्त जनैः। सभायां पञ्चसहस्राधिकाः साधवो लक्षाधिकाश्च श्रावका, अपरे च महीपाला अन्यधर्मावलम्बिनश्च धनिकशिरोमणयः श्रेष्ठिनः सभायाः परमरामणीयकमधिकं विस्तारयामासुः। सभावेद्यामसौ सूरीश्वरः श्रीदेवगुप्त. सूरियाख्यानपीठमारुरोह तदा सदस्याः सर्वे महता जयशब्देन तमभिननन्दुः / आचाण प्रशान्तगम्भीरेण स्वरेण हृदयङ्गमं व्याख्यानमारब्धम्-सदस्याः! सुदुःसहेऽस्मिन् कलिकाले धर्मस्य ह्रास उपासकानां शैथिल्येन सर्वत्र विहरता मया प्रायो दृष्ट एव / धर्म एव / सर्वस्य जगतः प्रतिष्ठा / सर्वप्राणिनामपेक्षया ज्ञानत एव मानवानां प्रधानत्वम् / अन्यथाऽहारनिद्रादिषु पशुपक्ष्यादिभिः समानतैव / अत एवोच्यते आहारनिद्राभयमैथुनं च सामान्यमेतत् पशुभिर्नराणाम् / धर्मो हि तेम्योऽभ्यधिको विशेषो धर्मेण हीनाः पशुभिः समानाः / अपि च न जातुकामान्न भयान्न लोभाद्धमै त्यजेज्जीवितस्यापि हेतोः। धर्मो नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः / अतो धर्माचरणं विना नैव मनुज जन्मनः साफल्यं लोके / स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयादिति यथाकथञ्चिदप्याचरितो धर्माशः सर्वथैव क्षेमङ्करो भवतीति धार्मिकानुदिश्य पश्चात्प्रचारकानुद्दिश्याह-श्रावकाणामपेक्षया धर्मप्रचारकाणां भवतां समेषां साधूनां साध्वीनाचावश्यकत्वेन प्रधानं खलु कर्तव्यमास्ते यत्सर्वत्र जिनागमगदितसिद्धान्तसरणीमनुसृत्यैव धर्मप्रचारः समधिकतया कर्तव्यः / कर्तव्यपालनार्थमेव साधवोऽत्र स्थापिताः / ते च सर्वत्र व्याख्यानोपदेशादिभिः सर्वान् धर्माचरणासक्तान् कुर्युः / अधुना यत्र कुत्रचित्तान्तेषु बौद्धानां प्रचारो वर्तते तदर्थमस्माभिः सावधानर्भवितव्यम् / एवमनेन धर्मपथेन विहरतां भवतां भगवान महावीर एवानुकूल्यं विधास्यतीति सर्वान् कर्तव्यपरायणान् व्यधात् / ते सर्वे च सामयिक सूरिंवच श्रादृत्य धर्मरक्षाप्रचारपालनादिषु दत्तमनस्का बभूवुः / सूरिश्च तत्रागतानां साधूनां मध्ये ये योग्या श्रासन् तान् पदवीसमर्पणेन विशेषोत्साहोत्साहितानकरोत् / यथा १-योगीन्द्रमूर्त्यादिभ्यः सप्तभ्यः पण्डितपदम् / २-महेन्द्रविमलादिभ्यो द्वादशभ्यो गणिपदम् / ३-निधानकलशादिभ्यः पञ्चदशभ्यो गणिपदम् / ४-शान्तिशेखरादिभ्यः पञ्चभ्य उपाण्यायपदम् / एवं महता समारोहेण समाप्य सभाकार्य तत्रागतानां स्वस्वप्रामनगरागमनप्रार्थनामङ्गीकृत्य, सर्वस्मिन् प्रान्ते विहृत्य धर्मप्रचारप्रवृत्ति वेगबहुलामकरोत् / ततः क्रमेणाघाटपत्तनमाजगाम / तत्र श्रेष्ठिगोत्रीयो मन्त्री श्रीनाहडः पार्श्वनाथमन्दिर निर्मापितवानासीत तत्र प्रतिमाप्रतिष्ठापनं विहितम् / सूरेरुपदेशेन विज्ञातधर्मतत्वा अष्टौ भावुका दीक्षामग्रहीषुः। ततो मरुधरप्रान्ते विहरन शाकभरी-हंसावती मुग्धपुरादीनि प्रामनगराणि स्वागमनधर्मतत्वोपदेशादिभिरलस्कृत्य माण्डव्यपुरमगमत् / तत्र डिडूगोत्रीयेण ठाकरशीशाहेन विहिते महामहोत्सवेऽशोकचन्द श्रीसिद्धसूरिनाम्ना प्रख्याप्य तं स्वपट्टे प्रतिष्ठाप्य सप्तदिनान्यनशनेनातिवाद्य योगवर्यया शरीरमत्याक्षीत् / वि० सं० 370 तः ] 30 श्राचार्यः श्रीसिद्धसूरिः (पञ्चमः) वि० सं० 400 पं० ] श्रीदेवगुप्तसूरिपट्टे जिनधर्मप्रचारको मन्त्रतन्त्रादिविविधविद्याविशारदः श्रीसिद्धसूरिः समायातः / अस्य जावलीपुर निवासस्थानम् / पिता मोरक्षगोत्रीयो जगाशाहो मावा च पतिव्रतानामप्रेसरीभूता धर्मप्रिया जेवीनामिका / Page #70 -------------------------------------------------------------------------- ________________ एकदा जेतीदेवी निद्रिताऽर्धरात्रे रत्नागमस्वप्नं विलोक्य पतिपार्श्वमेत्य संत दीयस्वप्नवृत्तान्तमगादीत् / ततस्तेन कोऽप्यलौकिकप्रभावो रत्नोपमो नीवस्त्वद्गर्भमागत इति कथयित्वा समाहता। सर्वथा धर्ममार्गानु. सरणशीला चतुर्थे मासे शत्रुजययात्रायै गन्तुमियेष, तदर्थच स्वामिनं व्यज्ञापयत् / असौ श्रेष्ठी धनं धर्मसात् कर्तु तदीयं वचोऽभिननन्द / शुभे मुहूर्ते विवेकविधानमुनेरध्यक्षत्वे संधं निःसारितवान् / क्रमेण तत्र गत्वाऽष्टान्हिकामहोत्सवध्वजागेपणार्चनादिकानि तीर्थकार्वाणि कृत्वा परममानन्दं संघस्था सर्वेऽवापुः / एवं तीर्थयात्रयाऽक्षयं पुण्यमासाद्य मध्ये दीनेभ्योऽन्नवस्त्रादिकं, मन्दिराणां जीर्णोद्धारकादीनि च कुर्वन्नसौ श्रेष्ठी स्वनगरं प्रत्यागच्छत् / संघश्च समुचितसरकारेण संमानितः। . अथैषं प्राप्ते दशमे मासे प्राची रमणीयबिम्बं सर्वजगत्कल्याणकरं तेजोनिधानं रविमिव साऽलोकिकतेज:पुज्जपुञ्जितावासस्थानं, सौम्यमूर्ति सुकुमारं कुमारं सुषुवे / क्रमेणासौ सिते दले रुचिरमूर्तिश्चन्द्र इव ववृधे / एवमष्टमेऽब्देऽध्ययनाथे विद्यालयमगच्छत् / पूर्वजन्मकृतसुकृतपुण्यप्रभावेणाल्पेन कालेन व्यवहारोपयुक्तं ज्ञानं प्राप्य धर्मसंस्कारभावितहृदयो जिनागमतत्त्वजिज्ञासुरभव / तदपि धर्मज्ञानं शनैः शनैः सामयिकमासादितम् / प्रत्यहं जिनालये गमनं, स्नात्रपूजाविधिः, देवगुरुमुनीनाञ्च वंदनमस्य दैनंदिनीयः क्रमो जातः / एवमस्य धर्मप्रीति विचिन्त्य तस्य माता तत्पितरं संबोध्य ठाकुरसिंहस्य बलाहगोत्रोद्भवस्य चतुरश्रावकस्य शीलरूप. गुणसमन्वितया जिनदासीनामिकया कन्यया सह पाणिपीडनमकारयत् / येन संसारसुखासक्तोऽपि निसर्गतो दृढ़तरधर्मसंस्कारविशुद्धमानसो, न मनागपि धर्मक्रियाभिर्बहिर्मुखो बभूव / ___ व्यतीतेषु षट्सु मासेषु श्रीदेवगुप्तसूरिरात्मना जाबलीपुरमभूषयत् / जगाशाहस्तत्पुत्रः ठाकरसिंहश्च श्रीसंघेन सहितस्तस्य पुरप्रवेशे महामहोत्सवं चकार, ततो व्याख्यानकाले कृतं मङ्गलाचरणमात्रमेव श्रुत्वा सर्वे श्रावका आनन्दाप्लावितचेतसो बभूवुः / सूरीश्वरस्य व्याख्याने त्यागवैराग्यात्मकल्याणभावनानां विशेषतः प्राधान्यमासीत् / अत्र संसारस्यासारत्वमुद्दिश्य सौम्यगंभीरया वाचाऽवोचत्-अयि धर्मतत्वश्रवणसमेधितमानसाः श्रावकाः ! अयं संसार एव सर्वेषां दुःखानां मूलनिवासोऽस्तीति भगवद्भिस्तीर्थकरैरे सर्वेभ्य उपदिष्टम् जम्मं दुक्खं जरा दुक्खं रोगा य मरणाणि य / अहो ! दुक्खो हु संसारो जत्थ किस्सं तिजंतुणो / जरामरण कंतारे चाउरन्ते भयागरे / . मये सोढानि भीमाणि जम्माणि मरणाणि य / / इमानीह जन्मजरामरणादीनि सर्वाण्येव दुःखानीन्द्रियेभ्य एव प्रभवन्ति / इन्द्रियविषयभूतौ कामश्च भोगश्च / श्राभ्यां कामभोगाभ्यां जीवोऽज्ञानवशंगतः संसारेऽस्मिन् परिभ्रमति / भ्रान्तिभ्रमणयुतचेता असो * मुढो दुःखेऽपि सुखं मत्वा प्रवृत्तो भवति / अर्थात् हालाहलं विषमध्यमृतं मत्वा पिबति / यथा जहां किंपाकफलाणं परिणामो " सुन्दरो / एवं मुत्ताण भोगाणं परिणामो ण सुन्दरो॥ सल्ल कामा विसं कामा कामा श्रासीविसोवमा / कामेय पत्थेमाणा अकामा जेति दुग्गई / किल्च यथाकथंचित्कामभोगाभ्यां प्राप्तवैराग्योऽपि जीवो मातृपितृभार्यापुत्रादिषु स्नेहबद्धः कर्मबन्धमवाप्नोति, / यथा- .. Page #71 -------------------------------------------------------------------------- ________________ माया पिया पहुसा भाया भज्जा पुत्ता य श्रोरसा / नालं ते मम ताणाय लुप्पंतितस्स सकम्मुणा // अहो ! महत्कष्ट खलु ! न जानात्यसौ मूर्खा यदा प्राप्ते हि कर्मादये नैते मे संरक्षका भविष्यन्तीति / अन्तत्वहमेक एव गभिष्यामि / अत एव, सुस्पष्टमुक्तम् / तृणानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि जनः श्मशाने / देहश्चितायां पतितस्तदानी कर्मानुगो गच्छति जीव एकः // ततः कृतं कर्मतु तेनैवोपभोक्त' भवति / तत्रोदाहरणं यथा-कश्चिदेको मिष्ठान्नकोपाचराजकर्मचारिभिरादिष्टोप्तपोलिका निर्ममे / सर्वाश्च निर्माय तोलयित्वा स्थापिनाः। ततोलुब्धमना असो ततश्चतस्त्रो निष्कास्य गृहं प्रेषयामास / तत्रत्यैर्विचारितं वयं चत्वार एता अपि तावत्संख्याका, अतः प्रतिजनमेकेति कृत्वा तिम्रः समापिताः / ततो दैववशादागतं जाल्मातरं वीक्ष्य पाचकाथै स्थापितां घृतपोलिका तस्मै सा गृहिणी ददौ / अपरत्र राजसेवकैर्नीत्वा ताःपोलिकाः पुनस्तत्रतोलिताश्चतस्रो न्यूना जाताः। ते च तद्गृहं गत्वा बह मर्स्यन्तस्त्रं ताडयामासुः / तेनोक्त मान्या यद्यपि मुषिता मया किन्तु न खादिताः / गृहिण्यादिभिरेवखादिताः / ततस्ते ताडनोद्यतास्तावदुक्त भार्यया-अस्माभिः सर्वैरेवंनोक्त यच्चोरयित्वाप्यानयेति / पश्चादसावेव तैः शिक्षा प्रापितः / एवं ये / शुभाशुभं कर्मकेति स एवोपभोक्ता तस्य फलस्य भवति / एकस्यैवापराधस्य महान् दण्डोऽनुभूयते लोके का कथा यावज्जीवं कृतानाम् / अपरञ्च तृष्णावशीभूतचेतसः, कियन्तो धनार्जनवर्धनरक्षणोत्सुका हिताहितं नैवालोचयन्ति / प्राप्तऽपि द्रव्ये सैव भगवती धनाशा चिरं जागर्ति तेषां मानसे / यथा सुवन्नरूप्पस्य उपव्या भावे सियाहु कैलास समा असंखाय / नरस्स लुद्धस्स न ते हि किंचि इच्छाहु श्रागाससमा अणन्ताय // .. न सहस्त्राद् भवेत् तुष्टिर्न लक्षान्न च कोटिना / न राज्यान्न च देवत्वान्नेंद्रत्वादपि देहिनाम् / / अतः संयम्येन्द्रिय प्रचारमात्मकल्याणाप्राप्तये विचारो विधेयः / तदर्थं च न वयोऽपेक्षितम् / वाल्ये कौमारेऽपि सैव कल्याणभावना साधीयसी / शास्त्रकारैरत्रोक्तमेव / यथा- ' परिजूरइ ते सरीर यं केसा ! पडुरायहवन्ति ते / से सव्व बलेय हावई समयं गोयमा ! मा पमाय ऐं। जग जाव न पीडेइ वाही जाब न बढ्इ। जाव्विं दिया न हावन्ति तावधम्म समायरे // महानुभावाः / श्रात्मकल्याणप्राप्तये शोभनोऽवसरो न मुधा क्षपणीयः / शुभस्य शीघ्र कर्तव्यम् / कालस्य कुटिला गतिः / न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतमिति विषयेऽस्मिन् श्रीतीर्थङ्करैर्गणधरैः पूर्वाचायैश्चेदमेवोपदिष्टम् / तथाहि-अरइ गंडं विसुइया अयंके विविहा फुसंतिते / विहडइ विद्धंसह ते सरीरं यं समय गोयमा / मा पमायए // वोच्छिंद सिणेहमप्पणो कुमुदं सारयियं च पाणियं से सव्वं सिणेहवज्जिए समयं गोयमा / मा पमायए / किमधिकं वक्तव्यमवशिष्यते ! भवतामात्मोन्नतियन स्यात्तदर्थमेवागमपरिशीलनसाधुसेवनात्मचिन्तनाछुपायानाश्रयन्तु / अन्यथाऽन्ते पश्चात्तापाहते नान्या गतिरित्युक्तमत्र / अवले जह भारवाहए मामग्गे विसमेऽवगाहिया। पच्छा पच्छाणुतावए समयं गोयमा / मापमायरु // इति // Page #72 -------------------------------------------------------------------------- ________________ एवं वस्तुतत्त्वविवेचनक्षम व्याख्यानमाकण्यं को नाम मुदं न प्राप्नुयात् / अस्यैव प्रभावेण पैराग्परागरजितान्तरङ्ग; ठाकरसिंहो मात्रा पित्रा भार्ययाऽन्यत्रयोदशभिः श्रावकैश्च सह दीक्षामग्रहीत / ततश्चासौ अंशोकचन्द्रमुनिरिति प्रसिद्धिमगात् / सूरीश्वर श्यैनं सर्वागमतत्वसंग्रहणक्षममाघार्यगुणगणरुपशोभित सिद्धसूरीति नाम्ना पट्टेऽस्थापयत् / श्रीसिद्धसूरि: देव्याः सच्चायिकाया अनुमति प्राप्य दक्षिणस्यां दिशि धर्मप्रचाराय जगाम / तत्र प्रामनगरेषु विहारक्रमेण सर्वेभ्यः श्रावकेभ्यो धर्मोपदेशं कुर्वन् मानखेटनगरमाससाद / सर्वोपासकानामादरातिशयवशात्तत्रैव चर्तुमासाषस्थानमङ्गीचकार / सर्वागमरहस्यपूर्णानि व्याख्यानानि तावदवधिकं कृतानि / येनात्राष्टभिर्जनैर्दीक्षा गृहीता। ततश्च विहत्य क्रमशो मदुरामागच्छत् / यशोदेवश्रेष्ठी भगवतो महावीरस्य मन्दिर निर्मापितवान् / तस्य प्रतिष्ठामहोत्सवः सरेरेवाध्यक्षत्वे जातः / प्रतिमा च शुभे मुहूर्ते वरदहस्तेन स्थापिता। ततश्च महती श्रमणसभा कारिता। तत्र कर्तव्यज्ञानमुपदिश्य, समुचितेभ्यः पदवीप्रदानमपि कृतम् / विरक्तिजनकव्याख्याने नात्रापि द्वादश भावुका दीक्षा स्वीचक्रः / ततो विहरन् सौपारपत्तनमेत्य चतुमोस समाप्य दीक्षितानकार्षीदष्ट भावुकान् / एवं दक्षिणस्यां दिशि सर्वत्र प्रामनगरेषु विहारं कृत्वा सर्वतोभावेन धर्मप्रचारमाधाय शिष्यमण्डलसहितः सूरीश्वरो रैवताचलं विहारक्रमेणाजगाम / तत्र श्रीमद्भगवतो नेमिनाथस्य यात्रां चकार / अथैकदा तन्त्र योगिनां महान संघः समागतः। तत्रैकस्तरुणवयास्तापसोऽधिगतविद्योऽपि सर्वथाऽत्मानं पण्डित मन्यमान आसीत् / कदाचित्सूरीश्वरस्य साधारणः कश्चित् शिष्योऽन्यैः साधुमिः सार्द्ध पहिः शौचादि निवर्तयितुमगमत् / भाग्यवशादसावपि मध्ये संगतः / ततो विद्वदप्रेसरस्तापसो मुनिमवादीत्-मुने ! भवदीयधर्मस्य कस्तावन्मुख्यः सिद्धान्तः ? .. मुनि:-अस्मदीयधर्मस्य स्याद्वादो नाम प्रथमः सिद्धान्तः / अपरमपि तस्य नामानेकान्तवादः / तापस:-प्रथम तस्य स्वरूपं विवेचयतु / / मुनिः-वस्तुन्यनन्ताः धर्माः, यत्रैकमेव धर्ममुश्श्यि कथनमसौ स्याद्वाद इत्युच्यते / . तापस:-सोपपत्तिकमुदाहरणमपेक्षितमत्र / मुनिः-यथा एकस्यामेव वनितायां मातृत्वस्वसृ त्त्वपुत्रीत्वभार्यात्वादयोऽनेके स्वभावाः / तत्र मातेय. मिति मातृत्त्वज्ञाने पुत्रस्यापेक्षाऽपेक्षितव / अपरञ्च तत्र मातत्वे निर्धारितेऽपि स्वसृत्वादयो धर्मा नेवापलपितुं शक्याः अन्येषामपेक्षया तत्र स्वसृत्वादीनां विद्यमानत्वाद / एक यस्मिन् वस्तुनि वर्ण्यमानेऽन्येऽपि तत्रान्यापेक्षया विद्यन्त एव धर्माः। यथा-श्रात्मा ज्ञानवानित्युक्ते ज्ञानस्य विद्यमानत्वेऽपि दर्शनादीनामन्येषां सत्ताऽस्त्येव / १-तापसः-भवन्मते को नामात्मा ? किमस्य स्वरूपम् ? २-मुनिः-आत्मा तावन्नित्योऽक्षयः सच्चिदानन्दोऽसंख्यातः प्रदेशी शाश्वतो नित्यं द्रव्यम् / ३-तापसः-यद्ययमात्मा नित्यः शाश्वतं द्रव्यमित्युच्यते तहिं जीवस्य जन्म मरणश्च कथमुपपद्यते ४-मुनिः-न जायते म्रियते वा कदाचिन्न हन्यते हन्यमाने शरीरे / ___ अजो नित्यः श्वाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे // तापस:-कथमत्र निश्चीयते ? प्रत्यक्षन्तु तथैवोपलभ्यतेऽयं जायते म्रियते / लोकव्यवहारेऽप्येवं व्यवड़ियतेऽयं मृतः अयमुत्पन्न इति / ___ मुनिः-अस्तु / व्यहरन्ति सर्वे तथैव / किन्त्वेतत् स्थूलशरीरापेक्षयैवाभिधीयते / कर्मण उदयादस्य शरीरप्राप्तिः। ततश्चायुषा सहसंबन्धोऽपि / तस्य स्थिती समाप्तायां पूर्वशरीरं विहायान्यदाश्रयति शरीरमेवमस्य Page #73 -------------------------------------------------------------------------- ________________ [ ] शरीरमहणपरम्परा प्रवर्तते। तापसः-पञ्चभिस्तत्वैः पञ्चभिर्भूतैश्च शरीरमुत्पद्यत इति किं नाम सत्यमिदम् ? मुनिः-सत्यम् / अत्राप्यपेक्षाऽन्त्येव / सूक्ष्मेक्षिकया भवत्कथनानुसारेणैव विचार्यताम् / यदि पञ्च. भिस्तत्वैः शरीरमुत्पन्नं तदा तत्त्वनाशे शरीरस्य नाशः स्वाभाविक एव / तथापि शाश्वतोऽनादिर्जीवोऽवशिष्ट एव / तत्ववादिभिश्च शरीर स्थितान्यस्थिमांसादिरूपाणि तत्वानि मतानि / तेषां च नाशे शरीरनाश एवायातः / निमित्तापाये नैमित्तिकस्याप्यपायः स्वत एव / तापसः-स्थलशरीरमित्युत्तेऽपरमपि किमस्ति शरीरम् ? मुनि:-एवम / शरीराणि च पंचविधानि / औदारिकम, वैक्रियम, आहारकम, तैजसम, कार्मणञ्चेति / तत्राद्यानि त्रीणि स्थलशरीरमणि / अवशिष्टे चतुर्थपञ्चमे सक्षमशरीरे / श्राहारकं च शरीरं लब्धि पात्राणां मुनीनाम् / शेषाणि च सर्वेषां जीवानां भवन्ति / तत्रौदारिकवैक्रिययोः शरीग्योहपत्तिविनाशौ / लोकाश्च जन्म मरणचेति व्यवहरन्ति / तैजसकाणे शगैरे च सदैव जीवेन सह वर्तेते / यस्मिन काले जीवात्ते पृथकत्वमापते तदा ते शरीरे रिक्त भवतः / तदा जीवस्य मोक्षो भवति. अर्थाज्जीवोऽशरीगे भवति / य च / जीव निगलनं निगकारं चाहः शरीरविषयकमिदं तत्वार्थसूत्रे द्वितीयाध्याये-औदारिकवैक्रियाऽऽकारकतैजसकार्मणानि पञ्च विधानीत्युपक्रम्प शुभं विशुद्धमव्याघाति चाहारक चतुर्दशपूर्वधरस्यैवेत्यन्तेन स्फुटीकृतम् / तापस:-जीवात शरीरं भिन्नं तदा शरीरस्य सुखदुःखयोः सद्भावे जीवस्य ते कथमनुभूयेते ? मुनिः-जीवात्मना सह कर्मणः संबन्धः संयोगाख्यः / शरीरश्च कर्मणः प्रकृतिः। भ्रान्तश्च जीवात्मा ममेदं शरीरमिति मन्यते / तेनैवाहं सुखी दुःखीत्यादि भ्रान्त्यात्मकं ज्ञानमुपपद्यते / तापसः-शरीरेऽस्मिन जीवात्मा कुत्र कथं स्थितः ? मुनिः-यथा तिलेषु तैलम, पयसि घृतम, पुष्पे च सौरभमिव सार्वत्रिकी शरीरेऽस्य नीरक्षीरन्यायेन स्थितिः प्रसिद्धा। तापस:-जीवात्मनः शरीरस्य चोभयोः कुत प्रारभ्य संयोगः ? मुनिः-नानयोनूतनः संयोगः, अनादिकालादेवोभयोः संयोगः / तापसः-संयोगो हि वियोगपूर्वकः / तत्र यदि संयोगाभावस्तदा वियोगाभावे कथमस्य जीवस्य मोक्ष. प्राप्तिः संगच्छते ? मुनिः-यद्यपि जीवास्यानादिः संयोगस्तथापि वियोगस्तु सम्भाव्यत एव / यथा तिलेषु तैलस्य कदा संयोगः ? अर्थात्तत्र तैलं केन निक्षिप्तम् ? न केनापि / तथापि यन्त्रादिना संपेषणेनोभयोः पृथक्करणरूपो वियोगस्तु भवत्येव / एवं जीवात्मनः शरीरस्य च संयोगस्यानादित्वेऽपि सम्यग्दर्शनज्ञानचारित्ररूपाणां मेलनेन वियोगो भवति / अत एवोक्तमस्मच्छास्त्रे-सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः। तत्वार्थसूत्रप्रथमाध्याये 1 सूत्रम् / तापसः-तर्हि सर्वेषामेव जीवानां मोक्षप्राप्तिर्भविाते ? ___ मुनिः-ये हि सम्यग्दर्शनज्ञानचारित्राणामाराधनं कुर्वन्ति त एव मोक्षप्रापका भवन्ति / संसारासक्तचेतसां तत्रैव परिभ्रमता जनानां पूर्वोक्तसाधनत्रयाराधन प्राक्तनजन्मशुभसंस्कारप्राप्तव्यं कथकारं सर्वेषां संभवेद् येन मोक्षः स्यात् / जीवाश्चात्र चतुर्विधाः-१ निकटभावी 2 दुर्भावी, 3 जातिभव्यः, 4 अभव्यः / तत्र जातिभव्याभव्ययोर्ज्ञानादीनामाराधने संयोग एव दुर्घटः / ततश्च मोक्षप्राप्तेः का कथा / जीवस्याष्ट. संख्यकानां कर्मणां मध्ये मोहनीयकर्मण एव प्रभावेण ते संसरणशीला ज्ञानादीनामाराधने नैव शक्ता भवन्ति / Page #74 -------------------------------------------------------------------------- ________________ [ 56 ] एवमादिन शास्त्रतत्वावबोधनेनात्मकल्याणमार्गोऽस्मै उपदिष्टप्रायः / द्वितीयश्चास्माकं सिद्धान्तः-अहिंसा परमो धर्मः / ज्ञानस्येदमेव मुख्यं प्रयोजनम् / अतो जिनागमपरायणाः साधवः सजीवमनुष्णीकृतं जलमग्निं बनस्पतिश्च नैव स्पृशन्ति / आत्मकल्याणसाधकस्यायमेव प्रधानतमो मार्ग इति / येन च धर्माश्रयणेन तदात्मकल्याणं शक्यं साधयितु स एव निष्पक्षपातेनादरणीयः / अत एव जिनागमे सुव्यक्तमेवावगम्यते / सुच्चा जणइ कल्लाणं सुच्चा जणइ पावयं / उभयपि जाणइ सोचाजं सर्व समायरे // स एव धर्मः सत्यदयादानक्षमादिभिरूत्पद्यते, वर्धतेऽवस्थाप्यते च / यथा सत्येनोत्पद्यते धमा दयादानेन वर्धते / क्षमयाऽवस्थाप्यते धर्मः लोभक्रोधाद्विनश्यति // एवं मुनिनिरूपितं जिनागमतत्वं निरुप्याऽसौ तापसस्तेन सहैव गुरुसमीपमगच्छत् / अन्येऽपि तापसास्तत्र तेन सहैव.समायाताः / अयमेव श्रेसः पन्था इति निश्चित्याचार्यसमीपे शुभे मुहूर्ते एकादशभिस्तापसैर्दीक्षा गृहीता तेन तापसेन / अत्र भगवतः सूरेरेव प्रधानः प्रभावः / तस्य तापसस्य शान्तिमूर्विनाम परिवर्तितं सुरिणा / पूर्वमेव कृतशास्त्रपरिश्रमोऽल्पेनैव समयन जिनागमशास्त्राण्यधीत्य सर्वशास्त्रार्थपारगो बभूव स मुनिः / अथ सूरिरसी सौराष्ट्रदेशादारभ्य सर्वत्र विहारेण धर्मसंवधनप्रयोजकानि कर्माणि सम्पादयन् क्रमेण माण्डव्यपुरमाससाद / तत्र श्रीष्टगोत्रीय : पारसशाहो महामहोत्सवं विधाय सूरेः स्वागतं चकार / अन्तिमवतुर्मासश्वात्रैव कृतः। स्वायुषोऽस्थैर्य परिलक्ष्य शान्तिसागरमुनि रत्नप्रभसूरीति नाम विधाय स्वपट्टे स्थापयामास / स्वयमेकोनविंशतिदिनान्यनशनं कृत्वा समाधियोगेन महाप्रस्थानमकरोत् / देव्याः सच्चायिकायाः परामर्शनावगतं संघेन यदसौ सूरीश्वरः पञ्चमं स्वर्गमारूढः / महाविदेहक्षेत्रे च मनुष्यजन्मोपभुज्याऽसौ मुक्तिमेष्यतीति / सूरिरयं स्वस्य शासनकाले सर्वतोमुखप्रयत्नेन धमाभ्युदयाय परिकर आसीत् / परितो धर्मप्रचारेण जिनधर्मस्य पूर्णतया मूलदाढ्य कृतवान् / पट्टावलीकारेण विस्तरतो वर्णितमस्य चरित्रमतो प्रन्थगौरवभिया विरम्यतेऽत्र / संक्षेपतः श्रय ह्याचार्या महान् युगप्रवतेको बभूवेत्यलं पल्लवितेन / [वि. सं. 400 तः] 31 प्राचायः श्रीरत्नप्रभसूरिः। (षष्ठः) [वि० सं० 424 प०] ___ श्रीसिद्धसूरिपट्टे तप्तभट्टगात्रोद्भवो रत्नसन्निभतेजोमूर्तिः काव्यकलाकोविदः श्रीरत्नप्रभसूरिः शंखपुरवास्तव्यः समायातः / अस्य पिता महावैक्रयिक आगमप्रदर्शिताचारनिपुणो धन्नाशाहः पूर्वजन्मकृतपुण्यप्रभावान्नानावस्तुजातव्यापारेणापरा धनाधिप इव सर्वत्र कीर्विमवाप / माताऽस्य धर्मपरायणा फेंफादेवी / तयोरयं सूनुर्भीमदेवः / एकदा सवयोभिः सुहृद्भिः पर्यटनसमये दीर्घकायं महाभुजङ्गस ददर्श / मिथो वार्तालापनिमग्नाः सर्वे मार्गमध्यपतितं तमदृष्ट्वाऽगताः / यदा भीमदेवेनेदं ज्ञातं तदा विचारितम्-अहो ! अद्य करालकाल इव व्यालो दृष्टः / भाग्यादेव जावनं रक्षितम् / एवं चन्चलेऽस्मिन् जीवने को नाम विश्वासः / अत आत्मश्रेय एव विधातव्यम् / येन निरुपद्रवा शाश्वती शान्तिः स्यादिति विमृशन्नसो गृहमागत्य मातापित्रोरप्रे सर्पवृत्तान्तं न्यवेदयत् / वाभ्यामसो सावधानत्वेनोपदिष्टः / किन्तु विगतसंसाराभिलाषोऽयं सर्वथाऽत्मचिन्तनेन दिनान्यत्यवाहयत् / इतश्च तस्यैव सद्भाग्यवशादाचार्यः श्रीसिद्धसूरिः शंखपुरमाययो / सर्वश्रावकसमम्पादितस्वागतसत्कारोऽसौ संसारसंसरणभजिकां दशनां ददो यथा- असंखयं जीवियमापमा यये जरोवणीयस्सह णस्थि ताणं / एवं वियागाणि जणे पमचे करण विहिंसां अजय गहिति / / Page #75 -------------------------------------------------------------------------- ________________ [60 ] तेणे जहा सपिं मुहे गहिए सकम्मुणा किच्चइ पाव कारी। ____ एवं पया पेच्चइहंच लोय, कडाण कम्माय नमोक्खअत्यि / / एवं सूरीश्वरस्य, वराग्यापादकं व्याख्यानमाकर्ण्य वराग्यरागसमेधितमानसो भीमदेवो मातरं पितरञ्च प्रबोध्यकत्रिंशत्परिमितेः श्रावकैः श्राविकाभिश्व सह भगवती दीक्षां जमाह / श्रीधन्नाशाहस्य ज्येष्ठः पुत्रो रामदेवो दीक्षामहोत्सवमन्वतिष्ठत् / सूरीश्वरोऽस्य शांतिसागरेति नामप्रसिद्धिमकरोत् / आचार्यसमीपं शुश्रषणपुरःसरमसो लक्षणादिनानाशास्त्राभ्यासाद् विद्वज्जनमण्डलीमण्डायमानकोतिराशिबभूव / * अथैवं विहारक्रमेण श्रीसिद्धसूरिर्डमरेलपुरमाजगाम / तत्रौको रसायनविद्यापारगो जिनधर्म निन्दकस्वदीयपूर्वाचार्याणामवगुणवादी योगी प्रतिवसति स्म / स एकदा शौ वनिवृत्यर्थ बहिः प्रयान्तं शान्तिसागरं मुनि मिलितः प्रत्युवाच-रे परमेश्वरकर्तृत्वनिषेधक ! मुने! स्नानादिना शुद्धयभावे कथं त्वमीश्वरस्तवनं करोषि 1 कथञ्चेश्वरस्थ कर्तृत्वं न स्वीकरोषि 1 अतोऽहं दृढं विश्वसिमि जिनधर्मानुयायिनो भवन्तः खलुः नास्तिका एवेति वदीयं वचः समाकार्य तमीश्वरात्मस्वर्गापवर्गाणां जिनागमप्रतिपादितान् सिद्धान्तानवेदयत् / ततश्च वापसोऽसौ सूक्ष्मतो जिनधर्मरहस्यं निशम्य सूरिपार्वमेत्य स्वशिष: सह दीक्षितो बभूव / पश्चादानन्दमूर्तिरिति नाम्ना प्रथितः / काले व्यतीते श्रीसिद्धसरिः सकलगुणगणगीयमानचरित्रं शान्तिसागरमुनि श्रीरत्नप्रभसूरिनाम्ना स्वपट्टे प्रतिष्ठाप्य / १-सोमप्रभादिभ्यः पञ्चभ्यो मुनिभ्यः उपाण्यायपदम् / २-राजसुन्दरादिभ्य एकादशभ्यो , पण्डितपदम् / ३-कल्याणकलशादिभ्यः सप्तभ्यो , वाचनाचार्यपदम् / ४-रत्नशेखरादिभ्यो नवभ्यो , गणिपदम् एवं पदवीप्रदानेन मुनीन् धर्मप्रचारप्रोत्साहितान् विधाय समाधिना देहमुत्ससर्ज / ततः श्रीरत्नप्रभसूरिः पन्चालदेशस्थां भावस्तीनगरीमगमत् / तत्रैकदा व्याख्याने क्षणिकवादिना सौगतेनोक्तम्-सूरे ! तव व्याख्यानश्रवणाज्जनाः स्वर्गलोमान्नरकमयाच्च मौलिकोन्नविमार्गान्निवर्तन्ते अतस्तव व्याख्यानं निश्चितमेवोत्कर्ष प्रतिरुणद्धि / एवं सौगतस्य मुनेवेचनमाकये क्षणिकवादस्य व्यर्थत्व, जिनधर्मस्य च वैशिष्ट्य शास्त्रसिद्धान्तसरणीमनुसत्य प्रतिपादितम् / येन सोऽपि सद्धर्मप्रभावप्रभावितो भूत्वा सूरिपार्श्वे दीक्षितोऽभवत् / ततः स प्राचार्यों विहरन्ननुक्रमेण तक्षशिला भूषयामास / सर्वेषामुपासकानामाप्रहं विचिन्त्य तत्रैव चतुर्मासमकरोत् / समुचितोऽयं पुण्यार्जनसमय इति मत्वा भद्रगोत्रीयो चाचणश्रावकः श्रीभगवतीसूत्रवाचनामहोत्सवमन्वतिष्ठत् / चतुर्मासानन्तरं श्रेष्ठिगोत्रीयण हाप्पाशाहेन सम्मेतशिखरयात्रायः संघो निष्कासितः / श्रीसम्मेतशिखरयात्रा विधाय वत्र परमपावने तीर्थे सूररुपदेशाज्येष्ठापुत्राय कुम्भाशाहाय संघपतित्वमर्पयित्वा स श्रेष्ठी हाप्पाशाह एकादशभिर्भावुकैः सह दीक्षामप्रहीत् / ततो विहरन्सूरिश्चन्देरीनगरीमाजगाम / तत्र महामारीरोगस्य प्रबलवरोपद्रव आसीत्, जनाश्च सर्वथा महत्कष्टमन्वभूवन् / परमकारुणिकचेताः सूरि वृहच्छान्तिस्नात्रपूजनमकरोद्रागोपशमनार्थम् / ततश्वरागः शान्तिमगात् / सर्व चाज्जीविताः कृताः / ततो निर्गताः विहरणकरण जन्मस्थान शंखपुरमगमत् / तदीयमागमनमाकण्यं शंखपुरवासिभिर्जनैर्नगर प्रवेशोत्सवः कृतः / सर्वे च तत्रत्या नूनमनेन सर्वजगद्विदितं कुलमधिकमुज्वलीकृतमिति प्रशशंसुः / तेषामादराधिक्यात्तत्रैव चतुसिंविधाय जिनधर्मविषयफव्याख्यानेन मनांसि रब्जयामास श्रोतृणाम् / चतुर्मासान्ते सूरेमिकव्याख्यान प्रभाबेण शंखपुरे एकादशपरिमितर्भावुकैर्दीक्षा स्वीकता / एकपा देवी सच्चायिका बन्धनार्थमागवा जमुहिश्यावादी-भगवन् ! अधुनोमकेशपुरविहारे महानेव Page #76 -------------------------------------------------------------------------- ________________ धर्मलाभः स्यात्ततस्तत्रैव विहारं करोत्विति देवीकयनमाहत्य सूरिरपि क्षेत्रस्पर्शनाभावनया ततो निर्गत्योपकेश• पुरमाययो / तस्मिन् समये तस्याधिपतिः-आल्हणरावः आसीत् / स च जिनधर्मस्य परमोपासको दृढश्रद्धावान् संघेन सह स्वागतविधि महासमारोहेण समपादयत् / तदीयाश्च प्रार्थनामङ्गीकृत्य चतुर्मासव्रतं तत्रैव चकार सुरीश्वरस्य चतुर्मासावसरमासाद्योपकेशनगराधिपतिरसी राजा आल्हणः श्रीभगवतीसूत्रवाचनामहोत्सव राजसंपदनुसारेण सूरिहस्तेनाकारयत् / अष्टाह्निकाद्युत्सवानुष्ठानेन धर्मभावनां जनानां समवर्धयञ्च। चतुर्मासानन्तरमाचार्यदर्यस्योपदेशमहिम्ना श्रमणसभाकार्यमारब्धम् / सामन्त्रणं प्राप्य, चरमतीर्थङ्करस्य भगवतो महावीरस्य यात्रामप्युद्दिश्य, गुरुवर्यदर्शनलाभन्चानुषङ्गिक विचिन्त्य च सहस्रत्रयपरिमिताः स्वगच्छीयाः कारण्टकगच्छीयाः सोधर्मगच्छीयाश्च साधवः साध्व्यश्चोपस्थिता आसन् / तत्र स्वधर्माभ्युदयप्रवृत्तिमुद्दिश्य सर्वेभ्यो धर्मप्रचारकरणं मुख्यतोऽस्मदीयमेव कर्तव्यमित्यादिश्य सभा विससर्ज सूरीश्वरः / तत्रैव श्रीसंघानुमोदनानुसारेण स्वपट्टे प्रमोदरत्नमुनि यक्षदेवसूरीति नाम विधाय स्थापयामास / स्वयञ्च लुणाद्रिकाननेऽनशनेन समाधिपूर्वकं शरीरमत्यजत् / वि० सं० 424 तः] ३२-आचार्यः श्रीयनदेवसूरिः (षष्ठः) वि० सं० 440 प०] श्रीरत्नप्रभसूरिपट्टे जिनशासनसद्मप्रधानस्तम्भो यक्षार्चितचरणकमलयुगलो जिनगदितागमधर्मकर्ममर्मज्ञः श्रीयक्षदेवसूरिः। असौ करणावतीनगरनिवासी कन्नौजगोत्रीयश्वासीत् / अस्य जनकोऽपरो निधिपतिरिव सर्वेषां धनिकानां मूर्धाभिषिक्तो बभूव / तस्य दानजन्या कीर्तिकन्या दिगाङ्गणे रिङ्गन्ती ततोऽपि पारं गन्तुमियेष / एवं नासो केवल धनिकः, अपि तु परमधार्मिकः पञ्चवारं तीर्थयात्रासु संघायोजनेन द्रव्यस्य सदुपयोगमप्यकरोत् / सुवर्णमुद्रिकोपायनं प्रतिजनं संघस्थेभ्य इति धनिकस्येशस्य किं वक्तव्यम् / कोऽप याचकः कल्पद्रुमादिव तस्य सकाशाद्विफलमनोरथो न न्यवर्तत / सत्यमुच्यते शतेषु जायते शुरः, सहस्रषु च पण्डितः / वक्ता दशसहस्रेषु, दाता भवति वा न वा // ..महामोहलुब्धानां जनानामियं वराकी धनाशा सर्वथा कद करोति / एवं सत्पात्रे त्यागस्तु सत्यपि विभवे न सर्वेषां दृष्ठचरः। अस्य सतीधर्मानुरक्ता धर्मप्रिया रोहणीनाम्नी सर्वदा पतिमार्गानुसारिणी सरलोदारस्वभावाऽसीत् / तस्याः पाताशाहनामा सूनुरभवत् / तया च धर्मरतया भगवतो वासुपूजस्याराधनार्थमेकं विशालं मन्दिरं निर्माप्य तत्र भगवतो वासुपूजतीर्थङ्करस्य प्रतिमा प्रतिष्ठापिताऽसीत् / असौ पाताशाहोऽपि प्राप्तधार्मिकसंस्कारसंस्कृतमतिः पितुरिव वदान्यतमोऽभूत् / मातापित्रोदेहावसा. नानन्तरं, व्यवहारभारो बलादपि तस्येव शिरसि समापतितः। देव्याः सच्चायिकायाः प्रसादादसावपि व्यापारकार्य कोटिपरिमितं द्रव्यमवाप / धर्मकार्याणि च सम्पादयामास / अथाऽतीते काले दुर्दैवाद्विक्रमस्य 429 तमे व भयंकरः क्षयङ्करो दुष्कालोऽभवत् / सर्वत्र प्राणिनां करुणाक्रन्दनं दुभेद्यहृदयविदारकं विहाय न किंचियत / अस्मिन् समये पावाशाहेन करणावत्यामन्नस्य तृणघासादीनां मुक्तहस्तेन दानं विहितम् / आपणे दोनेभ्यो देयवस्तूनि सर्वत्र संस्थापितानि येन जनसंमर्दो न भवेत् तद्ग्रहणार्थम् / नात्र जावीयानामाग्रह आसीत / व्यापारे यद् यदुपार्जितं, येच गृहिण्या मणिमयरत्नखचिताः सुवर्णालंकारास्ते सर्वऽपि दुःखितानामुद्धरणे समर्पिताः / एवं कृतेऽपि प्रबन्धेऽसौ दुर्विपाकः करालकालो दुष्कालो न शान्तिमगमत् / ततः पाताशाहः कुलदेवतां सच्चायिकामस्मरत्भगवति / स्वमीरशमेव पोरु मे देदि, येनाई दुर्मिनशमनं विवण्यामिति / ततः सा मत्यक्षदर्शना प्रसवदना वस्म Page #77 -------------------------------------------------------------------------- ________________ [ 621 ] धनभस्त्रिकामदात / यथेप्सितं द्रव्यं त्वयाऽस्याः प्रभावेण लप्स्यत इत्युक्त्वा साऽदर्शनमगात् / सोऽपि सच्चायिकाप्रदत्ताक्षयद्रव्यनिधिप्रभावाच्चतुर्दिक्षु सहायदानमकरोत् / ततः सुभिक्षमप्यभवत् / पाताशाहोऽपि देवी ध्यात्वाऽहूय च धनभस्त्रिको प्रत्यार्पयत / तदीयपरोपकारमुदितान्तरंगा सा यथेच्छमुपभुक्ष्वेति तस्मै प्रसादरूपेणायच्छद् येनाऽसौ विगतद्रव्याभिलाषः / उपार्जितानां वितानां त्याग एव हि रक्षणम् / तडागोदरसंस्थानां परिवाह इवाम्भसाम् // इति मत्वा त्याग एव कृतप्रवृत्तिर्बभूव / इतश्च श्रीरत्नप्रभसूरिः पञ्चशतसंख्यकैः शिष्यैः सह करणावतीमलंचकार / श्रीसंघेनातीवोत्साहपूर्वक पुरप्रवेशोत्सवः कृतः / अन्येद्युाख्याने चक्रवर्तिनामपि भूमिपतीनां सा सम्पत्तिरत्रैव स्थिताऽन्यैर्भुक्ता भवति / न च कुटुम्बिनोऽन्ते सहायकाः, आपाततः परिदृश्यमानमिदं परिणामे तु नास्त्येव / सूष्ठूच्यते यत् चेतोहरा युवतयः सुहृदोऽनुकूलाः / सदान्धवाः प्रणयगर्भगिरश्च भृत्या / गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः / सम्मीलने नयनयोर्नहि किंचिदन्न / अतः परमकल्याणप्राप्तये यत्नोऽहनिशं विधेयः / एवमित्यादिकं सुरेाख्यानमाकर्ण्य प्रथमत एब जातवैराग्यः पाताशाहः समधिकविरक्तिभावनामावितहृदयो बभूव / अन्यद्विसप्ततिसंख्यकैर्भावुकैः सहाऽसौ दीक्षादीक्षितो जातः / तस्य चाभिधानं प्रमोदरनमुनिरिति विहितं सूरिणा / परमधर्मतत्वजिज्ञासुः क्रमेणाव्ययनं विधाय जिनशास्त्रसम्पादिससिद्धान्तरहस्यज्ञानपारगो बभूव / सम्पूर्णयोग्यताश्च ज्ञात्वा रत्नप्रभसूरिणा स्वपट्टे प्रतिष्ठापितः। प्राचार्यः श्रीयक्षदेवसूरिविहरणक्रमेणोपकेशपुरं सम्भाव्य मरुधरप्रान्ते प्रामनगरोपनगरेषूपदेशादिभिर्धर्मप्रचारं कुर्वन्नर्बुदाचलमाससाद / कियन्ति दिनानि तत्र निवृत्तिः सेविता / एकस्मिन् दिनेऽसो सूरिमध्यान्हे ध्यानस्थितस्तदाऽर्बुदाचलाधिष्टात्री चक्रेश्वरी सच्चायिका च देव्यो तत्रागत्य प्रणेमतुः / सूरिश्च धर्मलाभाशिषा संभावयामास / ततो देव्यावूचतुः-भगवन् ! एतावत्कालपर्यन्तं धर्मशासनं सर्वथाऽत्रैकनेतृत्वेनाचार्यस्याविच्छिन्नपरम्परातः प्रचलति / चतुर्विधसंघोऽप्ये कस्य नेतृत्वेन धर्मसंरक्षको वर्तते, किन्त्वतः परमस्मिन् विषमे समये ना मर्यादाऽविच्छिन्नपरम्पराया अप्रेस्थिरा भवेनवेति सन्देहः / तथापि भवद्विधा असाधारणमहिममहनीययशोवतंसा प्राचार्यवर्या विद्यन्ते तावत्तु वयमपि दृढं विश्वसिमोऽत्र विषये / पूर्वाचार्यपरम्परासरणीतरणाकृतधर्मप्रचारकार्याभिनिविष्टचेतसो मे खलु विश्वासो यत्रैव मार्गेऽहमपि धुन शीघ्रं च प्रयत्नमाचरिष्य इति सूरेर्वचनमाहत्य वंदनं विधाय च स्वस्थानं ते दन्यो ययतुः / सूरीश्वरस्यार्बुदाचले स्थिति ज्ञात्वा सौराष्ट्रदेशे धर्मप्रचारार्थ विहरन्तो देवभद्राचा मुनयस्तस्य दर्शनार्थ समाययुः / भगवत आदीश्वरस्य दर्शनं विधाय, तमाचार्य प्राप्य, प्रणामक्रमेण सम्भाव्य च धर्मरक्षार्थमेव भवन्तः प्रयतन्त इत्यत्र वयमपि हृदयानन्दनिर्भराः किं महे / एवमाभाष्य सूरिस्तान, भवन्तोऽप्यत्र सहयोगमवाप्य विविधदशे विहरन्तो धमप्रचाराय प्रयतन्तां सफलतां च प्राप्नुवन्तु तदैतत्कतव्यमस्माकीनमिति / संसाचन विधाय तेषां गोचर्यादिप्रबन्धाय प्रेषयामास शिष्यान् / ___अथ आचार्यवर्यस्वतः शिवपुरी सह शिष्यमण्डलेनात्मना भूषयामास / तत्र परमधार्मिकेण बप्पनागगोत्रीयेण शोमनशाहेन भगवतः पाश्वनाथस्य मन्दिर निमोपितमासीत / वस्य प्रविमाप्रतिष्ठामहोत्सवः भीसूरी Page #78 -------------------------------------------------------------------------- ________________ [3] श्वरस्य परमपवित्रकरकमलेन जातः / तत्र भावुकेभ्यो धर्मोपदेशो विहितो, येन स शोभनशाहो भगवतीमाईती, दीक्षामग्रहीत् / - अपरतो मेदपाटदेशे बौर धर्मानुयायिनो बौद्धा बुद्धधर्मप्रचाराय समागतास्ते च जिनधर्मस्यावहेलना विधाय स्वधर्मस्योत्कर्षमवर्धयन्त / तत प्राघाट नगरस्थः श्रीसंधः सूरेः पार्श्व मेत्य सर्वमेव तेषामुदन्तजातमावे. द्याघाटपत्तनं पावयित्वा धर्मप्रचारायाचार्य व्यजिज्ञपन / धर्ममयैकजीवनः सूरीश्वरः सत्वरमेवाजीकृत्त्य तदीयामभ्यर्थनामाघाटपत्तनं सशिष्योऽभिप्रतस्थे / रात्री प्राप्तावकाशाः सूर्योदये तस्करा इव ते बौद्धा मुखमप्याचार्याय दर्शयितुं लज्जमानाः क्वापि पलायन्ताचार्यगमनात्प्रागेव / तत्र भावुकानां धर्माचरणे स्थैर्यापादनं विधाय स मथुरापुरीमगच्छत् / तत्र कापालिकनामा वेदाचार्योऽन्तेवासिभिः सह न्यवात्सीत् / एकदाऽसौ कापालिकः स्वव्याख्याने जिनधर्म महता स्फटाटोपेन निनिन्द / येनाचार्यस्तेन सह शास्त्रार्थाय सज्जीबभूव / प्रबलतरैः शास्त्रीयैः प्रमाणैरहिंसाधर्मस्य सर्वधर्मश्रेष्ठत्वमदर्शयत् / तेनापि प्राधान्यमङ्गीकृतमतः श्रोतणां तु वक्तव्यमेव नावशिष्यते / वैदिकी हिंसा न दोषायेति मतमपि खण्डितम् / जिनधर्ममर्मभावनामाचार्याद्विज्ञाय पञ्चशत. संख्यकैः शिष्यैः सह दीक्षितोऽभवत्मूरिपार्श्व कापालिकः / कुकुन्दमुनिरित्यभिधेयेन विश्रतो बभव / अपरन्च सुरेरलौकिकज्ञानप्रभावेण तत्र द्वात्रिंशत्परिमितैबौद्धैरपि दीक्षा गृहीता / एवं प्राथमिकं धर्मसंभावनाकार्य समाप्य श्रीसंघेन निर्मापितानां नतनानी जिनालयानां प्रतिष्ठाविधिविहितः। ततः पूर्वप्रान्तीययात्रायै सग्वणशाहेन संघो निष्कासितः / तत्र प्राचीननूतनशिष्यगणपरिवृत छाचार्यः कलिङ्गदेशस्थशत्रुक्षयरैवतकावताररूपस्य खण्डगिर्युन्यगिरितीर्थस्य यात्रां विधाय बंगप्रान्ते यात्रार्थमगमत् / तत्र हिमाचलयात्रां, व्याख्यानेन भावुकानां धर्मजागृतिञ्चापाद्य, विहारदेशे गजगृहस्थपञ्चपर्वततीर्थस्य, पावापुरीचम्पापुर्योश्च यात्रामकरोत् / श्रीतीर्थङ्करनिवार्णभूमिश्रीसम्मेतशिखरस्य दर्शनस्पर्शनादिकं कृत्वा भगवतः पार्श्वनाथस्य कल्याणभूमी वाराणस्यां यात्रां विधाय परमानन्दपूर्णमानसो बभूव श्रीसंघः / सर्वा यात्रां विधाय कतिपयैः शिष्यैः सह संधः प्रतिनिवृत्य मथुरामागच्छत् / / ____सूरीश्वरस्तु हस्तिनापुर धर्मोपदेशेनालंकृत्य पब्जाव-सिन्ध-कच्छदेशेषु विहारेण धर्मप्रोत्साहनं कृत्वा सौराष्ट्रदेशे शत्रुञ्जययात्र निर्वर्तयामास / एवं विहारसमयेऽध्ययनं कुर्वाणोऽसौ कुकुन्दमुनिर्जिनागमविचक्षणोऽभवत् / येनाऽसौ पजाबप्रान्तेऽहिंसाधर्मप्रचारं कृतवानासीत् / अतः सूरिणा पञ्चशतसंख्यकैः शिष्यैः सह कोकणप्रदेशे प्रचारार्थ प्रेषितः / अय शत्रुञ्जययात्रां विधाय ततो लाटदेशे विहारं कुर्वन्नबुंदाचले प्रभावतीचन्द्रावत्यादिष श्रावकाणां चेतःसु बलवत्तगं धर्मरुचिमापादयन् पाल्हिकानगरीमाजगाम / श्रीसंघस्याभ्यर्थनामनुमान्य चातुर्मासी तत्रैव चकार / विविधविषयकव्याख्यानानां परमेण लाभेन धर्मभावनाविशुद्धमानसा उपासकाः स्वकीयं महद्भाग्यममन्यन्त / संघेन च तत्रैका श्रमणाना सभा समाहूता / समीपस्था दूरस्थाश्च सर्वे तत्र श्रमणाः समयाताः / किन्तु किंचित्समीपस्थे सौपारपत्तने चातुर्मासीस्थितोऽसौ कुकुन्दस्तु न समागतः / सूरिरप्यत्र न किंचिद् विचारयामास / यतो ज्ञातं यत्तदीया पृथक् सूरिपदग्रहणाभिलाषासीदिति / तत्र धर्मस्वरुपसंरक्षणवर्धनप्रयत्नविषयक उपदेशः श्रमणेभ्यो दत्तः / सोमप्रभादयो मुनय उपाध्यायपदेन संमानिताः / ततो मरुधरप्रान्ते विहरन्सूरीश्वर उपकेशपुरमागच्छत् / श्रीसंघाभ्यर्थनया तत्र चतुर्मासो विहितः / इतश्च कुकुन्दमुनिरपि सहस्रशिष्यसमन्वितो मरुधरेषु विहरन् भिन्नमालमागतः / श्रीसंघेन समादृतः / सोऽपि तत्र चतुर्मासमकरोत् / श्रीमालवंशीयो देशलशाहः श्रीभगवतीसूत्रवाचनामहोत्सवमकारयत् / कुकुन्दमुनिः श्रीभगवतीसूत्रवाचनामकरोत् / अस्यैवं खलु मनस्यभूत्-यदहं पूर्व वेदान्ताचार्यो जिनधर्मेऽप्याचार्यत्वं Page #79 -------------------------------------------------------------------------- ________________ [ 64 ] प्राप्नुय म / येनान्येऽपि मदीययोग्यता जानीयः / गुणी जनो यत्र छति तत्रासावश्यं सन्मानमश्नुत इति वैदिका अप्यवगच्छेयुः / इयं दुराशा तस्व चेतः कुटिलीचकार / अस्य मुनेर्भगवतीसूत्रवाचनाविषयको वृशान्त: सूरिणाऽवगतस्तदा तस्यार्बुदाचले कथितं सच्चायिकावचनं स्मृतिपथमारूढम् / प्राचार्यो यक्षदेवसूरिः श्रीस्थानायांगसूत्रस्योपरि व्याख्यानमदात् / तत्राचार्यस्य तदीयाष्टसंख्याकस्य सम्प्रदायस्य च विस्तरशो वर्णनं कृतम् / सर्वमेतच्छुत्वोपासकाः श्रद्धयावनतहृदया बभूवुः / . अथैकदा देवी सच्चायिका बन्दनार्थमाजगाम / सूरिश्च तामवोचत् / देवि ! ममायुषोऽस्थैर्य येन कञ्चिद् योग्यमाचार्यपदे स्थापयितुमिच्छामि / विचार्यमाणे सोमप्रभोपाध्याय एवोचितो मे प्रतिभाति / एवमाचार्यवचनमादृत्य देवी तं प्राह भगवन ! एवमस्तु / इदमप्यधिक मे निवेदनं यत् श्रीरत्नप्रभसूरिणात्र स्वकीयपूर्वश्रुतज्ञानेन भविष्यत्कालिकी परिस्थतिं सर्वतोभावेन विचार्य श्रीसंघस्य स्थापनां विधाय तद्वारेण जिनधर्मश्चिरस्थायी कृतः / अतोऽत्रोपकेशपुरे तदीयगौरवपरिरक्षणार्थ, धर्मस्य च दृढतायै श्राचार्योऽप्युपकेशवंशीय एव भवितुमर्हति / यश्चात्मत्यागवैराग्यजातिकुलमर्यादाभिराचार्यत्वं निर्वोढुं सर्वथा शक्तो भवेद् / सूरिरपि तद्वचनमंगीचकार सा च वन्दनं विधाथादृश्यतामयासीत् / प्रातराचार्यः श्रीसंघ न्यवेदयत्-श्रावकाः ! भगवत्याः सरचायिकाया अनुमोदनेनोपाध्यायपदभूषित सोमप्रभमुनिमाचार्यपदे स्थापयितुमिच्छामि / अपरं च विशेषतो वक्तव्यं यदत्राचार्यश्रीरत्नप्रभसूरिपट्टपरम्परायामुपकेशवंशीय एव योग्यो मुनिराचार्यपदे प्रतिष्ठापयितव्य आगामिकाले जिनधर्मस्य संरक्षणार्थम / अत्र प्राग्वटघंशीयस्य श्रीमालवंशीयस्याप्यन्त वो भवितुमर्हति / सर्वैश्च शासनाभ्युदयार्थमवश्यं प्रयत्नो विधेयः / __सर्वे संघस्थिताः सहर्ष सूरीश्वरस्य वचनमनुमोदयांचक्रिरे / ततश्चादित्यनागगोत्रीयो वरदत्तशाह प्राचार्यपदार्पणमहोत्सबमारभत / दूरदेशस्थाः संघास्तेनामन्त्रिताः / जिनमन्दिरेष्वष्टाह्निकामहोत्सवः प्रारब्धः / सर्वत्रानन्दबहुलेऽस्मिन् शुभे समये भगवतो महावीरस्य मन्दिरे चतुर्विधसंघसमक्षं सर्वागमसिद्धान्तकुशलं निखिलगुणगणालङ्कृतमुपाध्यायं सोमप्रभमुनि श्रीकक्कसूरिरित्यभिधानेन प्रख्याप्य सूरीश्वरो यक्षदेवसूरिराचार्यपदे प्रतिष्ठापयामास / वरदत्तशाहेन पूजाप्रभावनादिकं कृतमा परमधार्मिकेण तेनात्र महोत्सवे नवलक्षपरिमिता मुद्रा विनियुक्ताः। सूरीश्वरस्तु लुणाद्री त्रिंशदिनानि समाधो स्थित्वा पञ्चपरमेष्टिमन्त्रस्मरणपूर्वकं विनश्वरं शरीरमत्याक्षीत! श्रीसंघश्च शोकाकुलितचेता बभूव / ततोऽग्निसंस्कारौं विहितः / चितायां प्रज्वलितायां कुंकुंमपुष्पाणां वृष्टिराकाशात्पपात / अतः परं भारते क्षेत्रे श्रीरत्नप्रभश्रीयक्षदेवसूरिसदृशो नाऽन्य आचार्या भविष्यतीति व्योमवाणी कथयामास / अहो नु खलु कष्टम् ? ईदृशानां महाभागधेयानां पुनरसंभवेन जिनधर्मः कथमुन्नतिपथमुपेयात् ? व० सं०४४० तः ] 33 श्राचार्यः श्रीकक्कसूरिः ( षष्ठः) [वि. सं. ४८०प० ___ श्रीयक्षदेवसूरिपट्टे आदित्यनागगोत्रीयो विद्वज्जनचक्रचूडामणिः काव्यकलाकलानिधिः श्रीकक्कसूरिः / असौ शिवपुरीवास्तव्यः / अस्य पिता शिवपुर्यधिपस्यामात्यो न्यायनीतिनिपुणो यशोदत्तः / माता च परमरमणीयस्वभावा मेनादेवी। ___ मातापित्रोऽक्षयद्रव्यसद्भावेऽपि सन्तत्यभावान्महत्कष्टमासीत् / अतोऽपत्याभावेन न्यायोपार्जितद्रव्यस्य सदुपयोगार्थ जिनामगप्रन्थलेखनादीनि धर्मकार्याण्याचरत सचिवः / अथ पूजन्मपुण्यप्रभावादर्धनिशायां सा पतिव्रता मेनादेवी स्वप्ने सिंहदर्शनं प्राप्य स्वपतिपार्श्वमेत्य स्वप्नवृत्त न्यवेदयत् / तदाकये। मन्त्रिणोत्तम-सुभगे|! समाधीयतां धर्मे मनः / तव कुक्षावलौकिकंप्रभावः Page #80 -------------------------------------------------------------------------- ________________ [ ] कधिजीव: प्रवेशं प्रातः / पत्युर्वचः श्रत्त्वा सा प्रसन्नमुखमा सन्तुष्टान्तरका वाभवत् / ततः पूणे समये प्रभाकरकिरणकान्तिरमणीय तनयमसूत सा। तस्य च शोभनेति नामकरणं कृतम् / शैशवेऽपि प्राप्तधर्मसंस्कारो बालोऽसौ शनैः शैशवमतिक्रम्य यौवनं प्राप / इतश्च भव्यजिनालयनिर्माणप्रभावान्मेनायाः क्रमेण सप्त पुत्रा जादाः / पूर्णे च जिनमन्दिरे प्रतिमाप्रतिष्ठापना कारयितुं सूरीश्वरस्यालह्वानायाबंदाचलमसौ मंत्रिपुत्रो ययो / सुरिश्च तस्य प्रारब्धरेखा शाऽश्चर्यान्वितः सन् तस्मै संसारासारतामुपदिदेश / ततो भाविलाभकारणमुदिश्य शोभनस्य प्रार्थना स्वीचकार / क्रमेण च शिवपुरी प्रति विहरणमकरोत् / तत्र च तन्नगरमधिवसन्तो जना अतीवोत्साहेन सूरेनगरप्रवेशमकारयन् / अन्येाश्च सूरिर्वैराग्यरतिवर्धिका देशनामदात् / आकर्ण्य देशनां शोभनस्तु तत्क्षणादेव वैगग्यान्वितो बभूव / गृहमागत्य महता प्रयत्नेन पितरौ संबोध्य तदीयामनुज्ञाश्च प्राप्य दीक्षोद्यतो जातः / अक्षय तृतीयायां दीक्षाप्रतिष्ठाकार्य निर्धारितम् / शुभे मुहूर्वे विरक्तिरागरक्षितस्वान्तोऽसौ शोभनो द्विशत्वारिंशत्परिमितैः श्रावकैः सह दीक्षा लेभे / सुरिः सोमप्रभेति नाम्ना तं ख्यापयामास / ततश्च प्रतिमाजनशलाकाप्रतिमाप्रतिष्ठादीनि शुभानि कार्याणि निर्विघ्नेन सम्पादितानि / व्यतीते च का ने सोमप्रभमुनिरपि स्वबुद्धितक्ष्ण्यादङ्गोपाङ्गलक्षणादिषु शास्त्रेषु परमं प्रावीण्यमुपाससाद / नेदमेव केवलमपि तु युवाव. स्थोऽप्यसौ सर्वयमनियमासनादिसंयमसंरक्षणशीलोऽद्वितीयेन ब्रह्मचर्यप्रभावेण रविरिव दुःसहप्रभावो भव / क्रमेण चोपकेशपुरे सूरिपदमवाप। इतश्च यक्षदेवसूरिनिधनानतरं कुकुन्दमुनिरपि भिन्नमालसंघेन सूरिपदे प्रतिष्ठापितः / यदा श्रीकक्कसूरिरिदमजानात् तदा सूक्ष्मदृष्ट्या विचारमकरोत्-ये हि पूर्वाचार्यास्त एव महाभाग्यवन्तः / एकच्छत्रं शासनं कृत्वा संघबलेन सर्वत्र धर्माभ्युदयो विहितस्तैः / मदीयमेव दुर्भाग्यमद्य वर्तते यत्रैकस्मिन्नेव गच्छे प्राचार्यद्वयस्य नाम शृणोमि ! अस्तु / भवितव्यतां को नाम निवारयितुं शक्रोति / तथाप्यत्र किमपि विवेक्तव्यं येनेदृशस्यानिष्टस्य फलमनुभवनीयं न स्याद् गच्छस्य च कापि क्षतिर्न भवेदिति विचारणीयमेव / यद्यहं तत्र गत्वा कुकुन्दविरुद्धं किंचित्कुर्या तदपि नाम शासनस्यैव लघुता प्रतीयेत / अन्ते चाचार्यश्रीरत्नप्रभसूरेः कोरण्टकगच्छस्य, श्रीकनकसूरेश्चोदाहरणं स्मृतिपथमारूढम् / ततस्तत्रैत्य व्यवस्थाविधानार्थमवश्यमेव यातव्यमिति कृत्वा देवीं सच्चायिकां सस्मार / सा चागत्य सर्व सूरिनिवेदितं हृदये कृत्वा तमाह-भगवन् ! विषमः समयः शासनस्य समायातः / सर्वकर्मविचक्षणो भवान् तत्र भिन्नमालनगरे गच्छतु / मानापमानौ च दूरीकृत्य शासनसंरक्षणार्थ त्वदीया प्रवृत्तिरवश्यमेव सफला भविष्यतीत्यनुमोदनं दत्वा तिरोदधे / ___अथ स श्राचार्यो विलम्बेन विना शिष्यैः सह भिन्नमालमुद्दिश्य प्रतस्थे / तस्मिन्काले तत्र कोण्टकगच्छीय आचार्यः श्रीनन्नाभसूरिः समागतः / तस्यागमनेन कुकुन्दाचार्यस्य स्वपक्षसमर्थनेच्छाऽपि किं न भवेत् ! नन्नप्रभसूरिणा सूरीश्वरस्यागमनं ज्ञा, तदा सर्वेभ्यो निवेदितम् / मुण्डे मुण्डे मतिर्भिन्नेति कृत्वा किमर्थमत्रागमनं जायते ! किमुभयोमहान् कलहो भविष्यति ! कुकुन्दाचार्येण पूर्वाचार्याणां मर्यादोल्लंघितेत्येदर्थमाचार्य प्रागत इति विविधान् विकल्पान् सर्वे स्वचेतसि विदधिरे / सर्वमि' व्यवहारस्वरूपेण विचार्य नन्नप्रभसूरिः संघमुवाचश्रावकाः ! प्राचार्यः श्रीकक्कसरिनगरमिदं पावयितुमागच्छति, तदर्थ च सवैर्युष्माभिः कुकुन्दाचार्यसहितैः सत्कारपूर्वकं स्वागतमवश्यमेव कर्तव्यम् / दीर्घदृष्टया विचारिते तत्रत्यैः संघस्थैः श्रावकैः सूरर्वचनमङ्गीकृतं ततो नन्नप्रभसूरिः कुकुन्दाचार्यः श्रीसंघश्च सर्वे मिलित्वा भव्यसमारोहण सूरीश्वरस्य नगरप्रवेशविधिमकार्षुः / सम्पादिते च नगरप्रवेशे सूरीश्वरो भगवतो महावीरस्य यात्रां विधाय धर्मशालामागच्छत् / एकस्मिन्नेव व्याख्यानपीठे विराजमाना ह्येते मूर्तिमन्ति ज्ञानदर्शनचारित्राणीव सकलजनमनांसि नितरां रजयामासुः / ततश्च विनयादिगुणगणालंकृत आचार्यो वयोवृद्धं नन्नप्रभसूरिमनन्तरश्च कुकुन्दाचार्य देशनायै सविनयं न्यवेदयत् / Page #81 -------------------------------------------------------------------------- ________________ ताभ्यं च सूरिरेव देशनार्थ साग्रह निवेदतः / एवंविधमाचार्यस्य कक्कसूरेविनयव्यहारं दृष्ट्वा प्रथम हृदयविनिवेशितकल्पना कल्पनेयं खल्विति मत्वा तां निष्कासयामासुरुपासकाः। एवं तदीयं साग्रहं निवेदनमनुमान्याचार्यवर्यः श्रीकक्कसूरिः प्रौढनिर्भरया गिरा मङ्गलाचरणपूर्विका देशनां ददौ-अयि धर्मतत्वजिज्ञासवः श्रावकाः ! भगवतः श्रीमहावीरस्य शासनं खल्वेकविंशतिसहस्रवर्षपर्यन्तं प्रचलिष्यति / अस्मिन् शासने च महामहिमशालिनो बहव प्राचार्यवर्या जाता अप्रे च तथाविधा भविन्ति / श्राचार्यत्वेन निर्धारणन्तु संघस्याधीनम् / शासनकार्यभारधुरंधरमेकमाचार्यपदे स्थापयितुं स एव समर्थः / सर्वमिदं व्यवस्थाप्रकरणं व्यवहारादिसूत्रेषु विस्तरेण विवेचितम् / अनेनेदं न कल्पनीयं यत्-कस्यचिन् नगरस्य प्रामस्य वा संघो यं कमपि मुनिमाचार्यपदे संस्थाप्य शासनस्य सामूहिक संघट्टनं शिथिलीकर्तुं शक्रयात् / पूर्वाचायैर्महाजनसंघद्वारेण संघट्टनकरणे या सफलता प्राप्ताऽसीद्या च संघसंख्याभिवृद्धिः कृता तस्या इदमेव प्रयोजनं यच्छासनस्य सार्वत्रिकं प्रभुत्वं संरक्षितं स्यादिति / रक्षिते च शासने सर्वे धर्माचरणेनात्मनः कल्याणमासादयितुं समर्था भवेयुः / इयमेवोदारात्मनां कल्याणभावना। संघट्टनविश्लेषे महत्यनर्थपरम्परा समुत्पद्यते / यथैकस्य चत्वारः पुत्रा भिन्नमतयो भवन्ति तदा तस्य कुलं स्वस्योत्कर्ष साधयितुं न शक्नोत्यधःपतनं च विन्दत एवमस्माकं संघट्टनविषयेऽपि सर्वैः सावधानमनस्कैनिष्पक्षपातेन विचारणीयम् / ___एकस्मिन समये पार्श्वनाथपरम्परायां तत्रभवति, वन्दनीयपादकमलयुगले श्रीरत्नप्रभसूगै विद्यमानेऽपि सहसा कोरण्टकसंघेन श्रीकनकप्रभसूग्ये प्राचार्यपदं समर्पितम् / परन्तु दीर्घदर्शी शासनशुभचिन्तकः श्रीरत्नप्रभसूरिः शीघ्रमेव तत्र प्रतस्थे / कोरण्टकसंघेन कनकप्रभसूरिणा चाचार्यस्य भावभव्य स्वागतं कृतम् / श्रीकनकप्रभसूरिः निखिलगुणानिधिः शासनगौरववर्धकश्चासीयेन कोरण्टकसंघेन दत्तमाचार्यपदं सूरीश्वरचरणकमळयोरेव सहर्ष तेन समर्पितम् / आचार्यः श्रीरत्न भसूरिरपि सर्वेषां सद्भावं विचिन्त्य स्वहस्तेनैव संघसमक्षमस्मै कनकप्रभसूरये समारोहपुर:सरमाचार्यपदं ददौ / एवं परस्परविनयविनिमयस्य मधुरो रमणीयश्च परिणामः सर्वेषां धार्मिकाणां सुखसम्पादनाय शक्तो भवति / केवलमत्रोपकेशगच्छकोरण्टकंगच्छेति नाममात्रेण भेदः / उभयोरीहशो मिथः सौजन्यपूर्णो व्यवहारोऽवर्तत यस्य वर्णनमप्यशक्यम् / अहो ! शासनस्यामुयाय त एव स्वनामधन्या आचार्यवर्याः कीदृशेन सरलव्यवहारेण दीर्घविचारेण च कर्तव्ये प्रावर्तन्त / तदा शासनगौरवमपि सुमहदामीत् / सर्वजनहृदयंगम स्नेहभरभरितं शासनाभ्युदयचिन्तकं विचारचारु वचश्व श्रुत्वा तस्मिन्नेव देशनासमाप्तिसमये सहसैव पीठादुत्तीर्याचार्यचरणसमीपस्थितः कुकुन्दाचार्यः कृतानुशयोऽब्रवीत्-भगवन् ! मर्षयुतु मर्षयतु ममापराधम् / पूर्वाचार्यसरणीमुल्लंध्य म्या महत्त्यपराधे पातित आत्मा / संघाधिरोपितमाचार्यपदं भवदीयचरणसरोजयोरेव तिष्ठतु ! नैवाज्ञासिषमहम्-भवान् शासनहितायैवं दृढपरिकरो वर्तत इति / किमत्र बहुना ! भवानेवास्माकं पूज्य आचार्यवों गच्छाधिपतिश्चेत्यलम् / ततः श्रीसंघेनापि-भगवन्नस्माकमेष महानपराधो, येन स्वच्छन्दतयाऽचार्यपदप्रदानं कृतम् / अतोऽत्र भवान् मूढमतीनज्ञानस्मान् क्षमताम् / शासनलाघवमस्माभिरेव सम्पादितम् / अतः परं वयं येन शासनस्य गौरवं रक्षितं स्यात्, संघबलं चाधिकं विचारशीलं भवेत्तथैव व्यवहरिष्यामः / सूरीश्वरः प्रसन्नगम्भीरः परमोदारप्रकृतिः सर्वान् तानवाद'त्-कुकुन्दाचार्यो निखिलागमवेत्ता सर्वथाऽचार्यपदाय योग्य एव वर्तते / श्रीसंघेन च यदाचरितं तदपि सुसंगतमेव प्रतिभाति मे / गुणगणगणनीय कीर्तीनां माननीयानां गौरवसंरक्षणमेव श्रीसंघस्यावश्यकं कर्त', तच्च सम्यगनुष्ठित तत्र न 'ध उपालम्भमर्हति / इदमेव कार्य गुरुवर्यस्य श्रीयक्षदेवसूरीश्वरस्य, श्रीनन्नप्रभाचार्यवर्यस्यानुमत्या Page #82 -------------------------------------------------------------------------- ________________ चानुष्ठितं भवेत्तदधिकतरं सुसमंजसं स्यात् / अस्तु / दुर्विषोऽस्मिन्कली सत्ययुगमाचरणेन सम्पादयते कुकुन्दा. चार्याय मे कोटिशो धन्यवादाः / संघाय मे शुभाशंसनमेवं धन्यवादश्च, यत आत्मकतापराधस्याङ्गीकारः सर्वथा दुःशक एव दृश्यते / ततः सूरीश्वरो नन्नप्रभसूरिमवोचत्-मान्यवर ! वयोवृद्धो ज्ञानवृद्धश्व भवान् स्वकीयकरकमलेन कुकुन्दाचार्यायाचार्यपदं समर्प्य मे कार्यभारं लघूकर्तुमर्हति / कुकुन्दाचार्यस्तु सप्रश्रयमगादीद् भगवन् ! आचार्यपदापेक्षयाऽचार्यचरणयोरुपासक एव भवितुमिच्छामि, अत्रैव मे महद्गौरवमिति मन्ये / तदीयं प्रश्रयोपेतं वचनमाकर्याचार्यों नन्नप्रभसूरिणा चतुर्विधसंघेन चाभ्यर्थित उभयोः सूरीश्वरयोर्वासःक्षेपपूर्वक कुकुन्दाचार्यमाचार्यपदे स्थापयामास / सर्वत्र च भगवतो महावीरस्य जयध्वनिना सर्वे संघस्था जना आचार्य तं सम्भावयामासुः। अथैवमाचार्यपदमहोत्सवं समाप्य श्रीसंघमाचार्यः श्रीकक्कसूरिरवदत-स्वनामधन्याः सर्व सदस्याः! श्रीसंघश्च पञ्चविंशतितमस्तीर्थङ्कर इति साभिमानं सप्रश्रयमहं मन्ये / येनात्र सर्वेषां श्रावकाणां पुरतो यत् किंचित् प्रतिकूलं वच उक्तमपि तत् सर्वैः क्षन्तव्यम् / अस्मिन् विषये साफल्यं न प्राप्स्यामीति मे सन्देहः परिहतो महानलीकिकश्चानन्दोऽनुभूत इति विनयमाहात्म्यप्रचुरमिदं वचः समाकर्ण्य श्रीसंघः कुकुन्दाचार्यश्च सूरीश्वरमचतुःअहो! धन्या वयमद्याचार्येणानुगृहीताः स्वकर्तव्यज्ञानं च लम्भिवाः किमधिकं महे गुरवो बहवः सन्ति शिष्यविचापहारकाः / गुरवो विरलाः सन्ति शिष्यसंतापहारकाः // यतो नगरमिदं स्वयमेवालकृत्योपदेशेन वयमज्ञानात्स्वस्वरूपं बोधिताः / एवं नन्नप्रभसूरिमपि विनयप्रणत्यादिभिः सम्भाव्य सभा विसर्जिता बभूव / कतिपयदिवसानन्तरं श्रीसंघ आचार्यत्रयस्य चतुमासार्थमभ्यर्थनामकरोत् / भाविलाभकारणं विज्ञाय तैराचार्यैरपि स्वीकृतम् / तत्र श्रीमालवंशीयो दुर्गाशाहः श्रीभगवतीसूत्रवाचनामहोत्सवमारभत / सपादलक्षं द्रव्यमस्मिन् धर्मकार्ये विनियुक्तम् / श्रीभगततीसूत्रं हस्तिन उपरि संस्थाप्य नगरयात्रामकारयत् / नीलमर कतपद्मरागाद्यैर्मणिभिः पूजाप्रभावनादिकं चकार / दूरदेशस्था जैनेतरा अपि लोकाः सूरीश्वरस्य तास्विकदार्शनिकादिविषयकं व्याख्यानमाकर्ण्य परमसन्तुष्टान्तरङ्गा / संसारस्य मिथ्यात्वं मन्यमाना आत्मश्रेयोऽनुसन्धाने मतिमादधुः / सर्वेषां भिन्नरुचीनां जनानां मनोरजनं नाम दुःशकम् / / तथाहि-स्तुवन्ति गुर्वीमभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः / इति स्थितायां प्रतिपूरुषं रुचौ सुदुलेभाः सर्वमनोरमा गिरः॥ तथापि महामहिमशालिना विपश्चितां तदेव वैशिष्टयं यत्सर्वचेतोऽनुकूलतापादनम् / अत एवोच्यते भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये / नयन्ति तेष्वप्युपन्ननैपुणा गभीरमर्थ कतिचित्प्रकाशताम् // मधुरकोमलं वीणाशब्दं हरिणा इव सरसरमणीयं भावानुबन्धि विरक्तिरतिसंवर्धकं व्याख्यानमाकर्य बहवो जना दीक्षाद्यता बभूवुः / सर्व धर्माचरणसंसक्तहृदया अभूवन् / ___. अर्थकदा सूरीश्वरस्य मनस्येवमभूत्- यदहमाचाम्लसहितं षष्ठं तपो विदभ्याम् / कर्मपुञ्जक्षयार्थ तपःसमाराधनमेव श्रेयः / एवं विचारयति सा सच्चायिका प्रणतये समागता / सूरिश्च तां तपोऽनुष्ठानार्थ पप्रच्छ / भगवन् ! तपोऽनुष्ठानेन व्याख्यानादिना धर्मभावनाभिवर्धनमवरुद्धं भविष्यति / गच्छस्य सर्वब्यवहारभारश्च भववषीनोऽतोऽधुनाऽनावश्यकं वदिति देवीवचनमाकार्य यथाकथंचित् तां प्रबोध्य तयानुमोदितस्तद्रूतमन्वतिष्ठत् / Page #83 -------------------------------------------------------------------------- ________________ यंदा नन्नप्रभसूरिराचार्यः तपोऽनुष्ठानमज्ञासीत्तदा तं न्यषेधीत् / तथापि सूरीश्वरेण कसूरिणोक्तम्-यावन्मदीयविहारव्याख्यानादिकर्मस्वन्तरायो न भविष्यति तावदहं तपो विधास्यामि / एवं संयमव्रती सूरीश्वरो दृढनिश्वय आसीत् / तपसा सहाचार्यो योगासनसमाधिस्वरोदयादिविषयाणामपि पारदृश्वाऽभूद्येन गच्छीया अन्यधर्मस्था अपि जनाश्च योगज्ञानाय स्वरोदयस्याध्ययनाय च सूरीश्वरसमीपमागच्छन् / एवं चतुर्माससमाप्तावष्टादश भावुका भगवती दीक्षां जगृहुः / तदनन्तरं नन्नप्रभाचार्यः कोरण्टकं, कुकुन्दाचार्य उपकेशपुरमाचार्यः श्रीककसूरिश्च विहरणक्रमेण शिवपुरीमाययो / प्राचार्यागमनं विज्ञाय जनकेन यशोदित्येन नगरप्रवेशमहोत्सवो विहितः / अन्येधुराचार्यस्य संसाराद्विरत्युद्वोधकं व्याख्यानमाकर्ण्य पौरा आश्चर्यान्वितमानसा बभूवुः / एकस्मिन् दिवसे मन्त्री यशोदित्यो भार्यया मेनादेव्या कुटुम्बेन च सह वन्दनार्थमगच्छत् / वन्दनादिकं विधाय जननी मेनादेवी तमगादीत्-भगवन् ! अस्मान् विहाय गच्छता वयं विस्मृताः किम् ? प्रामनगरोपनगरेषु यस्य बहवः संख्यातीताः शिष्या भक्ताश्च विद्यन्त एवम्भूतस्य भवतोऽप्रे के नाम वयम् / अस्तु / अस्मभ्यमप्यात्मनः श्रेयस्करमुपदेशं ददातु, येनात्माभ्युदयः कर्तुं शक्येत / सूरिश्च तामाश्वासयन्नाह.. मातः ! सर्वमिदं प्रत्यासन्ने हि मृत्याविहैव स्थास्यति / एकाकिगमनमेव श्यते संसारेऽतो वृद्धावस्थायां यथा स्वकल्याणं स्यात्तथैव पूजनधर्माचरणोपदेशश्रवणादीनि धार्मिकाणि कृत्यानि सम्पादयतु भवती / अन्येऽपि कौटुम्बिका धर्मलाभाशिषा संभावितास्तथैवोपदिष्टा वन्दनं विधाय स्वसदनमगमन् / ततो निर्गत्य चन्द्रावतीमाययौ सूरिः / तत्रत्येन संघेनार्बुदाचलयात्रायै प्रार्थना कृता / सूरिरपि तदभ्यर्थनां स्वीचकार / अथ निदाघकाले सूरीश्वरेण सह सहस्रसंख्यकाः श्रावका अर्बुदाचलं प्रति प्रस्थिताः / मार्गे जलाभावात् पिपासापीडिता यमकवलवां प्राप्ता इवाश्यन्त / अतस्ते जलप्राप्तये सूरीश्वरसमीपमेत्य दुःखनिवारणार्थ प्रार्ययामासुः-भगवन् ! पिपासापीडिता वयं सर्वे विषीदामः, अतस्तन्निवारणं करोतु / कृपया पूर्वस्मिन् काले श्रीवास्वामिना दुर्भिक्षदुःखिता जनाः संरक्षिता आसन् / एवमत्र भवानेवास्माकमुद्धारको भवत्विति / सूरिरपि तान् समाश्वास्य स्वयमेकाप्रमना बभूव / अतस्तत्क्षणमेव श्वेतपक्षः कश्चिद् विहगो दृष्टः / तत्सूचि. तेङ्गितस्थान प्राप्य यावत्खनितुमारब्धं तावत्प्रभवं जलं प्राप्तम् / गुरुचरणसरोजप्रसादात्ते प्रत्युज्जीविताः / सहस्रपरिमिवैर्जनैः पीयमानमपि तज्जलं तथैव परिपूर्णमासीत् / संघेनापि तत्स्मरणार्थमेकः कुण्डः, एकश्च जिनमन्दिरं तत्र निर्मापितम् / ततोऽबुदाचलं प्राप्य भगवत आदीश्वरस्य यात्रा सम्पादिता। पूजाप्रभावनादिकं कृत्वाऽक्षयं पुण्यं प्राप्तम् / जय विधाय यात्रा संघश्चन्दावतीं प्रति निवृत्तः / सूरीश्वरश्च लाटदेशे विहरन् क्रमेण भृगुपुर (भरुच). माजगाम / श्रीसंघेन कृतसम्मानो व्याख्यानेन धर्मभावनामभिवर्धयामास / इतश्च मारोटकोटनगरे सोमशाइनामा जिनधर्मकर्मनिरतो दृढश्रद्धावान् श्रावकः प्रतिवसति स्म / स च जिनदेवं विहायान्येभ्यो देवेभ्यो जिनमुनिश्च विहायान्यसाधुभ्यो न प्राणंसीत् / आपत्काले दर्शननियमार्थमनेन मुद्रिकायामाचार्यवर्यस्य श्रीककसूरेश्चित्रं संस्थापितमासीदतस्तदर्शनेनात्मानं कृतकृत्यमसावमन्यत / एकदा तन्नगराधिपते राज्ञो गृहे पुत्रप्रसवोऽभवत्। ततस्तदभिनन्दनार्थ सर्वे जना राजानं नमस्कतु राजप्रासादमगच्छन् / सोऽपि व्यवहाररक्षणार्थ वत्र गत्वा ककसूरेर्मुद्रास्थितं चित्रं युक्त्या पुरो निधाय प्रणनाम / प्रणामव्यवहार विधाय तस्मिन् गृह गते तद्विरोधिभिः पिशुनवृत्तिभी राज्ञे निवेदितम्-राजन् ! परमधार्मिकः सोमदेवः भाषक: कस्मैचिदपि न प्रणमति / राजा च तेषां वचः श्रुस्खोवाच-अधुनैवासो गतः कथमेवमुच्यते 1 / तेऽवादिषुःप्रभो ! नैवमसौ तु गुरोश्चित्रं पुरो निधाय तस्मै नमस्कारमकरोत् / ततो रोषारुणनेत्रः स राजा सत्वरं मोमशाहमायत् / भागवकच दं पप्रच्छ / भोः अधिन् / पूर्वमागतस्त्वं कस्मै प्रणामं विहितवानसि 1 / न Page #84 -------------------------------------------------------------------------- ________________ [ ] प्रोक्तं मम गुरव एवं मया प्रणामो विहितः। स्वापमानेन संक्रुद्धो राजा सप्तसंख्यकैरयोमयैर्बन्धनैरेनं दृढं बद्ध्वा गाढान्धतमसावृते कारागृहे स्थापयन्त्विति सेवकानादिशत् / सेवकैरपि तथैव कृतम् / ततः स सोमशाहोऽप्येक चेतसा ध्यानेन चाचाम्लान्वितं गुरुं श्रीककसूरि प्राणमत् / गुरुचरणसरोजानुभ्यानेन मारोटकोटनगरे कारागृहे नियन्त्रितस्य सोमश्रावकस्यायोमयाः शृङ्खलाः शीघ्रं त्रुटिता अभवन् / अहो ! गुरोः परमकृपयैव दृढमपि मे बन्धनं छिन्नमतः साक्षादर्शनमहं करोमीति निश्चित्य कारागृहान्निर्गत्य नृपसमीपमुपस्थितः / विस्मयापन्नचेता राजा राजसभा च तस्मै सहर्षमभिनन्दनं ददुः / सन्तुष्टो राजा सोमशाहाय लक्षरूप्यकान् पारितोषिकरूपेणादात् / राजगृहान्निर्गतोऽसौ गुरुचरणकमलवन्दनार्थ भृगुपुर ( भरुच ) मयासीत् / अथ क्रमेण स गुरुसामीप्यमवाप / तस्मिन्नेव क्षणे देवी सञ्चायिका वन्दनायागताऽसीत् / शिष्याश्च गोचरचर्यायै गता इति हेतोरिमावृतमासीत् / अत्रत्यमिदं वस्तुजातं दृष्ट्वा स्वचेतसि सोमशाहो व्यचिन्तयत्अहो ! खलु कष्टं यद् गुरुरपि स्त्रीणां वशंगतो दृश्यते ! / अतः कथमप्यसौ वन्दितुमर्हो नास्तीति मत्वा तस्मातस्थानाद् यावन्न्यवर्तत तावदेव मटित्युया पपात / मुखाच्च तस्य रुधिरमसुनुवत् / ___ व्यतीते कियति काले मुनयो यदा समायातास्तदा तं द्वारपतितं स्त्रवद्रुधिरवदनं दृष्ट्वा वृद्धगणेशो नाम मुनिर्गुरुमुवाच भगवन् ! द्वारे सोमश्रेष्ठी शोणितशोणमुखः पतितो वर्तते / सूरिश्च देव्याः कोपेनास्येदशी स्थितिरित्युक्त्वा वामाहूय भवत्या किमिदं कृतमिति तामगादीत् / सा चाह-भगवन् ! कलुषितचेता असावुचितं दण्ड प्राप्तवान् / यस्य नामस्मरणमात्रेणैव तस्य निगडबन्धनानि छिन्नानि, राजसम्मानमपि लब्धं तस्यैव गुरोविषये दोषारोपणं कथं सोढव्यं स्यादस्य / अतोऽसावात्मकतापराधस्येदं फलमनुभवितुमर्हत्येव / देव्या वच श्रुत्वा-भगवति ! कोपं विहायास्य शांति विधेहोति सूरीस्तामवादीत् / यद्यस्य शान्तिरभिप्रेता तीतः परं मे प्रत्यक्षमागमनं नैव भविष्यतीति देवी सूरीश्वरमुवाच / एवं विषम परिस्थितिं विचार्यान्ते यथा तथा भवतु तथाप्येनमुज्जीवयेति सूरिकथित वचनामाहत्य देण्याऽसौ लब्धसंज्ञः कृतः सोमशाहो लज्जाभरनताननः सखेद. माह-गुरो! क्षमस्व ममापराधम् / नैव ज्ञातमीहशः प्रभाव प्राचार्यवर्यस्येति / गुरुश्च तं समाश्वासयत् / ततः परं सच्चायिका प्रत्यक्षरूपेण नागवा / इदमप्युक्तमासीदतः परं श्रीरत्नप्रभ-यक्षदेवसूरीश्वरसदृशा आचार्याः प्रायो दुर्लभा एव ततस्तयो मनी कोश एव संस्थापनीये / अर्थात् कस्यचिदाचार्यस्य नाम श्रीरत्नप्रभ-यक्षदेवसूरीति न कर्तब्यम् / अपरचोपकेशवंशीय एवाचार्यो भवितुमर्हतीति / अतः कक्कसूरिणा श्रीरत्नप्रभ-श्रीयक्षदेवसूरीति शब्दो कोशे स्थापितो। संघायापि निवेदितं यदुपकेशवंशीयो योग्यता प्राप्त प्राचार्यपदे प्रतिष्ठापयितव्य इति / स सोमशाहोऽपि मारोटकोटनगरं प्रत्याजगाम / प्राचार्यों भृगुकच्छाद् विहारं विधाय सौपारपत्राने चातुर्मासीमकरोत् / तत्र देवी सच्चायिका परोक्ष चन्दनायागता व न्यगादीद् भगवन् ! भवता दक्षिणप्रान्ते महाराष्ट्रे च विहारो विधेयो येन महान् लाभो भविप्यतीत्युक्त्वा साऽदृश्यतामयात / सूरीश्वरश्च देवीवचनमादृत्य शासनस्योत्तरदायित्वं कुकुन्दाचार्यस्योपरि निक्षिप्य पञ्चशतपरिमितेः शिष्यैः सह धर्मप्रचाराय दक्षिणस्यां दिशि विहारमारभत / क्रमेण प्रामनगरोपनगरेषु विहारं कृत्वा व्याख्यानोपदेशादिना वर्षयपर्यन्तं सर्वतोभावेन धर्मजागृतिमकरोत् / येन पूर्व तत्र विहरता साधुनां धर्मप्रचारे / द्विगुणीभूतो वेगः धर्मस्य समधिकप्रचारार्थ च पुनस्तानादिश्य क्रमेणोज्जयिनी भूषयामास श्रीसंघकवसमुचितसत्कारस्तत्रैव चतुर्मासमकरोत् / ततः खटकुंपनगराद् राजसीश्रावकस्तत्पुत्री धवलश्च जिनप्रतिमाप्रतिष्ठायै प्रार्थयामासतुः वत्र लाभकारणं विचिन्त्य सूरीश्वरः खटकुम्पपत्तनमगमत् / कुकुन्दाचार्योऽपि सशिष्य प्राचार्यस्य खटकुम्पनगर आगमनं विज्ञाय वन्दनायाजगाम / ततो योराचार्ययोरागमनमहोत्सवोऽवीव स्रोत्साहन पोरैः सम्पादितः। पूरीबवरल्यासाधारय वैराग्यभावनापरिपुष्टं व्याख्यानमाकपर्व Page #85 -------------------------------------------------------------------------- ________________ / 7.. राजसीश्रावकस्य पुत्रो धवलो विरक्तः सन् पितरौ सम्भाष्य भगवतीं दीक्षामगृह्णात् / ततश्च राजहंसमुनीति प्रसिद्धिमवाप / जिनमन्दिरे चाजनशलाका प्रतिष्ठाविधिश्च समाप्याचार्य उपकेशपुरमगमत् / सुरेरनुज्ञामवाप्य भिन्नमालसंघेना-भ्यर्थितः कुकुन्दाचार्यों भिन्नमालनगरे, सूरीश्वरश्वोपकेशे चतुर्मासावस्थानमकरोत् / ततः समाप्ते चतु. मसि श्रीसंघः कुकुन्दाचार्य न्यवेदयद्-भगवन् ! भवतो वृद्धावस्था वर्ततेऽतः कमपि योग्यं मुनिमाचार्यपदे प्रतिष्ठापयितुमर्हति, एवमाकर्याचार्योऽब्रवीत् / एकस्यैवाचार्यस्य विद्यमानत्वे द्वितीयस्य योजनाऽनुचितेति श्रीसंघस्तूष्णीं स्थितः / कुकुन्दाचार्यस्तु संलेखनातत्परोऽभवत् / व्यतीते काले कुकुन्दाचार्यः स्वर्गमगमत् / संघश्च दुराप्रहदूषितः सूरिवचमनादृत्य तदीयशिष्येषुकल्याणसुन्दरं मुनि देवगुप्तसूरिनाम्नाऽहूय पट्टे प्रतिष्ठापयामास / / ___आचार्यः कक्कसूरिस्तु चतुर्मासानन्तरं पूर्वदेशे धर्मप्रचारार्थ गतः पन्चालादिषु प्रान्तेषु विहरन् यदा सिन्धप्रान्तमाजगाम तदा ज्ञातं यत कुकुन्दाचार्यस्तु स्वर्ग गतस्तस्थाने तदनुमत्यभावेऽपि श्रीसंघेन देवगुप्तसूरिराचार्यपदे स्थापित इति / भवितव्यं भवत्येवेति मत्वा सूरिणा शान्तिमन्त्राराधना विहिता / ततः शत्रुजययात्रां विधाय विहारक्रमेण मरुधरप्रान्तस्थां चन्द्रावतीमायगै / तत्र समाप्ते चतुर्मास सूरेरुपदेशादेका श्रमणानां सभा मिलिता / अत्र देवगुप्तसूरि विहाय सर्वे साधवः साध्व्यश्च समागताः / सभाध्यक्षपदमलङ्कुर्वता श्रीमता सूरिणा यथा समये धर्मप्रचारसंरक्षणानुपालनादीनां प्रभावपूर्णा देशना दत्ता / शासनोन्नतये विचारा अपि चिन्तिताः / योग्यतां प्राप्तेभ्यो मुनिभ्यः पदवीप्रदानं कृत्वा, सर्वेभ्यो धर्मप्रचाराय विहारस्याज्ञां दत्त्वा च सभाकार्य समापितम् / ततो विहरन्सुरिरुपकेशपुरमाययो / तत्र श्रेष्ठिगोत्रीयो मंगलशाहः शत्रुजययात्रार्थ संघं निःसारितवान् / परोक्षदर्शनायाः सच्चायिकायाः कथनेन निजनिधनसमयं ज्ञात्वोपाध्यायपदभूषितं राजहंसमुनि देवगुप्तसूरीति नाम्ना संबोध्य स्वपट्टे संघसमक्षं प्रतिष्ठापयामास / स्वयञ्च सप्तविंशतिदिनान्यनशनेन समाधिना चातिवाह्य दिवं ययौ। वि० सं० 480 तः] 34 श्राचार्यः श्रीदेवगुप्तसूरिः (षष्ठः)। [वि० सं० 520 प०] श्रीकारिपट्टे पण्डितप्रकाण्डोऽमरगणसंभावनीयकीर्तिः श्रमणार्चितः सुविहितशिरोमणिः श्रीदेवगुप्तसूरिः समाजगाम / असो च खटकुम्पनगरनिवासी करणाटकगोत्रीयः / पितास्य तु क्रयविक्रयादिव्यापारकुशलो धार्मिकधुरन्धरो गजसीशाहो, माता च वनिताजनललामभूता सकलगुणगणनीययशा रुक्मिणीदेवी / तयोरयं परममेधावी विनयावर्जितसकलमनोमोहको धवलनामा / धवलोऽसौ पित्रा सह घृततैलादिव्यापारे दत्तचित्त आसीत् / एकदा काचिद् वृद्धा घृतपूरितं घटमधस्तादारिका (प्रारीति भाषायाम) युतमस्मिन् श्रेष्ठिनि विश्वस्य श्रेष्ठिन् ! घृतमिदं तोलयित्वा स्थापयतु यावदहमागच्छामीत्युक्त्वा संस्थाप्य च घटं ततोऽन्यत्रागात् / राजसी च यावदिदं घृतं पात्रान्तरे निष्कास्य तोलयति तावदस्माद् घृतं रिक्तं नाभूत् / किमत्र कारणमिति विचारयन्नसौ ज्ञातुमत्र कारणं नाशक्नोत् / तदा धवलो घटस्याधस्ताचित्रावलीनिर्मिता तामारिकां दृष्ट्वा पितरमुवाच-पितः ! अधः स्थापिताया अस्या एवायं प्रभावः / पूर्व सूरेाख्यानेऽन्यत्र च बहुशः श्रुतं यदस्याः प्रभाव ईदृश इति / परमसन्तुष्टो राजसीश्रावकः पश्चादागतां तां नियतपरिमाणकस्य घटस्थघृतस्य मूल्यमिदं गृहाणेति वामगादीत् / सा च तथेत्युक्त्वा घटं गृहीतुमैच्छत्तदा तां नावलोक्यारिको तदर्थमवदत् तम् / तेन च बह्वनुनीता किंचिद् गुडं मे देहीत्युक्ते पञ्चशेरकप्रमाणकेन गुडेन संबोषिताऽन्यां मत्कृतेऽहमानेष्यामीति मनसि विचार्य यथागतमयासीत् / गतायाश्च तस्यामसौ स्वकीये धनागारे तामारिका निचिक्षेप, यतो धननिधिरस्पाक्षयो बभूव / येनोभो जनकवनयो समधिकां धर्मभावनामभिवर्धबामासतः। Page #86 -------------------------------------------------------------------------- ________________ व्यतीते च काले कियति परमधर्ममर्मशः श्रीकुकुन्दाचार्य उपकेशपुरात खटकुपनगरमात्मना भूषया. मास / कृतमस्य च भव्य स्वागतमनेन राजसीश्रावकेण, नवलक्षपरिमितामिर्मुद्राभिश्च महान् व्ययः कृतः / ततः सुरेराज्ञामधिगम्य भगवतः श्रीतीर्थकरस्य भन्यो जिनालय प्रारब्धः / अपरश्च सम्मेतिशिखरयात्रायै कुकुन्दाचार्यस्याध्यक्षत्वे महान्तं संघ निष्कासमास / समाप्य च तीर्थयात्रा प्रतिनिवृत्तः पथि च बहूविधान् जीर्णोद्धारान् दोनेभ्यश्चान्नवस्त्रादीनि दत्वा गृहञ्चागत्य पुरुषेभ्यः स्वर्णमालाः स्त्रीभ्यश्च सुवर्णकंकणानि पारितोषिरूपेण दत्वा विसर्जयामास / ____ अथ जिनालयमूर्तिप्रतिष्ठापनकायें कुकुन्दाचार्य स व्यज्ञापयत् / तेन च सूरिणा अस्मद्गच्छाधिपतिः श्रीकक्कसूरिरेव तन्मङ्गल कार्य निर्वोढुं सर्वथा समुचितः महामहनीयकीर्तिः स एवात्राभ्यर्थितोवरमिति स निजगदे / पदीयं वचनमनुमान्यावन्नीदेशस्थामुज्जयिनीमलं कुर्वाणं तमाह्वातु दूतान् प्राहिणोत् / ते च तत्संदिष्टं सविनयमब्रुवन् / स च सूरीश्वरः प्रार्थनामनुमान्य खटकुम्पमभिप्रतत्थे / नागपुरोपसमीपं विहरन्नवगतसूरीश्वरागमनः सः कुकुन्दाचार्योऽपि खटकुम्पमागच्छत् / तस्यापि पूर्ववत्पुरप्रवेशः सम्पादितः / सभामण्डपे नभोमागे स्थिती शशिदिवाकराविव सकलसमुपासकजनानां मनासि रञ्जयामासतुर्दर्शनानन्देन / सम्भाव्य च धर्मलामादिना पाययित्वा चोपदेशामृतं सर्वान् चादिदेश सूरिः श्रीकक्कसूरिहगमनाय / प्रथापरे राजसीश्रावकः सप्रश्रयमाचार्यसमीपमुपेत्य षण्णवत्यंगुल (96) परिमिता महावीरप्रतिमा निर्मापयितुमिच्छा प्रकटीचकार / सूरिणा चोक्तम्-विपरीते ह्यस्मिन् समये लुब्धवृत्तयो जनाः सुवर्णमयी मूर्तिमपि हतबुद्धयो विक्रेतुमभित्ल षेयुर्धनस्य च बहून्यपराणि विनियोगस्थानानीति पाषाणमय्येवाऽनल्पकल्याणप्राप्तये त्वया विधेया सा / भवदीयमेव वचोऽत्र प्रमाणमिति समाहत्य स विंशत्यधिकशताङ्ग ल (120) परिमितामश्ममयी प्रतिमा निर्मातुं शिल्पिन आदिशत् / एवं व्यतीते कियति समये श्रुत्वा च निःसारतामात्रैकफलं संसारसंसरणस्य स धवलो व्याख्यानत एव जातवैराग्यो जननी जनकं च कथं कथमपि सम्बोध्य चतुर्दशसंख्यकैर्भावुकैः सह शुभ मुहूऽप्रहीदाहती भगवती दीक्षाम् / परिवर्ति चास्य राजहंसमुनिरित्यभिधानम् / ...ततः समभीष्टदीक्षालाभसन्तुष्टान्तरंगो राजहंसो मुनिः क्रमेण सूरेः समीपे क्षणोऽपि दुर्लभ इति मन्वानोऽल्पेनानेहसा काव्यनाटकादीनि पथः प्रदर्शकानि व्याकरणकोशादीनि चाधीत्य जिनागममर्मवेदनदक्षः शाखाटवीसंचरणपञ्चाननो रमणीयाननोऽखिलविद्वज्जनचूडामणिर्बभूव / मध्ये च प्रतिष्ठाविलम्बवशादुपकेशपुरं गत्वा भगवतो महावीरस्य श्रीरत्नप्रभसूरीश्वरस्य च पुण्यं लोकैकमंगलं व्यधादर्शनम् / __सम्पूर्णे च महति जिनालये रचितायाञ्च प्रतिमायां सबहुमानमसी राजसीश्रावको नागपुरं प्रति समापितविहारकार्य कुकुन्दाचार्यमाचार्यवर्यञ्च श्रीकक्कसूरिमामन्त्रयामास / प्रारब्धे च महोत्सवे पुण्ये दिने श्री. कक्कसूगिरजनशलाको प्रतिष्ठाविधिश्च महता शास्त्रीयेण विधानेनाचीकरत् / प्रभूतश्च द्रव्यमत्र तेन श्रेष्ठिना धर्मकर्मणि व्यर्य कृत्य शाश्वतं समासादितं पुण्यम् / व्यापारव्यवहारकुशलो वणिक् किं न प्राप्नुयादशाश्वतेनापि चित्रावलीप्रसादलब्धधनेन शाश्वतं निःश्रेयसम् ! / श्रीकुकुन्दाचार्यः सूरेग्नुज्ञां प्राप्य नागपुरं सशिष्यो ययो / आचार्यश्च तत्रैव चातुर्मासिकी स्थितिं चकार / वाचयामास श्रीस्थानायांगसूत्रम् / तीर्थयात्राप्रसंगवर्णनेनोद्भूततीर्थयात्राभिलाषः स समाप्ते चतुर्मासवते सुरेरण्यक्षत्वे श्रात्मनश्च संघपतित्वे शत्रुजययात्रायै महासंघायोजनमकार्षीत् / बहवोऽत्र संघे भावुकाः समागताः शनैः शनैर्गत्वा तत्र विधाय पूजाप्रभावनादिकं कृतार्थतामासादयितुं चात्मनः समप्यं च संघपतिमाला पुत्राय खेतसी। श्रावकाय शुभे च दिवसे पुण्यक्षेत्रेऽगृह्णात् सपत्नीकोऽष्टाविंशतिपरिमितैर्भावुकैः भगवती दीक्षां सूरीश्वर Page #87 -------------------------------------------------------------------------- ________________ समीपम् / संघश्च क्रमेण खटकुम्पं प्रति निववृते / सूरीश्वरश्च धर्मप्रचारार्थ सौराष्ट्र-सिन्धादिषु देशेषु विहरन पुनराजगाम शत्रुजयतीर्थम् / सम्पूर्णसमापितस्वधर्मप्रचारसंवर्धनप्रभावनकार्यः शाहदेवराजेन प्रारब्धे महामहो सवे परमधर्मरुचिं सकलशास्त्रविचारचारुचरितं गजहंसं स्वपट्टे स्थापयामास / परम्पराप्राप्तकमेणास्य श्रीदेवगुप्तसूरिरिति नाम चकार / ___ अथ नवोदितानवद्यप्रकाशविद्योदितजगन्मण्डलो भगवान् दिवसकर इव ज्ञानप्रकाशविद्योतकः सर्वत्राप्रतिहतगतिः समरे सुभट इवासी सूरीश्वरः पञ्चशतसंख्याकैर्मुनिभिः सह विहारं कुर्वन् बहुषु प्रान्तेषु क्रमशः धर्मप्रचारं सर्वतोभावेनाभिवर्धयन् खटकुम्पमाजगाम / अस्यैव नगरस्य सुपुत्रत्वात्सर्वसम्प्रदायमर्मकुशलत्वादाचार्यपदाधिरूढत्वाच्च सर्वे नागरिका अधिकप्रमोदमोदमाना अलौकिकमस्य स्वागतमकार्षुः। तदीयं च गभीरभावपूर्ण श्रेयःसाधकं व्याख्यानच्चाद्य सुधामपि मुधाऽमन्यत / पौराश्चात्मानं कृतार्थ मेनिरे / प्रशशंसुश्च तन्मातापितरौ धन्यमेव तयोर्जीवनमनेनेति / एवं सर्वान्सम्भाव्य ज्ञानामृतेन मरुधरप्रान्ते प्रामनगरेषु विहरन्नाचार्योऽसौ स्वकीयज्ञानप्रभावेणात्मसा. उचकारा / तदाज्ञां देवाज्ञा मन्यमाना नूतनानि जिनायतनानि निर्मापयाञ्चक्रुः / मुमुक्षवश्व बहवो जगृहुर्दीक्षाम् / इतरानपि जिनधर्मानुरागिणः कृत्वा महाजनसंघस्यातिशयमभ्युदयमकरोत् / अपरच पद्मावतीनगयो (पुष्कर). ' चतुर्मासस्थितौ शतत्रयपरिमितान् समागतान् सन्यासिनः शाने विजित्य श्रमणसंघस्यापि वृद्धिमकरोहीक्षादानेन / ततश्च वैदिकी हिंसा सर्वत्र सूरीश्वरप्रभावान्नामशेषतामाप / एकदाऽचार्यवर्यः सभायां यात्रामाहात्म्यमलौकिपुण्यपुञ्जप्रचुरं वर्णितवान् येन श्रेष्टिगोत्रीयोऽर्जुननामा मन्त्रिप्रवरः परमश्रद्धालुः समाप्ते व्याख्याने सप्रश्रयं तीर्थयात्रायै सूरिमभ्यर्थयामास / भगवन् ! भगवतो महावीरस्य निर्वाणभूमीभूतस्य श्रीसम्मेतशिखरस्य यात्रामहं भवदीयाज्ञामनुसृत्य कर्तुमिच्छामि / कः खलु श्रेयःसंपादने प्रतिबन्धकः स्यात् , शुभस्य शीघ्रमित्येव वरमिति तं तदर्थमन्वमन्यत / सर्वत्रामन्त्रणानि कृत्वा महान संघो मार्गशीर्षशुक्लत्रयोदश्यां शुभे मुहूर्ते यात्राभिमुखं प्रयाणमकरोत् सूरेरध्यक्षत्वे / क्रमेण तत्र गत्वा ध्वजारोपणाष्टाह्निकामहोत्सवपूजाप्रभावनादिभिः पुण्यैः कर्मभिः प्रक्षालितानि पातकानि / अनन्तरं चम्पापुरीपावापुरीराजगृहादीनां तीर्थस्थानानां यात्राब्च विधाय संघः पद्मावतीमाजगाम / प्रजिजनं पञ्चमिर्मुद्रिकाभिः सुवर्णमयीभिः संमानं कृत्वा दत्वा च दीनेभ्यो बहु दानं यात्राकार्य सुखेन सम्पादितमनेनार्जुनेन मन्त्रिणा। श्राचार्यवों देवगुप्तसूरिस्तु पञ्चशतसंख्यकैः शिष्यैः सह सम्मेतशिखरसमीपस्थेषु प्रामनगरेषु धर्मप्रचारमकार्षीत् / जिनधर्मानुरागिणां श्रावकाणामहती संख्या सम्पादिता / ते चाधुना सराकजातीया सच्यन्ते / ततश्च बङ्गदेशे विहृत्य हिमा लजिनालयानां दर्शनं विधाय कलिङ्गदेशेऽकरोद्विहारम् / तत्र चोदयगिरिखण्डगिर्योर्दर्शनं व्यधाद्यत्र भगवतः श्रीपार्श्वनाथस्य परम्परायां समागताः सर्व एवाचार्या मुहुर्मुहुः समागत्य धर्मप्रचारमकार्षुः / ततो विहरन्नसी श्रीपार्श्वनाथस्य कल्याणभूमिमात्मनाऽलंचकार, / स्पर्शनादीनि चात्र कृत्वा. कुरुपचालकुनालदेशेषु धर्मप्रचारार्थ विजहार / तत्रोपकेशगच्छीयाः साधवो धर्मप्रचाराय पूर्व संस्थितास्ते सूरिणा प्रोत्साहिताः स्वकार्ये / नूतनानि मन्दिराणि, प्रतिष्ठाः, अन्यमतानुयायिनामपि जिनधर्मेऽधिका रुचिश्च सम्पादिता / ततः सिन्धदेशमाययो सशिष्यः सम्मानितश्च स्वागतादिभिः / प्रथमन्तु मांसभक्षकाणां मांसाहारोऽहिंसाधर्मस्वरूप. ज्ञापनेन दूरीकृतः। परितश्च साधुभिरीदृशी धर्मभावना समुत्तेजिता यतो बह्वी संख्या जिनधर्मावलम्बिना समपद्यत / सिन्धदेशोपवनं धर्मोपदेशामृतसिञ्चितं सदाचारफलं परं रामणीयकमवापेत्यत्राऽसौ सूरीश्वर एव मुख्यं निदानम् / सम्पाद्य च धर्मरुचिं लोकानां कच्छदेशमगात् / तत्रापि धर्मोपदेशेनाभिनवां धर्मभावनामुद्वोध्य सौराष्ट्रदेशमयासीत् / तत्र सर्वत्र विहरन्नसो क्रमेण श्रीशत्रुजयतीर्थमाजगाम / दर्शनयात्रादिकं विधायाक्षयो लाभः समासादितः। Page #88 -------------------------------------------------------------------------- ________________ अत्याचार्यस्य शासनसमये विहायैकादशाग पूर्वाध्ययनस्याभाव एवासीत् / स्वयं च पूर्वद्वयाग्ययनस्तदीयमर्मज्ञश्चाभवत् / येन स्वपरगच्छीया बहवो मुनयोऽध्येतुमागच्छन् / पठताच तेषां मध्ये श्रार्यों देववाचकः परममेधावी विनयरुचिर्यस्मिन्नाचार्यो भृशमस्निात् / सूरेश्चेदृशी भावना यदसौ पूर्वद्वयाध्ययनं संपूर्णतया विध्यात् / परं देवमत्र प्रतिकूलम् / यतोऽनेन सार्धपूर्वमध्ययनं कृतमतः परं प्रमादो विहितः / प्राचार्येण मुहुर्मुहुर्दत्तोत्साहोऽसौ धृतिं न दधार / सूरिश्च चेतसि दुःखेनाशोचत्-महत्कष्टमिदं यद् दृष्टिवादश्चतुर्दशपूर्वाणां ज्ञानं च पात्राभावेनाचार्यचरणैः सहैवाभावं गतम् / अवशिष्टं च पूर्वद्वयज्ञानम् / प्राहकश्चैको देववाचकः सोऽप्यद्य प्रमादप्रस्तः, किमत्र विधेयमिति / मुनिर्ममलकुम्भो नाम तदासीयेन पूर्वमेकं मूलतोऽधीतम् / आचार्यश्च तमध्यापयामास तदर्थान् / यतोऽस्य देववाचकस्याभिरुचिरवर्धत / ततोऽनेन सार्धपूर्व सार्थमर्धश्च मूलतोऽधीतम्, एवमपि कृत्वा स्वधर्मशास्त्र संरक्षितम् / अद्य तु धर्मप्रन्थानां दाहो, ज्ञानं तु दुरापास्तमित्यहो साहसम् ! विहरणक्रमेणाससाद भरुचनगरमसौ सूरीश्वरः / तत्रत्येन/चतुर्विधेन संघेन च महता समारोहेण स्वागतं विहितम् / सकलजनमनोमोदकं धर्मरुचिसंवर्धकं सुविशदविचारचारु समुपासकानां परमसुखकरं व्याख्यानं दत्तमाचार्यवर्येण / ततः परं संघसमक्षमेव निम्नलिखितेभ्यः पदवीप्रदानेन द्विगुणितधर्मप्रचारप्रोत्साहनमकार्षात् / यथा मंगलकुम्मादिभ्य एकादशभ्य उपाध्यायपदम् / देववाचकादिभ्यस्त्रिभ्यो गणिपदं क्षमाश्रमणपदम् / देवसुन्दरादिभ्यः पञ्चदशभ्योः पण्डितपदम् / आनन्दकलसादिभ्यः पञ्चदशम्योः गणावच्छेदकपदम् / सुमतितिलकादिभ्यः पञ्चदशभ्यो वाचनाचार्यपदम् / एवं पदवीप्रदानं समहोत्सवं समाप्य सर्वान् तान् सर्वत्र धर्मप्रचाराय प्राहिणोत् / अन्ते च तत्रैव चतुर्मासो निर्धारितः / अन्येभ्यश्च समीपप्रामनगरेषु चतुर्मासार्थ प्रबन्धो विहितः / व्याख्याने दार्शनिकतात्विक योगसमाधिप्रभृतीन विषयानवलम्ब्य धर्मोपदेशो दत्तः,राजा तथा प्रजाश्च सोत्साहं श्रुत्वाऽत्मानं धन्यं मेनिरे। अन्यमतानुयायिनश्च जिनधर्ममङ्गीचक्रुः / तत्र विद्यमाना बौद्ध धर्मानुयायिनोऽपि निमिलितनयना शिथिलितधर्मप्रचाराश्चाभूवन् / तत आवन्तीदेशे विहरणक्रमेणोजयिनी-माण्डवगढ़-महेन्द्रपुर-दशपुरादिषु धर्मव्याख्यानादीनि कृत्वा मेदपाटप्रान्ते चित्रकोटाघाटपत्तनादिषु च विहरन्नसौ उपकेशपुरमगमत् / तत्र भगवतो महावीरस्य सूरीश्वरस्य श्रीरत्नप्रभसूरैर्देव्याः सच्चायिकायाश्च दर्शनं विधाय श्रीसंघमुपदेशनादिभिः संतानयामास | अनुमान्य च प्रार्थनां तत्रैवाबासीद् वर्षाणां चतुरो मासान् येन धार्मिकाणां महानलभ्यो धर्मलाभो जातः / एकदा भगवती सच्चायिकामपरोक्षरूपिणीमवादीदायुषो ज्ञाने / सा च भगवन् ! त्रयोदशदिनाधिकैः पञ्चभिर्मासैरेव पूर्ण भवदीयमायुरतो भवान् मंगलकुम्भायोपाध्यायपदविभूषितायाचार्यपदे स्थापयतु संघसमक्षमिति / श्रीसंघानुमत्या कुमटगोत्रीयेण वर्धाशाहेन समनुष्ठिते महोत्सवे सूरीश्वरस्तं सकलसमुचितगुणमङ्गलायतनं मंगलकलशमुपाध्यायमाचार्यपदे स्थापयामास / अभिधानमस्य श्रीसिद्धसूरीति परिवर्तितम् / . समाप्ते चतुर्मासवते ततो निर्गत्य खटकुम्पनगरमगच्छत् / कृतश्च सबहुमानमस्य सत्कारविधिः सर्वैः पौरः। अवशिष्टानि च द्वात्रिंशदिनानि / बारम्घमनेनानशनं येन सर्वे महहःखमनुवभवुः / अन्ते पाचपरमेधि Page #89 -------------------------------------------------------------------------- ________________ [4] महामंत्रस्मरणपूर्वकं नश्वरमिदं शरीरममृजत् / सूरीश्वरवियोगदुःखदुखिता जनास्तदीशरीर कथं कथमपि पन्हिसाञ्चक्रुः / आकाशात्केसरवर्णा वृष्टिः पपात शरीरोपरि सुरभीणि च पुष्पाणि / श्रीसंघ समाश्वासयन्ती देवी सच्चायिकाऽदृश्यरूपेणोवाच-आचार्यों देवगुप्त सूरिः परमप्रभावनोपेत: सौधर्मनामनि देवलोके गतः / एकमेव भवमासाद्य मोक्षमेष्यतीति / श्रीसंघोऽपि परमानन्दसन्दोहमग्न प्राचार्यवर्यस्य स्मरणचिह्नरूपमेकं बहुमूल्यं स्तम्भमारोपयामास तत्र संस्कारभूमौ / सत्यमेवोच्यते / कथमपि भुवनेऽस्मिन् तादृशाः संभवन्ति / वि० सं० 520 तः] ३५-प्राचार्यः श्रीसिद्धसूरिः (षष्ठः) वि० सं० 558 50] श्रीदेवगुप्तसूरिपट्टे सकलागमपारदृश्वा योगसमाधिस्वरोदयशास्त्रेष्वनन्यसाधारणशेमुखीचमत्कारचिंता. मणिर्लब्धिसंपन्नः श्रीसिद्धसूरिः स्थानमवाप। असौ च चित्रकोटवास्तव्यो विरहटगोत्रीयश्वासीत् / पिताऽस्य परमधार्मिको वाणिज्यकलाकलापकोविदो धनाढ्यवर उमाशाहो, माता च सतीकुलशेखरमणी रमणीरबसमा• ख्याता श्रीमती नाथीदेवी / तयोरयमाचार्यवर्यः सारंगनामाऽन्वर्थनामा सकलसारदर्शी सूनुरभवत् / वाल्था देवाऽसी दृढसंकल्प: कार्यसूक्ष्मविचारविचक्षणः क्रमशः पितुः पथा वाणिज्यकर्मनिरतो बभूव / नास्य व्यापारी भारत एष केवलमपि तु विदेशेष्वप्यासीत् / प्लवमार्गेण मुहुर्मुहुरसौ गतागतमकरोत् / / एकदा कोटिपरिमितमूल्यानि वस्तूनि प्लवमारोप्य स विदेश जगाम दुर्दैववशास्समुद्रमध्ये प्रचलति प्लवे प्रबलतरपवनः प्लवमुभयतः कल्लोलावलीसमाच्छनमकरोत् / सर्वे च भयविव्हला दिङ्मूढतामवापुः / परमसौ सारंगः "जंजं भगवयाहीहा तं तं पणमिसन्ति" अवश्य भावि तु.प्रयत्नशतेन प्रतिक्रियमाणमपि भवत्येवेति विचार्य सर्वान् समाश्वासयत् / तथापि न केवलमिदं निश्चित्यावस्थानं युक्तमित्यपरे तमवोचन् / सारंगस्तानवादीत्-निश्चयानन्तरमेवोद्योगो भवति न तु तत्प्राक् / अतोऽहं ब्रवीमि यद् भवति तत् श्रेयस एवेति दृढ़ विश्वसन्तु भवन्तः / अत्रैवैको दृष्टान्तो यथा-एकदा वसन्तपुराधिपस्य राज्ञो जयशत्रोरंगुलिश्च्छिन्नाऽ भवत् / सभासद्भिः सर्वैरत्र महान् खेदो दर्शितः / किन्तु तदीयेन मन्त्रिणोक्तं यद् भवति तत् श्रेयस एव / पश्चात् कैश्चिद् दुर्जनै राजा मन्त्रिविषये विरुद्धमुक्तः / तथापि स न तस्मिन् भृशमखिद्यत् / अथेकदा वनविहारार्थमुभी जग्मतुः / मध्ये च राजा पिपासयाऽधिकं पीडितः / मन्त्री च तदर्थ जलान्वेषणायायात् / ततो देवीप्रसादाय बलिमन्विषन्तः पुलिन्दा वृक्षतले स्थितं रमणीयमूर्ति निर्भसिंतमारमूर्ति राजानं दृष्ट्वा गृहीत्वा च देव्यायतनं निन्युः / मन्त्री च प्रत्यागतः स्वबुद्धिबलेन वनेचरव्यवहारादिकं विचार्य सुन्दरं चण्डिकामन्दिरमगात् किरातरूपमास्थायावोचत्सर्वान-ननु सूक्ष्मेक्षिकया दृष्टयाऽवलोकयन्तु सर्वे भवन्तः, एकेनापि शरीरावयववैकल्येनास्य ऋद्धा देव्यस्मान् सर्वानेवैकपदे हनिष्यतीति / दृष्टं च तैः / उक्तश्च भोः छिन्नांगुलिरयम् / त्यज्यतामपरश्चानीयतां कोऽपोति तं विससृजिरे / मन्त्री च केनचिदपदेशेन निर्गत्याने राजानममिलत् / राज्ञा चोक्तं मन्त्रि ! अद्य त्वयैव मे प्राणाः परिरक्षिताः। स चन्यगादीत-स्मयते मदुक्तं यद् भवति तच्छ्रेयस इति ? / तेन चोक्तमोमिति तदारभ्य मन्त्रिण्यसी परमां प्रीतिमबन्धात् / अनन्तरं नगरं प्रत्याजग्मतुः / अत एव दृदं विश्वसनीयमस्माभिरवश्यमेव कल्याणोदकर्को भविष्यतीति / एवं यथाकथंचिद धृतिमवलम्ब्य सर्वे समयमतिवाहयन्ति स्म / परमयं प्रतिकूलतामुपगतः पवनः प्रलयकाल इव प्रबलतरं ववी / दृष्टश्च कोऽपि देवरूपः / ते च तेनोक्ताः। नरबलि भवन्त उपहरन्तु तदैव सर्वेषां कुशलं नान्यथा / सर्वे च ते सारंगं भयविह्वला बल्यर्थमवोचन्। स च तानवादीत्-मयैवेदं कदापि कर्तुमशक्यम् / स्वार्थलुब्धानां भवतां न परकीयशरीरे करुणापेक्षा ? / कोऽस्ति योऽसावात्मानमर्पयितुमस्माकं मध्ये समीहते 1 / सर्वे च मूकीभूताः / एवं पुनरसौ वानगादीत Page #90 -------------------------------------------------------------------------- ________________ पाणा यथात्मनोऽभीष्टा भूतानामपि ते तथा / आत्मौपम्येन सर्वत्र दयां कुवन्ति साधवः // तद्वचः श्रुत्वा सर्वे न किंचिदवादिषुः / स च देवरूपः सारंगमभ्येत्योवाच-भोः सर्वप्राणसंरक्षणार्थ त्वमेव मे बलिमुपनय नररूपम् / न चान्याद्वारगतिरत्र / अक्षुब्धान्तरङ्गः स सारंगस्तमवदत् - कतिवार प्लवा अत्र गता आगता, न च बलिरुपहृतः, नचाधुना मे दातुमिच्छा / अनकसुकृत नब्धोऽयं दिव्यो देहः किमनेनैव नरबलिना संपुष्टा भविष्यति ? / सर्व दोषायतनमिदं च शरीरं देवप्रसादजनक कथं स्यात् / / का च तेऽभीष्टा गतिः 1 / न च मया विचार्यमाणेनापि ज्ञातुं शक्यते कस्मै कर्मबन्धानुभवाय देवेनापादमिष्यत इति / सोऽपि लज्जाभरनताननः किमपि वक्तुमशनवन् हारमकमुज्वलाकारं तस्मै समर्प्य नाहमद्यारभ्य दृशं करं कर्म करिष्यामीति कथयित्वा सप्रतिज्ञं यथागतमगात् / शान्तोऽभूच्चोपद्रवः / सर्वे च मुदितमानसा तं प्रशंसन्तः सुखेन यथाभिमतं स्थानमवापुः / एवमसी हदभावनोपरञ्जिवस्वान्तः परमधर्मरुचिः स्वकार्य सुखेन सम्पादयामास / पिताऽपि वस्मिन्नतीव स्निह्यति स्म / व्यतीते च काले कदाचिदाचार्यः श्रीदेवगुप्तसूरिश्चित्रकोटमाजगाम / संघेन च सादरं सविनयमस्य भव्येन विधिना स्वागतं विहितम् / क्रमण च प्रारब्धानि व्याख्यानानि / सूरिण। च संसारस्यास्थैर्य, लक्ष्म्याश्चंचलता, परिवारस्य स्वार्थकांचः, आयुश्च कालप्रस्तं, भोगा भवरोगबन्धनानि, सर्वमिदं दृश्यत आपाततो रमणीयमन्ते च हालाहलोपमम् / नश्वराय शरीराय धर्मापेतं कः समाचरेत्” इति सारगर्भित उपदेशो दत्तः / श्रुत्वा जातवैराग्यः सारंगः श्रुतव्याख्यानं पितरं गृहं गत्वोवाच-आत्मश्रेयःसाधनादृते सर्वमिदं व्यर्थमेवेति' मतिमनुमान्य दीक्षायै सर्वथा मामनुमन्यतां भवान् / उमाशाहस्तु त्वमेव कायभारं गृहाणाहमव प्रहीष्यामि दीक्षामिति तमवादीत् / एवमुभयाविवादे परिणामे च-उमाशाहस्तस्य चत्वारः पुत्रा अपि दीक्षोद्यता बभूवुः / प्राप्ते च शुभे मुहूर्त सारंगादयो द्विचत्वारिंशत्संख्यका भावुका श्राईती दीक्षामगृहन् / सूरिणा सारंगस्य शेखरप्रभमुनिः, उमाशाहस्य च-उत्तमविजयेति नाम कृतम् / ___यदा गृहस्थत्व प्रासीदुमाशाहस्तदा श्रीसम्मेतशिखरयात्राभिलाषा तस्य चेतसि दृढाऽभूत् ततः पुनडनामा पुत्रस्वदर्थमुक्तः / स चात्मानं धन्यं मन्वानः सूरीश्वरस्याज्ञां गृहीत्वा सर्वत्रामन्त्रणान्यकार्षीत् / किमत्रो. च्यते ? सार्धलक्षका यात्रिण एकविंशतिहस्तिनाम् , राजानत्रयः, सहस्रचतुष्टयं साधूनां साध्वीनाञ्च तत्र संघे समुपस्थितमासीत् / कोटिपरिमितद्रव्यव्ययन संघं निष्कास्य, यात्राञ्च विधायात्मकल्याणमासादितं सर्वेरेव भावुकैः। सूरीश्वरोऽपि यात्रा विधाय शिष्यैः सह बंगकलिंगदेशविहाररुचिस्तत्र धर्मप्रचारं कृत्वा बहुसंख्यकान् बौद्धान् जिनदीक्षादीक्षितान् चकार / सूरीश्वरशुश्रूषायामेव दृढ़परिकरः शेखरप्रभो मुनिवर्तमानसाहित्यस्यागाधतलस्पर्शनः सर्वगुणगणगणनीयकीतिरभूत् / योगाराधने च परमविचक्षणः सर्वत्राप्रतिहतगति पाण्डित्यमाससाद गुरुकृपाकटाक्षितः / भूभ्रमणं कुर्वन्नसावाचार्या मथुरामागच्छत् / सच्चायिकावचनानुसारेण श्रीसंघस्यानुमत्या च सिद्धसूरीतिनाम्नालंकृतं स्वपट्टे स्थापयामास। अथाचार्यः श्रीसिद्धसूरिराचार्यपदं प्राप्याज्ञावशवर्तिनो बहून् मुनीन् स्वधर्मप्रचारकार्य समुचितामुपदिश्य बुद्धि सर्वत्र व्यसृजत् / तदानीमिदं वैशिष्ट्यमासीय भिन्नगच्छीया अपि साधवः परस्परं संगता वादिविजये सह प्रवृत्तिमकाषुः / येन विषमे समयेऽपि सर्वत्र धर्मभावना जनानां मानसाद् दूरं नातिगच्छति स्म / मरुधरलाट-सोराष्ट्र-कच्छ-सिन्ध-पजाब-शूरसेन पचाल-मत्स्य-बुंदेलखगडा-चन्ती-मेदपालपर्यन्तमुपकेशगच्छीयाः साधको Page #91 -------------------------------------------------------------------------- ________________ [ 76 // धर्मप्रचाराय परिभ्रमणं चक्रुः / कदाचिन्महाराष्ट्र-तिलङ्ग-विदर्भादिष्वपि प्रचारार्थ ते विहरन्ति स्म / कोरण्टकगच्छीयाः साधव आबु (अर्बुदाचल) समीपस्थनेषु कदाचिन्मथुरापर्यन्तश्च विहरणेनोपासकानां धर्मभावनां संवर्धयामासुः / इदमेव सौमनस्यं यदेकका मिथः संगतानां वैमनस्यं न / सूरीश्वरश्च विहरणक्रमेण चन्द्रावतीमगात् / श्रीसंघेन चासाधारणः स्वागतविधिः नगरप्रवेशाय सम्पादितः / ततो धर्मव्याख्यानानि क्रमेण जातान्यासन् / तस्मिन्नगरे कश्चित्सालगनामा वेदमार्गानुयायी श्रेष्ठी प्रतिवसति स्म / तस्मै च ब्राह्मणा जिनधर्मः पाखण्डपथावतारः, तदाचरणेन निरयफलमेवाप्यफलम् / अयं च धर्मः श्रुतिस्मृतिप्रतिपादितवैदिकधर्मस्य प्रबलतरः शत्रुः। अस्य नामोच्चारोऽपि महते पापाय कल्पते / हस्तिना ताज्यमानोऽपि न गच्छेजिनमन्दिरमित्युक्त्या तन्मन्दिरदर्शनगमनादिकमपि निषिद्धमिति बहुविधमुपदेशं ददुः / येनासी जिनधर्मरताना नाकरोदादरातिशयम् / सूरीश्वरव्याख्यानश्रवणार्थमेकदा सवैर्वणिग्भिरुक्तः श्रवणार्थमगच्छत् श्रमणसभाम् / व्याख्याने च भारतेऽस्मिन् क्षेत्रे धर्मतरिवाहको भगवान् ऋषभदेवः प्रथमो बभूव / तदीयां शिक्षा प्राप्य चक्रवर्तिना भरतेन चत्वारो वेदाः पृथक् निर्मिताः / तदधिकारश्च निःस्पृहाणां ब्राह्मणानां परहित. निरतानां निर्धारित एभियूयं जनहितं साधयन्त्विति यावन्निःस्पृहत्वं परमोपकारकत्वं च स्थितं तेषां मानसे . तावदेव तैः सर्वेषां कल्याणं साधितम् / परस्मिन् काले लोभोपहतचेतसो ब्राह्मणाः तदर्थपाठपरिवर्तनादिभिः छिन्नपरंपरांश्चकुर्वेदान् श्रेयःसाधकासमर्थान् / न खलु कदाचित् परमकारुणिकः सर्वहितनिरतः परमेश्वरो जीवहिंसया सन्तुष्टो भवतीति मुधैव चेष्टा यज्ञकर्मणि पशुमारणे, यत्र च सर्वेषां हितमभ्युदयश्च दृष्टचरः स एव श्रेयान् धर्म ईश्वरप्रणीत इति निश्चप्रचं विद्वदप्रेसराणाम् / न चात्रान्धपरम्परानुसरणं सौख्यहेतुः / न च लोकापवादा तव्यं परमपुरुषार्थविघातकात् / न चास्माकं धर्मोऽहिंसारूप एकदेशाइतः, अधीतवेदैरष्टादशपुराणपारदृश्वभिः पण्डितैरनेकैरपि भूपतिभिः सदा संसेव्यमानत्वात्सर्वसुखप्राप्तये / अतो गतानुगतिका विहाय बाह्यदृष्टिं शास्त्र युक्तिभिश्च निर्णीतोऽहिंसारूपो धर्मो विश्वस्य जगतः प्रतिष्ठा सर्वश्रेयसामगम्यः पन्थाः समाश्रयणीय इति महता प्रभावेणाहिंसाधर्मस्याश्रयणं सिद्धान्तरूपेणाचार्येण सशास्त्र सयुक्तिकं च प्रतिपादितम् / येन हिंसाधमें जनानां वृत्तिः समूलोच्छिन्ना / सभा च समाप्ता / सव स्वगृहं ययुः / __ अथ ब्राह्मणा भाविनि काले महान्तं यज्ञं कर्तुमिच्छुरयं श्रेष्ठी श्रमणसमा किमर्थ गतः 1 नूनमस्य साऽभिलाषा मूलवश्छिन्ना ! इति बहुविघं विमृशन्तोऽस्य गृहमेत्याशीर्वादेन तं संभावयामासुः। ततो वार्तालापप्रसंगेन महदनुचितमेतद्भवतो यद् अद्य श्रमणसमायामुपस्थानम् / अज्ञानाचरित एषः स्वपितृपितामहादिभिरप्यनादृतः पन्था जिनधर्मस्य / स्वधर्म एवाभिरुचिः सर्वसंपदों परमं निधानम् / एवं बहुविधं बोधयन्तस्ते श्रेष्ठिनमवोचन् / परमविनीतोऽसौ तानवादीन् मान्याः ! विरमतानर्थकप्रलापात् / कोऽयं स्वधर्म इति तु सूक्ष्मदृष्टया विवेक्तव्यम् / यद् भावि तद् भवतु किन्तु धर्माचरणेऽन्तिमं निश्चयं कृत्वैवाहं श्रीमद्भयः समुचितं सिद्धान्तरूपमुत्तरं दास्यामीत्याकर्ण्य ते विफलाशाः प्रतिन्यवर्तन्त / __ एकदा श्रेष्ठी सालगः समयं वीक्ष्य सूरीश्वरपार्श्वमुपेत्य तमवादीसविनयम्-भगवन् ! श्रात्मकल्याणप्राप्तये धर्म एकोऽनेकविधो वा समाश्रयणीयः 1 श्रुत्वा च तद्वचः समाधातुमाचार्यस्तमुवाच-श्रेष्ठिन् ! एक एवाचरितो धर्म आत्मकल्याणमासादयितुं शक्नोति, अस्तु नाम तदाचरणसाधनानां वैचित्र्यं, नात्र विप्रनिपत्तिः / अनेके च धर्माः प्रधानीभूतस्य धर्मस्य विस्तृताः शाखाः / स्वाभिप्रेतसिद्धये तत्तन्मार्गानुसारिभिः . प्रारंभे मिथः कश्चिद् भेदविशेषं कृत्वा स्वस्वसंप्रदायाः पृथक् कृताः किन्तु परिणामे तत्र हिंसाप्रधानानि स्वार्थपरायणानि कर्माणि यज्ञादौ च धर्मरूपेण परिगृहीतानि / एवं धर्माचरणविषये विविधमतानामुपस्थितिर्विवेचकानां धर्मरत्नपरीक्षकाणामने निकषोपलरूपा बुद्धिः साधुत्वमसाधुत्वं वा ज्ञापयति / तदर्थमेवोच्यते "बुद्धेः Page #92 -------------------------------------------------------------------------- ________________ / 7 ] फल तत्वविचारणञ्चेति" अस्मद्धर्मसिद्धान्ततत्वं ते विदिवप्रायमतः क्षिप्योच्यते यद्-सर्वधर्ममतानुयायिनामपेक्षया जिनधर्मे साधूनां विशेषतस्त्यागस्य विरत्तेश्च भावना / न चात्र कनककामिनीस्पर्शमात्रम् / स्वयमेव दुःखानामनुभवः / न हि स्वकृतेऽन्येषां कष्टोत्पादनम् / मनोवाकायकर्मभिश्चाहिंसासत्याम्तेयब्रह्मचर्यादीनां बतानामनुपालनं प्राधान्येन संदृश्यतेऽस्मिन् धर्मे / स्वधर्मानुचरणे ते साधवो पीतमानमोहा नाहंकृतिमातन्वते / धर्मोपदेशदाने सर्वे च समानमानाः / अत्र तत्वज्ञानविषये स्याद्वाद-प्रमाणकर्मवादात्मवादक्रियावादसृष्टिवादपरमाणुवादा योगासनसमाधयश्च सर्वोत्कृष्टा विद्यन्ते / नायं साधारणेन केनचित प्रचारितोऽनाद्यनन्तत्वात् / महानयं विश्वधर्म इति सार्थकतां गतः। महामहिमशालिनश्चास्य प्रवर्तका जगद्वन्दनीयचरणपंक्तयस्तीर्थङ्कराः। यत्रास्य धर्मस्य साधनां बिहारो न जातस्तत्रैव मुग्धमनसो जना अन्यैः प्रतारिता हिंसयैवात्मानमुद्धत चेष्टमाना अधः पातयन्तीति चेतश्चेखिद्यते / एवं सार्वजनीनभावनाभावितं धर्मसंक्षेपवर्णनं श्रुत्वाऽसौ श्रेष्ठी सालगो विज्ञातजिनधर्मतत्वः सूरेरस्नुज्ञां लब्ध्वा शुभेऽहनि सकुटुम्बको भगवती दीक्षामगृह्वात् / जनाश्च तस्यानुकरणतत्परा जिनधर्मरतयो बभूवुः / पट्टावलीकारैरत्र पञ्चसहस्रसंख्यका दीक्षिता इत्युक्तम् / ब्राह्मणा अप्याश्रयविरोधे का गतिरिति निरुशोपहता तथैव तस्थुः / तृणानां च को विरोधोऽनलेन ! / चन्द्रावतीसमीपवासिनों ज्ञात्वा सर्वमिदं जिनधर्मेऽधिकां रुचिमादधुः / अनेककोटिपरिमितस्य धनाढ्यस्य श्रेष्ठिनः को नामाऽनुकरणं न विदम्यादात्मकल्याणपरम्परामार्गानुसरणे / एकस्मिन समये परमविनयोपेतेन सालगेन श्रेष्ठिना सूरीश्वरोन्यगादि-भगवन् ! दीक्षाप्रहणात् प्रागेव मया धर्मार्थ कोटिपरिमितं द्रव्यं पृथक्कृतमास्ते / भवदादेशानुसारेण तस्य सदुपयोगं कर्तुमभिलषामीति / श्रुत्वा चाचार्यस्तमभिनन्द्याह-श्रेष्ठिन् ! लोकत्रयवन्दितस्य श्रीतीर्थङ्करस्य भगवती मन्दिरनिमोणं, तीर्थयात्रायै संघनिष्कासनं, शास्त्रप्रन्थलेखनादिभिर्ज्ञानप्रचारश्चेत्ति त्रीणि प्रधानानि सत्कार्याणि / जिनधर्मप्रचारः सहयोगाप्तबन्धूनां सहायताप्रदानादिकमन्यच्च / तदपि धर्माङ्गम् / अत्र यत्रोपयोगमिच्छसि तत्संपादय / सूरेः परोपकारमिश्रित निर्लोभयुक्तं च वचः श्रुत्वा विचार्याऽसौ चतुर्मासस्थितये भूयो भूय आग्रहम करोत् / येनप्सितं पुण्यो. पार्जनं सकलं जिनधर्मज्ञानप्रचारश्च स्यात् / आचार्याऽपि धर्माभिवृद्धय तदभ्यर्थनामङ्गोचकार / जनाश्च परमसन्तुष्टमानसा बभूवुः / शिल्पकलाको विदाः शिल्लिनः समाहूताः / आदिष्टं च भगवतः श्रीमहावीरस्य द्विपश्चाशदालयोपबृहितं मन्दिरनिर्माणम् / आगमलेखनाय लिपिकराश्च समादिष्टाः / सूरीश्वरद्वारेण श्रीभगवतीसूत्रवाचनामहोत्सवोऽपि समारब्धः / तात्विकदार्शनिकविषयकव्याख्यानं श्रुत्वा मधुगन्धलुब्धमधुप इव श्रेष्ठी सूरिचरणसरोजं क्षणमपि त्यक्तुं नैच्छत् ।समाप्तश्च वाचनामहोत्सवः। जनाश्चालभ्यपुण्यपुजेन संगता आत्मनः कृतार्थताममन्यन्त / सूरेरनुज्ञा लब्ध्वा श्रावकेभ्य आमन्त्रणानि श्रीसम्मेतशिखरयात्राथै प्रेषितानि / आगताश्च श्रद्धालवो बहवो जनाः। मार्गशीर्ष शुक्लपञ्चम्यां श्रीसिद्धसूरेरध्यक्षत्वे विराट् संघः श्रीसम्मेतशिखरयात्रायै प्रतस्थे / संघे च पञ्चसहस्रपरिमिताः साधवः साध्यश्च, लक्षाधिका जनाः, चतुर्दश हस्तिनः, दिगम्बरीयसाधूनां त्रिशती, अन्यमतानुयायिनी साधूनां सप्तशती, चतुरशीतिसंख्यकानि देवायतनानि चासन् / गत्वा च तत्र विधाय पूजाष्टाह्निकामहोत्सवादीनि परमानन्दमवाप संघः / एकदा सूरिणोपदिश्यमान कल्याणमार्गः सालगः कृतनिखिलधर्मकार्य आत्मनि विचार्य पुत्रांश्चाभाष्य दीक्षोद्यतो बभूव / संघपतिमालां ज्येष्ठाय पुत्राय संगणाय समयॆ पुण्ये तीर्थे भगवतीं दीक्षां जमाह / संघश्च संगणाधिपतित्वे क्रमशश्चन्द्रावतीमगात् / सर्वे च पञ्चभिः सुवर्णमुद्रिकाभिः सम्मानिताः स्वगृहं प्रतिनिववृतिरे / श्राचार्यः सिद्धासूरिनूतनेन मुनिना शेखरहंसेन सह पञ्चरातसंख्यकैः शिष्यैः समन्वितः पूर्वदेशे धर्मप्रचारार्थ परितो विजहार / लोकाश्च धर्मभावनामावितहृदयाः परमया भक्त्या स्वागवादिभि. सन्मानं चक्रुः / Page #93 -------------------------------------------------------------------------- ________________ वत्र मुहुर्मुहुः संघनिष्कासनं, नूतनमन्दिरमूर्तिप्रतिष्ठापन, धर्मज्ञानप्रचारश्च मुख्योद्देश्यतामगमन् / बौद्धानां धर्मप्रचारमालक्ष्य त्रीन् चतुरो मासान् ( वर्षत्रयमिति यावत् ) तत्र स्वधर्म दृढा भावनोपासकानां विहिता / बौद्ध। अपि क्षीणप्रभावाः कांदिशिकता जग्मुः। ततः कजिंगदेशमेत्य कुमारकुमारोतीर्थयात्रां कृत्वा भगवतः श्रीपाश्र्वनाथस्य कल्याणभूमौ वाराणस्यां गत्वा दर्शनस्पशनादिकं चकार / तत्रैव चातुर्मासिकी स्थितिः कृता / येन बह्वी धर्मप्रभावना जाता। तत्र च श्रेष्ठिगोत्रीयेण लक्षणशाहन समारब्धे महोत्सवे द्वौ ब्राह्मणो पञ्च भावुकाश्च दीक्षां स्त्रीचक्रुः / ततश्च समवर्धत जनमनोरुचिजिनधर्मे शाश्वते / वाराणसीतो विहरन्नाचार्यः पञ्जाब प्रान्तमलंचकार / श्रीसंघस्याग्रहातिशयं दृष्ट्वा लोहाकाटनगरे चतुर्मासमकरोत् / समाप्ती चैका संघसभा कृता / उपदिष्टं च वीरभूमिवीरभोग्या, जिनधमभावना च भवतां मनास क्षणापि नापेता स्यात् / श्राचरन्तु विशेषतो धर्मव्याख्यानादिभिः स साधवो निजधर्मप्रचारकार्यम् / विधत्ताचात्रानुकूल्यं भगवान् जिनः / उपदिश्य च यथायोग्यपदवीप्रदानेन साधूनां प्रोत्साहनं सविशेष कृतम् / सभा च विजिता / वषद्वयं विहरता तत्र पूर्णतया धर्मप्रचारा विहितः / ततोऽसौ सूरीश्वरः सिन्धप्रान्तमगमत् / डामरलनगर एकश्चतुर्मासोऽङ्गीकृतः / सप्त भावुकास्तत्र दाक्षादीक्षिताब भूवुः / बहवाऽन्य जिनधर्म समधिको रुचिमापादिताः। ततः कच्छदेशं विहारक्रमण गत्वा भद्रेश्वरतीर्थयात्रां धर्मापदशं च भावुक भ्यः कृत्वा सौराष्ट्रप्रान्त समाययो / श्रोशत्रुजययात्रां विधाय क्रमशः सर्वत्र साधून प्रेषयित्वा धमप्रचार कुवन् भरुचनगरमत्य श्रीसंघानुमत्या चतुर्मासमकरोत् / स च परमानन्दमग्नमानसा धमव्याख्यानेरानन्दिताः। समाप्त च चतुर्मासऽबुदाचल यात्रायै जगाम / चन्द्रावती-पद्मावतीशिवपुरीस्था भावुकाः सूरीश्वरस्यागमनमत्र परम्परया विदित्वा श्रद्धाभक्तिसमन्विता गुरुचरणवन्दनार्थमाजग्मुः सर्वे च धर्मलाभाशिषा सम्मानिताः / सर्वैश्ष स्वस्वनगरमल कतुमभ्यर्थना सापहं कृता / यत्राचार्येण ककसूरिणा पूर्व तृषापीडितस्य संघस्य प्राणाः संरक्षितास्तत्रैक सुमहत् सवजनापया|ग गृह निमोपितम् / तता न्द्रावती स ययौ। तत्र संगणशाहन संघसहितन सपादलक्षमद्राणां व्ययनास्य नगरप्रवशमहोत्सवः कृतः। सूरीश्वरस्य वाग्धारावाहीनि सुधारसभरितानि दार्शनिकाध्यात्मिकविषयकाणि व्याख्यानानि जनानां कामप्य लौकिकमानन्दसन्दोहपरम्परा विस्तारयामास / पूर्वमारब्ध मन्दिरमत्र पूर्णप्रायम्। तत्प्रतिष्ठायै संगणेन निवेदितः सूरीश्वरो माघशुक्लपञ्चम्याः शुभ मुहूर्त दी। प्रषितानि दूरदूरमामन्त्रणानि / सूरेरध्यक्षत्वे प्रतिष्ठाविधि ज्ञात्वा बहवो जनाश्चन्द्रावतीमागच्छन् / / मुनः शखरहंसस्योपदशेन संगणशाहेनैकं गृहे जिनायतनं निर्मापितमासीत्तत्रमाणिक्यमयी मूर्तिः श्रीपार्श्वनाथस्य परिकल्पिता / बृहन्मन्दिरे चैकविंशत्यधिकशतांगुलपरिमिता सुवर्णमयी प्रतिमा, तन्नेत्रस्थाने महा. मूल्ये च रत्ने स्थापिते / अन्याश्च धातुमय्यः पाषाणमय्यश्च मूर्तयो नि पिता आसन् / कोटिद्रव्यव्ययेन महता समारोहेण सूरेरध्यक्षत्वे प्रतिष्ठाविधिः पूर्णतामगात् / सूरीश्वरश्च चन्द्रावतीनगरान्निगत्य शिवपुर-कोरंटपुर-भिन्नमाल-सत्यपुर-शिवगढादिषु नगरेषु विहरन्नु पकेशपुरमाससाद / वृत्तान्तश्रवणसमनन्तरमेव तत्रत्यः श्रीसंघो महता हर्षेण सात्साहं नगरप्रवेशविधिमकार्षीत् / परमश्रद्धालुना-आदित्यनागगोत्रीयेण गुलच्छाशाखोयन पुराशाहेन लक्षत्रयपरिमितेन द्रव्यण नगरप्रवेशविधिना प्रभूतं पुण्यं समुपार्जितम् / आधुनिकाः श्रद्धाहीना नास्तिकशिरोमणयोऽत्र शंकन्ते-यन्नगरप्रवेशविधौ भूयानेप द्रव्यव्ययो मौय॑मन्धभद्धां च प्रकटीकरोति जनानाम् / दीनानामुद्धरण उपयुक्तः कियान् उपकारकः स्यादिति / अत्र ब्रमः-निर्धनत्रा क्रान्तेऽस्मिन् कराले काले श्रेयानीहशो विचारः। किन्तु यत्र पुरा भारते सर्वत्र संपत्तिसमन्विते का शंका दीनानामुखरण / बत्तु स्वाभाविकमेव तदानीवनानाम् / सर्वत्रात्र मन्थे दीनेभ्योऽन्नवस्त्रादीनि दत्तानीति भूयोऽवलोक्यते / Page #94 -------------------------------------------------------------------------- ________________ पत्र च लक्ष्म्या एवं निवास प्रासीत्तत्र प्रभूतानि पुण्यप्रापकाणि सत्कर्माण्यनुष्टितान्यासन् / येन दरिद्राणां दारिद्रयदरिद्रता धनिकैनेव कृताऽभूत् / प्रात्मनोऽकरणे परेषामुपदेशने च दृढप्रताः सूक्ष्मेक्षिकया विलोकयन्तु स्वान्ते स्वकीय इत्यलं पल्लवितेन। श्राचार्यः श्रीसिद्धसूरिश्चतुर्विधेन संघेन सह भगवतो महामहिमशालिनः श्रीमहावीरस्याचार्यवर्यस्य श्रीग्नप्रभसूरीश्वरस्य च यात्रा विधाय सारगर्भितामुपदेशनामदात् / अथैकदा नगरजनाः सूरीश्वर सविनयमवोचम्-भगवन् ! इसनीमत्र राक्ष उत्पलदेवस्य जिनधर्मानुरागिणः सन्तानपरंपरायां राजा रावहुल्लादेवो वर्तते / यस्य वंशे पूर्व तत्पिता दाहडो जिनधर्मेऽधिकरुचिस्तत्संवर्धने व दत्तप्रोत्साहनोऽभूत / किन्त्वद्य दुर्दैववशादसौ वाममार्गानुयायिभिडेढमाकृष्टः पाशबद्धो वनमृग इव स्वधर्ममुल्लंघ्य मांसमदिरारुचिय॑भिचारस्य चरमां कोटिमारूढः / बहुभिश्च नगरमुख्यैः संबोधितोऽपि यौवनदर्पाद्राज्यप्राप्तिमदाद् वाममार्गिणां सदा संसर्गवशाच्च शब्दमपि न शृणोति / अतः क्रमेण विचार्यमाणे जिनधर्मस्यावश्य भविष्यत्यत्र महती क्षतिः / तदत्र किमपि प्रभुत्वं दर्शयतु, रक्षतु क्षतेर्जिनधर्मप्रचारम् / सूरीश्वरश्च तानाश्वास्यावादीत्-यदाऽसावत्रागमिष्यति तदाऽवश्यं तदर्थमुपदेक्ष्यामि / वाममार्गिणश्च सर्वदा लब्धप्रतिष्ठास्त क्षणमपि न सत्यजुः / ते त्वजानन यदि राजा सूरीश्वरपावै गतः सर्वथा गत एवास्मत्सकाशादिति / तदानीं सर्वसचिवशिरोमणिर्बप्पनागगोत्रीयो मालदेवशाह आसीदन्ये च राजकर्मचारिणो बहुधा वणिज एव / तेऽपि राज्ञोऽस्माद्दर्जनसंसर्गाद्वारयितुं न शेकुः। कदाचिदत्र म्लेच्छानामाक्रमणं जातमिति श्रुत्वैव विव्हलो वाममार्गिणः पप्रच्छ किमत्र प्रतिविधेयमिति / ते चाब्रुवन्-शाकाहारमात्रपरायणानां वणिजां राजकर्मणि नियोगोऽद्यानर्थोत्पादको जातः / अतोऽत्र तेषां स्थाने मांसभोजनेन बलिष्ठा वीरा एव नियोक्तव्या / येन ते सर्वे म्लेच्छैः सह युध्येरन् / मन्दबुद्धिरसौ तथैव प्रत्यपद्यत / तत्स्थाने नियुक्ता वाममार्गिणः / . अथ समीपमागतेषु म्लेच्छेषु त अयुध्यन्त, किन्तु शिक्षाया अभावात्संचालकस्य बुद्धिमतः सेनापने श्वाभावात्कथमपि प्रथमो दिवसोऽतिवाहितस्तैः। द्वितीयेऽह्नि तान् क्षीणशक्तिकानालोच्य राजा परममुह्यदत्र किं विधेयमिति / अन्ते च ताननादृत्य गुरून् वाममार्गिणश्चान्तःपुरं गत्वा सर्वमिदं वृत्तान्तमकथयत् / तदा जिनधर्मोपासिका काचित्तमुवाच-गजन् ! नन्याय्यमिदमनुष्टितं यन्महाजना भ्रष्टाधिकागः कृताः। अत्रैतेषां बलमेव नास्तीति मिथ्या भ्रमो भवतः / तेऽपि मूलतो विचार्यमाणे क्षत्रिया एव / अतो विजयार्थिना भवता दुराप्रहं त्यक्त्वा त एव पुनः स्वाधिकारे नियोक्तव्याः। दृढमहं विश्वसिमि कार्यभारे तेभ्यो दरोऽवश्यं विजयस्ते भविष्यति / स्वीकृत्येदं तेनाहूताः संमानिताः / क्षमा च याचिता / ततस्तैः प्राणपणेनापि विजयप्राप्तिस्तवैवेति दृढीकृतम् / सर्वे ते युद्धस्थानसमीक्षणं कृत्वा यथाविभागमवस्थिताः / तैगदिष्टेन राज्ञा स्नात्रमहोत्सव आरब्धः / आरब्धानि रणवाद्यानि स्तुतिपाठकैर्वन्दिभिश्चारणैश्च कृतान्युत्तेजनानि / ते तु श्येनः पक्षिष्विव सवेगं शत्रुसेनायां सोहामं पतिताः क्षणेनाखिलं संजहः / अवशिष्टाश्च मुखे तृणं गृहीत्वा जीवनं ययाचिरे / विजयदुन्दुभयश्च नेदुः / प्रसन्नश्च राजा प्रभतानि ददौ तेभ्यः पारितोषिकाणि / सर्वोपद्रवश्च दावाग्निलंधितवृक्षस्योपरि वृष्टिपात इवाभूत् / जिनधर्मे च रुचिं चकार / गुग्वश्च मुखमपि न दर्शयामासुः। एकदा सभायां नृपः समागतः / आचार्येण चावसरं वीक्ष्य पुरा राजभिमंत्रिभिश्च कृता जिनधर्मस्यातिमहती सेवा वर्णिता व्याख्याने / राजा च पश्चात्तापमवाप / समाप्ते व्याख्याने सूरीश्वरसमीपं क्षमा ययाचे / सूरिणा च गजधर्मस्वरूप विशदीकृत्य विवेचितम् / धर्ममन्तरा राज्यपालनं न सुकरमित्यपि प्रतिपादितम् / येनाऽसौ राजा सूरीश्वरस्यानन्यः सेवकोऽभवत् / चार्तुमासिकी स्थितिरत्रैव कर्तव्या भवतेति मुहुनिवेदितम् / Page #95 -------------------------------------------------------------------------- ________________ 10] आचार्येणापि स्वस्य वाईकमवेक्ष्य तथेत्यनुमोदितम् / ततश्च राज्ञः प्रजानां च सदुपदेशामृतश्रवणजन्य प्रानन्दपारिधिभूयोऽवर्धत चेतःसु / प्रवृत्तानि च धार्मिकाणि व्याख्यानानि / / एवं व्यतीतेषु दिवसेषु देवी सञ्चायिका परोक्षदर्शनाऽचार्यसमीपमेत्याह भगवन् ! बहूपकृतमत्र विशेषत उपकेशपुरस्य / राज्ञि धर्मिणि प्रजा अपि धर्माचरणपरायणा इति कृत्वा राजा च प्रकृतिमापादित इत्यतीवोपकारः समेषां नाविदितः / श्रायुश्च भवतो मासावधिकं त्रयोदशभिर्दिनैः सहितम् / अतः स्वपट्टे कमपि योग्य मुनि प्रतिष्ठापयतु / उपाध्यायो विनयसुन्दरः सकलागममर्मज्ञो निखिलगुणावर्जितजनमना योग्य इति सूरीश्वरोक्तमनुमान्य सा तिरोदधे / अन्ते च रावहल्लादेवस्य श्रीसंघस्य च समक्षं महता समारोहेण श्रावणशुक्लपूर्णिमायां शुभे मुहूर्ते मुनिमुपाध्यायपदालंकृतमाचार्यपदे श्रीकक्कसूरीति नाम कृत्वा प्रतिष्ठापयामास / अन्ये चोपाध्यायगणिवाचकपण्डिता. दिभिः पदवीभिः सम्मानिताः। सूरीश्वरश्चान्तिमा संल्लेखनां विधाय भाद्रपदशुक्लैकादश्यां नश्वरं देहमुदत्सृजत् / उपकेशपुरं सर्व धूमाच्छादितं रविमण्डलमिव न रराज / श्रीसंघेन राज्ञा च चन्दनादिमिः सुगन्धिभिः काष्ठैः शरीरस्याग्निसंस्कारः कृतः / पपात च चितायां पञ्चवर्णा पुष्पवृष्टिः / सर्वैश्च देव्याः सच्चायिकायाः सकाशादवगतं यदाचार्यवर्यः सौधर्मनाम्मि देवलोके सागरोपमा स्थितिमलभतेति शम् / वि. सं. 448] 36 प्राचार्यः श्रीकक्कसूरिः / ( सप्तमः) [वि० सं० 601 प. ___ श्रीसिद्धसूरिपट्टेऽनेकभूपतिप्रवरमुकुटमणिमरीचिमन्जरीचर्चितचरणयुगलो जिनगदितागमप्रतिपादितयमनियमनिष्टश्चारित्रचूडामणिरुत्कृष्टक्रियापालकः सहस्रांशुरिव प्रबलप्रतापश्चन्द्र इव रुचिरमूर्तिः श्रीकक्कसूरिः समायातः। स चोपवनवाटिकाकूपसरःपादपोपशोभिते मेदिनीपुरे व्यवात्सीत्। पिताऽस्य कर्मणशाहो माता च परमपतिव्रतशोभना शीलसौजन्यसौन्दर्याद्यनेकगुणगणालङ्कता मेनादेवी / अनयोरेकादशस्वात्मजेषु विमलशाहो व्यापारकार्यकुशलः परमधर्मरुचिः रुचिरवदनपुण्डरीकः सकलपुरजनानां मनांसि मोदयामास / स एव गृहस्थाश्रमाधारस्तम्भरूपो बभव / अथासावेकदा केनचिदपि कारणेन नागपुरं ययौ / तत्र सुचन्तिगोत्रावतंसेन नोढाश्रावकेण श्रीसोमप्रभोपाध्यायस्य गुरोरुपदेशात् शत्रुजययात्राथै संघस्यायोजनं कृतम् / तदीययात्राविषयकप्रार्थनां श्रुत्वाऽसौ बिमलशाहस्तमब्रवीत् / भवान् पंच वा षड् वा दिनानि प्रतीक्षतामहं तावद् गृहकार्य संपाद्य सकुटुम्बो यात्रायां सम्मिलितो भविष्यामीति तस्य वचः समाकर्ण्य नढाश्रावकस्यात्मजेनोक्तम्-यथा तथा वा भवतु किन्तु निर्धारितदिवसस्योल्लंघनं कथमप्यशक्यमेव / तीर्थयात्रायां प्रबलतरायामभिलाषायां भवानप्यपरं संघायोजन कतु प्रभवत्येव / ततः स्वापमानजनक वाक्यं देवाशाहस्य ज्ञात्वाऽसौ विमलशाहस्तथैव विधातुमियेष / इतश्च प्रचुरतरपुण्यराशेरुदयात्सिद्धसूरिस्तत्र मेदिनीपुरे विहारक्रमेणाजगाम / सपादलक्षरूप्यकव्ययेन विमलशाहेन भव्यसमारंभपुरःसरमस्याचार्यवर्यस्य नगरप्रवेशमहोत्सवः सम्पादितः / आचार्यश्च श्रीसंघस्याप्रहातिशयमनुमान्य तत्रैव चातुर्मासिकी वसतिमङ्गीचकार / ततः प्रवर्तमाने दैनंदिनक्रमेण व्याख्याने यात्रापुण्यफलं सम्यगवबुध्य तीर्थयात्राभिलाषी विमलमूर्तिरसौ विमलशाहः शत्रजयतीर्थयात्रामनोरथं सूरये न्यवेदीत् / अनुज्ञातश्च सः सर्वत्रामन्त्रणपत्रिकाः सम्प्रेष्य सविशेष नोढाश्रावकं तदीयपुत्रं च देवाशाहमामन्त्रयितुं नागपुरमागच्छत् / सबहुमानं तस्मै यात्रार्थमाह्वानं कृतम् / पञ्च षड् वा दिनान्यतिवाह्यास्माकं तत्रागमनं सम्भाव्यत एवेत्युक्तोऽसौ तथैव प्रत्यपद्यत / अतः पूर्वकृतमपमानप्रसंगं स्मृत्वा देवाशाहो लज्जितः पश्चात्तापमवाप / तस्य चौदार्यमतीव प्रशशंस / सम्प्राप्ते शुभे दिने सूरीश्वरस्याध्यक्षत्वे तस्य च संघपवित्वे शत्रुञ्जयमभिप्रतस्थे संघः। Page #96 -------------------------------------------------------------------------- ________________ श्रथ व्यतीते कियति मार्गे सूरिणा कश्चित् कृमिगणाकुलितो निर्गदहलरुधिरप्रवाहपूरितोऽचेतनत्वं प्राप्तो वृषभो दृष्टः / दृष्ट्वा च तं जातदयः स प्राचार्यों विमलशाहमवोचत्- अयि भव्य ! पश्यास्य वृषभस्म कर्मचिश्यं येनाऽसौ पर्ग कष्टां दशामापन्न आसन्नमरणो वर्तत इति / स च तस्य करुणाजनकं वाक्य सूक्ष्मेक्षिकया क्षणं विचिन्त्य संसारिणां कष्टप्रायं जीवनच दृष्ट्वा परमविरक्तमानसोऽभूत् / ततो निर्गत्य शत्रुजययात्रां ध्वजारोपणपूजाप्रभावनादीनि कर्माण्यखिलानि सम्यगनुष्ठायाचार्यचरणकमलाभिवन्दनार्थ सूरे समीपमाजगाम / विमल ! किमपि निश्चितं न वेत्याचार्येण पृष्टः प्रतिबुद्धोऽसौ स्वकौटुम्बिकानाहूय हृदयनिहितमभिलाषं प्रकटीचकार / तैरनुमत एकादशभिः श्रावक-श्राविकाभिः सात्तीकः शुभेऽहनि दीक्षामप्रहीत् संघपतिमाला च तदीयात्मजेन श्रीपालशाहेन धारिता / ततो मार्गे नानाविधानि जीर्णोद्धारादोनि कर्माणि कृत्वा गृहमेश्य प्रतिजनं संभावनारूपेण पञ्च मुद्राः प्रत्यर्पयामास श्रीपालशाहः / दीनेभ्यश्चान्नवस्त्रादिकं दत्वा संतोषयामास / दीक्षानन्तरं विमलशाहस्य विनयसुन्दरेत्याख्या जाता / असौ च क्रमेण व्याकरणन्यायसाहित्यादीनि शाखाण्यधीत्य जिनागमसिद्धान्तनिपुणे विद्वाजनमण्डलीमण्डनायमानो बभूव / नागपुरे चतुर्मासकाले स्वनिधनसमय ज्ञात्वा देवीसच्चायिकायाः प्रोत्साहनेन च भाद्रगोत्रीयेण गोल्हाश्रावकेनारब्धे महामहोत्सवसमारंभे श्रीसिद्धसूरिस्तं स्वपट्टे श्रीककसूरीतिनाम्ना प्रतिष्ठापयामास / __इदमत्रावधेयम्-पुरारत्नप्रभ-यक्षदेव-कक्कसरि-देवगुप्त सिद्धसूरीणां नामव्यवहारः परम्पराप्राप्त प्रासीत् / किन्तु कालदोषवशात्प्रथमतो नामद्वषं कोश एव स्थापितम् / अत एवास्य तृतीयं श्रीककसूरीति नाम कृतमिति / __अथ क्रमेण विहरन् श्रीककसूरिजर्जावलीपुरमाययो / तत्र चैत्यानिवासिनो सधूनां धर्माचारविचारादिषु शैथिल्यं विचार्य तन्निवारणार्थमेका श्रमणसभा कारिता / विविधदेशविहारिणः साधवः साध्व्यश्च तत्राजग्मुः। अधुना वाममार्गानुसारिणां साधूनां सर्वतः प्रचारकार्य समालोच्य युष्माभिरपि सर्वैः स्वधर्मप्रचारार्थमेव दृढपरिकरैरवश्यं भवितव्यम् / धर्मप्रचारकार्यस्य मुख्याधाररूपा यूयमेव शिथिलादरास्तदाऽन्येषां का कथा ? धर्मरक्षा. र्थमेव यूयं साधुत्वेन स्थिताः / यद् यदाचरति श्रेष्ठस्तत्तदेवेतरो जन इति न्यायेन युष्मदीयचरितानुयायिनोऽधुना श्रावका अपि सुतरां धर्माचरणे शिथिलादरा भवेयुस्ततः सर्व एवास्माकं संप्रदायः सर्वत्र निखिलजननिन्दनीय उपहासपात्रं स्यात्तन्मा भूदिति विचार्य सर्वे दृढप्रयत्ना भवन्तु धर्मरक्षायै / एवं स्वधर्मसंरक्षणे तान प्रेरयित्वा सर्वान् कर्वव्योत्सुकान विदधे / ते च सर्वत्र धर्मप्रचारार्थ विहारं चक्रुः / श्रीसंघस्याग्रहवशात्तत्रैव चतुर्मासमकगेत् / व्याख्यानलाभेन सर्वे श्रावका धर्माचरणरता बभूवुः / समाप्ते च चतुर्मासेऽष्टादश भावुका भगवती दीक्षा जगृहुः / ततश्च विरहरन्नाचार्यः कोरण्टकपुरमागच्छत् / भगवतो महावीरस्य यात्रा विधाय पालिकानगरीमात्मनाऽलञ्चकार / तत्रोपकेशपुरस्थः श्रीसंघः सूरीश्वरागमनप्रार्थनार्थ समागतः / सूरिरपि वैगटनगर-नागपुगदिषु प्रामनगरेषु धर्मप्रचारं कुर्वन् संघप्रार्थना स्वीकृत्योपकेशपुरमभिप्रतस्थे। तत्रागतस्याचार्यस्य कुमटगोत्रीयेण भोजाशाहेन सपादलक्षव्ययेन भव्य स्वागतं विहितम् / तत्रैव च चतुर्मासो निर्धारितः / अस्मिन्नगरे चोपकेशे चरडगोत्रोद्भवस्य कांकरीयाशाखीयस्य थेरुश्रावकस्य स्वसा वैधव्यपीडिताऽसीत् सा च सूराख्यानं 'सारनिःसारतोद्बोधकं समाकये दीक्षोद्यता सूरिपाव तदर्थमाजगाम / तं चावोचत्-भगवन् ! संसारोद्विग्नाऽहं प्रव्रज्यां स्वीकरिष्यामि, मम कोटिपरिमितं द्रव्यं वर्ततेऽतस्तद् कथं धर्मकर्मणि विनियोक्तव्यमिति भवानेवादिशतु / सूरिस्तु तद्वचः श्रुत्वा शास्त्रोक्तानि धर्मकार्यसमुचितानि सप्त क्षेत्राणि पुण्योपार्जकानि वर्णयामास / वर्णयित्वा च तामाह-श्राविके ? संघस्याप्रेसरानाहूय पुण्यकर्मविनियोगार्थ तेभ्यस्तद्रव्यं भवती समपयतु / ते च सूक्ष्मदृष्टया त्वदीयं द्रव्यं सत्कर्मसु विनियोक्ष्यन्त्येव / आचार्यस्येदं परमार्थसारं वाक्यं श्रुत्वा सा तथैव व्यवस्थांठ यधच / संघस्याप्रेसराः कार्यवाहकाः-(१) आदित्यनागगोत्रीयो लक्ष्मणशाहः (2) Page #97 -------------------------------------------------------------------------- ________________ [ 1] अष्टिगोत्रीयो नागदेवः (3) चरडगोत्रीय: पुनडशाहः (4) सुचन्तिगोत्रीयो लिम्बाशाहः, एवमेते चत्वारो व्यवस्थापका स्तर्दयद्रव्यग्य जिनागमप्रन्थलेखनेन सद्व्ययमकाषुः / सा च शुभे मुहूर्तेऽष्टभिः श्राविकाभित्रिभिः श्रावकैश्च सह दीक्षिता बभूव / सूरीश्वरश्च मेघाशाहेन निर्मापितस्याभिनवस्य पार्श्वनाथमन्दिरस्य प्रतिष्ठामकरोत् / ततो विहानाचार्यों मेदपाट-बुदेलखण्ड-शौरसेन-मत्स्य-पचाल-कच्छादिषु प्रान्तेषु धर्मप्रचारकार्यामसाधारण शेमुखीबलेन विधाय गैराष्ट्रप्रान्तमाजगाम / तत्र शत्रुब्जयतीर्थयात्रां लोकांश्च धर्मरतान् कृत्वा स्तम्भतीर्थे चातुर्मासिकी स्थितिं कृत्वा मरुधरदेशं पावयामास / विहरणक्रमेण चन्द्रावती गते चन्द्रावतीसंघः सप्रश्रयं तं व्यवेदयत् / भगवन ! जराजर्जरितावस्थो भवतो देहो वर्ततेऽतः कस्मैचित् शिष्याय सर्वगुणसंपन्नायाचार्यपदं देयम् / सूरीश्वरोऽपि स्वीकृत्य तदीयमभ्यर्थनां प्रार टवंशीयेन कुम्भाश्रावकेणानुष्ठिते महामहोत्मवे सर्वगुणगणविद्योतितप्रभावमुपाध्यायपदभूषितं मेरुप्रभमुनिं स्वपट्टे संस्थापयामास / अत्र परमधार्मिकेण तेन पचलक्षसंख्यका मुद्रा व्ययीकृताः / मेरुप्रभस्य देवगुप्तसूरीति नाम विहितम् / ततश्च श्रीककसूरिश्चतुर्विशतिपरिमितानि दिनान्यनशनेन समाधियोगेनातिवाह्य स्वर्गमगमत् / इदम वधेयं विशेषतः-अस्य शासनकाले चैत्यनिवासिनः साधवरतदीयोपदेशं स्वीकृत्य सर्वत्र स्वधर्मप्रचारकार्यमात्रतत्परा महान्तं प्र सिं प्रयत्नब्वाकार्षुः / येन शिथिलितप्रायोऽपि जिनधर्मः प्रबलतरवातावलिसंधुक्षितः स्फुलिंग इवाधिका द्युतिमघाप / [वि० सं० 6.1 तः] 37 श्राचार्यः श्रीदेवगुप्तसूरिः (सप्तमः) [वि. सं० 631 50 " श्रीककसूरिपट्टे परमयशोमूर्तिः सौजन्यौदार्गगुणगणोपमण्डितो जिनधर्मप्रगरचारुचरित्रा नानाविधविद्याविचक्षणश्चन्द्रावतीवास्तव्यः श्रीदेवगुप्तसूरिः पदमवाप / अस्य जनकः श्रावकव्रतनियमनिष्टः पञ्चपरमेष्ठिमहामन्त्रोपासकः प्राग्वटवंशीयः सामाद्युपायचतुरो महामात्यो यशावीरः / माता च सतीमण्डलमण्डनीभूता रामादेवी / तयोमडन-खेता-जीवसिंहाख्यास्त्रयः पुत्रा आसन् परम्पराप्राप्तजिनधर्मकर्मनिरताः / तत्र पिता, मण्डनश्च राजकीयक्षेत्रे लब्धप्रतिष्ठी, अपरौ द्वौ व्यवहारकार्यकुशलावभूताम् / व्यतीते काले यसोवीरः स्वकीयामात्यपदे मण्डनं प्रतिष्ठाप्य परमनिवृत्यर्थ रामादेव्या सह स्वोद्याने स्थिते श्रीककसूरिप्रतिष्ठापिते चैत्यालये नलिनीदल मिव 'सारान्निर्लेपो भूत्वा भगवन्तं जिनदेवमागधयामास। , एकदा मण्डनस्य प्रासादपार्वे तारुण्ये वयसि वर्तमानः कश्चिद् दुर्भाग्यवशात् पञ्चत्वं प्राप्तः / अतोऽस्य कौटुम्बिका दुःखिताः करुणं मुक्तकण्डमाचक्रन्दुः / चेतोविदारक तेषा रोदनध्वनि समाकण्ये मण्डनः संसारविषय कविचारनिमग्नो बभूव / प्रातः स्वनियमानुसारेण सूरिपार्श्वमेत्य स्ववैराग्यकारणं निवेद्य दीक्षाये सजीवभूव / नृपं पितरौ चापृच्छय स्वज्येष्ठात्मजं रावलं मन्त्रिपदे नियुज्य सप्तदशभिमुमुक्षुभिः सह दीक्षितोऽभूत् / मेरुप्रभेति समाख्यामसौ प्राप। शनैः शनैराचार्यसमीपे व्याकरणसाहित्यतर्कमीमांसादीनि शास्त्राण्यधीत्य जिनसिद्धान्तसरणीतरणीकृतबुद्धिप्रसरः पण्डितप्रकाण्डो जाबलीपुर उपाध्यायपदभूषितश्चन्द्रावत्यां सूरिपदालतो बभूव / ततश्च देवगुप्तसूरिरिति प्रसिद्धिमगमत् / - तस्मिन् काले भृगुपत्तने सौगतानामतीव प्राबल्यमासीत् / सूरीश्वरोऽपि विहारक्रमेण लाटदेशमागतः स्तम्भतीर्थमगमत् / भृगुपुरवासिभिः श्रावकैः परम्परया ज्ञातं यदसावाचार्यः स्तम्भतीर्थमात्मना भूषयतीति श्रीसंघः स्तम्भतीर्थं प्रेषितः।। सूरिरपि सकलं वृत्तान्तं विदित्वा प्रार्थनाच स्वीकृत्य जिनधर्मप्रचारचोद्दिश्य भृगुकच्छमयासीत् / तत्र स्याद्वादवादिनों पुरः क्षणिकवादिनो बौद्धाः स्थातुमपि न शेकुः / शास्त्रार्थस्तु दूरत एव तैः परिहृतः ! न चायं प्रथमो दृष्टान्तः बहुशस्ते बौद्धा उपकेशवंशीयैराचार्यैः सह विहारकाले संगताः पराजिता बभूवुः / येन सूरीणां नामश्रवणमात्रादेव ते पलायन्ते स्म / प्रकृतमनुसरामः / स्याद्वादसिद्धान्त Page #98 -------------------------------------------------------------------------- ________________ [6] जनानां पुरतो झापयितुमारब्धः शास्त्रार्थो बलात् सूरीश्वरेण / बौद्धानां पराजयेन सर्वत्र जिनमतानुयायिनी कीर्तिः समैधत / अत्र चातुर्मासावस्थानेन धर्माभिवृद्धि विधाय स सौपारपट्टनमाययो। तत्र महाराष्ट्रप्रान्ते पाखण्डमतावम्बिनां शक्तिर्दैनंदिनमभिवर्धत इत्येकेन श्रावकेण निवेदितं श्रुत्वा सूरीश्वरोऽपि शिष्यैः सह महाराष्ट्राभिमुखं प्रयाणमकार्षीत् / सूरीश्वरस्याप्रतिहतप्रभावं धर्मसिद्धान्तं व्याख्यानतो विदित्वा निस्तेजका रुद्धवीर्या भोगिन इव तेऽभूवन् / समाप्य चात्र प्रचारकार्य गृहस्थानां परिचयबाहुल्येनात्मनो व्यासक्तिर्माभूत, सर्वत्र विविधप्रकृतीनां जनानां सहवासेन विशेषलाभः स्यात, अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवतीत्यनुस्मृत्य सर्वत्र धर्मप्रचारार्थ वरमेव विहरणमिति मत्वा तदेवानुतिष्ठति स्म / __ अथ विहरणे बहुविधानि दुःखान्यनुभूय "मनस्वी कार्यार्थी न गणयति दुःखं न च सुखमिति" वचनमनुस्मरन्नसौ सर्वमपि विमृश्य महाराष्ट्रप्रान्ते वर्षद्वयं विहारमकरोत् / अत्र दिगम्बरीया अपि साधवो विजह - स्तथापि समानस्नेहेन धर्मप्रचारं तेऽन्वतिष्ठन् / संपूर्णरूपेण धर्मप्रचारं विधाय मदुरापुर्यामाजगाम / अतिमहती चैका श्रमणसभा विहिता / सर्वेषां साधूनां प्रोत्साहनार्थ पदवीप्रदानमपि कृतं येन द्विगुणितधर्मप्रचारोत्साहास्तत्र विहरणमकार्षः। तत आवन्तिकाप्रदेशं गत्वा माण्डव्यपुरे चतुर्मासावधिको स्थितिं चकार / ततः शूरसेनकुर्वादिषु देशेषु विहरता कालान्तरे मथुरापुर्या चतुर्मासो विहितः / तत्र श्रेष्ठिगोत्रीयेण हरदेवशाहेन चतुर्मासे श्रीभगवतीसूत्र[वाचनामहोत्सवः कृतः / सपादलक्षपरिमितं द्रव्यं व्ययीकृतम् / समाप्ते च महोत्सवेऽष्टभिर्भावुकैभगवती दीक्षा गृहीता / अपरं च बप्पनागगोत्रीयेण चाचणश्रावकेण श्रीपार्श्वनाथस्य महान जिनालयो निर्मापितः / सूरीश्वरस्य वरदेन हस्तेनास्य भव्यसमारोहपुरःसरं प्रतिष्ठा विहिता / वो भगवतः श्रीपार्श्वनाथस्य कल्याणभूमौ स्पर्शनादि विधातुं वाराणसीमगमत् / तत्रात्मशान्तिमनुभवितुं किंचित्कालं स्थिरनिवासो विहितः / ततः पञ्चालदेशे सिन्धः प्रान्ते च धर्मप्रचाराय वर्षद्वयं व्यहार्षीत् / सर्वतोभावेन धर्मविषयकाणि व्याख्यानानि कृत्वा साधूनां समुत्साहाभिवृद्धयर्थमेका श्रमणसभा विहिता / तत्र गणिवाचनाचार्यादिभिः पदवीभिः साधवश्च सत्कृताः / एवं स्वकार्य पूर्णोत्साहेन सम्पाद्याचार्यवर्यः सौराष्ट्रप्रान्ते विहरन् श्रीशत्रुजयतीर्थमाससाद / पूजास्पर्शनादि विधायात्मसुखसंपादनार्थ कियन्तं कालं तत्रैव न्यवात्सीत् / ततो विश्रान्ति लब्ध्वा लाटदेशे विहारं कुर्वन् , क्रमेण मरुधरे प्रथमश्चतुर्मासः पद्मावत्यो विहितः तत्र सूरीश्वरस्योपदेशं प्राप्य मासमात्रेण कृतपाणिपीडनां भायो त्यक्त्वा मुखापुत्रेण प्राग्वटवंशीयेन सूरिपार्श्वे दीक्षा गृहीता / चतुर्मासानन्तरं नोढाश्रावकेण निर्मापितस्य श्रीमहावीरस्य जिनालयस्य प्रतिष्ठाविधिर्भव्येन समारोहेण कृतः / तदेवं समाप्य च धर्मकार्य कोरण्टकपुरमयासीदाचार्यवर्यः / तत्र कोरण्टकगच्छीयाचार्यः श्रीसर्वदेवसूरीश्वरो न्यवात्सीत् / स च सूरीश्वरस्यागमनं विज्ञाय सशिष्यः प्रत्युजगाम सन्मानार्थम् / श्रीमालवंशीयेन खुमाणशाहेन सपादलक्षपरिमितं व्ययं कृत्वा नगरप्रवेशो महता समारोहेण विहितः अथ कोरण्ट कपुरेऽशुभकर्मोदयात सूरीश्वरस्य वपुषि सजातोऽसाथ्यो व्याधिः / अतो रात्रावसावचिन्तयत्-ममाद्य वृद्धावस्था वर्वतेऽतः कस्मैचिन्मुनये सूरिपदं दत्वा श्रात्मकल्याणनिवृत्यर्थमवश्यं प्रयत्नो विधातव्यः / तत एव देवी सच्चायिका परोक्षरूपेण समीपमेत्यावादीत भगवन् ? अष्टौ वर्षाणि जनकल्याणं भवान् विधास्य तीति मा खेदं करोतु / तत उपकेशपुरप्रत्यागमनाय प्रार्थयामास श्रीसघः / सूरिणाऽपि याशी क्षेत्रस्पर्शनेति स्वी. कृतम् / देव्याः कृपया च शरीरस्य सोमनस्यं जातम् / कोरण्टकपुरान्निर्गत्य भिन्नमालाजाबलीपुरमेदिनीपुरादिषु प्रामनगरेषु विहरन् सूरिर्माण्डव्यपुरमाययौ / अस्मिन् काले माण्डव्यपुरं तूपकेशपुराधिपस्य गोपालरावस्याधीनमासीत् / यतः श्रेष्टिगोत्रीय शोभासिंह सूरीश्वरस्य स्वागतप्रबन्धाय स राजा प्राहिणोत् / स च तत्र महता समारोहेणापूर्व स्वागवं सम्पाद्य चतुर्मासावस्थानायामहमकार्षीत् / सूरिरपि तदाप्रहमनुमान्य तत्रेव स्थितिमनु Page #99 -------------------------------------------------------------------------- ________________ [ 4] मेने / बिहूगोत्रीयेण शोभासिंहेन सपादलक्षमुद्राणां व्ययेन श्रीभगवतीसूत्रवाचनामहोत्सवानुष्ठानेनाक्षयं पुण्यमासादिवम् / चतुर्मासव्याख्यानश्रवणसमेधितवैराग्यभावनः षट्पञ्चाशद्वर्षीयस्यास्यात्मकल्याणे मतिरजायत / कौटुम्बिकानाहूयापृच्छ्य पञ्चाशल्लक्षद्रव्यव्ययेन माण्डव्यपुरदुर्गे जिनालयमुपाश्रयं च कारयित्वा सप्तभिः भावुकैः सह सूरीश्वरपावं दोक्षामगृहात् ततो विहरन्नाचार्य उपके शपुरमेत्य देवीसच्चायिकाकथनानुसारेण रावगोपाल. स्याग्रहाच्च तत्रैव स्थिरवसतिमङ्गीचकार / समुचिते समये चादित्यनागगोत्रीयस्य चोरडियाशाखीयस्य रावल शाहस्य महामहोत्सवे ज्ञानकलशोपाध्यायं समधिगतशास्त्रतत्वज्ञमाचार्योंचितगुणालयं मुनि सिद्धसूरीति नाम विधाय स्वपट्टे स्थापयामास / स्वयश्च सप्तदश दिनान्यनशनेन नीत्वा महाप्रयाणमकार्षीत् / अहो ! धर्ममयैकजीवनानां धमादृते नान्यामतिर्गतिश्च वर्तत इति शेषाणि वर्षाणि धर्मप्रचारकार्य एव पितानि / को नाम निवृत्तिप्राप्तो प्रवृत्तिमङ्गोकुर्यात् / जिनगदितनियमाचारपालनरवानां समेषामयन्तु सार्वजनीनः पन्था एव / वि० सं० 631 तः] 38 प्राचार्यः श्रीसिद्धसूरिः। (सप्तमः) वि. सं. 660 प.] श्रीदेवगुप्तसूरिपदे तपस्तेज:पुजविद्योतितदिङमण्डलश्चारुचारित्रपाथोधिः शमकल्लोलकेलितः सदानन्दमूतिः परममाननीयः श्रीसिद्धसूरिः समायात.।। स च बप्पनागगोत्रीयः सिन्धप्रान्तस्थमालपुरनगरनिवासी चासीत् / पिवाऽस्य क्रयविक्रयादिव्यवहारकुशलः परमधार्मिकः श्रावकव्रतनियमनिष्ठो देदाशाहः, माता च परमसौजन्यधन्या दाडमदेवी। तयोः पुत्रो नेत्रकमलानन्ददायको मुख्याधारस्तम्भ इवासलशानामाह / देदाश्रावकेण स्वोपार्जितद्रव्यस्यागमवर्णिते क्षेत्रे सदुपयोग विधाय भगवतो महावीरस्य जिनालयो निर्मापितः। सम्मेतशिखरयात्रायै संघश्च निष्कासितः / देवाश्रावकस्य निधनानन्तरमासलोऽशुभकर्मोदयाहारिद्रयमुपागतः / गृहस्थाश्रमभारं निर्वोढुमसौ सर्वथाऽसमर्थो बभूव / अस्यां,विषमायामवस्थायामपि स नित्यनैमित्तिकधर्मकृत्यान्न प्रमत्तोऽभूत् / कर्मवादमर्मज्ञोऽसौ कर्मण एव गहना गतिरिति विचार्य शान्तमना धैर्य न तत्याज। . ____एवं व्यतीते कियति काले तदीयभाग्योदयादाचार्यः श्रीदेवगुप्तसूरिः सिन्धप्रान्ते विहरन् मालपुरनगर. माजगाम / एकदा सूरिणा स्वकीयव्याख्याने कर्मवैचित्र्यं प्रतिपादितमत श्रासलो विशेषश्रवणेच्छया मध्याहुकालेऽपि सूरीश्वरसमीपमुपस्थितः / तच्चोदासीनमुद्विग्नश्यावलोक्य सूरिणा संसारासारता साटोपमुपवर्णिता / पीयूषरसाप्लावितमाचार्योपदशमाकासलेनोक्तम्-भगवन् ! संसाराद्विरक्तोऽहं किन्तु दारिद्र थावस्यायां दीक्षाप्रहणेन स्वधर्मस्यावहेलना भविष्यतीवि विचिन्त्य तथा प्रविपत्तुं न शक्नोमि / यदाऽहं पूर्वामवस्थां प्राप्नुया तदा सत्वरमव गृह्वायां दीक्षाम् / तदीयं वचः श्रुत्वा सूरिस्तमवाचत्-आसल ! सी चिन्तां दूरीकृत्य धर्मानुचिन्तनमेव समाश्रय / धर्म एवा स्मिन् संसारं परमसोख्यप्रद इत्युक्त्वा सूरिस्तु धमप्रचारार्थमन्यत्र प्रतस्थे / / इतश्च धर्मभ्यानासक्तत्वात्पापक्षयाच्चासलस्य धेनुबन्धनस्थलादक्षयो निधिः प्रादुरास / सोऽपि गुरुकृपै. बेयमिति विज्ञाय सूरीश्वरं प्रति कृतज्ञता प्रदर्शयत् / ततः प्रभृतिरसावासलो धनाधिप इवापगे बभव / धनिकावस्थायामप्यसी सूर श्वरो दशविस्मरण न व्यधात् / किमनन द्रव्येण सत्कार्य कुर्या यतो लक्ष्मीस्तोयतरङ्गभजचपलति सत्यमव / प्रथममहं दरिद्राणां मनोरथान् पूरयेयम् / यत उच्यते दारिद्रयान्मरणमेव वरम् / दारिद्रयाद्धिय मेति हीपरिगतः प्रभ्रश्यते तेजसो निस्तेजा, परिभूयते परिभवान्निर्वेदमापद्यते / निर्विणः शुचमेति शोकपिहितो वुद्धया परित्यज्यते निद्धिः क्षयमेत्यहो ! निर्बुधनता सर्वापदामास्पदम् // Page #100 -------------------------------------------------------------------------- ________________ [ ] - एवं सूक्ष्म विचार्य स्वसम्पदमर्थिसाच्चकार येन सर्पः कञ्चुकमिव ते दारिद्रय मुक्त्वा पुनरुज्जीविता इव विरेजिरे / ततः परमसौ स्वनगरेऽभिनवं जिनालयनिर्माणमारभत / इतश्च डमरेलपुरे सूरीश्वरस्यागमनं विज्ञायासलः कतिपयैर्जनः साढे डमरेलपुरं ययौ / क्रमेण डमरेडपुरं प्राप्य सूरीश्वरस्य वन्दनं विधाय सविनय मालपुरनगरालं करणाय भूयो भूयः प्रार्थनामकरोत् / सूरिरपि भाविलामं मन्यमानो मालपुराभिमुखं प्रतस्थे / सूरिराजस्यागमनं विज्ञाय नवलक्षपरिमितद्रव्यव्ययेनासलो महामहोत्सवसहितमस्य नगरप्रवेशं कारयामास / कानबरावप्रभृतीनां संघस्थानां श्रावकाणामाग्रहमभिवीक्ष्य तत्रैव चतुर्मासो विहितः / श्रासलश्चात्मनं धन्य मन्यमानो भन्यसमारोहपुरःसरं श्रीभगवतीसूत्रवाचनामहोत्सवमारेमे / ज्ञानार्चने संप्राप्तद्रव्येण प्रन्थान् लेख. यित्वा ज्ञानकोशेऽस्थापयत् / प्रतिदिनं सूरीश्वरस्य व्याख्यानं शृण्वतो रावकानडस्येहशी भक्ति ता यया स्वकार्याणि विहाय नियतसमये तन्मयो भूत्वा व्याख्यानमशृणोत् / ततः स्वगुरोर्वाममार्गानुसारिणः स्वेच्छाचारयुतां लीला स्मृत्वा तद्धान्निवृत्य जिनधर्ममङ्गोचकार / व्यतीते चतुर्मासे शत्रुञ्जययात्रार्थ संघ सूरेरनुमत्याऽसलो निष्कासयामास / शत्रुजये महामहोत्सवं ध्वजारोपणपूजाप्रभावनादीनि कर्माणि समाप्य स्वनगर प्रति न्यवर्तत / तत्र चाभिनव जिनालयप्रतिष्ठाकार्यारम्भमकरोत् / एवमसौ गृहस्थाश्रमोपयुक्तानि धर्मकायाणि कृत्वा स्वज्येष्ठपुत्रं पोलाकं गृहव्यवहारकार्यभारवहनोचित विधाय शुभे मुहूर्ते द्विचत्वारिंशत्संख्याकैर्जनैः साई दीक्षितोऽभूत् / ततः परं तस्य ज्ञानकलशमुनिरिति प्रसिद्धिरासीत् / स्वस्य कुशाप्रबुद्धिबलेनाल्पेनैव समयेनासौ विविधभाषाविशारदः शास्त्रगूढरहस्यमर्मको विपश्चिद्वरेण्यो बभव / तपःसाधनकवतस्तपस्विनां मूर्धन्यधन्योऽसौ स्वयशो दिगन्तविततमकरोत् / तपःप्रभावोत्पन्नालौकिकज्ञानशक्तिः क्रमेणाऽभिप्रहपुरःसरं तपस्तप्तुं प्रयत्न चकार / तथाहि 1 एकदा रक्तवस्त्रालङ्कता काचित् सौभाग्यवती वनिता मे भर्त्सनपूर्वकं भिक्षा दास्यति तदैव पारणां विधास्थामीत्यभिप्रहमकार्षीत् / चतुर्विशतिदिनानन्तरमस्यायमभिप्रहः फलितः / 2 घनघटाच्छादितं नभोमण्डलमालोक्यैव मे पारणा भविष्यतीत्याकारकोऽभिप्रहः पञ्चचत्वारिंशदिवसानन्तरं सफलो बभूव / 3 भूमिपतिः स्वयमेव मां पारणाविधि निर्वतयेत तदैवाऽयमभिप्रहः संपूर्णो भवेदिति सोऽपि पश्चचत्वारिंशदिनैः सफलीभूतः। 4 अभिनवपाणिग्रहणविधिमङ्गलप्रन्थिबन्धनौ जायापती पारणां मे संपादयेतां तदा मेऽभिप्रहः फलिष्यतीति सोऽपि षोडशभिर्दिवसैः फलितोऽभूत् / / एवंविधैर्विविधैरभि हैः शरीरकायता प्राप्य शाणोल्लिखितमणिरिव वाह्याभ्यन्तरशुद्धिमान् सर्वजगन्मएडलं चमच्चकार / अणिमायैश्वरसाधारणमहामहिमशाली तापसव्रतानां चरमां सीमामवाप / किं दुष्कर तपस्विनाम् ! / येनाऽस्य तपःप्रभाववशीभूता देवा देव्यश्च सदेवास्य सन्निधिं स्थितास्तदभिलषितपूरणार्थब्रतोद्यता इवाभवन् / अन्येषां बौद्धमतानुयायिनां वामाचाररतानाञ्च किं वक्तव्यम् / ते तु तदीयाभिधानश्रवणमात्रेणाकुतोभयं स्थानमवलोकयामासुः। कालान्तेर बलाहकगोत्रीयेण लालाशाहेनानुष्ठिते महामहोत्सव उपकेशपुरे महावीरमन्दिरे श्रीदेवगुप्तसूरिणा स्वपट्टे प्रतिष्ठापितः / सम्प्रदायपरम्परानुसारेणास्य श्रीसिद्धसूरीत्यभिधानपरिवर्तनं कृतम् / / अथासावासाद्य सूरिपदं पूर्वाचार्याणामादेशमनुपालयन् मेदपादसौराष्ट्रकच्छसिन्धपञ्चालकुणाललाटकोकणावन्तिकाशौरसेनमत्स्यादिषु देशेषु स्वतपःप्रभावोत्पन्नदिन्यतेजसा सर्वान् दर्शनमात्रेणैव धर्माचरणसमवानकरोत / सर्वत्र वदीया विजयवैजयन्ती समुत्ससर्प / जिनसिद्धान्तसूर्योदयः सर्वान दिख स्वकीयधर्मापा Page #101 -------------------------------------------------------------------------- ________________ [ 66 ] रणमयूखमाला प्रसारयामास / अस्य शासनकाले चैत्यवासिनां साधूनां धार्मिकी वृत्तिः शिथिलितप्रायाऽसीत् / येन प्रचारकार्यमस्तप्रायं लोकाश्चोत्साहहीना बभूवुः / एवं सत्यपि शैथिल्ये मिथो विरोधाभावाद्धर्माद्धारः कर्तु सुशक प्रासीत् / सूरीश्वरः सूक्ष्मविचारेण तान् सर्वान् यत्र तत्रोपदेशेन धर्मप्रचारकार्यनिरतान् विधाय सर्वेषु देशेषु सम्प्रेष्य जिनधर्मकर्मशथिल्य दूरीचकार / यतो लब्धावकाशा बौद्धा वाममार्गानुसारिणश्च साधवो हताशा बभूवुः / अभक्ष्यभक्षणप्रवृत्तान् जनानहिंसाधर्मस्य रहस्यं परमसुखसम्पादकत्वञ्च ज्ञापयित्वा जिनधर्माचरणशीलान् व्यधत्त / एकदा स्वीयविहरणक्रमेणासौ प्रीष्मतौँ सिन्धप्रान्तस्य कस्मिंश्चिद् प्रामे समागतः। श्रात्मशान्तिमनुभवितुमसी नासामन्यस्तविलोचनो ध्यानावस्थायां स्थितः / अल्पसमयानन्तरमेवास्य सुरासुरविहिता विविधा उपसर्गा अभूवन् / स च दुःविषहानपि तान् शान्तचेतसोपेक्षितान् चकार / अन्ते तस्य धीरवृत्तितां विलोक्य सन्तुष्टो देवो वरं ब्रहीति कथयामास / तेनानुक्तोऽपि विजयलक्ष्मीमवश्यं भवान् प्राप्स्यतीत्युवा देवोऽन्तर्हितः ततः परं प्राप्तवरप्रसाद प्राचार्यवर्यः सर्वत्र भूमण्डलेऽप्रतिहतगतिर्वीरः सैनिक इव धर्मप्रचाराय बभ्राम | ___एवं जिनधर्मस्य सार्वत्रिकी वृद्धि विधाय योगबलेन निजमृत्युकालमासन्नं ज्ञात्वा सर्वलक्षणलक्षण्यं रत्नमुनिमुपाध्यापदभूषितमादित्यनागगोत्रीयेण पारखशाखीयेन सरवणशाहेनानुष्ठिते महोत्सवे स्वपट्टे संस्थाप्य ककसूरीत्यभिधेयं विधाय च दिवमगमत् सूरीश्वरः।। वि० सं० 660 तः] 36 प्राचार्यः श्रीकक्कसूरिः / (अष्टमः) वि० सं० 680] - श्रीसिद्धसूरिपट्ट बालब्रह्मचारी पण्डितमण्डलालङ्कारभूतः सर्वगुणगणालङ्कतोऽसाधारणलोकोत्तरचमत्कारचिन्तामणिः श्रीकक्कसूरिरल श्चकार / असो पद्मावतीनगरनिवासी तप्तभट्टगोत्रीयश्वासीत् / पिताऽस्य वाणिज्यविचक्षणो न्यायोपार्जितसम्पत्समन्वितो लक्ष्मणशाहो, माता च धर्मकर्मनिरता सरयूदेवी / उमाविमो प्रभूतद्रव्ये विद्यमानेऽपि सन्तत्यभावेन परमदुःखितौ कालमत्यवाहयताम् / एकदा भृशमुद्विग्ना साऽष्टाख्यं तपोऽङ्गीकृत्य कुलदेव्याः सच्चायिकायाः स्मरणमकार्षीत् / तृतीयोपवासावसाने स्वप्ने समेत्य सच्चायिका तामवादीत् कल्याणिनि ! पुत्रस्ते भविष्यत्येव किन्तु पञ्चदशवर्षीयोऽसौ दीक्षां प्रहिण्यतीत्युक्त्वाऽदृश्यतामयासीत् / सा च पतिपार्श्वमागत्य स्वप्नवृत्तं तं न्यवेदयत् / सोऽपि देवीकपामनुमान्य परमानन्दसन्दोहमग्नो बभूव / अथ सा सकलमङ्गलाधारभतं गर्भमधत्त / स च तदीयामभिलाषां विविधवस्तुविषयिणी सर्वतोभावेन पुपोष / सम्पूर्णे च समये प्राची जगत्कल्याणनिधानं रविमण्डलमिव सुकुमारं कुमारमसूत / जिनालये च परमभक्तिसमन्वितेन तेनाष्टाह्निकामहोत्सवो विहितः / दीनेभ्या बहु धनं दत्तम् / साधवः साध्व्यश्च सम्मानिताः / वस्य च प्राप्त नामकरणसमय खेमाशाहेति नामकरणं कृतम् / बाल्ये मातापित्रोरनुकरणशीलोऽसौ धर्माचरणे शनैः शनैः कृतप्रवृत्तिर्बभूव / सप्तवर्षीयः स मात्रा सह प्रतिक्रमणार्थमुपाश्रयं गच्छन्त्या तया गच्छन् द्वारे स्थितः साच्या क्रियमाणं प्रतिक्रमणविधि श्रुत्वा निसर्गतः कुशाप्रबुद्धिः कण्टेऽकरोत् / ततः परस्मिन् दिवसेवृष्टे रनवरत्वं दृष्टा सा तदीया जननी प्रतिक्रमणचिन्ताकुलाऽभवत्तदा तेनोक्तम्-अहं त्वां प्रतिक्रमणं कारयिष्यामि मा खेदमवानहीति / तथैव तेन प्रतिक्रमणविधिः सम्पादितः / सा चाश्चर्ययुतमानसा द्वितीयस्मिन् दिवस साव्योपालब्धा पुत्रकृतप्रतिक्रमणवृत्तान्तं न्यवेदयत् / साथ्वी च तदीयालौकिकशेमुखीप्रभावन लक्ष्य मुदितान्तरङ्गा स्वगुरवे राजकुशलमुनये न्यवेदयत् / सोऽपि बालस्य बुद्धिप्रभावं श्रुत्वाऽश्चर्यसमन्वितो बभूव / कदाचिदस्य पिता राजकुशलमु. निवंदनाय प्राप। स च बालकं त कथयामास वत्स! जानासि प्रतिक्रमणविधिम् ? / तेन च चटुलवृत्तिना तत्क्षणमेव प्रतिक्रमणमुक्तम् / अस्य पिता खल्वेवं नाजानात् / गुरुस्वं न्यवेदयत्-लक्ष्मण ! बालोऽसौ दीक्षितः स्यात्तदा परमभाग्यवान् भवेदिति / भगवन् ! ममाप्येवमेव प्रतिभावोत्युक्त्वा वन्दनं विधाय गृहमयासीत् / प्रसंगवशात्स Page #102 -------------------------------------------------------------------------- ________________ [7] मुनिकथित भार्याथै सविस्तर निवेदयामास / सा च संसारसुखाभिलाषिणी मटित्येव विवाहोऽस्य कर्तव्यो येन न गृह्णीयादसो दीक्षामिति पतिमुवाच / लक्ष्मणेन प्रोक्तम् अन्तु किन्त्वसौ किमिच्छतीति प्रथमं ज्ञातव्यम् / एवं मिथो विवदमानयोः कालो व्यतीतः तत परं 629 वर्षे दुर्भिक्षमभवत् किन्तु सामान्यरूपं तदतिवाहि येन केनापि प्रकारेण जनैः। तथापि 630 वर्षे निखिलप्राणिघस्मर एकपद एव जगद् प्रसितुं तत्परो भयानको दुष्कालः पपात / तत्र नववर्षवयस्कः करुणाईचेताः खेमाशाहः पितरं द्रव्यस्यायमेव समुचितस्त्यागसमय इत्युवाच / पुत्रस्येहशीं भव्या जनहितप्रवणां भावनां दृष्ट्वा स च तथैव व्ययमकार्षीत् / एवं सोऽपि कालः सवैर्महता कष्टेनातिवाहितः / प्राप्ते चतुर्दशे वर्षेऽस्य पाणिपीडनविधये जनकजनन्योमिथः प्रादुगस विवादः / अस्मिन्नेव समये भगवतः श्रीकक्कसूरेरागमनं जातम् / मव्यस्वागतेन सूरेरागमनमहोत्सवः श्रावकैः कृतः / ततः परं व्याख्यानसमये सुरिणा संसरणशीलानां संसारिणां विषयोपभोगेन निरयमात्रफल के जीवनम् / ए सर्वथा सशास्त्रं संसारनिःसारता प्रतिपादिता। ततः सूक्ष्मदृष्टया विचार्यमाणे दीक्षाग्रहणपूर्वमात्मकल्याणमार्गानुसरणमेव वरमिति सर्वान् भावुकान बोधयामास / स खेमाशाहः प्रथमत एव प्राप्तवैराग्यः सूरीश्वरोपदेशामृतरसास्वादलुब्धः पितरौ विबोध्य ताभ्याां कृताभ्यनुज्ञ श्रात्मना सह त्रिंशत्संख्यकैर्भावुकैः सह दीक्षामाहीत / दिक्षामहोत्सवे लक्षनवकं धनमुपयुक्तमवशिष्टं पुण्यक्षेत्रे व्ययीकृतम् / अनन्तरमस्याभिधेयं दयारत्न. मुनिरिति सार्थकमेव कृतं सूरिणा / ब्रह्मचर्यप्रभावविद्योतितशिष्यमण्डलोऽसौ क्रमेण व्याकरणन्यायादीनि शास्त्राएयधीत्य सर्वातिशायितेजा बभव / अस्यासाधारणदीप्तिप्रोद्भासितदिङमण्डलं मुखं सर्वजनानां नयनेषु हृदयेषु च स्थानमवाप / शास्त्रेष्वकुण्ट्रितबुद्धिविभवः सर्वगुणसंपन्न इति कृत्वा सूरिणा नागपुरनगरे स्वपट्टे प्रतिष्ठापितः ककसूरीति नाम्ना। - अथाऽचार्यपदावाप्तिसमयादारभ्य विविधप्रान्तेषु पर्यटन सम्पादलक्ष अजमेर) नाम्नि प्रान्ते विहारं कृत्वा शाकम्भरीमाजगाम / तत्र धर्मरुचिसंवर्धकं व्याख्यानमदात् / येन तत्रत्यो राजा गेंदारावोऽमात्यवरश्च जेसलोऽन्ये च जिनधर्मस्यौदार्य पूर्णान्सिद्धान्तान् दृष्ट्वा जिनधर्मेऽधिकरुचयोऽभवन् / व्याख्याने षड्दर्शनसारश्चाद्वितीयांडित्येन वर्णयित्वा सर्वान् स्वधर्मरुचिरुचिरहृदयान व्यधत्त / अस्य कालनिरूपणात्मवादकर्मवादक्रियावादादयो विविधा जनमनोमोदका विषयाः स्थानमलभन्त व्याख्याने / अतः सूरीश्वर प्रभावसमासादितधर्माचरणवृत्तिरसौ गेंदारावो जीवहिंसाविधायकाखेटकादीनां कृत्यानां प्रत्याख्यानं सूरीश्वरसाक्षिपूर्वकमकरोत् / गेंदारावप्रमुखस्य श्रीसंघस्याप्रहातिशयं दृष्ट्वा तत्रैव चतुर्मासावस्थानं प्रत्यपात / चतुर्मासे डिडूगोत्रीयेण सालगशाहेन पञ्चमाङ्गस्य श्रीभगवती. सूत्रस्य वाचनामहोत्सव श्रारब्धः / प्रभूतद्रव्यव्ययेनापूर्वो लाभः सर्वैरपि लब्धः / श्राचार्येणापि सषां धर्मरुचिमवलोक्य विविधोपदेशप्रसङ्गपुरःसरं सूत्रवाचनाकार्य समापितम् / श्रात्मकल्याणेच्छया गेंदारावप्रभृतिभिः कतिपयैर्भावुकैर्जिनधर्मः स्वीकृतः / समाप्ते चतुर्मासवते सूरीश्वरो मेदपाट-मत्स्य-सौराष्ट्र-कच्छ-पञ्चाल-बुदेल. खण्डादिषु प्रान्तेषु शिष्यमण्डलीसमन्वित आचार्गे धरुचिर्लोकानामभिवर्धयामास / बहूनां देवालयाना जीर्णोद्धारो, नूतनानां प्रतिष्ठापनं, धर्माभिरुचिरिति त्रितयप्रयोजनेनाचार्यत्वं सार्थकं व्यधत्त / ____ एकादा विहारक्रमेणासौ सूरीश्वर उपकेशपुरमाययो / तत्रासातावेदनीयकर्मोदयात् शरीरे दाहवेदना प्रादुर्बभव / अतो निजमृत्युकालं विज्ञाय चोरडियाशाखोद्भवस्य भेराश्रावकस्य महोत्सवपूर्वकं विमलप्रभमुनये सूरिपदं ददौ / परम्परानुसारेणास्य श्रीदेवगुप्तसूरिरिति नाम परिवर्तितम् / समाध्यनशनव्रताचरणपूर्वकं सप्त - दिनान्यतिक्रम्य क्षणभङ्गुरं देहमुत्सृज्य श्रीकक्कसूरिः स्वर्गमगच्छत् / / वि० सं०६८० तः] 4. प्राचार्यः श्रीदेवगुप्तसूरिः (अष्टमः) वि० सं० 724 प.] श्रीककसूरिपट्टे न्यायव्याकरणाष्टमहानिमित्तादिशास्त्रपारङ्गतः प्रवरपाण्डित्यप्रतिभासंपन्नो जिनधर्म Page #103 -------------------------------------------------------------------------- ________________ [ 1 प्रचारकार्यकुशल श्चारित्रचित्रीकृतजगन्मण्डल: परमप्रभावकः श्रीदेवगुप्तसूरि: समायातः / असौ च नानाविध. तरुलताकुसुमपलस्तबकोपशोभितोद्यानवाटिकाप्रासादपडितपरिशभिता धनधान्यसमृद्धिसम्पन्न। नारदपुरीमुवास / पिताऽस्य सुचन्तिगोत्रीयो द्रविणनिधिर्महापरिवारो वाणिज्यकर्मनिपुणो धर्ममयैकजीवनो बीजाशाहः / माता च परमधर्मपरायणावरजूदेवी। तयोः पुत्रः पुनडोऽतीव भाग्यवान् धर्मकर्ममर्मज्ञश्चासीत् / बाल्यावस्थायामसौ सरस्वतीकृपापरिपूर्णो व्यावहारिकधार्मिकविद्यासु वैचक्षण्यं प्राप | स्वर्गीयानपि सोऽत्यशेत / गुरूपदिष्टमसी चायस्कान्त इव शीघ्रमेव बुद्ध थारूढमकरो / गुरुरपि सर्वापेक्षया तस्मिन्नतिस्निह्यति स्म / अवन्ध्ययनश्चासीत् स आचार्यः शिक्षाप्रदाने / अत एवोक्तम् प्रवन्ध्ययत्नाश्च बभबुरच ते क्रिया हि वस्तूपहिता प्रसीदति / अथ श्रीकक्कसूरिर्धर्मोपदेशार्थ नारदपुरीमलंचकार / नगरष्टिना देवलशाहेन सपादलक्षद्रव्योपयोगेन नगरप्रवेशमहोत्सवो विहितः / सूरिश्च मनुष्यदेहस्य क्षणिकत्वं मयक्तिकं प्रत्यपादयद् व्याख्याने / तथाहिश्रावकाः ! यदर्थमेव भवन्त आपातमात्राम्ये संसारेऽहमहमिकया प्रवृतिं कुर्वन्ति तदिनमेव शरीरं जल बुद्वद वातिचञ्चलम् / अनित्यानि शरीगणि विभवो नैव शाश्वतः / तस्मात्सर्वमिदं व्यर्थम्वेति मत्वाऽत्मकल्याणसाध. नोद्यता भवन्तु भ-याः। यद्विभवाद्यर्थ सर्वत्र समेषां प्रवृत्तिष्टचरा तदप्यशाश्वतमिति जानन्तोऽपि जनास्तत्रासक्ता मुधैव जीवनं यापयन्तीत्यत्र दृष्टान्तरूपेणोच्यते यथा-कस्मिश्चिन्नगरे कश्चिद् भूपती राज्यमशासत् / तस्य सूनू गज्यलोभाकृष्टः पितरं हन्तुमियेष / राज्ञा चेदं गुप्तचरसकाशादवगतम् / अत्रोपायः कश्चिद् विचिन्त्यो येन न मे मरणं न च राज्यच्यतिः स्यामिति मत्वा कंचिदमात्यवरमाहूय सर्व वृत्तान्तं न्यवेदयत्तस्म / तेन विचार्योक्तम-देव ! प्रतिस्तम्भमष्टावेवं शताधिकाष्टपरिमितस्तम्भयुक्त प्रासाद उपवेष्टव्यं तत्र तेन राजकुमारेण सर्वे ते स्तम्भा विजेतव्या एकमप्यसौ पराजयेत तदा प्रथमत एव तं खेलनीयम् / ईदृशी व्यवस्था भवत एव लाभाय तस्य चानिष्ठाय बोधाय च भविष्यति / रामा च तदङ्गीकृत्य राजसभायां सर्वजनसमक्षमाह पुत्रम् / वत्स ! यदि ते राज्यमभिप्रेतं तदाष्टकोणसहितशताधिकाष्टपरिमिताः प्रासादस्य स्तम्भास्त्वया सर्वे एव विजेतव्याः / एकेनापि त्वं पराजितः स्यास्तदा पुनः खेलनं द्यतस्य कार्यम् / मूढबुद्धिनानेनेदं न विचारितं यदेवं कृत्वा राज्यप्राप्तिः सुशका दःशका वेति / अनेनेदं ज्ञायत एव क्षणिकलाभसन्तष्टा जीवा आत्मनोऽमूल्यमेव जीवनं व्यर्थमेव यापयन्ति / अन्ते च दःखिताः सन्तः पश्चात्तापयता भवन्ति / अत श्रात्मकल्याणसा कालस्यापेक्षा विद्यते / तत एवोक्तम श्वःकार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् / न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् / / एवं सूरीश्वरस्य व्याख्यानकुसुमसौरभ जनमण्डलप्रशंसामारुतसरूचालितं सर्वत्र नगरं व्याप्नोत् / यतो मधुकरा इव श्रोतारः स्वयमेवपुष्परसमिवोपदेशं प्रहीतुमिच्छवः समागच्छन , नात्र प्रेरणापेक्षाऽसीत् / उक्तञ्च सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् / आमोदो न हि कस्याः शपथेन विभाव्यते / श्राचार्यवर्यस्य व्याख्यानं श्रुत्वा पुनडस्तत्क्षणादेव विरक्तिरागरब्जितस्वान्तोऽभवत् / पितरावामन्त्र्य षोडशसंख्यकैर्भावुकैः सह दीक्षितो बभव / दीक्षानन्तरमस्य विमलप्रभेति नामपरिवर्तनं कृतम् / गुरोः पार्श्व० विनयपूर्वकमागमाभ्यासं विधाय सर्वविषयेष्वसाधारणपाण्डित्यवैदग्ध्यविराजितो विदुषां समाजेऽप्रेसरो बभूव / उपकेशपुरे श्रीदेवगुप्रसूरीति नाम्ना पट्टपदं भूषयामास। अथाचार्यवर्य उपकेशपुरान्निर्गत्य माण्डव्यपुरशङ्खपुरासिकादुर्गमुग्धपुरखटकुम्पनगरनागपुरपालिहका पुरादि मरुधरप्रान्तस्थेषु प्रामनगरेषु विहरणेन धार्मिकी भावनामुपदेशा मृतेन संवर्धयन् चतुर्मासं चन्द्रावत्यामनीचकार / तत्र त्या भावुका श्रात्मानं धन्यं मन्यमानाः क्षणोऽपि दुर्लभ इति कृत्वा तदीयव्याख्यानलाभ परमप्राप्तव्यलाभममन्यन्त / चतुर्मासानन्तरं प्राग्वटवंशीयेन रोडाशाहेन सूरेरभ्यनुज्ञां प्राप्य तस्यैवाभ्यक्षत्वे Page #104 -------------------------------------------------------------------------- ________________ [) शत्रुखवयात्रायै संघो निष्कासितः / तत्र यात्रां विधाय सूरीश्वरः सौराष्ट्रप्रान्ते धर्मोपदेशेनाहिंसाधर्मेऽभ्यधिकां जनमनोभावनां विशदीकृत्य सिन्धप्रान्तमाययो / एकदा विहारकाले भयङ्करमरण्यं गच्छता सूरिणा मार्गे वनाधिपेन व्याघेण सहाजायुद्धं दृष्टम् / कुतूहलाक्रान्तचेता असौ कब्चित कालं तत्रैव स्थितः / इतश्चाश्वारूढाः सहरूलाधिकाः पञ्चालप्रान्तीयाः क्षत्रियवंशीयाः सैनिका अपि म्लच्छाक्रमणभयादाययुस्तत्र / ते सर्वे च योगिराज सूरीश्वरं वीक्ष्य वन्दनव्यवहारेणानुक्रमेण तस्य पार्श्वमुपस्थिताः / सर्वप्रमुखसैनिकमुखमण्डले क्षत्रियोचितभावनामालक्ष्यैते जिज्ञासवः श्रोता. रश्च सन्तीति मत्वा सूरिस्तानवादी-आर्याः ! धर्मशास्त्रं श्रोतुमिच्छन्ति भवन्तः 1 ते च सर्वे सहसैव बाद. मित्युक्त्वा धर्मतत्वजिज्ञासया तदीयविवेचनाय सूरिमभ्यर्थयामासुः / सूरिणाप्यवसरोचितं धर्मतत्वं विवेचितम् / यथा चला लक्ष्मीश्वलाः प्राणाश्चले जीवितयौवने / चलाचले च संसारे धर्म एको हि निश्चलः // धर्मः शर्म परत्र चेह च नृणां धर्मोऽन्धकारे रविः / सर्वापत्तिशमक्षमः सुमनसां धर्माभिधानो निधिः / धमों बन्धुरवान्धवः पृथुपथे धर्मः सुहृन्निश्चलः / संसारोरुमरुस्थले सुरतरु स्त्येव धर्मात्परः // धर्मो दुःखदानलस्य जलदः, सौख्यैकचिन्तामणिः / धर्मः शोकमहोरगस्य गरुडो, धर्मो विपन्नाशकः // धर्मः प्रौढपदप्रदर्शनपटुर्धर्मोऽद्वितीयः सखा / धर्मो जन्मजरामृतिक्षयकरो धर्मो हि मोक्षप्रदः // ___ अयि मान्याः ! मैत्रीधर्ममुद्दिश्य भहाभारतेऽप्युक्तम् न तत्परस्य सन्दध्यात् प्रतिकूलं यदात्मनः / एषः संक्षेपतो धर्मो कामादन्यः प्रवर्तते // इति विशदधर्मस्वरूपं जिनधर्मस्य च वैशिष्टयमाचार्येण वर्णितम् / तैः सबैरेव धर्मस्वरूपं तत्वतो ज्ञात्वा जिनधर्मः स्वीकृतः ! ततः सेनाधिपति रावगोसलं सूरिस्तस्मिन्नेवारण्यस्थाने नवनगर निर्माणार्थ संक्षिप्तसूचनामकरोत् / ततः सूरीश्वरस्योपदेशात्तेन सर्वविघ्नोपशान्तये भगवतः पार्श्वनाथस्यारब्धो जिनालयः / क्रियमाणे च तदर्थ भखननेऽक्षयो निधिनिःससार / ततोऽसौ तं सिद्धपुरुषं मन्वान आचार्यवये मुहुः प्रशशंस / पञ्चालप्रान्तीयस्य रावगोसलस्य नामसदृशं तन्नगरस्थापि गोसलपुरेति नाम कृतम् / ___ गोसलपुराधीशस्य गोसलस्य चतुर्दशस्वात्मजेष्वष्टौ पुत्रा गोसलपुरं न्यवात्सुः / ते च आसलः पासलो देशलः खुमानो रामपालो भीमः खंगारः साङ्गणाख्या आसन् / __पुनरेकदाऽचार्यो देवगुप्तसूरिरनुक्रमेण विहरन् गोसलपुरमगमत् / गोसलपुराधिशस्यादरमनुमान्य तत्रैव चातुर्मासिकी स्थितिं चक्रे / पूर्वस्मिन् काले संस्काररूपेण स्थापितां धर्मभावना व्याख्यानपरम्परयास्मिन् संप्राप्ते समये पल्लवितामकरोदाचार्यः / चतुर्मासानन्तरं गोसलेन निर्मापितस्य जिनालयस्य प्रतिष्ठाविधिः सूरेरेव वरदहस्तेन सम्पादितः / ततः शत्रुञ्जययात्रायै संघनिष्कासनमपि निश्चितं सर्वैः / सर्वे च दूरस्थाः समीपस्था भावुकाः सप्रश्रयमामन्त्रिताः / ततः शुभ मुहूर्ते गोसरस्य संघपतित्वे सूरीश्वरस्याध्यक्षत्वे च संघः शत्रुश्चयमभिप्रतस्थे / 13 Page #105 -------------------------------------------------------------------------- ________________ [ 10 ] क्रमेण तत्र गत्वा ध्वजारोपणपूजाप्रभावनादिकं वृत्वा यात्राजनितपुण्यराशिं संगृह्य प्रतिनिनवृत्य गोसलपुर. मागच्छत् / सूरीश्वरस्तु तत्रैवात्मध्यानार्थ न्यवात्सीत् / कालान्तरेऽपरेण संघेन सह वीरपरम्परागतसाधवोऽपि पातकरराशिप्रक्षालनसमर्थं श्रीशत्रुजयमाजग्मुः / यदा तैर्देवगुप्तसूरः समवसरणं ज्ञातं तदा सत्वरमेव ते वन्दनार्थ तत्समीपमीयुः / सूरीश्वरेण जिनशासनस्य वर्तमानकालीना स्थितिर्वर्णिता / तद्वारेण ते च कर्तव्याभिमुखाः कृताः साधवः ।सूरेार्मिकं समयोचितञ्च वक्तव्यं ज्ञात्वा धर्मप्रचाराय तेषां हृदये नूतनं चैतन्यमागतमिवालक्ष्यत / अपरेास्ते सूरिणा सह परमसौजन्याकृष्टचेतसः साधव श्रादिनाथदर्शनार्थ पर्वतस्योपरिभागे गमनमकार्षुः / ___ भगवत आदिनाथस्य दर्शनं विधाय देवगुप्तसूरिः सौराष्ट्रदेशे सर्वत्र विहरणेन धर्माभ्युदयं विधाय कोकणप्रदेशे देवपट्टननगरे चतुर्मासमकरोत् / चतुर्मासादनन्तरं त्रयोदशभिर्भावुकैर्दीक्षा गृहीता / अभिनवजिनालय. प्रतिष्ठापि तत्र विहिता / ततो दक्षिणप्रान्ते विहरन् विदर्भदेशस्थं बालापुरनगरमयासीत् / तत्रापि सूररुपदेशेन परमश्रद्धालुभिरेकादशभिः श्रावकैर्दीक्षा गृहीता / एवं जिनागमरहस्यवेत्ताऽसौ सूरीश्वरो महाराष्ट्रप्रान्ते विहरन्नष्टाविंशतिसंख्यकान् जनान् स्वधर्मोपासकान् विधाय दीक्षयामास / पञ्चभिः क्षपणकमुनिभिरपि श्वेताम्बरीया दीक्षा गृहीता। एकदा सूरिणा शत्रुञ्जयमाहात्म्यमुपवणितम् / तन्नगरामात्यो रघुवीरः शत्रुञ्जययात्रायै संघायोजना योद्यतो बभूव / क्रमेण शुभे मुहूर्ते शतत्रयपरिमितैः श्वेताम्बरमुनिभिः पञ्चविंशत्यधिकैकशतपरिमितैर्दिगम्बरीयैः साधुभिः पञ्चविंशतिसहस्राधिकैः श्राद्धैः सह शत्रुजययात्रार्थ संप्रतस्थे / संघरत्वनुक्रमेण नीलमरकतपद्मरागादिभी रत्नैः पूजां देवमूर्तीनां विधाय तीर्थयात्राजन्यसुकृतराशिं संगृह्य परावृत्त्य स्वस्थानमाप / सूरिस्तु खेटकपुरस्तम्भनती. र्थादिषु प्रान्तेषु विहरन् भरुचनगरे चातुर्मासिकी स्थितिं कृत्वाऽसाधारणपाण्डित्यवलेन समधिकां धर्मरुचिं लोकानामभिवर्धयन्-अवन्तिकामाण्डव्यगढमहेन्द्रपुररत्नपुगदिषु प्रामनगरेषु धर्मप्रचारं विधाय चित्रकूट ययौ / तत्र चतुर्मासकाले बलाहकगोत्रीयः श्रावकशिरोमणिदेवगुरुचरणसरोजचञ्चरीकः पञ्चपरमेष्ठिमहामन्त्रस्मारकः श्राद्धगुणसंपन्नो निर्मन्थकोपासको दुर्गाशाहो महामहोत्सवपूर्वकं श्रीभगवतीसूत्रवाचनामकारयन्नवलक्षप. रिमितेनद्रव्येण पयामास ज्ञानार्चनागतद्रव्येण ज्ञानभण्डारप्रभृतीनि ज्ञानप्रचारसाधनानि स्थापयामास / चतुर्मासा. नन्तरं सप्तभिर्मुमुक्षुभिर्गृहीताऽत्मकल्याणसाधिका भगवती दीक्षा / ततो मेदपाटप्रान्तस्थप्रामनगरेषु धर्मोद्यमं विधाय सुरिनागपुरं भषयामास / तत्र चतुःशतसंख्यकैर्विमिथ्यात्वं हित्वा जिनधर्मोऽङ्गीकृतः / ततः क्रमेणोपफेशपुरमागतः / तत्रत्ये संघे परस्परं मनोमालिन्यमासीत् / किन्तु सरीश्वरस्योपदेशेन त्यक्तविद्वेषभावनः स मिथः स हार्देन व्यवहारमकार्षीत् संघः / चतुर्मासानन्तरं चोरडीयाशाखीयस्यात्मात्यस्यात्मजः करणः षण्मासविवाहितां पत्नी हित्वा सूरिपाश्र्व दीक्षोद्यतो वभव / एकत्रिंशत्परिमितेर्मुमुक्षुभिर्मुक्तिमार्गसाधिका दीक्षामगृह्णात् / ततः कुमटगोत्रीयेण देवाशाहेन निर्मापितस्य भगवतः पार्श्वनाथस्य प्रतिमा प्रतिष्ठापिता / ततो विहरन् सूरिः स्वजन्मभूमि नारदपुरमलञ्चकार / श्रीसंघस्योत्साहवर्धनाथै तत्रैव चतुर्मासो विहितः।। चरमसमये योगविद्यया स्वनिधनसमयं ज्ञात्वा देवोसच्चायिकाप्रदत्तसूचनामनुमान्य नारदपुरीयेण ग्वटवंशीयेन डाबरशाहेन समनुष्ठिते महोत्सवे चन्द्रशेखरमुनये सूरिपदमर्पयामास / श्रीसिद्धसूरीति नाम्नः परिवर्तनं विहितम् / स्वयं च त्यक्ताहारः समाधिपूर्वकमेकादश दिनान्यतिवाह्य दिवमगच्छत् / वि० सं० 724 तः] 41- प्राचार्यः श्रीसिद्धसूरिः। (अष्टमः) वि० सं० 778 प.] श्रीदेवगुप्तसूरिपट्टपदं विविधप्राणिविघ्ननिवारको न्यायव्याकरणसाहित्यपारावारपारगो महाशासनप्रभावकः सुरासुरसेवितचरणसरोजयुगलः सिद्धपुरुष इवानेकगुणगणालकतः श्रीसिद्धसूरिरलञ्चकार / अस्रावा Page #106 -------------------------------------------------------------------------- ________________ दित्यनागगोत्रीय उपकेशपुरवास्तव्यश्वासीत् / पिताऽस्यामात्यपदविभूषितः संघपतिपदप्रतिष्ठितोऽर्जुनः / माता च सतीसमुदायशेखरीभूता फागूदेवी / तयोरयमात्मजोऽत्यन्ततेजस्वी प्रखरप्रतिभासंपन्नः करणः / आबालब्रह्मचारी भविष्यामीति भीष्मप्रतिज्ञान्वितः / अमात्यस्यार्जुनस्याग्रहेणास्य पाणिपीडनं कस्यचित् श्रेष्ठिनः परमसौन्दर्यसौजन्यायनेकगुणवत्या कन्यया सह जातं किन्तु विजयकुंवरीविजयकुंवगविव स्वप्रतिज्ञाविघातमुभावपि न चक्रतुः / यतो ब्रह्मचर्य नामाप्रतिहतगति सर्वातिशायि परमात्मकल्याणसाधकमुत्कृष्टं साधनम् / ब्रह्मचर्यबलात् शरीरपरिपुष्टिस्तेजोमेधावर्धनम् दुष्करस्यापि कार्यस्य सौकर्येण साधनम् / तत्प्रभावासादितापूर्वोत्साहेनैहिक पारलौकिकञ्च श्रेयः संप्राप्यते / पुराऽपि बहवो मुनीश्वराः सर्वत्र प्रबलतरान् वादिनो ब्रह्मचर्यसमेधितमेधाबलेन विजित्यात्मयशो दिक्षु सर्वासु प्रसारयामासुः / इदमेवात्मश्रेयसि प्रयुक्तं ब्रह्मचर्य नाम साधनं कियदुपकारक भवेदिति विचारयन्तौ तौ षण्मासपर्यन्तमेकशय्या स्वपन्तावपि स्वब्रह्मवर्यव्रते दृढपरिकरावास्ताम् / करणकृतो. पदेशबलादस्य भार्याऽनेन सह दीक्षोद्यता बभूव।। ___ इत परमपुण्योदयाज्जात्युद्धारको जिनगदितयमनियमनिष्ठो धर्माचार्यो देवगुप्तसूरिरुपकेशपुरमाजगाम / सूरीश्वरेण व्याख्यानेब्रह्मचर्यमाहात्म्यं विवेचितम् / तदाकर्ण्य करणो भार्यया सह पितरावापृच्छ्यैकत्रिंशत्परिमितैर्जनैः सार्द्ध सूरिसमीपे दीक्षामग्रहीत् / अनन्तरमस्याभिधानं चन्द्रशेखरेति परिवर्तितम् / असौ चतुर्दशवर्षपर्यन्तं गुरुकुलेऽधीयान एकादशाङ्गोपाङ्गादीनि जिनागमतत्त्वानि साहित्यादीनि च शास्त्राणि कण्ड स्थान्यकरोत् / प्रसन्नमनाः सूरीश्वर उपाध्यायपदापणेन तं भूषयामास / ततः परमपि सूरिसमीपावस्थानेनानुभवज्ञानजन्याद्वितीयप्रतिभासमन्वित भागमधुरन्धरोऽनेकान्तवादप्रचारको जातः / सिद्धाचलपर्वतस्य पवित्रतीर्थस्थले स्वनिधन. समयं परिलक्ष्य देवगुप्तसूरिणाऽसौ सिद्धसूरिनाम्ना प्रतिष्ठापितः सूरिपदे / सिद्धसूरिः शत्रुलयपर्वतान्निर्गत्येतस्ततो विहरन् भृगुकच्छपुरमाययो / तत्र धनधान्यसमृद्धिसम्पन्नो धनाधिप इव मुकुन्दनामा श्रेष्ठी प्रतिवसति स्म / अपरिमितधने विद्यमानेऽपि सन्तत्यभावाद् धनराशिरस्य दुःखोत्पादनायैवासीत् / अपुत्रस्य सर्वेषु वन्तुषु विद्यमानेष्वपि न तस्य सन्तोषाय किञ्चिद् भवति / अत एवोच्यते धिग् जीवितं प्रजाहीनं धिग् गृहं च प्रजां विना / धिग् धनं चानपत्यस्य धिक् कुलं सन्ततिं विना / / स च सूरीश्वरप्रशंसां जनश्रुतिपरम्परातोऽत्रबुध्यापत्यलाभाशया मन्त्रयन्त्रतन्त्रविचक्षणस्य सुरेः समीपमगमत् / पादवन्दनं विधाय विनीतभावेनासौ तस्मै स्वगृहस्थाश्रमजीवनेतिवृत्तं सकलं निवेदयामास / सूरिरपि तत्सर्वमेव श्रुत्वा "बलिष्ठा कर्मणो गतिः" प्रारब्धकर्म बलवन् मुनयो वदन्तीत्यादिभिर्नीतिवचनैस्तं समाश्वासयत् / भोगलिप्सया संसारसुखासक्तिः परमार्थतः प्राणिनां दुखायैवोपकल्पते / सांसारिका हि विषयाः श्रद्धया विप्रलब्धारः प्रिय विप्रियकारिणः / सुदुस्त्यजास्त्यजन्तोऽपि, कामाः कष्टा हि शत्रवः / / एवं सयुक्तिकमुपदिष्टो मिथ्याग्रहप्रहोन्मोचितो जिनधर्मस्य परमोपासको भक्तोऽभवत् / व्यतीते हि कियति काले दोगन्दुको देव इवानुपमलावण्यपुजः सुकुमारप्रकृतिः सुरुचिरमूर्तिः सुतो जन्म लेभे / अत एव तस्य जिनधर्मोपरि सविशेषा भक्तिरवर्घत / अयं खलु सूररेवोपकार इति मन्वानः स मुहुर्मुहुस्तं परमभक्त्याप्रशशंस / कटाक्षकटाक्षितकलुषितचित्तवृत्तयो वेदधर्मानुयायिनश्च ब्राह्मणा लज्जाभरनतानना अभूवन् / Page #107 -------------------------------------------------------------------------- ________________ [12] 'अथ समधिकानन्दसन्दोहसन्तुष्टान्तरङ्गोऽसो, मुकुन्दः सूरीश्वरस्य स्थान परम्परया ज्ञात्वा भृगुकच्छमलकर्तुमाह्वानपत्रिकया सह भृत्यान् प्राहिणोत् / आज्ञापाल काश्च भृत्यास्तत्र गत्वा मुकुन्दसन्दिष्ठं निवेदयामासुः / श्रद्धाभक्तिसमन्वितमिदं संदिष्टं समाकाचार्यस्तानवोचत्-वकाः ! चन्द्रावतीचतुर्मासानन्तर. मुपकेशपुरस्थस्य भगवतो महावीरस्य यात्राभिलाषा मे वर्ततेऽतोऽस्मिन् समये तत्रागन्तुमहं न शक्नोमि / ते च सूरिसंदिष्टं मनसि कृत्वा स्वनगरं प्रत्याययुः / चतुर्मासानन्तरमुपके शपुरयात्रायै सूरीश्वरस्यागमनं विज्ञाय मुकुन्देनाप्युपाध्यायमेरुप्रभमुनेरध्यक्षत्वे संघनिष्कासनं विनिश्चितम् / सर्वेभ्य आमन्त्रणं कृत्वा शुभे दिवसे संघ उपकेशपुरं प्रतस्थे / अस्मिंश्च संघे सहस्राधिकाः साधवो विंशतिमहस्राधिकाश्च श्रावकाः संगता आसन् / मुकुन्दोऽप्यनुक्रमेणोपकेशपुरमाजगाम / प्रथमतस्तत्रागतं सूरीश्वरं मिलित्वा प्रणम्य ततो भगवतो महावीरस्य दर्शनार्चनाप्रभावनमहोत्सवादिकं धार्मिक कृत्यमाचरत् / प्रभूतधनव्ययेनासाधारणं पुण्यगनेनासादितम् / पश्चादाचार्य भरुचपत्तनागमनाय सविनयमभ्यर्थयामास। सशिष्य पाचर्योऽस्य प्रार्थनामनुमान्य संघेन सह भृगुपुराभिमुखं विहारमकरोत् / सूरिराज उपकेशपुरचतुर्मासानन्तरं मेदपाटप्रान्तमाययो। तत्र देवपट्टनपत्तनपार्श्व दशसहस्राधिकान क्षत्रियान्स स्वधर्ममवषोध्य जिनधर्मानुयायिनश्चकार / तत्रतो निर्गत्य चित्रकूटे चतुर्मासेन सर्वान् स्वधर्मदृढभावनान्वितान् ब्यवत्त / एवमवन्तिकादिप्रान्तीयचतुर्मासानन्तरं मथुगयां सौगताचार्येण सह शास्त्रचर्चा विधाय तं पराजित्य जिनधर्मपताकामुल्लासयामास / ततो भगवतः पार्श्वनाथस्य कल्याणभूमिस्पर्शनार्थ वाराणसीमगमत् / चतुर्मासश्च तत्रैव कृत्वा तदीयप्रभावमीर्षयाऽसहमानान् ब्राह्मणान् पराजित्य विवादे पञ्चालदेशमत्राजीत् / तत्र महतीं श्रमणसभां कृत्वा सर्वेभ्यः साधुभ्यः समागतेभ्यः समयोचितं धर्मप्रचारोपदेशं दवा सिन्धदेशाभिमुखं विहारमकार्षीत् / सूरीश्वरस्य समवसरणेन तत्र धार्मिकी रुचिजनानामभूतपूर्वा बभूव / अस्मिन्देशे जिनधर्मप्रचारमुद्दिश्याचार्येण चत्वारश्चतुर्मासा (वर्षचतुष्टयमिति यावत् ) विहितास्तत्र तत्र धर्मोपदेशादिना / ततः क्रमेण विहारं कुर्वन् गोसलपुरमाजगाम सशिष्यः / परमधार्मिक आसलो महामहोत्सवपूर्वकमस्य नगरप्रवेशमकारयत् / तदीयामभ्यर्थनां स्वीकृत्य तत्रैव चतुर्मासो निर्णीतः / समाप्ते च चतुर्मासे काजलप्रभृतिभिः कतिपयैर्भव्येभगवती दीक्षा गृहीता / अनन्तरं डमरेलपुर-वीरपुरोच्चकोटादिषु विहृत्य कच्छदेशे भद्रावतीमागच्छत् / तत्र धर्मप्रचारेण सकलधार्मिकाणां मनांसि धर्मव्याख्यानेन मोदयित्वा सौराष्ट्रप्रान्ते शत्रुजयतीर्थमागत्य तत्र यात्रां विधाय शान्तिमनुभवितुं तत्रैव वसतिं चक्रे। __ अथ कश्चित् कालमुषित्वा शत्रुक्षयं ततो भृगुपुरं मृषयामास / श्रीमुकुन्दश्रेष्टिना नवलक्षपरिमिता. भिर्मुद्राभिरस्य भव्यः स्वागतविधिग्नुष्ठितः चिरादेवास्याचार्यागमनाभिलाषाद्य फलितेति महानानन्दस्य विषयः / ततः सप्तभिस्तनयैः सह सुरिपार्श्व मागत्य कृतज्ञतासूचकभावेन प्रार्थयामास भगवन् ! ममाभिलाषां पुरयितुमहति भवान् / सूरिस्तमवोचत् श्रेष्ठिन् ! का तेऽभिलाषा ? / स चावादीत् प्राचार्यवर्य ! सम्मेतशिखरयात्रार्थ महासंघनिष्कासनरूपा स्वात्मनः श्रीमते समर्पणरूपाश्च मे कामना पूरयिष्यति पूजाचरण इत्यहमाशासे / सूरिश्च तमुवाच कल्याणिन् ! समीचीनैव तेऽभिलाषा किन्त्वात्मश्रेयःसम्पादनं परमं प्रयोजनं तेऽवशिष्यते / सूरेर्वचः श्रुत्वा स ाह-जराजर्जरितावयवोऽहमधुना दीक्षा प्रहीतुं नेच्छामि / आचार्यश्च तद्वचनं समाकर्ण्य तमगादीत. . श्रेष्ठिन् ! पच्छाषिते पयाया खिप्पं गच्छन्ति अमरभवणाइ / जेसि पिओ तथो सञ्जमो खंतिअ चम्मचेरञ्च // Page #108 -------------------------------------------------------------------------- ________________ [13] एवं सूरीश्वरवचनं श्रुत्वा विचारयिष्याम्यहमस्मिन्विषयेऽधुनेति तमवोचत् / अथ श्रीसंघस्यादरातिशयमालोच्य तत्रैव चतुर्मासः कृतः / चतुर्मासानन्तरं मार्गशीर्षमासस्यै कादश्यां मुकुन्दस्य संघपतित्वे महान् संघः सम्मेतशिखरयात्रायै निर्जगाम / यत्र पञ्च सहस्त्रसंख्यकाः साधवो लक्षाधिकाश्च धार्मिकाः संगता बभूवुः / समेत्य च सम्मेतशिखरं विधाय च पूनाप्रभावनाध्वजतोरणार्पणादीनि धार्मिकाणि कृत्यानि, ज्येष्ठपुत्राय नकुलाय संघपतिमालामारोप्य मुकुन्दो लल्लकल्लादिभिः पुत्रैरष्टादशभिश्च भावुकैः सहाहतीं दीक्षामाहीत् सूरीश्वरपार्वे / संघेन सह निर्गत्य मथुरापुरीमाचार्य श्राजग म / संघस्तु स्वपुरमभिप्रतस्थे / सूरिणा च मथुरायामेव चतुर्मासः कृतः / व्याख्यानेन धर्मरुचिमभिवर्धयन् स मेदिनीपुरमगमत् / तत्र योगबलेन स्वमृत्युसमयं विचिन्त्योपाध्यायपदालतं मूर्तिविशालनामानं मुनि कक्कसूरीति नाम कृत्वा स्वपट्टे समारोप्य स्वर्गमयासीत् / वि० सं० 778 तः] ४२-प्राचार्यः श्रीकक्कसूरिः (नवमः) वि० सं० 837 प०] श्रीसिद्धसूरिपट्टपदं द्वादशतपोव्रताराधकोऽष्टप्रवचनमातृपाल कोऽष्टसंपत्समन्वितः षट्त्रिंशत्सूरिगुणालतः कल्पतरुरिव सकलार्थिजनाशापूरको मलयरुह इव शीतलप्रकृतिः सूर्य इव तेजस्वी चन्द्र इव रुचिरमूर्तिः श्रीकक्कसूरिरलञ्चकार / असावार्यगोत्रीयो गोसलपुरवास्तव्यश्वासीत् / अस्य पिता धार्मिकप्रवरः सर्वसंपत्समन्वितोऽग्रगण्यो भीगदेवनामा माता च वनिताजनललामभूता रमणीगुणगणोपमण्डिता सेणीदेवी / तयोरयमात्मजः,कज्जलो दोगन्दुकदेव इव शैशवोचितक्रीडारतः सकलपुरवासिजनमनोमोहकः क्रमेण पितरा. विव धर्मकर्माचरणनिष्ठः सुशीलो. बभूव / . अथैकस्मिन् काले प्राक्तनपुण्यपुञ्जपरिणामादाचार्यवर्यस्य सिद्धसूरेगगमनं तत्र पुरे जातम् / सूरीश्वरस्य जगन्निःसारताबोधकं वैराग्योत्पादकं व्याख्यानमाकये कज्जलो विरक्तिमवाप / एकदा मध्याह्नकालेऽसौ सूरिपार्श्वमेत्य स्वस्य वैराग्यभावनां प्रकटीचकार / सूरिपि यौवनं नाम गिरिनदीवेग इव चञ्चलं जीवतञ्चानवरतसञ्चाल्यमानगजकर्णयुगलभिवानतिस्थिरम् / विषयाश्चापातरम्याः परिणामदारुणाः सर्वथा हेया एवेति मनुध्येणात्मकल्याणप्राप्तये प्रयतितव्यम् / अनेन प्रकारेण तस्य विरक्तिभावनामवर्धयत् / सूरीश्वरस्यैवं वचः श्रुत्वा स आह सूरीश्वर ! संसारादुद्विग्नोऽहं दीक्षां वान्छामि किन्तु जनकादेशाभावे दीक्षाग्रहणं भवति न वेत्यत्र सन्देहो भवतैव दूरीकरणीयः / तस्करवृत्तिमाश्रित्य व्यवहारविरुद्ध धर्माचरणमपि तवानुचितं मे प्रतिभाति / पुरा मेघकुमारजम्बुकुमारप्रभृतयो महापुरुषाः स्वजनकस्यैकाकिनः पुत्रा अष्टवधूका अपि दीक्षोत्कृष्टभावनोपपन्नमानसाः सांसारिकान् पौद्वलिकानर्थान् झटिति त्यत्तवा पितरावापृच्छच मोक्षमार्गानुयायिनोऽभूवन् / त्वं तु वैवाहिकपाशनिर्मुक्तोऽस्मिन् काले / अतः पितृकृताभ्यनुज्ञस्यैव ते दीक्षास्त्रीकरणं न्याय्यमित्यवादीदाचार्यः / असौ कजलः परमार्थसारं सूरिवचनमङ्गीकृत्य पितरावामन्य कतिपयैर्मुमुक्षुभिः सह दीक्षा स्वीच. कार / मूर्तिविशाल इत्यभिधेयेनात्र विश्रुतो बभूव / दीक्षाग्रहणादनन्तरं गुरुकुलमुषित्वा जैनशास्त्रमर्माध्ययनकुशलः कविनिसर्गप्रतिभासमन्वितोऽचिरादेव विपश्चिच्चक्रवालसंभावनीयकीर्तिः सूरीश्वरमप्रीणयत् / प्राप्त समये मेदिनीपुरे सिद्धसूरिणा स्वपट्टे प्रतिष्ठापितः / श्रीककसूरिसमये चैत्यवासिनो मुनयो व्रतनियमेषु शिथिलाचारिणोऽभवन् / अतश्चन्द्रावत्यां तेषामुत्साहवर्धनाथै श्रमणसभा विहिता / सूरीश्वरश्च तान् स्वधर्मप्रचाराय तेषां स्वेच्छाचारादीन् दूरीकर्तुमगादीत्महानुभावा मुनयः ! यत्र तत्र विहरता मया या हि दुरवस्था दृष्टा सा न कदाचिदपि पूर्व श्रुताप्यासीत् / धर्मो हि जगतः प्रतिष्ठा, वयञ्च तदीयस्तम्भभूताः। आधारस्तम्भशैथिल्य स्थिरांशरहिते न तदुपरि स्थापितं गृहं प्रतिष्ठित दृढमूलञ्च भवति / स्थानपरिहमात्रेणात्मलाभं मन्यमानानामस्मदादीनां शिथिलाचारत्वादोदासीन्यादात्मयश: Page #109 -------------------------------------------------------------------------- ________________ | 4 ] ख्यापनदुराशादग्धहृदयत्वाच्च शासनकाय दूरमेवोत्सारित परिणामेऽस्मद्धानये भवति / परहितमात्रनिरतरस्मा. भिरयं संसारः परित्यक्तः प्रथममात्मकल्याणमासादयितुं किन्तु स्वश्रेयस्येव प्रमादास्तैरस्माभिः किं नाम लब्धम्। यैराचार्यैः स्वनामधन्यैर्दुःसहाः परिषहाः सोढाः , दुर्गमेष्वपि स्थलेषु विहारं विधाय धर्मप्रचारार्थ यावज्जीव मात्मकल्याणप्राप्तिपुरःसरं महाशासनसमुन्नतिविहिता / तत्र किमर्थमस्माभिर्लाघवं विधेयम् / यदि नाम न शक्येत तदभ्युदयस्तथापि तदवनतिस्तु नैव कर्तव्या / व्रतनियमादिकी शुद्धिः सा चात्मन: कल्याणाय कल्पत इति निश्चितम् / अतो भवन्तो दृढपरिकराः स्वधर्माचरणे प्रचारे च संलग्ना भवन्तु / तथैव भवतां जीवनस्य कृतार्थता / सत्पथे विहरतां सर्वदा श्रेय एव भवतीति नूनं जानन्तु / श्रीकक्कसूरेरसाधारणब्रह्मचर्यप्रभावाज्जयाविजयाम्बा देव्यस्तदीयचरणकमलसामीप्यं कदाचिदपि न तत्यजुः / स प्राचार्य एकदानुक्रमेण विहान् कान्यकुब्जप्रान्तमगमत् / तस्मिन्समये श्रीगोपाचले श्रीदप्पभट्टसूरिंगसीत् / गोपाचलाधिपतिः श्रामो बप्पभट्टसूरिणा सार्द्ध ककसूरेः स्वागतार्थमभिमुखं ययौ / ततः समाप्ते स्वागत विधौ बप्पभट्टसूरेराप्रहाद्देशनामदात् सर्वेभ्यो भावुकेभ्यः / बप्पभट्टसूरिरपि परं विस्मयमवाप सूरीश्वरस्याद्वितीयदेशनादानात् / ततः कदाचिद् एकान्ते सुखमासीनः ककसूरिर्बप्पभट्टसूरिमवादीत्-सूरीश्वर ! अद्य खलु चैत्यनिवासनिरतानां धर्म प्रति शैथिल्यं दृष्ट्वा न जाने कीदृश्यवस्था भविष्यति नो धर्मस्येति चेतो मदीयं सततं तदीयविचारपरम्पराव्याप्तं दन्दह्यते / येषु धर्मः सर्वथा प्रचारसापेक्षतां गतस्त एव के 'लं स्वकीयस्वेच्छा. वादरता धर्मस्य नामापि न शृण्वन्तः सुखेनैव कालं यापयन्तीति महानयं खेदस्यावसरः / स्वधर्मकर्मनिरतानां येषामाचरणानुसरणतत्पराः श्रावका आत्मनः कृतार्थतां मन्यन्ते त एवेदानीं स्वप्रभाव मिथः प्रख्यापयन्तः पूर्वानप्याचार्यानतिशेरते / ये हि विमलयशोव्यातदिङमण्डलाः प्रातःस्मरणीया रमणीयचरित्रचित्रीकृतनिखिललोकाः स्वधर्माय जीवनमपि निरपेक्षममन्यन्त मानमपि दूरीकृत्य धर्माभ्युदय एव परमं कर्तव्यमिति दृढपरिकरा आसन् तेऽद्य चैत्यनिवासिनां शिथिलप्रायां परिस्थितिमुद्दिश्य परत्र स्वकीये स्वान्ते परितप्यन्त इव मन्ये / यदि तेषां शैथिल्यपरिहाराय कश्चन तीक्ष्ण उपाय आचरितः स्यात्तदा त एव विरोधिनो भवेयुः / ततो मिथः संक्षुब्धे व्यवहारे धार्मिकाणामाश्रयदातॄणां च चेतसि महती ग्लानिः शासनं प्रत्युदासीनत्वञ्च ध्रुवं संभवेत् / एवं सति धर्मप्रचारे प्रोत्साहकानामभावेन स्वकार्यविरोध एव परिणमेत् / अथ चास्माभिरौदासीन्यमवलम्ब्येत तदा वयमेवानर्थपोषकाः सर्वजनोपहासविषया अनादरणीयवचनाः स्वधर्मविधातका भवेम / अन्यमतावलम्बिनश्चा. वसरं प्रतीक्षमाणाः सर्वतोभावेनास्मद्धर्मावहेलनां कृत्वा स्वधर्मस्थापनप्रचाराभ्युदयकर्मसु द्विगुणितोद्योगा अस्माभिरेव तत्र दत्तावलम्बनाः स्युः / येनेष्टप्राप्तिस्तु दूर आस्तामनर्थप्राप्तिश्च सुतरामुपस्थापिता स्यात् / अतोऽत्र संदिग्धप्राये वस्तुनि कः प्रतिकारः समुचित इति शीघ्रमेव विवेक्तव्यमनुष्ठेयश्चास्त इति / सर्वमिदं हृदय. निर्वेतापादकं मनोव्यथापूर्ण वृत्तान्तं चैत्यवासिनां समाकर्ण्य श्रीबप्पभट्टसूरिरेनमवोचत् मान्यवर ! भवदुक्त. मशेषं तथैव वर्तत इत्यहमपि जानामि सैषा परिस्थितिर्न श्रेयस्करीति निश्चितमेव / न चात्रौदासीन्यं युक्तम् / नापि तीक्ष्ण उपायोऽपेक्षितः। एवं सत्युदारप्रकृतीनां धार्मिकाणामौदार्य धर्म संक्षुब्धभावं समालोच्यास्तमियात् / येन स्वसिद्धान्तानुचिन्तनं लोके सूत्रादिवाचनक्रमेण क्रियमाणो धर्मप्रचारश्च शैथिल्यं गतः स्यात् / स्वमतेऽप्येकच्छेदोपस्थापनीयमपरच्छेदोपस्थापनीयं भवेत् / चारित्रपर्यायेऽपि षड्गुणिका हानिरेव स्यात् / अन्ते च सर्वमिदं धर्मतन्त्रमनियन्त्रितमुच्छिन्नप्रायं च सर्वजनोपहसनीयं भवेत्तदेतन्माभूदिति कश्चन मध्यमः पन्था अवश्यमेव समाश्रयणीयो येन शनैः शनैरुपायोपक्रान्तास्ते स्वशैथिल्यं परित्यज्यात्मन्येव स्वेच्छागरं निन्दन्तो विचारयन्तः स्वधर्मकर्माणि पुनर्धर्मप्रचारमा नहेतुकाः सर्वप्रयत्नेन सर्वासु दिक्षु धर्मप्रचारायाप्रेरिता एव विचरेयुः / भवन्तमत्र भूयो भूयोऽहमभ्यर्थये पदवश्यमस्माभिरीशी धार्मिकी परिस्थितिः कथंचिदप्युपेक्षणीवा न भवेत् / अहम Page #110 -------------------------------------------------------------------------- ________________ [ 5] प्यत्र संपूर्ण भवते सहयोगं दास्यामीति दृढमत्र विश्वसितु भवान् / “श्रेयांसि बहुविघ्नानि" स एष सार्वजनिको नियमः / तथापि खलुत्न निश्चितार्थाद्विरमन्ति धीरा" इति विचार्य भवता सत्वरमेव तदर्थ प्रयतितव्यमिति / अन्यथा छिद्रे ष्वना बहुलीभवन्तीति निश्चितम् / अथ श्रीककसूरिरनुदिनं धर्मप्रचारमेव लक्षीकृत्य मासकल्पं तत्र स्थिति।विधाय लक्ष्मणावतीमियाय / तत्र जिनधर्मोपासको धर्मपालो नाम राजा न्यवात्सीत्। तदीयादरवशीकृतचेता असौ चतुर्मासावस्थानेन द्विगुणितां धर्मभावनां भावुकानां सम्पाद्य वैशालीराजगृहादिषु प्रामनगरेषु विहरन् पाटलीपुत्रमगच्छत् / ततः सम्मेतशिखरतीर्थयात्रा विधाय कलिङ्गदेशमाययो / कलिङ्गपत्तने चतुर्मासं कृत्वा महाराष्ट्रप्रान्ते वैदिकधर्मप्रचारकस्य कुमारिलभट्टस्यागमनं ज्ञात्वा तत्र जगाम / कस्मिंश्चित् पत्तने कुमारिलभट्टेन सहाचार्यवर्यस्य शास्त्रार्था निश्चितः / उभयोरेव परस्परजयैषिणोर्मध्ये तुल्यबलत्वात्संदिग्धमानसा विजयलक्ष्मीः कुत्रापि निर्भरं पदं न चकार / स्वस्वसिद्धान्तप्रतिपादनमुभाभ्यां साटोपं सयुक्तिकं कृतम् / तथापि हिंसाकर्मणि जनानामनास्थायाः प्राकृतिकत्वात्सभ्यैः स एवाहिंसा धर्मो विशेषतोऽनुमोदितः। तन्मूलाश्च सूरीश्वरस्य जिनागमसिद्धान्तप्रतिष्ठा सर्वमान्या बभूव / ततः सूरिविदर्भलाटादिषु विहरन् सौपारपत्तने चातुर्मासिकी स्थितिं चक्रे / सर्वजनमनोरम स्वशास्त्र सिद्धान्तप्रतिपादकमलौकिकं व्याख्यानं श्रुत्वा को नाम मुदं नोपेयादत्र / विहरणक्रमेण सौराष्ट्रदेशे शत्रुबजयतीर्थयात्रां विधाय कन्चित् कालं तत्रैव न्यवात्सीद् विश्रमितुमसौ। अस्मिन्नेव विश्रान्तिकाले कच्छमरुधरदेशस्थौ संघी यात्रार्थमाजग्मतुम्तत्र / ती च स्वस्वप्रान्तमागमनेनालंतुकमाचार्य न्यवेदयताम् / सूरिरपि किं विधेयमिति संदिहानो विचारयामास / तस्यामेव निशायां देवी सच्चायिका सूरदर्शनार्थमागताऽभूत् / तदीयामुक्तिमनुमान्य स कच्छदेशाभिमुखं विहारमकरोत / तत्र सर्वत्र विहरतोऽस्य चतुर्मासो भद्रेश्वरपत्तने निश्चितः / चतुर्मासानन्तरमत्र श्रेष्ठिगोत्रोद्भवो लोढाशाहात्मजो मासद्वयात्प्राक् कृतोद्वाहां भार्या त्यक्तवाऽष्टादशभिर्मुमुक्षुभिः सह दीक्षितो बभूव / ततः सिन्धपचालकुर्वादिषु प्रान्तेषु धार्मिकी लोकभावनामुद्दीपयन् हस्तिनापुरे चतुर्मासावस्थितिमङ्गीचकार / तत्र तात्विकदार्शनिकैतिहासिकादिषु विविधविषयेषु क्रमेण व्याख्यानदानेन भावुकान् सन्तोषयामास / . . A-शाङ्करमतप्रचारको वैदिकशिरोमणिः श्रीशङ्कराचार्यो भगवान् वैदिकधर्मप्रचाराय तस्मिन् काले मथुरामलंचकार / एतत्परम्परया विदित्वा श्रीकक्कसूरिरपि स्वधर्मरक्षणार्थ तत्रैव विहारक्रमेणाजगाम / मिलितो चोभावाचार्यो / सानन्दं सबहुमानं सामयिकी परिस्थिति जनानां समीक्ष्य स्वस्वसिद्धान्तालोचनं कृतम् / भगवता शंकराचार्येण तदा अग्निहोत्रं गवालम्भं संन्यासं पलपैतृकम् / देवराच्च सुतोत्पत्तिः कलौ पश्च विवर्जयेत् // इति सिद्धान्तितम् / महतां हि प्रादुर्भावो जगत्यस्मिन् जनानां जीवनरहस्यपथदर्शनाय न तु मिथो विरोधप्रदर्शनेन वैरानुबन्धाय भवति / लेखक:-ब्राह्मणधर्मप्रचारकस्य भगवतः श्रीशंकरावतारस्य श्रीशंकराचार्यस्य प्रादुर्भावो मलबारप्रान्ते कालटीग्रामे, युधिष्ठिरशके 2631 तमे इति शंकरदिग्विजये सुस्पष्टमेतदवगम्यते / अन्यान्यपि बहूनि प्रमाणान्यत्रोपलभ्यन्ते / दिग्विजये सिद्धान्तिते तु न पराजयगन्धोऽपि / श्रीमज्जगद्ग - रुरिति भगवत उत्तमपदस्यापि व्यवहारो दूरापास्त एव स्यात् / अतोऽत्र सूक्ष्मेक्षिकया सुधीभिरेव तत्वनिर्णयो विधेयः / Page #111 -------------------------------------------------------------------------- ________________ [ 16 ] ततश्चतुर्मासानन्तरमसावाचार्यः करणशाहेन निर्मापितस्य भगवतो महावीरस्य जिनालयस्य प्रतिष्ठाकार्य सम्पादयामास / ततो निर्गत्याजयपुरमाययो / धर्मोपदेशादिभिः सर्वान् सम्भाव्य मरुधरशाकम्भरीहंसावलीमेदिनीपुरनागपुरादिषु विहरणं कृत्वा खटकुम्पनगरं माण्डव्यपुरञ्चालहत्य चरमसमये स्थिरवासमुपकेशपुर एवाह. तवान् / तत्र योगविद्यया निजनिधनमासन्नं ज्ञात्वा ध्यानसुन्दरं नाम मुनिमाचार्यपदसमुचितं भाद्रगोत्रीयेण लुणाशाहेन समारब्धे महोत्सवे स्वपट्टे स्थापयामास / तस्याभिधानञ्च श्रीदेवगुप्तसूरीति विहितमभूत् / अन्ते च त्रयस्त्रिंशदिनानि समाध्यनशनादिभिर्यापयित्वा पञ्चपरमेष्ठिमहामन्त्रस्मरणपूर्वकंमिदं स्थूलं शरीरमुत्ससर्ज / वि० सं० 837 तः] ४३-प्राचार्यः श्रीदेवगुप्तसूरिः (नवमः) वि० सं० 862 50] अथ श्रीकक्कसूरिपट्टे प्रातःस्मरणीयनाम धेयः सुरासुरमानवादिभिरभ्यर्चनीयचरणारविन्दः प्रखरप्रतिभासंपन्नो वादिगजकेशरी महाशासनप्रभावकः श्रीमान् देवगुप्तसूरिः समाययो। असौ पाल्हिकानगरीवास्तव्यः सुचन्तिगोत्रीयश्वासीत् / अस्य पिता वाणिज्यकर्मकोविदो धर्मरतिः श्रेष्ठी राणानामको, माता च सतीधर्मव्रतपरायणा भूरीदेवी / यस्यां नगर्यामसी जन्म लेभे सा खलु विविधपण्यगणविराजिता निखिलजनमनोरमा सकलकलाकलापिनी मरुधरवक्षःस्थलालंकारभुता समधिकं व्यराजत / एतदीयवर्णनप्रसंगे केनचित्कविनाऽभाणि यत् - वापीवप्रविहारवर्णवनिता वाग्मी वनं वाटिका वैद्यो ब्राह्मणवादिवेश्मविबुधा वेश्या वणिग्वाहिना / विद्यावीरविवेकवित्तविनयो वाचंयमा वल्लकी वस्त्रं वारणराजि वैशरवरं चैति पुरं शोभते // . ( उपलब्ध्यमुसारमपम्) ___ सकलसमृद्धिसमन्विता नगरीमधिवसतोऽस्य श्रेष्ठिनो राणाशाहस्य वाणिज्यव्यवहारो न केवलमत्र भारतेऽपि तु चीन-जापान-जावा-बलुचिस्तान-प्रभृतिषु महता प्रमाणेनासीत् / व्यापारोऽपि महामूल्यानां नीलम रकतपद्मरागादीनां रत्नजातानां सुवर्णरजतादीनामन्येषामपि समप्रवस्तूनां दैनंदिनमभिवर्धमानोऽभूत् / प्राक्तनजन्मसुकृतसमुपार्जितद्रविणराशिरसौ धार्मिकेषु कृत्येष्वपि तथैव कृतादर. स्वजातीयेभ्योऽधिकतरं सहयोगमदात् / तीर्थयात्राजनितपुण्यप्राप्तयेऽनेन वारत्रयं तीर्थयात्रायै संघनिष्कासनमपि भव्यसमारोहेण विहितमासीत् / दुष्कालसमये ह्युपस्थिते सर्वविधसाहाय्याचरणेन गांभीयौदार्यादिगुणगणसमलंकृतः स्वकीयं शरदिन्दुरुचिरुचिरं यशश्चतुर्दिक्षु वितेने / महामहिममहनीयकीर्तीना यतिवर्याणां समागमेनासौ शुश्रूषणलाभं द्रव्यलाभादप्यधिक ममन्यत / एवमेवासी सुखेन दिनान्यत्यवाहयत् / पञ्चकोटिपरिमितं धनं सत्कर्मणि न्ययुक्त। . दिनेषु गच्छत्सु जगति विश्रुतकीतिः परमधर्ममर्मव्याख्याता शान्तिनिकेतनस्तत्रभवानाचार्यवर्यः श्रीककसूरिः पाल्हिकानगरीमात्मनाऽलंकरोति स्म / श्रीसंघश्च समारोहपुरःसरमस्य सन्मानार्थ महोत्सवानुष्ठानमकार्षीत् / श्रेष्ठिगोत्रीयेण दयालशाहेन लक्षत्रयपरिमितं द्रविणं विनियुक्तमत्र / एवं सत्कारविधिसमर्चितः श्रीमदाचार्यों भावुकेभ्यो हृदयंगमा देशनामदत्त / तदनु नित्यक्रमेण सकलजनमनोमोदकान्यस्य व्याख्यानान्यभूवन् / दार्शनिकशिरोमणिविद्वज्जनवरेण्यस्तुलनात्मकदृष्टया धर्मतत्वप्रबोधकव्याख्यानपरम्परया श्रोत्रंन् श्रवणसमेधितमानसान व्यधत्त / एकदा सूरीश्वरः संसारस्यासारता लक्ष्म्यास्तरलत्वं कौटुम्बिकानां स्वार्थजस्न्यस्नेहसदावं शरीरस्य क्षणभङ्गरत्वमायुषश्वास्थैर्यमुद्दिश्य परमवैराग्यरतिसंवर्धनक्षम व्याख्यानमश्रावयत् / येन राणाशाहस्य महनामा तनयः संसारमोहपाशादात्मनो मुक्तये वैराग्यरजितमानसो दीक्षायै दृढपरिकरो बभूव / Page #112 -------------------------------------------------------------------------- ________________ उत्तप्रयत्ना श्रपि कौटुम्बिका तीव्रतरविरक्तिभावोपपनमानसमेनं निधयानिवारयितुं मनागपि नाशक्त वन् / अन्ते च तैरेवानुज्ञात एकादशभिर्भावुकैः साई मङ्गलमुहूर्तोपयुक्ते दिने सूरीश्वरकरकमलेन भगवतीमगृह्वाहीक्षा वैक्रमे 799 तमे हायने फाल्गुने शुक्छतृतीयायाम / ध्यानसुन्दरनाम्ना तदनु प्रसिद्धिमाप सः / चिरकालं गुरुकुलसम्पर्कमासाद्य समधिगतनिखिलागममर्मशः सूरिपदसमुचितगुणगणविद्योतिवविद्वज्जनमण्डलः सूरीश्वरेण कक्काचार्येण विक्रमस्य ८३७तमेऽब्दे स्वपदे प्रतिष्ठापितः / अस्य श्रीदेवगुप्तसूरीत्याख्या विश्रुता बभूव / आचार्यवर्यः श्रीदेवगुप्तसूरिगुरुसिद्धान्तसरणीमनुसृत्य स्वधर्मप्रचारहेतुकं विहरणं कुर्वन् सिन्धप्रान्तमयासीत् / शिष्यमण्डलीमण्डनायमानोऽसावेकदा रात्री मार्गाभ्याशवर्तिनः कस्यचिद् घटवृक्षस्याधस्तात् कृतावस्थितिर्बभूव / सर्वे मुनियो निद्रामुद्रितनेत्रा अभूवन् / सूरीश्वरश्च संग्रहणीशास्त्रस्य स्वाध्यायमकार्षीत् / तटवृक्षाधिष्ठायकः कश्चिद् यक्षो निद्रावशंगतान् मुनीनालोच्य रोषारुणितनयनस्तस्यैव वृक्षतलस्योपरि कृतावस्थितेः सूरीश्वरस्याभ्याशमाययौ / स्वाध्याये स्थितस्यास्य मुखकमलान् मनोहरान् शद्वान् समाकण्याश्चर्यचकितहृदयः शिथिलीभूतरोषावेश एकमनाः स्वाध्यायमशृणोत् / स्वाध्याये क्रियमाणं देवभवननिर्माणादिकं वृतान्तमसौ सादर श्रुत्वा परमसन्तुष्टमानसो यदा भवता मदीयं स्मरणं करिष्यते तदाऽवश्यमहं भवत्समीपमेवोपस्थितो भविष्यामीत्युक्त्वा सोऽन्तर्दधे / ततः परं व्यतीवायां रजन्यां जाते च प्रभाते सूरीश्वरः शिष्यगणसमन्वितो विहरम् वीरपुरमाससाद / पथि समागतस्य कस्यचिन्मठायतनस्याधिष्ठायकोऽस्य प्रतिरोधार्थ संचरणमार्गे सर्वत्र सर्पानाच्छादयामास / तदीयां मन्त्रबलशक्तिं सम्यगनुमाय सूरीश्वरो यक्षं सस्मार | स्मरणान्तरमेवोपस्थितोऽसौ मयूरानुत्पादयामास / ते च सर्पान चंच्या गृहीत्वाऽकाशमुदचरन् / आचार्यवयस्येदृशं महामहिमशालित्वं ज्ञात्वा निस्तेजस्कः स सन्यासी क्षमा ययाचे / स्वाश्रम एवैनमस्थापयत् / भगवन् ! धर्मस्वरूपविषयके विचारे बौखवेवान्तिचार्वाकजैनादिविविधनामपरिकल्पनं किं हेतुकम् ? नाममात्रविवादाडम्बरे निमग्नहृदयाः किमारमश्रेय प्रासादयितुं समीहन्ते उतानर्थम् ? सत्यपि सिद्धान्तज्ञाने दृढतरे वेशपरिवर्तनादिकं शक्यमशक्यं वेति संदिग्ध मानसोऽसौ सूरीश्वरं पप्रच्छ / मिथ्याग्रहनिवारकः स्वकल्याणसाधको निराबाधको धर्मः सिद्धान्तत्वेन परिक्षातस्तदा तदनुकूलाचरणेनैवेष्टसिद्धिरिति समुचितमुत्तरमासाद्य, मिध्याप्रहमुन्मुच्य,सम्यक्त्वं प्य च द्वादश भावकवतान्यङ्गीचकार स सन्यासी / एवमद्वितीयप्रभावमस्य कर्णपरम्परया विदित्वा वीरपुराधिपतिर्मुदितमानसोऽस्य स्वागतविधये स्वयमेवोद्युक्तो बभूव / नगरशोभासंस्काराद्यर्थ राजसेवकानादिदेश। प्रातरुन्मिषत्युषोरागे भगवति च सहस्रांशुमालिन्युदिते च चतुरङ्गबलसमन्वितः प्रधानकर्मचारिभिर्नगरनिवासिभिः पुरन्ध्रीभिर्वा. दिनमांगलिकद्योषपुरःसरमस्य भव्य स्वागतं विदधे राजा सोनगदेवः / नगरीमलंकृत्याचार्यवर्यः सभायां सारग. भितां देशनामदात् / येन जनाः प्रमुदितान्तरङ्गा धर्मामृतपानसादरा बभूवुः / . अथैकदा मिथो राजा सर्वसंपत्समन्वितोऽप्यनपत्यदुःखदवाग्निदन्दह्यमानमानसः सूरीश्वरसमीपमुपेत्य तदर्थ स्वदुःखं व्यवृणोत् / न खलु धर्मकर्मान्तरा समीहितसिद्धिः कस्यचिदपि दृष्टचराऽत्र जगतीतलेऽवलोक्यते / अतस्तदर्थमेव त्वमनुचिन्तय / अपत्यलाभादिकन्वानुषङ्गिकमवेहि" इति शास्त्रप्रमाणप्रयुक्तं वचः सादरमा. कर्याऽसौ राजा धर्माचरण एवाधिका रुचिमकार्षीत् / श्राचार्यः श्रीदेवगुप्तसूरिः श्रीसंघस्य राज्ञो सोनगदेवस्य चामहातिशयमनुमान्य तत्रैव चातुर्मासिकीमवस्थिति, स्वीचकार / जनता चापूर्वलाभं मन्यमानाऽत्मकल्याणसाधनाय क्षणोऽपि दुर्लभ इति मत्वा सोत्साहा बभूव / आचार्यसदुपदेश समुत्साहितो राजा भगवतो महावीरस्य मन्दिरमेकं भव्यं निर्मातुं शिल्पिन श्रादिदेश / ___ अथैकदा सन्यासिनो मानसे पूर्णतयाऽकृतार्थतामनुमानेन परिकल्प्य सभायामसी सूरीश्वरः साधूनामाचारविषयं सशास्त्रं सुस्पष्टमित्यं विवृणोति स्म / जैनश्रमणा हि द्विविधा जिनकल्पिनः स्वविरकल्पिनश्चेति / तत्र Page #113 -------------------------------------------------------------------------- ________________ [ 6] जिनकल्पिनः पात्रपाणयः केचिचोपकरणवन्तोऽपि, अपरे शास्त्रोक्तोपकरणवन्तः / तत्राप्युष्करणानि तत्प्रमाणे प्रयोजनश्च विस्तरतो दर्शितम् / यथा-पत्तो पत्तावन्धो पायहवणं च पायकेसरिया / पडलाइ रयत्ताणं गुच्छओ पायनिओगो / इत्येवमादीनि द्वादशोपकरणानि, कुत्रचिन्न्यूनाधिकप्रमाणमप्युपलभ्यते / उपकरणानामुत्तममभ्यमादिभेदेन गणमाभेदः कथ्यते शास्त्रे / प्रमाणं यथा मुखपट्टिकायाः-रचउरंगुल विहत्थि एवं मुहणंतगस्सउप्पमाणं वीयं मुहप्पमाणं गणण पमाणेणं ईकिकं / एवमादीनि समेषामुपकरणान प्रमाणान्यप्याग्नातानि / प्रयोजनपर्यालोचने दिङ्मात्रं यथा-रयमाइरकखण हा पत्तग ठवणं वि उबड़स्सति / होइ पमजणहेउ गुच्छुओ भाणवत्थाणं / पायपमजणहेउ केसरिया पाए 2 इकिका, गुच्छ पतगठवणं इकिकं गणणमाणेणं // अपराण्यपि प्रयोजनानि तत्तच्छास्त्रेषूपलभ्यन्ते / साध्वीनामप्येतान्यन्यान्यप्युपकरणानि दृश्यन्ते / न खलु किंचिदपि शास्त्रादु बहिर्भावेन दृश्यतेऽत्र यस्य स्वरूपं शास्त्रनिरूपितं न स्यात् / अथ दीक्षाप्रहणे दीक्षां प्रहीतुमभिलषतो जनस्य क्षेत्रगुणव्यवसायपराक्रमाद्यालोचनं नितान्तमावश्यकम् / बाल-वृद्ध नपुंसक-कृतनपुंसक--जड-व्याधिताप्रतीत- कृतघ्न-प्रमत्त-हीनांग-स्त्यानगृद्धि-दुष्ट परिणाम-मूढ दुष्टधनलुब्धाप्राप्ताज्ञाः ऋणकर्ता ऋणकन्चकश्चैते न कदाचिद् दीक्षामर्हन्ति / न खलु दीक्षाग्रहणं बालानां खेलनम् / दृढ़तरविरक्तिभावनाभावितहृदयस्यैव तत्राधिकार प्रात्मकल्याणसाधनायोपदिष्टो जिनागमे / सर्वमिदं शास्त्रीय तत्वमालोच्यासौ सन्यासी विंशतिसंख्यकैर्भावुकैः सह शुभलक्षणोपेते मुहूतऽग्रहीद् भगवती दीक्षा सूरीश्वरकगरविन्देन / ज्ञानानन्द-नाम्ना च प्रथितोऽभूत् / राजा सोनगदेवोऽत्र महोत्सवे प्रभूतं धनमुपायुक्त / एवं माङ्गलिकानि देशना-दीक्षादानादीनि सत्कर्माणि समाप्य वतो विजहाराचार्यवर्यः / तत्र सिन्धप्रान्ते-उच्चकोटमारोटकोट-रेणुकोट-मालपुर-कपाली-धार-डामरेलपुर-देवपुर-गोसलपुर-दीवकीटादिषु प्रामनगरेषु विहरणेन धार्मिकं प्रचारं महता प्रयत्नेनान्वतिष्ठत् / अन्ते सम्प्राप्ते चतुर्माससमये श्रीसंघामन्त्रणेन डामरेलनगरमगात् / यदा वीरपुरनगरे राजा मन्दिरनिर्माणाय खातमुहूर्तमकरोत् / तस्मिन्नेव पुण्यपर्वणि तस्य राज्ञी सरस्वती यथान्तः सलिलामिव सर्वशुभलक्षणलक्षणीयं गर्भ दधौ / व्यतीते हि नवमे मासे चिरमूर्ति सौन्दर्यादिसकलगुणभूयिष्ठं सुकुमार कुमारमजनिष्ट / यतो समेधितगुरुचरणसरोजभक्तिरसौ नागरिकानाहत्यामन्त्र्य च सहैव नीत्वा डामरेलपुरे सूरीश्वरदर्शनार्थ शुभेऽहनि प्रायासीत् / एत्यच भगवन् भवदीय. कृपामृत दृष्टेरेवेदं फलमित्युक्त्वा पुत्रमदर्शयत्। आचार्येण सदुपरि वासःक्षेपोऽकारि सर्वसंपन्निधानस्यास्यामोधफलं दर्शनं विधाय नूतनमन्दिरप्रतिष्ठायै तत्रागमनार्थमभ्यर्थयामास / यथा वर्तमानयोग इत्युक्तोऽसौ दिनान्यष्टौ स्थितोऽष्टाह्निकामहोत्सवं पूजाप्रभावनास्वामिवात्सल्यं, च विधायाचार्योपदेशसुधाप्लुतान्तरंगः श्रीसंघेन साकं वीरपुरमभिप्रतस्थे / समाप्ते चतुर्मासवते श्रीदेवगुप्तसूरीश्वरी मन्दिग्प्रतिष्ठायै वीरपुरमुद्दिश्य विहारमकरोत् / शुभे मुहू राजा सोनगदेवः सूरीश्वरकरकमलेन महासमारोहपुरःसरंप्रतिष्ठाविधिमकारयत् / अस्मिन्महोत्सवे राजा संघस्थेभ्यो भावुकेभ्यः सुवर्ण मुद्रिका ददौ / दीनेभ्यश्चान्नवनादिकमपि, मुक्तहस्तेन। ततश्च विहरन् गोसलपुरमेत्य तृतीयं चतुर्मासावस्थानमकार्षीत् / तत्र धर्मजागृतिं विधाय ततः पन्चनदप्रान्तमागत्य तत्रत्यां श्रमणमण्डली धर्मप्रचारायाधिकमुपदिदेश वर्षद्वयमत्र तस्थौ / बहवोऽत्राज्ञाविधायिनो धर्मप्रचारकर्मकुशला मुनयः सन्तीत्यालोच्य विहरन्नसो मार्गागततीर्थस्थलदर्शनभावुकोपदेशादिकं कुर्वन् पूर्वस्यां दिशि पाटलीपुत्रमाययो। चातुर्मासिकी स्थितिं कृत्वा ततः कलिंगानाजगाम / तत्र गिरितीर्थयात्रा सम्पाद्य तत्समीपवर्तिषु प्रान्तेषु प्रामनगरेषु धर्मप्रचारेण जनानां जिनधर्मभावनामुद्दीपयन् महाराष्ट्रदेशमाजगाम / सूरीश्वरस्यागमनं ज्ञात्वा पूर्व Page #114 -------------------------------------------------------------------------- ________________ [ -] प्रेषिता धर्मप्रचारकाः साघवोऽपूर्वोत्साहपरिपूर्णमानसा बभवुः / आचार्यश्च तानभिननन्द / अस्यागमनेन श्वेताम्बरदिगम्बरमतावलम्बिनो साधूनां मिथ समधिकं सौमनस्यमभूत् / ततः सर्वतोभावेन सौकर्येण च धर्मप्रचार कार्य समपद्यत / येन वैदिकधर्मों लब्धपूर्णप्रचारोऽपि सहसाऽदर्शनमलभत / व्याख्यानेऽप्यस्यापूर्वी शास्त्रतस्वबोधिका शेमुखीमालक्ष्य राष्ट्रकूट-चोल-पाण्ड्य-पल्लव-चोलुक्य-कलचुरी-होयल-गंग-कदम्बवंशीया गजानो महाराजाश्च श्रद्धाभक्तियुता जिनधर्मोपासका बभूवुरिति प्रत्नतत्वविद्भिर्गवेषकैलब्धेभ्यो दानपत्रादिभ्योऽवगम्यत इदानीमपि।विस्तरभिया विरम्यतेऽत्र विषये / स्वधर्ममूलदृढीकरणार्थ पञ्च चतुर्मासनतानि महाराष्ट्रप्रान्त एव चकार। तत्र भ्रष्टमार्गाः सर्गिस्थापिता जैनेतरा जिनधर्मानुरागिणः, अन्ये च धर्मेऽधिकरुचिमापादिताः / अस्मिन् प्रान्ते श्रमणानामुभयपक्षीयाण सभामकारयदुपदिदेश च भव्याः ! विषमे छुपस्थिते काले नाममात्रभेदे न मढबुद्धय इव पारस्परिकविरोधाचरण कधियो भवन्तु / प्राप्य च परस्परमेकतां जिनधर्म एक एवेति मत्वा तदर्थमेव कृतोत्सा हाः प्रयत्नाः मिथः साहाय्यमत्राचरन्तु / येनापरे छिदान्वेषिणो न भवेयुः। संघे शक्तिः कलौ युगे-इति निश्चितमेव जानन्तु / भगवतो महावीरस्थाहिंसा, स्याद्वादः, तद्रक्षणं पोषणब्चोभयत्र समानमिति दृढं विश्वसन्तु / तथैव प्रयत्नेन प्राप्मुवन्तु सर्वे सफलतामित्येव युष्मत्सकाशादाशासे भूयो भूय इति / तेऽपि तथैव प्रतिपेदिरे / अन्ते च समुचितयोग्यता प्राप्ताः गणि-गणावच्छेदकोपाध्यायादिभिः पदैः सत्कृता दृढ़ोत्साहाश्च बमुवुर्मुनयः ते च यत्र तत्र विहारार्थ सूरीश्वराज्ञां प्राप्य प्रययुः / आचार्यश्च विदर्भकोकणदेशयोर्विहृत्य सौपारपत्तने चतु सिं करवा सौराष्ट्रदेशे तीर्थराजस्य श्रीशत्रुब्जयतीर्यस्य गिरिनालस्य च यात्रा व्यधत्त / तत्र कियन्तं कालमुषित्वा विहरणक्रमेण लाटावन्तिकामेदपाटप्रान्तेषु धर्मभावनाभिवधनं कुर्वन् मरुधरप्रान्ते डिडूनगरे नागपुरे च चतुर्मासं फवा पश्चादुपकेशपुरमयासीत् / देवी सच्चापिका परोक्षरूपेण तमभ्यनन्दत् / भवदीया वृद्धावस्था वर्ततेऽतोऽत्रैव विहार उचित इत्युक्त्वा साऽदर्शनमगात् / असावत्र साधूनां शिथिलाचारमालक्ष्य माघशुक्ल पूर्णिमायां श्रमणसमायोजनमकरोत् / अत्रोपकेशपुरशाखीयभिन्नमालगच्छीयाः, कोरण्टकगच्छीया, अन्ये च वीरधर्ममनुसरन्तः पञ्चसहस्राधिकाः साधवः समाजग्मुः ! धर्मशैथिल्थमुहिश्य विस्तृतं व्याख्यानं चकार येन ते शैथिल्यं दूरीकृत्य नूतनोत्साहा बभूवुः / योग्यतां गतेभ्यः पदवीप्रदानं कृत्वा सभा विसर्जिता / उपकेशपुरीयेण 'श्रीसंघेन सर्वेषां भावभव्य स्वागतं विहितम् / सर्वच धर्माचरणं तत्प्रचारश्चेति परममस्मत्कर्तव्यमिति निश्चित्य विजह : / अनन्तरमसो मरुभूमावेव विजहार / एतवधिमण्यमेकवारं मथुरायां पश्चात्संघेन सह शत्रुञ्जय. तीर्थयात्राया उल्लेख: पट्टावलीतो ज्ञायते / अन्ते चोपके शपुरे चतुर्विधसंघसमक्ष भगवतो महावीरस्य मन्दिरे विक्रमस्य 892 तमे संवत्सरं माघशुक्लपूर्णिमायां सर्वागममर्मविदे कल्याणकुम्मनाम्न उपाध्यायाय सूरिपदं दत्वा स्वयं 27 दिनान्यनशनेन पञ्चपरमेष्ठिमहामन्त्रस्मरणेन चातिवाह्य दिवं ययौ / श्राचार्यवर्येण श्रीदेवगुप्तसूरिणा 55 वर्षपर्यन्तं महता परिश्रमेण जिनशासनस्यातिमहती सेवा बिहिता यां वर्णयितुं नास्माकं शक्तिः परिमिता। कुंकुमजातिः-अडकमलराठौड़ः कतिपयैर्वयस्यैः सह चौर्यमाचरति स्म / एकदा तदर्थ निर्गतो मध्य एव विहरणक्रमेण संमुखमागच्छता मुनीनां दर्शनं कृत्वाऽद्यानिश्मेषां दर्शनं तदङ्गच्छेदनलब्धरुधिरेण परिहरणीयमिति वयस्यानाह / सूरीश्वरश्च तद्धार्ता नापेन विदित्वा तेषा मनोरथं निर्भीकमना-भावका ! सुखेन गृह्वन्तु रुधिरं, भवारशा एव प्राहका अस्मद्भाग्येनैव प्रापिता इति नानवादीत् / श्रुत्वा चेदं बचो लन्जावनमुखोऽसौ न किंचिदप्यत्रवीत् / पश्चान्महता प्रयत्नेन सन्तुष्टः / भवान् मनोरथमस्मदीयं सफली कर्तुं दयतामित्यगादीत् / तेन च धर्मापदेशं सर्वाभिलाषापूरकं निखिलदुःखदलनक्षमश्च दत्वा कस्यचित्तरोस्तले स्थितिमाभित्य Page #115 -------------------------------------------------------------------------- ________________ / 100 ] प्रतिक्रमणादि सामयिकं धर्मकृत्यमाचरितम् / असावप्यत्रैव पश्चादाययो रात्रौ / कुंकुंमादेवी निद्रामुद्रितने के विवोन्य कल्याणिन् ! अस्यामेव भूमो भगवतः पार्श्वनाथस्य प्रतिमा तद्वामपार्वे चाक्षयो धननिधिः / त्वरितमेव प्रातरुत्थाय खनित्वा वा भूमि भव्यं मन्दिर निर्मापय / स्थापय च तत्र प्रतिमामासादय च धर्मकर्मानुष्ठानेन शाश्वतं पुण्यमित्युक्त्वा सा तिरोधे / प्रातश्च सूरीश्वरं स्वप्नवृत्तं निवेदयामास / स च तमभिननन्द / चतुरान् समाहूय शिस्पिनो मन्दिरं निरमापयत्। नूतननगरनिर्माणमप्यारब्धम् / तस्य च देवीपुरीति नाम देव्यनुरू विहितम् / भव्यस्य जिनालयस्य च कुंकुमविहारेत्यमिधानमकरोद् अहकमलः / समाप्ते च कार्ये सूरीश्वरमाहूय महता द्रव्यन्ययेन प्रतिष्ठाविधिमन्वतिष्ठ, कुंकुंमादेवी कुलदेवतास्वेनास्थापयच्च / ___ अथ व्यतीते काले कमनीयमूर्तिः सर्वलक्षणसमन्वितः पुत्रोऽजनि / तस्य कुंकुमकुंवरेति नाम पकार / परमधार्मिक: कुंकुंमः प्राप्तवयस्कः श्रीशत्रुब्जययात्रार्थ महान्तं संघं निष्कासयामा / अपराण्यपि धार्मिकाणि कार्याणि संपादयामास येन तस्य शरदिन्दुरुचिरुचिरं यशः सर्वत्र प्रससार / अस्य परम्परा कुंकुंमजात्या जगती. दलविश्रुता बभूव / अस्या एव चोपडा-गणधर-कड-धूपिया-वटवटा-रांकावाल-संघवी-जावलियादिकाः प्रभूताः शाखा प्रचारमवापुः। विनायकिया जाति:- भंभोरियानगरनिवासी देव्यर्चनाय हिंसानिरवो विनायकरावः सूरिणोपदिष्टः स्वकीयराज्ये प्राणिवर्ष न्यवारयत्। भगवतः पार्श्वनाथस्य भव्य मन्दिर निर्माय मूर्तिप्रतिष्ठा सूरीश्वरवरदहस्तेन कारयामास / ततः परं जिनधर्मोपासको बभूव / अस्य वंशजा विनायकिया इत्याश्यां नेभिरे। वि० सं० 862 तः] 44 प्राचार्यः श्रीसिद्धसूरिः (नवमः) [वि० सं० 652 प. निखिलागमदवावबोधविभाषितदिमण्डलालंकारचूडामणिमहामहिममहनीयकीर्तिरखिलविबुधवरेण्यः श्रीसिद्धसूरिः श्रीदेवगुप्तसूरिपदे प्रतिष्ठामवाप / तपःप्रभावसमासाहितसिद्धिरसौ डिडूपुरनगरवास्तव्यः श्रेष्टिगोत्रीयश्वासीत् / विविधवणिक्कर्मकलाकलापकलापी पिताऽस्य शाहोपाधिविभूषितो लिम्बाश्रेष्ठी, माता च गृहकर्मकुराला पविधर्मानुरागिणी रोलीनाम्नी बभूव / पूर्वजन्मकृतसुकृतप्रभावेण व्यापारेऽपरिमितं द्रविणराशिं प्राप्य लिम्बाशाहो धर्म एव हतो हन्ति धर्मो रक्षति रक्षित इति मत्वा पुण्यकर्माराधनतत्पर एव कालमनेषीत् / तीर्थयात्रायै वारत्रयं संघायोजनं कृत्वा तन्जनितमक्षयं पुण्यमर्जयामास / सप्तकस्वश्चानयज्ञमकार्षीत् / कल्पद्रुम इव याचकेभ्यो मनोमिलषितं दत्वा दारिद्रय व तेषां दूरीचकार / एवं स्वजातीयानामभ्युन्नतिविषयेऽसौ प्रयतमानो प्रभूतं द्रव्यं विनियुज्य साहाय्यमाचरति स्म / एवं धर्ममयैकजीवनस्यास्य सप्त पुत्राः, पञ्च पुज्यश्च बभूवुः / तत्र सप्तसु पुत्रेषु पुनडनामा पुत्रः परमोदारस्वभावः सरलमतिः प्रतिभान्वितश्चासीत / तदीयं गाम्भीर्यमौदार्य धर्मझतां परोपकारनिरतत्वं वीरताब्च दृष्ट्वा कौटुम्बिकाः स्वकुटुम्बस्य भाविनमुत्कर्षमाशंसन्ते स्म / यथा बीज तथाऽङ्कुर इत्येवंसः स्वपितरमनुकरोति स्म / ___ भाग्यवशादेकदा शिष्यगणसमन्वितः श्रीदेवगुप्तसूरीश्वरो डिहूनगरमात्मना भूषयामास / जैनेतरांणामाश्चर्यजनकमस्य भव्य स्वागतमत्रत्यः श्रीसंघो महता समारोहेण चकार / लक्षाधिकमन्न धनमुपयुक्तमासीत् / सामयिफमुपदेशं दत्वा सभा विसर्जिता / व्याख्यानानि क्रमशः प्रारब्धानि / प्रसंगरशान्मानवो देहो दुर्लभ इति विषयेऽवोचि सूरीश्वरेण / Page #116 -------------------------------------------------------------------------- ________________ [ 101 ] महानुभावाः ! अनादिकालादयं जीवः संसारे चक्रवद् बंभ्रम्यमाणोऽवलोक्यते स्वकृतशुभाशुभकर्म“वशगः / क्वचित्सुकृतप्रभावेण देवगति कदाचिञ्चाशुभकर्मवशगः नारकीयां दुःसहां गतिमवाप्नोति / एवमस्य सुखदुःखमिश्रास्ववस्वासु बहूनि जन्मानि व्यतीतानि, अन्यान्यपि व्यत्येष्यन्ति च / अत एवोच्यते / एगया देवलोए सु नरएसु विएगया। एगया आसुरं कायं अहाकम्मेहिं गच्छइ / एवं भव संसारे संसरइ सुहासुहेहिं कम्मेहिं / जीवो पमाय बहुलो समयं गोयमा मापमायए / / . एवमस्य चतुरशीति क्षपरिमितासु योनिषु परिभ्रमणं भवतीति शास्त्रे प्रतिपादितम् / अतो येन केनचि. दपि प्रकारेणात्मश्रेयस्येव सालो यत्नो विधेयो मानवैः / नात्र मनागपि प्रमदितव्यम् / अलसस्य निरुधेमिनः सिद्धिःसुदुर्लभैव / सर्वसाधनश्रेष्ठतरे. ज्ञानसाधने न केनाप्युपेक्षा कर्तव्या / येन पश्चात्तापो न भवेत् / आत्मप्रयत्नसाध्या सिद्धिर्नान्यलभ्या / मोक्षमार्गानुसरणं बुद्धिमतां परमं कर्तव्यम् / तदर्थ मेतानि साधनान्युच्यन्ते यथा- णाणं च दंसणं चेव चरिते च तवो तहा / एयमग्गमणुपत्ता जीवा गच्छन्ति सोग्गई / / शानदर्शन चारित्रतपापि स्वस्ताराषितानि मोक्षसाधकानि भवन्ति / एतदंगाना जघन्यवृत्याश्रयणेनापि पञ्चदशसु भवेष्वस्थ जीवस्य मोक्षोऽवश्यम्भावीति सत्यमेव जानन्तु भवन्तः। एवं वैराग्यभावनाभरितं मार्मिकं व्याख्यानं श्रुत्वा सभायां संस्थितः पुनडः प्राक्तनादृष्टप्रभावोद्वोधितविरक्तिभावयुतमानसो बभव / गहमेत्य मातापितरो कौटुम्बिकाश्च तत्वतो बोधयित्वा तदनुमतो विक्रमस्य 870 तमे संवत्सरे माघशुक्ल पूर्णिमाया लिम्बाशाहेनानुष्ठिते दीक्षामहोत्सवे षोडशभिर्भावुकैर्भगवतीमाहीजिनधर्मदीक्षाम् / तदनु कल्याणकुभेत्याख्यामगमत् / असी विंशतिवर्षाणि गुरुकुले स्थित्वा वर्तमानकालीनं साहित्यं निखिलशास्त्रतत्वञ्चाध्यैत / श्रीमता देवगुप्तसूरिणाऽयमाचार्यपदे सर्वथा समुचित इति मत्वा श्रीसंघसमक्षमुपकेशपुरे सूरिपदे प्रतिष्ठापितः संवत्सरे वैक्रमे 893 तमे माघे पूर्णिमायाम् / परम्परामनुसत्य श्रीसिद्धसूरीति नाम चकार श्रीदेवगुप्तसूरिः। . समधिकविहरणशीलो धर्मप्रचारकः श्रीसिद्धसूरिः स्वशासनकाले चैत्यवासिनो शैथिल्यस्य चरा सीमामालक्ष्य संतप्तमानसस्तदुद्धारार्थ सर्वत्र विहरणक्रममंगीचकार / - सालेचाजातिः-आचार्यों विहरणक्रमेण खेटकपुरमाययो / प्राप्तस्वागतसत्कारोऽसौ धर्मोपदेश नामदात् सभायां व्याख्यानप्रसंगेन / तस्य सर्वजनमनोहरा वस्तुप्रतिपादनशैलीयुतो व्याख्यानपद्धतिं दृष्ट्वा सर्वे नागरिका मतमतान्तरं दूरीकृत्य समाजग्मुः। कर्णपरम्परयाऽचार्यवर्यस्य प्रशस्ति चालुक्यवंशीयो वीरः सालूनामा भगवद्भक्तिभजनैकप्रवणानामप्रेसरोऽशृणोत् / स च नियमतो व्याख्यानश्रवणाय सभायामायाति स्म / एकदा प्रसंगवशाद्भगवद्भक्तिविषयमवलम्ब्य विस्तरेणावादीत् सूरीश्वरः-इह हि संसारे भगवद्भक्तिमात्र. तत्पराणां भक्तानां ध्येयमुद्दिश्यैव ध्यानमालक्ष्यते सर्वत्रेति सर्वयाऽभिनन्दनीयं तत् / केचिदत्र महानुभाग ध्येयस्वरूपमपि न जानन्तो भजनादिभिर्भगवन्तमुपासते / ध्येयस्वरूपं तत्त्वतोऽबोधवन्तो न समीहितफलप्राप्त. येऽधिकारिणो भवन्तीति सार्वजनीनमिदम् / न खलु वस्तुतत्वं परमार्थतोऽज्ञात्वा तज्जन्यफललाभेनाप्यात्मनः कृतार्थताऽसादयितुं शक्यते केनापि / अतो भावुकैः प्रथमतो ध्येयवस्तुनः स्वरूपज्ञानमवश्यं कर्तव्यं येनात्मोन्नतिः साधीयसी श्रेयस्करी च स्यादिति कथयिा दृष्टान्ता अपि समुपन्यस्ताः / एतदीयं वचोऽसौ शिरोमान्यममन्यत / सूरीश्वरसमीपं गत्वा साब्जलिबन्धमबवीत् महात्मन ! यदवोचि भवता सभायां ध्यानध्येयविषये तत्तत्वतोऽधिगन्तुमभिलषामि / आचार्यश्च सत्स्वरूपमस्य बोधयन्नवोचत / प्रत्यक्षतो न भगवान् ऋषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः / तेषां स्वरूपगुणमागमसंप्रभावाद् ज्ञात्वा विचारयत कोऽत्र परापवादः // Page #117 -------------------------------------------------------------------------- ________________ [ 102.] यत्र रागद्वेषस्नेहमोहेच्छादयो विकारा न संभवन्ति स एव भगवान् देवशब्दवाच्यः / ये च भका एवंविधं भगवन्तं भजनेन, भक्त्योपासनया च सेवन्ते त एवात्मकल्याणं सौकर्येण प्राप्नुवन्ति / एवमागमनिरूपितं भगवत्स्वरूप परमार्थतो ज्ञात्वा सपरिवारोऽसौ जिनधर्मोपासको बभूव / पवित्रधर्मरागरंजितस्वान्तश्च स भीशत्रुब्जयतीर्थे भगवतः श्रीऋषभदेवस्य भव्यं मन्दिरं निरमापयत् / शत्रुजयतीर्थमुद्दिश्य च संघ निष्कासयामास / येन स्वजातीया अन्ये च प्रभूतं पुण्यं तीर्थयात्राजनितपर्जयामासुः / एवमसौ जीवनावधि धर्मकार्याण्यन्वतिष्ठत् / एतदीया सन्तानपरम्पराऽस्मादेव सालेचा जातिरिति सर्वत्र प्रसिद्धिमाप। वाघमारजातिः-तुंगीनगयो राजा सुहडनामाऽसीत् / अली ब्राह्मणधर्मोपासकः कदाचिहधाराधममुहिश्य यज्ञं कतु मियेष / शुभमुहूर्ते यज्ञारंभो जातः / विविध मूकाः पशव एकत्रिताः। अस्मिन्नेवकाले सद्भाग्यवशात् श्रीसिद्धसूरिस्तत्राययौ / पशुहनन हर्मकं यज्ञं दृष्ट्वा सत्वरमसौ राजसभां गत्वा राजानमुपदिदेश-राजन् ! दैवी सृष्टिरियं, देवाश्च कारुणिकाः रक्षकाः सर्वेषां प्राणिनां कथं ते हिंसारुचयो भवेयुः / अपरं च यथात्मनः शरीरे पीडाऽसह्या भवति तथैवान्येषां कथं न स्यात् / यदत्र शुभमशभं वा कर्मानुष्ठीयते तस्य फलमवश्यं परत्रोपभोक्तव्यम् / येन याताः पितामहास्तेनैव व्यवहारे सर्वसुखं नितरां सम्पद्यते इत्युपदि. श्य स्वस्थानमगात् सूरीश्वरः / कृतावबोधो राजा ब्राह्मणैः पुनरुपदिष्टोऽपि न तद्धचोऽन्वमन्यत / रुष्टास्ते गृहं ययुः / राजा च वृष्ट्यभावेन प्रजादुःखस्य दूरीकरणार्थ सूरिसमीपं गत्वाऽवोच / भगवन् ! भवदुक्तं सर्वमेव यथार्थमवैमि / किन्तु मदीया प्रजा वृष्टयभावेन भृशं दुःखिता, तदर्थमेव कश्चिदुपायश्चिन्त्य एव / येन देवतासन्तोषः स्याद् वृष्टिश्च भवेत् / अन्यथा रुष्टा इमे ब्राह्मणा अभिचारादिना महान्तमुपद्रवमाचरिष्यन्ति / राजत्रचो निशम्य सूरीश्वरो धर्म हदभावनाये पुनरुपादिशत् / राजाऽपि सूरिवचसि विश्वस्य राजगृहमयात् / रात्री संस्तारापोरषीं पठित्वा शयनायैच्छन्नपि सर्वजनश्रेयश्चिन्तयन निद्रा लेभे / अन्ते सच्चायिकामस्मरत् / परोक्षरूपेण सोपस्थिता सूरीश्वरमभिनन्द्यावादीत् भगवन् ! धर्माभ्युदयाय ते प्रवृत्तिः साधीयसी / अधारभ्याष्टने दिने वृष्टिरवश्यं भविष्यतीत्युक्त्वाऽदृश्यतामयासीत् / तदनु प्रभावे दर्शनार्थमागतं नृपं तथैवाष्टमे दिने वृष्टिर्भविष्यतीति जगाद / निर्धारिते दिने सहसा धारावृष्टिः पपात / आनन्दा प्लुतमानसा प्रजा राजा च जिनधर्माभिरुचयो विना विलम्बन जिनधर्म स्वीचक्रुः / वंशावलीष्वियं घटना 933 वि० संवत्सरे ज्येष्ठशुक्लसप्तम्यामजनीति स्पष्टमुल्लेखः। अस्यैव राज्ञः सूर्यमल्लेत्यपरं नामासीत् / तस्य सलक्षणनामा पुत्रः कदाचित् केनचित् कार्यप्रसं. गेनाश्वारूढः कुत्रचिद् ययौ / सूर्यास्तसमयेऽसौ समीपवर्विनो वेणीनगरराद् बहिः स्थितस्य कस्यचिद् गृहे रात्रीनिवासार्थमाजगाम / तन्नगरं तदानीमवरुद्धद्वारमभूत् / गृहाधिपतिस्तमवोचत्-महाशय ! प्रतिरात्रमत्र कश्चिद् व्याघ्र प्रआयाति तद्भयात् सर्वाणि द्वाराणि सायंकालादेवावृतानि क्रियन्ते / अतो भवानपि स्थानान्तरं रक्षणायान्वेषयतु / असौ तु पौरुषातिरेकात् तस्य वचो नाजीगणत् / तत्रैवासौ सावधानेन स्थितो यावद् ध्याघ्र आयाति तावदेवैकेनैव खड्गप्रकारेण द्वेषाऽकरोत् / प्रातर्नागरिकास्तंब्यानं मृतं, एनं चाक्षतशरीरं च दृष्ट्वा रामानमवोचन् समप्रं वृत्तान्तम् / राजा च हर्षेण प्रत्युद्वजन स्वागतेन विधिना नगरप्रवेशमकारयत् / तदीयपराक्रमसन्तुष्टमानमोऽस्मै लक्षपरिमितान् रुप्यकान् कांश्चिद् प्रामान दत्वा च स्वप्तमीप एवास्थापयत् / तत भारभ्यास्य वंशजा बाघमार-जात्या-प्रसिद्धिमगमन् / वाघचारेति नाम भ्रममूलकम् / व्याघ्रमारेति संस्कृतस्य सार्थकस्य शब्दस्य स्थाने रूढ्या वाघमारेत्यपभ्रंशशब्दप्रयोगः / मंडोवरा जाति:-प्रतिहारदेवादीन् / मांसभक्षिणः क्षत्रियान सूरीश्वरः प्रतिबोध्य मांसमदिराद्यभक्ष्यभक्षणान् निवर्त्य विक्रमस्य 939 तमे संवत्सरे जिनधर्मदोक्षितान करोत् / एतेषां निवासस्थानं मागउन्यपुरम. Page #118 -------------------------------------------------------------------------- ________________ [ 103] भूत्ततस्ते मण्डोवरा नाग्मा प्रसिद्धाः / एतद्वंशीया महाप्रभावशालिनो दिगन्तविश्रुतकीर्तयश्च बभूवुः / . मल्ल-जाति:-खेडीपुराधिपस्य गठोडोपावं रायमल्लं जिनतत्वं संबोध्य वैक्रमे 945 हायने दीक्षितमधत्ताचार्यः / उपकेशीयवंशेऽस्य सन्तानपरम्परा मल्लजात्या ख्यातिमगात् / वीतरागा-कीडेचा-सोनी. सुखिया-महेता-नखरादयोऽस्या एव जातेथेंदा गण्यन्ते / अत्रापि बहवो दानवीरा धर्माचरणशीला महापुरुषाः समुत्पन्नाः। छाजेडजाति:--आचार्यः श्रीसिद्धसूरिविहरन् शिवगढनगरमगमत् / समहोत्सवं भावुकैरसौ सत्कृतः पुरं प्रवेशितः / यदाऽसौ शिवगढ कृतावस्थितिरासीत्तस्मिन्नवसरे नगराधिपते गठोडोपावस्य-श्रासलरावस्य सूनोः कन्जलरावस्योद्वाहविधिरासीत् / एकदाऽचार्यस्य शिष्यः कश्चिन्मुनिः शौचाथै कस्यचिद् वृक्षस्य व्यवधानमाश्रित्य स्थितस्तदा मृगयां गतस्य कस्यचित् क्षत्रियस्य बाणासनयन्त्रमुक्तो लक्षभ्रष्टो बाक्ष्यणस्तस्यैव साधोर्जा भित्त्वा दूरं पपात / अन्यः साधुः शौचविधि समाप्य यावदस्य समीपमायाति सावदेनं मूर्छितं ददर्श / बाणक्षेप्तारं ऋद्धोऽसौ मुनिर्बह्वभयित् / कृतापराधोऽप्यसो गर्वपूर्णहृदयस्तवाप्येषा गतिर्भविष्यतीत्यवादीत् / कथंचित स्वस्थप्रकृतिं विधाय मुनि सहैव नीत्वा गुरुसमीपमेत्य मदोद्धतानां क्षत्रियाणां सन्मार्गस्थापनार्थ शासनलघुतापरिहारार्थ च भाव्यनर्थनिवारणाय चावश्यं शिक्षा समुचिते त्युक्त्वा-निखिलवृत्तान्तं निवेदयामास / समुचितमस्य वचः समाकर्ण्य सूरिरसावुपायं चिन्तयामास / अन्यत्र क्षत्रियकृतं मुनेरुपद्रवं ज्ञात्वा भृशं खिन. मानसो महाजनसंघः कुद्धः सन् प्रतिकारार्थतत्परोऽभूत / क्षत्रिया अपि मद्धोद्धताः कृतमध्यपराधमकृतंमन्यमानाः प्रतिकारतत्पराय महाजनसंघाय दह्यन्ति स्म / पक्षद्वयं परस्परसंप्रहारायोद्यतमासीत् / महाजनसंघेन क्षत्रियपक्षाय निवेदितम्-भवन्तः सर्वे सूरीश्चरसमीपे क्षमा याचयित्वा विरोध परिहरन्तु / क्षत्राभिमानमदमत्ता नास्य वचो गणयामासुः / अतो विषमा परिस्थितिरभूत् / सूरीश्वरश्च करुणावलयः कथमसावुपद्रव उपशाम्येत् , क्षत्रियाश्च शिक्षिताः स्युरिति विचारयन् रात्री भगवतीं सच्चायिकामस्मार्षीत / सा च परोक्षरूपेणोपेत्य समाश्वासनपूर्वकमेनमगादीत्-भगवन् ! नात्र काचिच्चिन्ता विधेया / प्रातरेव सर्वमिदं तन्त्रं संक्षुब्धमप्यपगतवैरं शान्तिमेष्यति / तन्निमित्तं च भवदीयं यशः सर्वत्र प्रसरिष्यतीत्युत्तवा यथागतमगात् / श्रथ मांसभोजिनः क्षत्रिया गत्रावाहारार्थ मिलिता मांसं पाचयामासुः / दैववशात् पवितो विषजन्तुरपि पाकेन सह मिलितो येन मांसभोजनाः सर्वे ते विषव्यथामर्थिता वभवः। प्रातस्तान तदवस्थान दृष्टा साधोय॑थाजननिमित्तमिदं फलं, मन्त्रतन्त्रविचक्षणसाधुसमुदायस्येदं चेष्टितं, जिनमुनीनां मायेयमिति बहुविधं प्रालपन जनाः। ओसवालजातीयः संघो महदिदमकारणं दूषणमापतितमस्मास्विति तदपनोदनार्थमवशिष्टमांसस्य परीक्षणं कर्तव्यमिति यावत् परीक्षन्ते तावद्विषमिश्रितमिति निर्णयो जातः / सूरीश्वर एव सर्वान् सचेतनान् विधातुं शक्ष्यति इति मत्वा सप्रश्रयं तत्समीपमुपेत्य लज्जावनतमुखाः क्षत्रियाः सखेदं क्षमा ययाचिरे / असौ च समाश्वास्य देवगुरुसाधूनामाशातनं कदापि प्रमादेनापि न विधेयं भवद्भिः / न हि रक्षकाणां रक्ष्येषूपद्रवः शोभते / महाजनसंघेन सूरीश्वरचरणप्रक्षालितं जलं मूर्छितानामुपरि प्रक्षिप्तं येन ते झटिति सचे. तना बभूवुः सूरीश्वरपुण्यप्रभावात् सच्चायिकायाः साहाय्याच्च / आचार्यप्रभावप्रभाविता आत्मानमनुशोचन्त. स्ते सर्वे जिनधर्मोपासकाः शिष्यतामगमन कज्जलेन सह केवलं चमत्कारदर्शनेनाकष्टचेतसां धर्मभाव मला संपद्यत इति मत्वा स सर्व प्राणिनोऽस्मामिरात्मदृष्टया एव दृष्टव्याः, श्रात्मनः सत्स्वरूपज्ञानार्थ हिंसामयैकजीवनं लुब्धप्रकृति गुरुमपास्योदारचरितः सर्वजगद्धितभावनोपपन्नस्त्यागमयैकजीवनो निस्पृहः कर्तव्य पथप्रदर्शको गुरुः संसेव्यः सर्वतोभावेनेत्युपादिशत् / पट्टावलीकारैरिय घटना वि० सं० 942 तमेऽन्दे समबनीत्युक्तम् / क्षत्रियास्तत्स्मरणार्थ शिवगढनगरे विशाल महावीरमन्दिरं निर्मापयामासुः / राव-कज्जलस्थ Page #119 -------------------------------------------------------------------------- ________________ [ 104 ) पुत्रो रावधवलो बभूव / तत्सूनुः छाजूरावो यो देव्याः सञ्चायिकायाः प्रसादेनाक्षयं धननिधिं लेभे / परमधार्मिकोऽसौ भगवतः श्रीपार्श्वनाथस्य सुशोभनं मन्दिरं शिवगढ़े निर्मापयामास / शत्रु मयादितीर्थयात्रार्थ संध निष्कास्य स्वजातीयेभ्यः सुवर्ण मुद्रिकाप्रभावनं चकार / धार्मिकेषु कार्येष्वसौ कोटिपरिमितं द्रव्यमुपायुक्त / एवमस्य सत्कर्मानुष्ठानजन्यं शुभ्रं यशः सर्वत्र प्रससार / एतज्जातीयाः सन्त'नपरम्परा छाजोड-जात्या विश्रुता बभूवुः / नत्राचावा-संघवी-भाखरिया-नागावत-महेता-रूपावतादिका अस्य बह्वयः शाखाः प्रादुरभूवन् / गान्धी-जातिः-श्राचार्यः श्रीसिद्ध सूरीश्वरः कस्मिश्चित्समयेऽर्बुदाचलं प्रति विजहार मध्येऽरण्यस्य देव्या मन्दिरस्यैकस्मिन् भागे सर्वे क्षत्रिया अपरत्र च हननार्थमजामहिषादयः पशवः स्थिताः। मार्गभ्रा. नत्या स प्राचार्यस्तत्राजगाम / दर्याद्रचेताः सूरीश्वरो जीवहिंसानिषेधाय तानुपादिशत् / मदोद्धत्तास्ते न किंचि. दपि शुश्रुवुः / तथापि स्थिरनिश्चयः स तन्मध्यात् कांश्चित् पृथक् कृत्वा मिथोऽगादीत-भव्याः! जगदम्बिकेयं सर्वस्य जगतो माता। कुपुत्रो जायेत क्वचिदपि कुमाता न भवति / यथा सा युष्मान रक्षति तथैवान्यानपि / अतो निरयमात्रफळा हिंसां त्यक्तवाक्तवादयावृत्तयो भवन्तु / एवं युक्तिप्रचुरमुपदिश्य तानखिलान् पशूनमोचयत् / सर्वे च ते स्वोद्योगं मनसि निदन्तो मिथो विचारयन्तः सूरीश्वरसमीपमहिंसामयं जिनधर्म सिषेविरे / तस्मिन् चत्रसमूहे गवरखंगार-रावचूडा-रावअजह-रावकुभादयोऽप्रेसरा आसन् / तत्र रावखंगारस्य सन्तानपरम्परायां सप्तमः कल्हणरावो बभूव / तस्य नवसु पुत्रेषु सारंगः केसरकस्तूरीकग्धूपादिवस्तूनां वाणिज्यमकरोद् येन जनास्तं गांधीति नाम्ना संवोधयामासुः / अस्य परम्परा गांधीत्यभिधेयेन प्रसिद्धिमगमत् / वस्तुपालस्य तेजपालस्य कारणेन ल्होडासाजन, बड़ासाजनेति शाखाद्वयं जातम् / टेलडिया वोहरा-श्राचार्यस्याज्ञापालकः पण्डितो राजकुशलो मुनिगणसहितो विहरन् चन्द्रावतीम. मिप्रतस्थे / काननस्य मध्येऽन्येऽश्वारोहा पाययुः / मार्गागतवटवृक्षसमीपस्थिताया वाप्या एकदेशे विश्रामाप राजकुशलादयस्तस्थुः / अश्वारोहाश्च तस्यैव वृक्षस्याधस्तात् स्थितिमकार्षुः / तत्र कश्चिदेको मुनिसमीपमेत्याब्रवीत्-भवन्तः सर्वे कुतस्त्याः कुत्र गच्छन्ति ? मुनिश्च तमगादीत्-वयं सर्वे जिनश्रमणा अनियतवासा यत्र धर्मप्रचारः शक्यते कर्तुं तव गच्छामः / ततः स उवाच-मन्त्र-तन्त्रादिकं भूतभविष्यद्विषयकं जानाति भवान् ? यदि च जानाति तर्हि कथयतु-अस्माकं राज्ञो माधोजीरावस्य गृहे पुत्रो भविष्यति न वा / श्रुत्वा तद्वचनं निमित्तज्ञोऽसौ राजकुशलोऽब्रवीत् / यदि पुत्रः स्यात्तदा किं करिष्यति भवान् ! तेनोक्तम् राज्यं धनं वा यदिष्यते तत्सर्वमेव भवदभिलषितं राजा पूरयिष्यत्यवश्यम् / निःस्पृहा न वयं राज्यं धनं वा ऽभिलषामः किन्तु जाते पुत्रे संसारसागरसंतारकः परमपुनीतो जिनधर्म आत्मकल्याणाय राज्ञा स्वीकार्यः। तथेति कथयित्वा शीघ्र. मसी राजसमीपमुपेत्य सर्व वृत्तान्तं निवेद्य तेन सहैव तत्रागत्य तस्मै तमदर्शयत्। राजा च सप्रश्रयं तं प्राणसीत् / मुनिरसौ तदुपरि वासःक्षेपमकरोत् / परमसन्तुष्टमना राजा साग्रहं सपरिवारं तं सोनगढ़नगरं नीत्वा भव्यस्वागतेन वसतिमकारयत्। मासावधिकमत्र धर्मव्याख्यानादिकं कृत्वा पुनरसी राजकुश नो व्यहार्षीत् / अथ प्राप्तगर्भा राज्ञी समाप्ते नवमे मासि देवोपमं तेज पुजपुञ्जितं कुमारमसूत / परमानन्दसन्दोहसंभृतान्तरङ्गो राजा महाजनसंघद्वारा सिन्धप्रान्ते मालपुरे चतुर्मासनिमित्तं कृतावस्थितिं मुनिमुपलभ्य तमाह्वातुं सेवकांस्तत्र प्राहिणोत् / सविनयं प्रेषितवृत्तान्तं विज्ञाय मुनिः समाप्ते व्रतेऽइमागमिष्यामीति प्रतिसन्देशं हारयामास / ते च तत्र प्रतिनिवृत्य तथैव न्यवेदयन् / समाप्य व्रतं सशिष्यो राजकुशलः शिवगढनगरमयासीत् / महता समारोहेण हार्दिकमस्य स्वागतं राज्ञा पौरैश्च विहितम् / पूजाप्रभावनादिकं विधाय सपरिवारो राजा माधोजीरावो राजकुशलसकाशाजिनधर्म वीचार / तस्मिन्नगरे श्रीमद्भगवतो महावीरस्य जिनालयो निर्मापितो यस्य च प्रतिष्ठा श्रीसिद्धसूरीश्वरपाणिपंकजेन विहिता / शत्रुब्जयतीर्थयात्रायै शुभे दिवसे संधं Page #120 -------------------------------------------------------------------------- ________________ [ 105 ] निष्कासयामास / रैवतकतीर्थयात्रामपि विधाय स्वजातीयानां सन्मानं कृत्वा महाजनसंघेन सह भोजनोद्वा. हादिभिः व्यवहारैः संबंधमकार्षीत् / अस्यैकादशो नौघणरावो महाभाग्यवान् विविधव्यापारकुशलो बभूव / असौ ढेलडियाग्रामे स्थित्वा कुसीदव्यवहारमकरोत्। ततस्तन्निवासिनो जनारत-ढेलडिया वोहरा-पदेन संबोधयामासुः / तत प्रारभ्यास्य सन्तानपरंपरा तथैव प्रसिद्धिमगात् / अत्र बहवो हि गजकर्मचारिणो महामात्या, ब्यापारिणो राजनैतिका, धार्मिकाच महापुरुषाः प्रसिद्धिमवापुः / अस्या अपि बहव्यः शाखाः प्रशाखाश्च विस्तृता बभूवुः / एवमस्याचार्यवर्थस्य शासनकाले तदीयाद्वितीयप्रभावेण बहव उपकृता जिनधर्मसंसेवका गजानो महाराजानश्चात्मकल्याणमधिजग्मुः / संप्रदायशैथिल्यमपि सर्वथा दूरीकृत्य सर्वतोभावेन जिनधर्मदायमापा. दितम् / आज्ञापालनतत्परा अनेके शिष्याः सर्वत्र भारते धर्मप्रचारार्थ विजहः / स्वयमपि तथैव सर्वत्र विहरणेन धर्मप्रचारं, जनताया धर्मेऽधिकां च रुचिमापादयन् बाहुल्येन जिनधर्मसाम्राज्य स्थापयामास / षष्टिवर्षपर्यन्ते शासनकालेऽनेके मुमुक्षवो दीक्षा जगृहः। मंदिराणा मूर्तीनां च निर्माण संस्थापनश्च प्रबलतरेणोत्साहन संपन्नम् / बहूनां संघानामप्यायोजनेन जनहितसाधनमपि संपादितम् / वादिनां विजयेन तदा सर्वत्र जिनधर्मपवाका समुल्लसति स्म! अन्ते च तत्रभवानाचार्यवर्यः श्रीसिद्ध सूरिन गपुरे श्रादित्यनागगोत्रस्य चोरडियाशास्त्रीयेन श्रद्धाभक्तिसमन्वितेन मलुकशाहेन नवलक्षद्रव्यव्ययेन समनुष्ठिते आदित्यनाथस्य भगवतश्चैत्यालये महामहोत्सवे चतुर्विधसंघसमक्षं मुक्तिसुन्दरं नामोपाध्यायं संस्थाप्य श्रीककसूरीति नाम च कृत्वा स्वपट्टे संस्थापयामास / मस्मिन्नेव शुभावसरे समुचितेभ्यः शिष्येभ्य चितपदवीप्रदानमध्यकरोत् / अन्तिमसंलेखनासक्तोऽसौ चतुर्विशतिदिनान्यनशनेनातिवाय स्वर्गपथप्रवासी बभूव / वि. सं. 152 तः ] 45 प्राचार्यः श्रीकक्कसूरिः (दशमः) वि. सं. 1011 प.] - अत्रभवानाचार्यवर्यः श्रीककासूरिः प्रखरतपःक्षपितमनोमलः शासन शुभाभ्युदयेक कर्ममर्मपारगो हिंसादयाक्षमादिसकलगुणगणालंकृतो रुचिरमूर्तिराचार्यपदं भूषयामास / असी गोसलपुरवास्तव्य आर्यगोत्रीयश्वासीत् / अस्य पिता धर्मकर्मसमासक्तचेता व्यापारलब्धाधिकद्रविणराशिजंगमल्लशाहो माता च मनोवाकायकर्मभिः पतिहि / तनिरता धर्माचरणप्रिया सोनीनामिका / पूर्वजन्मकृतसुकृतप्रभावेण संप्राप्तसंपत्समन्वितोऽसौ जगमलोऽपरो धनाधिप इवात्र पुरे व्यराजत / धनव्ययेनात्मकल्याणाय स वारत्रयं तीर्थयात्राथै संघ निःसारयामास / स्वजातीयेभ्यस्तथैव सुवर्णमुद्रिका वस्त्रालंकारादिकं च दत्वाऽत्मकर्तव्यमन्वतिष्ठत् / अस्य सप्त कुलभूषणाः पुत्राश्च. तषश्च कन्यका आसन् / तत्र मोहननामा सूनुः परमभाग्यवान् प्रचण्डप्रभावश्वासीत् / एकदा तदीयपुण्यानुयोगादाचार्यवर्यः श्रीसिद्धसूरिगोसलपुरमाजगाम / तदीयमुपदेशमनुमान्य जगमल्लशाहः संमेतशिखरयात्रायै संघ निष्कासयामास / मोहनश्च बाल्यादेवाप्तधर्मसंस्कारः सूरीश्वरशुश्रषायां स्थितो धार्मिकवार्तालापेन परमसौख्यं प्राप / सूरेः पादत्राणाभावे कण्टकाद्यावृते पथि संचरणेन द्वाविंशतिपरिमितानां परिषहाणामनुभवेनाश्चर्यान्वितः सः सूरिमगादीत् / भगवन् ! साधारणया वृत्त्या निर्वाहं कुर्वन् भवान् किमर्थमीदृशानि दारुणानि दुःखान्यनुभवति ? तदीयमज्ञातमुनिभावं वचनं श्रुत्वा सूरिस्तमाह-वत्स ! मुनिजीवनत्य चारित्रविषयिणी सूक्ष्मतमा वृत्ति त्वं न जानासि चैनैवं वदसि / श्रावयोः सुखसमृद्धियुतः पन्था भिन्न एष / साधुजीवनजीवनाय महाप्रभावैश्चक्रवर्तिभी राजभिरक्षयो धननिधिः समृद्धिमद्राव्यमपि, दूरमुत्सारितम् / न धनमेव धनमाहुः शास्त्रकाराः किन्तु यस्य निरुपमसुखसाधनमा त्मज्ञानमेव वियते तदेव तस्येह परत्र च कल्याण Page #121 -------------------------------------------------------------------------- ________________ [ 106 ] परम्परासाधक धनमिति / सम्यग्दर्शनेन ज्ञानेन चारित्रेण च सह यावत् शरीरदमनं क्रियेत तावदेव भाविसुखलब्धये कल्पते / एवं ज्ञानवादेन समयमतिवाहयन्नसौ सम्मेतशिखरतीर्थम'ससाद / तदनन्तरमेव दीक्षाग्रहण भावनां पित्रे निवेदयामास / माता तु दोक्षानामप्रहणेन स्वचेतसि परं दुनोति स्म / तथापि संसारमिःसारतां बोधयित्वा तदाज्ञां मोहनोऽळभत / त्रयोदशभिर्भावुकैः सह शुभे मुहूर्ते भरावती जिनदीक्षा सूरीश्वरवरदहस्तेन स्वीचकार / ततोऽसौ मुनिसुन्दरेति नाम्ना प्रथितो बभूव / चतुर्विशतिवर्षपर्यन्तं गुरुकुले स्थित्वा काव्यव्याकरणन्यायगणितमन्त्रतन्त्रादिविविधागमतत्वचिन्तनपरायणः सर्वगुणविद्योतितजनमनोमोदकोऽसौ विक्रमसंवत्सरे 952 तमे नागपुरे चोरलियाशाखीयेन मलुकथाहेनानुष्टिते पट्टमहोत्सवे भगवत आदिनाथस्य चैत्यालये संघसमक्षं सूरीश्वरेणाचार्यपदे प्रतिष्ठापितः श्रीककसूरिनाम्ना / ___ अनुसृत्य पूर्वाचार्य परम्परामसौ पञ्चशतसंख्यकैर्मुनिभिः सार्द्ध सौराष्ट्रप्रान्तं व्यहार्षीत् / तत्र तीर्थराजस्य श्रीशत्रुजयस्य यात्रा संपाद्य प्रामनगरेषु व्याख्यानादिना धर्माभ्युदयं कुर्वन् कच्छदेशं पावयामास / तत्र भद्रेश्वरनगरे स्थितानां धर्मप्रचारार्थ विहरतां साधूनां समागमं प्राप्याभिनन्दनेन प्रचारकार्यप्रोत्साहन मकरोत समुचितेभ्य: पदवीप्रदानेन / ते च सर्वत्र द्विगुणितोत्साहेन धर्मप्रचारमकार्षः। सूरीश्वरश्च ततः सिन्धप्रान्तं विहार क्रमेणागमत् / तत्र पातोली-वीरपुर-मारोटकोटादिषु नगरेषु भावुकानां हृदयानि धर्मामृतो. पदेशेन भावकानि कुर्वन् उमरेल पुग्मेत्य चतुर्मासावस्थानं निश्चिकाय येन शासनकाय सौकर्येण सम्पादितम् / तसच जन्मभूमि गोसलपुरमलमकार्षीत् / जनाश्च महता गौरवेणास्यापूर्व स्वागतं कृत्वा वदुपदेशामृतमादरात् पिबन्त आत्मानं पावयांचक्रुः / एकादश भावुका वैराग्यरागपूर्णान्तरंगा दीक्षा जगृहुः / मांसमदिराद्यभक्ष्य. भोजिनश्चाहिंसाधर्मरुचयो बभूवुः / एवं धर्मकर्म समाप्य सूरिः पन्जाबप्रान्तमयासीत् / श्रावस्त्यां नगयो संघसभायोजनं कृतवान् / तत्र कुरुपन्चालशौरसेनादिषु विहरन्तो मुनयः श्रावकाश्च समाजग्मुः / सूरीश्वरस्योपदेशेन विशेषतो धर्मजागृतिः संपन्ना। मुनयश्वोपाध्यायगणिगणावच्छेदकादिभिः पदैः सम्मानिताः समुत्साहा धर्मप्रचाराय यत्र तत्र विजः / ततश्च मथुरामागच्छत् / तत्र वैदिकवौद्धधर्मानुयायिनस्तथैव जिनधर्मानुरागिणोऽपि बहुसंख्याका अवात्सुः / ततस्तेन स्याद्वादकर्ममार्गप्रतिपादकेन सामाजिकहितकारकेण व्याख्यानेनापूर्वो धर्माचरणोत्साहः प्रेरितो भावकानां चेतःसु / ततो प्रामनगरेषु विहरन् मत्स्यराजधानी वैराटनगरं गत्वा धर्मप्रचारन्य कृत्वा तदनु सूरीश्वरः-अजयगढ़नगरमबजत् / संघानुमतस्तत्रैव चातुर्मासिवा स्थितिमन्वमन्यत / असाधारणवैदग्ग्यपूर्ण व्याख्यानं सादरं समाकर्ण्य जातवैराग्या द्वादश भावुका दीक्षामगृह्णन् / पश्चात् पद्मा. वनी-शाकंभरी-डिडूपुर-हंसावल्यादिषु विहरन् नागपुरमयासीत् / तत्रैव चतुर्मासावस्थानेन सर्वेषां धर्माचरणशास्त्रसेवनदेवपूजाप्रभावनादीनि शिक्षयामास / नक्षत्र-जाति:--मुग्धपुरेऽक्षयद्रव्यमिधिर्महाकुटुम्बकः सदाशंकरनामा विप्रवर्यो मन्त्रविद्यासाधनोपायेनोपाश्रयस्थितमाचार्य कश्चित् सप्रश्रयमुपेत्य कश्चिन्मंत्रोपदेशयाचममकार्षीद् द्रव्यलिप्सुः, तेन च प्रसन्नहृदयेन नक्षत्रमंत्र उपदिष्टस्तत्साधमप्रकारश्च प्रदर्शितः / असौ च गृहमेत्य षसमासावधिकमनुष्ठानमारभत / अवशिष्टे दिनत्रये स्मशानं गत्वा मन्त्रं साधयामास येनानुचित प्रकाराचरणेनोन्मत्तो बभूव तत्कुटुम्बश्च महहःखमवाप बहुभिरुपायैश्चिकित्सितो न प्रकृतिं गतः। आचार्यः श्रीककसूरिरस्मिन्नेव समये मुग्धपुरमाययौ / संघेन भव्येन स्वागतविधिना सत्कृतो मन्त्रतन्त्रादिविषयक व्याख्यानमदात् / तदीयालौकिकशास्त्रकौशलाकृष्टमानसा ब्राह्मणाः सविनयं तमुपेत्य सप्रणाम न्यवेदयन्-भगवन् ! ब्राह्मणमेतं महतो दुःखादुद्धरतु भवभिलषितमवश्यं वर्ष पूरयिध्याम इति स्नेहभरितं करणार्द्र वचो निशम्य जातदयोऽसौ तानगादीत्-भवन्तः सर्वे विहायैनं स्वगृहं गच्छन्त प्रातरेवासी स्वस्थप्रकृतिको भविष्यति / समुत्पन्नविश्वासास्ते तथास्त्वित्युक्त्वा स्वगैहं ययुः / प्रातरेषासी Page #122 -------------------------------------------------------------------------- ________________ [ 107 ] सूरीश्वरालौकिकप्रभावेण प्रकृतिमापनः 'जिनधर्माचरणप्रभावमुदितमानसो जिनदीक्षां स्वीचकार / ब्राह्मणाश्वाचार्यप्रभावमुग्धचेतसो यथाप्रतिज्ञं जिनधर्म सिषेविरे / अस्य परम्परा नक्षत्रजात्या सर्वत्र प्रसिद्धिं लेभे / धीया-जातिः / अस्या एव नक्षत्रजातेरियं जातिः प्रादुर्व भव / यथा व्यापारार्थ स्तम्भतीर्थ (खंभात. नगरम् ) ययुनक्षत्रजातीयाः केचित् / व्यापारे च प्रचुर द्रव्यमवाप्य तत्रैव न्यवात्सुः / जिनधर्मानुरागिणा दल. पतशाहेन जिनालयनिर्माणमाब्धम् / तदर्थ च शिल्पिनः कर्मकराश्चादिष्टाः / जातं च भूखननम् / तदनु कश्चिच्छिल्पी श्रेष्ठिनो गृहमाजगाम यावदसौ भोजनमकरोत् / घृतपात्रे पतिता मक्षिकामसौ निष्कास्य स्वपादेऽस्थापयत्। संपाच भोजनविधिमसौ बहिरागच्छत् / शिल्पिना तत्सर्वमेवास्य चेष्टितमवलोकितमासीत् / श्रेष्ठिन् ! भूखननं संपन्नम् / प्रातरवोष्ट्रशतभारवाह्यप्रमाणं तत्र घृतमपेक्षितं यतो मूलदाय स्यात् / एवमस्य शिल्पिनो वचः श्रुत्वा प्रभाते तत्र प्रेषयिष्याम ति तमाह श्रेष्ठ / असौ च गृहं गतः / जातं प्रभातम् / श्रेष्ठी च प्रातस्तत्र गत्वा तावरप्रमाणं घृतं नीत्वाऽब्रवीत्तम / भोः शिल्पिन् ! अधिकमपेक्षितं तर्हि वक्तव्यं किन्तु मलदाय विधेयम् / श्रुत्वा चासौ विस्मितः सन् जहास / हासकारणं च तं पप्रच्छ श्रेष्ठी / तेनोक्तम् - घृतान्मक्षिका निष्कास्य पादे स्थापयता भवतेदृशं स्नल्वौदार्य प्रकटितमिति हेतो, हासः। श्रुत्वा च श्रेष्ठी तमाह-भवन्तो जानन्तु वयं महाजनाः / धर्मकार्ये धनोपयोगार्थ न किंचिद् विचारयामः / धनाद् धर्मोऽधिकतरः / अत एव च मक्षिकायाः पादे संस्थापनेन चर्मसृदुत्वं पिपीलिकाम् तद्ग्रहणार्थमागतानां हिंसनश्च न स्यादिति श्रुत्वाऽसौ लज्जितोऽभूत् / दलपतशाहेन द्विपञ्चाशदुपमन्दिरयुक्तो भव्यो जिनालयो निर्मापिता यस्य प्रतिष्ठाविधिराचार्येण सम्पादितः / एतदीया परम्परा घीयाजात्या व्यवहृता / घटनेयं वैक्रमे 1123 समे संवत्सरेऽजनीति विभाव्यम् / संघी-जातिः-नक्षत्र जातीयो मालाशाहो विक्रमस्य 1145 तमेऽब्दे नागपुरान् महान्तं संघ निष्कासयामास तो तद्वंशजाः संघवीजातोया इति प्रसिद्धिमगमन् / गरीया-जाति:-नक्षत्रजतीयः सवलाशाहो गरीयाप्रामाध्यक्षेण सह वैमनस्यं प्राप्य पाटणनगरं निवासाय गत इति हेतोस्तत्रत्यास्तं गरीयेत्युपनाम्नाऽजुहवुः / तत्परम्परा गरीयानाम्मा विश्रुता बभूव / खजानची-जाति:-विक्रमस्य संवत्सरे 1242 तमे गरीयाजातीयो रूपणशीशाहो धारानगर्या तदधिपतिना कोषाध्यक्ष पदे नियुक्ततता कोषाध्यक्षं खजानचीपदे नाह्वयन जनाः / अस्य पुत्रेणोदयमाणेन धारा. नगर्या भगवतः पार्श्वनाथस्य भव्यो जिनालयो नि पितो यस्य प्रतिष्ठामहोत्सको वि० सं० 1282 माघशुक्लपंचम्यामनुष्ठितः / एतद्वंशीया खजानचीपदेन प्रसिद्धः।। कागजातिः-एकदा सूरीश्वरो विहरन लोद्रवापत्तनं प्रतस्थे / मध्ये कागनाम्नी सरित्समागता / यस्यास्तटे कागनामा महर्षिः शिष्यमंडलसहितोऽग्निकुण्डं संस्थाप्य स्थितः / अनेन सूरये सत्कारार्थमासनं दत्तम् / स च रजोहरणेन भूमिशोधनं कृल्या स्वकीय भासन स्थापयित्वोपविष्टः / तापसेन तत्कारणं पृष्टम् / सूक्ष्मजीवानां हिंसापरिहारायेदं समाचरणमिति कथितोऽसौ स्वासनं पश्यति तावदसंख्याः पिपीलिका ददर्श / पश्चात्तापयुवमानसोऽसौ श्रीकक्कसूरिमहिंसातत्त्वस्वरूपमपृच्छत् / तेन च सयुक्तिं सप्रमाणं जिनधर्मतत्त्वपुर:सरमहिंसास्वरूपं वर्णितम् / आत्मकल्याणसाधनायायमेव, जिनधर्मः कल्याणकर इति मत्वा सर्वशिष्यमंडल * सहितो दीक्षां जप्राह / तस्य तापसगुणानुरूपं तपोमूति नामकरणं कृतम् / अस्य परिचर्यारतो रोलीग्रामाण्यवः पृथ्वीपालोऽपि सूरीश्वरप्रभावप्रभावितो वासःक्षेपपूर्वक शुद्धि प्राप्त उपकेशवंशे समाविष्टः सूरिणा। कागर्षे: स्मृतिचिह्नर्थ पृथ्वीपालादयः क्षत्रियाः कागनाम्ना लोके प्रथिताः / पृथ्वीपालस्याग्रहमनुमान्याचार्यों रोलीग्राम गत्वोपदेशदानेन सर्वान् जिनधर्मतत्वं बोधयामास / बहवश्च सूरीश्वरवरदहस्तेन दीक्षामहिषुः / श्रस्चा घटनाया विक्रमस्य 1011 तमः संवत्सरः सम / Page #123 -------------------------------------------------------------------------- ________________ [ 108 ] बागरेचाजातिः-प्रथैकदा विहरन्नाचार्यः सायं मार्गागतस्य देवीमन्दिरस्य समीपमाययो / मन्दिर एव सामयिकी स्थितिमकृत / ततोऽर्धरात्रे सुप्तान मुनीन् दृष्ट्वा व्याघ्रवाहना देवी समागता रोषारुणितनयना ज्ञानध्यानक्रियानिरतं सूरीश्वरं साटोपं ततो निर्गन्तुमाह / तेन च यथा तथा वा भवतु किन्तु सायंकालादनन्तरमस्माभिहिंसादोषपरिहारार्थ पदात् पदमपि प्रचलितुमशक्यमित्युक्त्वा सूक्ष्मदृष्ट्या तदाचारस्वरूपमस्यै विस्वरश उपदिष्टम् / श्रुत्वा च प्रसन्नवदनपुण्डरीका देवी तदारभ्य शुभां प्रतिज्ञामकरोद्-भगवन् ! अद्यारभ्य नाहं जीवहिंसानुमोदन करिष्यामि भवानत्र दृढं विश्वसितु / एवमुक्त्वा साऽन्तर्दधे / प्रातश्च केचन क्षत्रिया अजामहिषाधुपहारनिवेदनेन देवी प्रसादयितुमत्राजग्मुः / मन्दिराद् बहिर्निगन्तुं तान् व्यज्ञापयन् / ततः सूरीश्वरस्तदोयां, हिंसाप्रवृत्तिं वार्ता. लापप्रसंगेन विदित्वा हिंसानिषेधार्थमादिदेश तान्। तत्रैकोऽप्रेसरस्तेषां सूरिवचनमनाहत्याजागलस्योपरि खङ्गप्रहारमकरोत् / स एव खगस्तस्यैव, गले पतितः पञ्चत्वं च गतः / अतो गजसिंहरावादयः क्षत्रिया भयत्रस्तमनसः क्षमा ययाचिरे / सूरीश्वरेण समाश्वासिता धर्मतत्वमुपदिष्टा जिनधर्मदीक्षां जगृहुः / रावगजसिंहस्य द्वे भार्ये बभूवतुः चत्वारश्वः पुत्राःतत्र ज्येष्ठो दुर्गासिंहः / मियो जाते कलहे तेन बाघा. नामको भ्राता सकटाक्ष मुक्तः-रे मूर्ख ! यदीहशस्त्वं, पौरुषातिरेकनिधिस्तहि, नूतनं किमपि राज्य स्थापयिष्यसि . किम् / ततोऽसौ भृशमुद्विग्नमानसो व्याघेश्वरीमन्दिरं गत्वा दिनत्रयं तदाराधनतत्परोऽभूत् / प्रसन्ना च देवी तमब्रवीत् कल्याणिन् ! तव ललाटे राज्यं न लिखितं किन्तु गच्छ मन्दिरस्य पश्चात् भूमौ षोडश द्रविणकुमाः / खनित्वा च गृहाण / संपादय धर्मकार्याणि / ततो राज्यलाभादपि तेऽधिकं यशः सर्वासु दिक्षु प्रसरिष्यति / शुभं ते भवत्वित्युक्त्वा साऽदर्शनं गता। प्रातरनेन च तथैव विहितम् / प्रथमं स्वप्रामाद् बहिर्भगवतो महावीरस्य चतु. रशीत्युपमन्दिरयुतो जिनालये निर्मापितः / धर्मध्यानार्थ तत्समीपे च धर्मशाला / एवं धर्माचरणेन दिनान्यनैषीत् / दुर्भाग्यवशात् सर्वक्षयं करो भीषण दुष्कालोऽभवत् प्रभूतं धनमत्रोपयुज्य मनुष्याः पशवः पक्षिणश्वो. ज्जीविताः / तदनु जाते मुभिक्षेऽस्य दानजन्यं महद् यशः सर्वत्र प्रसृतम् / प्राचार्य देवगुप्तसूरिमाहूय मन्दिरप्रतिष्ठामकारयत् / चतुर्मासे भगवतीसूत्रवाचनामहोत्सवानुष्ठानेनापरिमितं पुण्यमाससाद / नवलक्षपरिमिता मुदा व्ययिताः / ततः श्रीशत्रुजयतीर्थयात्रायै संघनिष्का पयामास / तीर्थयात्रां विधाय संघस्थाः सर्व सुवर्ण मुद्रिकाभिः सस्कृताः / एवमनेन धर्माचरण एव धनव्ययो विहितः / अस्य परम्परा व्याघेश्वरीप्रसादनिमित्तेन वागरेचानाम प्राप / एतद्वंशे बहवो जिनधर्मानुरागिणो महापुरुषाः समुत्पन्नाः। एवमाचार्यः श्रीककापूरिः सर्वत्र परिभ्रमणेन धर्मप्रचारं कृत्वा श्रीमहाजनसंघस्याभ्युदयम करोत् / महाराष्ट्रप्रान्ते तदीयोपदेशेन बहवो मांसाद्यमक्ष्यभोजनं त्यक्त्वा जिनधर्म सिषेविरे / बहूनां मन्दिराणां प्रतिष्ठापनेन धर्मरुचेरभिसंवर्धनमापादितम् / पदवीप्रदानेव प्रचारकेभ्यः साधुभ्यः प्रोत्साहनं दत्तम् / असाधारणशास्त्रज्ञानवै. भवेन वादिनो विजित्य स्वधर्म स्थापयामास / अन्ते च शासनोन्नतिमाधाय बाधाशाहेनानुष्ठिते महामहोत्सवे पद्मप्रभोपाध्यायं सूरिपदालंकृतं कृत्वा देवगुप्तसूरीवि नाम परिवर्त्य चतुर्दशदिनपर्यन्तमनशनं विधाय स्वर्गपदवीमनुससार / वि. सं. 10 11 तः] 46 प्राचार्यः श्रीदेवगुप्तसूरिः (दशमः) वि. सं. 1033 प] वन्दनीयचरणपंकजः सकलवाङ्मयप्रकाण्डपण्डितः विद्वद्गणशिरोमणिर्जिनशासनसमुन्नतिदृढोत्साहोत्साहितः श्रीदेवगुप्तसूरिः श्रीककसूरिपट्टपदे प्रतिष्ठितः / असी दशपुरनगरवास्तव्य आदित्यनागगोत्रस्य चोरडियाशाखीयश्च / अस्य जनको दयादानसौज्यनादिगुणवरिष्ठो मन्त्री सारंगनामा, जननी च परमसुशीला रत्नीदेवी / अस्य शुभजन्ममहोत्सव सारंगो भव्येन माङ्गलिकेन विधिनान्वतिष्ठत् / यत्र च लक्षरूप्यका व्ययी Page #124 -------------------------------------------------------------------------- ________________ [ 106 ] कृताः / प्रथमे. पुत्रजन्मनीदं महोत्सवानुष्ठानमस्य नैसर्गिकमेव / सूनुस्यमसौ यदा गर्भस्थितिमकार्षीचदाऽस्य जननी निशायामर्द्धरात्रे षोडशकलाकलितमूर्ति चन्द्रमद्राक्षीत् स्वप्ने / अतस्तदनुसारेण पुत्रस्य चन्द्रेति नामकरणमकरोत्सारंगः / महता वात्सल्येन लालनपोषणादिभिर्मनोहरमूर्तिरसी मधुरयाऽव्यक्तया वाचा न केवल मातापित्रोरपि तु समेषां कौटुबिकानां मनांसि मोदयामास / दिने दिने वर्धमानकलः कलानाथ इव लावण्यमयानवयवान् पुपोष / प्राप्ते हि विद्याध्ययनकाले पितुः प्रयत्नेनासो धार्मिक-व्यापारिक राजनैतिकादिषु विषयेषु परं प्रावीण्यमुपाममत् कुशाप्रबुद्धिः / पूर्वसुकताचरणानुरूपमपरस्मिन् जन्मनि तदीयकर्तारमिवानवद्या विद्या एतमनायासेनैव प्रपेदिरे एतदनन्तरमस्य माता चतुरः पुत्रान् तित्रश्च कन्यका असूत / ____अथाधिगतसर्वकलाकलापोऽसौ प्राप्त कविंशतिवर्षवयस्कः श्रेष्टिगोत्रीयस्य देवाशाहस्य रूपशीउसमन्वितां मालती नाम कन्यां परिणिनाय / सापि छायेव तमनुसरन्ती गृहकर्मतत्परा दिनान्यनैषीत् / जिनधर्माचरणमस्य परम्पराप्राप्तम् / अस्य पिलामहेनार्जुनश हेन दशपुरे जिनालयो निर्माफ्तिस्तत्र सारंगस्तस्य धर्मपत्नी च स्फटिकमयीं प्रभुप्रतिमामपुपूजत् प्रतिदिनम् / श्रीशत्रुञ्जयसम्मेतशिखरादिषु तीर्थस्थलेषु संघायोजनं कृत्वा प्रभूतं पुण्यमाससाद / स्वामिवात्सल्यं विधाय संघस्थितेभ्यः सुवर्णमुद्रा अर्पयामास / एवमनुदिनं धार्मिकेवेव कर्मस्वनेन धनव्ययमपरिमितं कृत्वाऽक्षयं पुण्यमलम्भि। सारंगे मन्त्रिपदान्निवृत्त सर्वकर्मक्षमोऽसौ चन्द्रो मन्त्रिपदं लेभे / यश्चामात्यपदे चन्द्रसेननाम्ना प्रथितो बभूव / अस्य चत्वारः सूनवः सामदानविधिभेदविग्रहाः सर्वसिद्धियुसा उपाया इव विरेजिरे।। स्कृतसुकृतबलादेकदा विहरन्नाचार्यः श्रीककसूरिर्दशपुरमयात् / श्रीसंघश्च भव्यमस्य स्वागत समपादयत् / मन्त्रिणा चन्द्रसेनेनात्र नगरप्रवेशे प्रभावनायान्च सपादलक्षमुद्रिका विनियुक्ताः / प्रारंभिक देशनं दत्त्वा सूरीश्वरस्तदनु धर्मप्रचाराय प्रतिदिनं व्याख्यानपरिपाटीमुररीचकार / यदाऽसौ संसारस्यासारतां त्यागस्योपादेयतामात्मकल्याणस्य चाश्यकता यथाशास्त्रमवर्णयत्तदा तद्वर्णन श्रवणसमासक्तचेतसो भावुका गानलुब्धा मृगा इव मन्त्रमुग्धा बभूवुः / बुद्धेः फलं तत्वविचारणचेति मत्याऽलभ्येषु साधनेषु दैववशान्मिलितेष्वात्मश्रेयःसंपादनमेव सर्वजनानां नितान्तमभिलषणीयं ममेति विचार्य संसारप्रपञ्चेभ्य आत्मानमुन्मुच्य कल्याणपरंपरायै सूरीश्वरचरणकमलशुश्रूषणं दीक्षामहणमेव च विधेयमिति निरणैषीत् / अन्ते च पुत्रेभ्यो व्यवहारभारं समर्प्य समुचितां बुद्धिमुपदिश्य सप्तदशभिः श्रावकैरष्टमिश्च श्राविकाभिः शुभे दिने दीक्षामग्रहीत् चन्द्रसेनः / पश्चाच्च पद्मप्रभनाम्ना प्रसिद्धो बभूव / निसतर्ग एव तीक्ष्णबुद्धिरसौ पद्मप्रभः सूरीश्वरानुपमकृपया श्रद्धाभक्तिविनयोपपन्नमानसो न्यायव्याकरणकाव्यकोषादीन्यध्यैत / सर्वसिद्धान्तमर्मपारगः सहस्त्रांशुरिव वादिवजस्य नितान्तं दुःसहो बभूव / सर्वथाऽयमाचार्यपदसमुचित इति कृत्वाऽचार्योऽस्मै गुरुपरम्पराप्राप्तविद्यामन्त्राम्नायादीनि गढतराण्यपि विततार तदीयगुणगौरववशीभूतचेताः। योग्यता चालोच्य पण्डितवाचनाचार्योपाध्यायपदवीविभूपितं तं व्याघ्रपुरे वाघाशाहेनानुष्ठिते महामहोत्सवे देवगुप्तसूरीति नाम विधाय स्वपदे प्रतिष्ठापयामास / ____ पूर्वाचार्यपरम्परामनुमान्य वादिमानविमर्दकः शासनहितमात्रतत्सरोऽसौ सूरीश्वरो विहरम् पावागढमाययो / मध्येमार्ग मृगयायै गच्छन् प्रतिहारजातीयो लाधारावः समगच्छत / तदीयं भावं स्वचेतसि समालोच्य अहिंसाधर्मतत्वमुपदिश्य तं जिनधर्मानुरागिणमकरोत् / उपकेशवंशे संमेलनमस्य कृत्वा तद्गौरवमवर्धयत् / घटनेयं वैक्रमे 1026 तमेऽब्द इति पट्टावलीकारा पाहुः।। अस्य वंशे दुल्लारावेण चिकणरसस्य ( गुदेति भाषायाम् ) व्यापारः कृतस्ततस्तदीया परम्परा गुंदेचा नाम्ना प्रथिता बभूव / अस्या जातेरपि गंगोलिया-वागणी मच्छा-गुबगुंदा-रामानिया-घामवदादयः प्रभूवाः Page #125 -------------------------------------------------------------------------- ________________ [110 ] शाखाः प्रशाखाश्च विस्तृताः / यत्र लब्धजनिभिर्महापुरुषैस्तीर्थसेवासंघायोजनधर्मशालानिर्माणादोनि, सत्कर्माणि, शौर्यसंपन्नाणि च जगतीतलविश्रुतानि कर्माणि विहितान्यासन् / विविधविद्याविभावितदिङ्मण्डलेन शिष्यगणेन समन्वितः सूरीश्वरोऽलौकिकचमत्कारचिन्तामणिनिभा प्रभाविकता प्रदर्शयन् शिवगढ-जावलीमुर-भिन्नमाल-सत्यपुर कोरण्ट पुगदिषु भावुकानां धर्मप्रचुरां भावनामुत्तेज. यन् क्रमेण चंद्रावतीमाययो / जिनधर्मपरायणः प्राग्वटबंशीयो भूताशाहः श्रीसंघसमन्वितो भव्यमस्य स्वागतं व्यधात् / चतुर्मासाधिवासार्थमभ्यर्थयामास / तदनुमान्य तत्रैव स्थितिमङ्गीचकाराचार्यवर्यः / धर्मतत्वावबोधनपगणि प्रारब्धानि व्याख्यानानि श्रोतणां चेतांसि चमच्चक्रः। समाप्ते चतुर्मासे सर्वत्रामंत्राणानि प्रेषयित्वा कृतप्रस्थानमंगलः शुभे दिने श्रीशत्रुजययात्रायै संघं निष्कासयामास / तत्र गत्वाऽष्टान्हिकामहोत्सवं दर्शनस्पर्शनादिकं विधाय स्वजातीयेभ्योऽन्येभ्यो वस्त्राभरणादिकं ददौ / दीनेभ्यश्चान्नदानादिकम् / पुत्रेभ्यो व्यवहारभारं समयकादशभिर्भावुकैः सह परमपवित्र तीर्थे सूरीश्वरवरदहस्तेनात्मकल्याणसाधिकाममहीद् भगवती दीक्षाम् / विनयरुचिनाम्ना प्रसिद्धमगमत् / श्राचार्यश्च कच्छसिन्धादिषु देशेष्वपूर्व धर्मप्रचारं कृत्वा प्रञ्चनप्रान्तमयासी: . द्विहरन् / नवदीक्षितो ज्ञानाभिलाषुको मुनिरसी विनयरुचिः प्राक्तनस्य ज्ञानावरणीयकर्मणः प्राबल्येन कृतपरिश्रमो दिवारटितमप्यध्ययनं रानौ विसस्मार / वर्षावधिकालेन केवलं प्रतिक्रमणयावश्यकमध्ययनं महता कष्टेन संपादितम् / तथापि कृतोत्साहः स रात्रिन्दिवमधीतं रट ति स्म पुनः पुनः / गत्री महता स्वरेण घोषणेन निद्रामलभमाना अन्ये मुनयात्रेसुः / तत्रैकेनावादि मुने ! प्रत्यहमेवंविधेन रटनेनापि न ते विद्यालाभः, कथमीदृशस्त्वं कस्मैचिद् राज्ञे धर्मोपदेशं करिष्यसि ? उपदेशाभावे कथञ्च शासनशुश्रूषाऽपि त्वया कर्तुं शक्या ? तेन सप्रश्रयमवोचि भवद्विधानां शुभाशीर्वादेनैवाहं मदीयं ज्ञानाध्ययनमात्मसाद्विधास्याम्येवेति मदीया हढा बुद्धिः, एवं विनयरुचिरं समुचितमुत्तरं दत्त्वा रात्री देवसेवायां निरतस्य ज्ञानध्यानं कुर्वतः सूरीश्वरस्य समीपमुपेत्य साम्भलिबन्धं व्यजिज्ञपद् भगवन् ? किमिदं मया पूर्वजन्मनि दुष्कृतमाचरितं येनात्र कृतप्रयत्नोऽपि सर्वथा निष्फलो भवामि / अवश्यमेव विधायानु प्रहं यथा मया शक्यते ज्ञानोपार्जनं कर्तुं तथैवोपायं कन्चिद् दर्शयतु करुणावलयो भवान् / क्मियान्वितं भावगभीरमेतदीयं समाकर्ण्य वचः सूरीश्वरः कल्याणिन् ! गच्छ काश्मीरान / आराधय वाग्देवतामनदिनमेकमनाः, इष्टसिद्धिस्तेऽवश्यं भविष्यतीत्युक्त्वा मन्त्रपुरःसरमनुष्ठानप्रकारमवोचत् / प्राप्य च गुरोराज्ञा कतिपयैर्मुनिभिः सह व्यहा दसौ विनयरुचिः / गत्वा चातन्द्रितः सावधानेन मनसा चवि. हारोपवासानेकविंशतिदिनानि कृत्वा भगवतीमाराधयामास सरस्वतीम् / तदीयशुश्रषणप्रसन्नहृदया साऽदृश्यपेणोपस्थिता वरं ब्रहीत्यवादीत / भगवति ! किमन्यदहं याचे ! केवलं विद्यालाभ एव मेअभिप्रेतः, ज्ञानं च मे कदापि न स्यात् कुण्ठितमित्येव प्रणतिसहितं याचे / तथाऽस्त्वित्युक्त्वा सा यथागतं ययो / समाप्याराधनमसौ यत्रावशिष्ठा मुनयस्तस्थुस्तत्र नगराद् बहिः समागत उपवासपारणामकरोत् / यस्य मुहुर्मुहुर्घोषणेनापि शास्त्रज्ञानं दुर्लभमभूत् , तस्यैकवारमालोचनेनाप्रतिहतगति वाग्वैभवविद्योतितं ज्ञानं सर्वजनचेतश्चमत्कारजनकं समुत्पन्न भगवत्याः कृपाकटाक्षेन / अस्योत्कर्षस्यासहिष्णवो ब्राह्मणा वादेन विजेतुं समीपमेत्य गीर्वाणगिरा धर्मविषयकान् प्रश्नांश्चक्रुः / परं सयुक्तिक सशास्त्रमुत्तरमासाद्य मन्दाक्षमुद्रितमानसास्तस्त्रभावोपहततेजसस्तदीयव्याख्यानश्रवणसमुत्सुका. स्तदर्थ सविनयं ययाचिरे / मुनिरपि सुविशदं धर्मस्वरूपं निरुप्य जिनधर्मसेवनं प्रति मानसानि तेषां समाचकर्ष / तदनु सूरीश्वरपार्श्वमेत्य सर्व निजमुदन्तं श्रावयामास : येन स आचार्योऽधिकं तुतोष / एवं पञ्चनदप्रान्ते नूतनां धर्मक्रान्ति विदधल्सौ सूरीश्वरः श्रीपार्श्वनाथस्य कल्याणभूमेः स्पर्शनार्थ वाराणसीभगमत् / तत्र दर्शनं च विधाय कतिपयदिनान्यत्यवाक्ष्यत् / एकदा सूरीश्वरादिष्टो विनयरुचिः Page #126 -------------------------------------------------------------------------- ________________ [ 111 ] सभायां दार्शनिकविषयमादाय तुलनात्मक दृष्ट्या जिनसिद्धान्तस्य सर्वजनोपादेयत्वमवर्णयत् / यथार्थमप्येतदीयं सिद्धान्तं वागणस्यां विप्रसमूहसमुपजुष्टायां को नाम यथार्थत्वेनावेदयेत् / अतस्ते जिनश्रमणकथितं सिद्धान्त शाखप्रमाणमनुसृत्यैव कश्चित् श्रमणः ससिद्धान्तत्वेन प्रतिपादयेत्तेन सह वयमेवा शास्त्रार्थाय सज्जाः स्मेत्यूचुः / तदनु मण्यस्थानामध्यक्षत्वे विनयरुचेाह्मणसमाजस्य च शास्त्रार्थः प्रारब्धः / वैदिको हिंसा हिंसा न भवतीति वादिनः पूर्वपक्षो विजयरुचिना सशास्त्रं खण्डितः, येन स नताननो मन्त्रप्रतिरुद्धविषवेगो भोगीव महती त्रपामवाप / तत्रत्येनोपरेशीयेन श्रीसंघेन सहर्ष मुनये विनयरुचये पण्डितपदं दत्तम् / सूरीश्वरोऽपि चतुर्मासिकी तत्र स्थितिमङ्गीचकार श्रीसंघस्यादरातिशयमनुमान्य / बहवो ब्राह्मणाश्च सूरीश्वरस्यापूर्ववाग्वैभवप्रभावनुभूय तदनुयायिनो बभूवुः / येन शासनसमुन्नतिरधिकप्रचारा सर्वजनश्लाघनीया च समजनिष्ट / एवमत्र वागणस्यामपि जिनधर्मप्रचारं विधाय विहरणक्रमेणाचार्यवर्यः सशिष्यो मथुरामाययो / श्रीसंघेनापूर्वसमारोहेण विहितमस्योदाहरणीयं स्वागतम् / तदभ्यर्थनामनुमान्यात्र चतुर्मासावस्थानं निश्चितम् / तदानीरतने काले बौद्धधर्मप्रचारः शैथिल्यं प्राप्तो, ब्राह्मणधर्मश्च वाराणसीशास्त्रार्थश्रवणसमनन्तरमेव निस्तेजस्को बभूव / बलाहगोत्रीयः शादाशाहो लाधाशाहश्च श्रुतज्ञानभक्तिनिमितं सपादलक्षपरिमितं धनं विन्ययुङ्क्ताम् / तेन धनव्ययेनागमपुस्तकानि लेखयित्वा ज्ञानकोशेऽस्थापयत् / सूरीश्वरोपदेशप्रबुद्धमानसाः सप्तसंख्यका जना दीक्षोद्यता बभूवुः / दीक्षान्च दत्वा सर्वान् धर्मलाभाशीर्वादेन संभाव्य ततो व्यहार्षीत् / ___ अथ क्रमशो विहरन्नाचार्यों धर्मोपदेशेन सर्वत्र धार्मिकमुत्कर्षमभिवर्धयन्नजयगढनगरमगमत् / ततश्च मरुधरप्रान्त इतस्ततो विजहार | विभागशः कृता मुनयोऽपि समीपवतिषु प्रामेषु धर्मप्रचारार्थ विहरन्तस्तदनु नगरे संगता बभूवुः / तत्रोपाध्यायो विनयरुचिगंगेराज्ञां प्राप्य शाकम्भरीमभिप्रतस्थे / सरस्वतीदत्तवरप्रसादोऽसौ सवैर्भावुकैः सानन्दं नगरं प्रवेशितो मर्मतत्वप्रतिपादनपरं सकलजनमनोरञ्जकं व्याख्यानमदात् / एतदीयमस्खलितं महाप्रभावं व्याख्यानतो ज्ञात्वाऽकारणाविष्कृतवैरदारुणा वाममार्गिणो जिनधर्मप्रचारका एते श्रमणा जनान् भ्रमे पातयन्ति नास्तिकाः सत्यधर्मविनिन्दका उपेक्षणीया एवेति सर्वत्र : पयामासुः / मुनरस्य प्रभावातिशये विश्वसन्तो जैना राजसभायामेवोभयोः शास्त्रार्थप्रबन्धं कारयामासुः। सम्प्राप्ते च शास्त्रार्थसमये वाममार्गिणो धं महदाऽडम्बरेण स्वमतप्रतावं चक्रः किन्तु यत्र सरस्वत्या एव अनुग्रहस्तत्र को नाम पराभविन्तुन्कुयात् / यतस्ते जिनधर्मस्य सिद्धान्तमनुमोदयामासुः / तेन जिनधर्मपताका दिगंगने रिङ्गन्ती व्यराजत / आचार्यवर्षस्य शिष्या अपि महाप्रभावशालिनो बभूवुः / तत्र सोमसुन्दर मुनेश्वरितमुदाहरणीयमिति कृत्वा प्रदर्श्यते / एकस्मिन समये सूरीश्वरः शिष्यानागमप्रन्थमध्यापयत्तदाऽष्टमस्य नन्दीश्वरद्वीपस्य प्रास. ङ्गिकं वर्णनमायातम् / तत्र द्विपञ्चाशत्संख्यकानां जिनालयानां हृदयंगमं वर्णनमाचार्येण रुचिरया वाचा विहितम् / सादरमिदं समाकर्ण्य वर्णनं समीपस्थः सोमसुन्दरो मुनिः सविनयमवादीद् भगवन् / सर्वेषामेषां जिनालषां नो यात्रा सम्पाद्य जीवनस्य कृतार्थतामभिलषामीति / देवयोनिसंचरणाहेऽत्र द्वीपे मानवानां गतिरेवात्र दुर्लभेति सूरीश्वरगदितमाकर्य कन्चिदुपायमत्रभवान् मे दर्शयतु येन ममेच्छा स्याफलादिति सविनयमसौ निस्तमवो. चत् / आकाशगामिन्या विद्यया सम्यग्दृष्टिदेवबाराधनेन वा तत्र गन्तुं शक्तिः प्राप्यते / तत्र संप्राप्तेनैकेन केनचिदुपायेन तेऽभिमतसिद्धिर्भविष्यति / सादरं निशम्य गुरुवचोऽसौ तदारभ्य षण्मासावाधिकमाष्टमिकं तपश्चचार / तेन च सम्यग्दृष्टिदेवमाराधयामास / ततः पूर्वजन्मन्येतत्संपादितसाहाय्येन धर्माचरणे दृढमनाः कश्चितू सजातीयः पूर्वकृतमुपकारं स्मरन् प्रत्युपकर्तुमस्य संमुखो भूत्वावादीत्-मुने ! भवत्कृतोपकारेणा मे देवयोनिप्राप्तिरतः कर्तव्यं किंचिन्मामादीशतु येनाई ऋणमुक्तः स्यामिति कथितं श्रुत्वा नन्दीश्वरद्वीपस्थिताना मिनालयानां दर्शनमहममिलषामीति तं जगाद सोमसुन्दरः / मम पीठमारुह्य सुखेन वत्र गत्या संपाच Page #127 -------------------------------------------------------------------------- ________________ [ 112 ] यात्रा प्रतिनिवर्वतां भवान् इत्युत्तवा तमारोप्यपीठमयं जंबुद्वीपः, अयं लवणोदधिः अतः परं धावकीखण्डः एवं मार्गागतान् द्वीपसागरान् दर्शयम् प्रमाणं सूर्याचन्दमसोर्गतिप्रदेशमपि वर्णयन्निक्षुसमुद्रादमन्तरं नन्दीश्वरद्वीपमाजगाम / मध्यमस्य गत्वाञ्जमगिराववातारयत् / अत्र यात्रां विधाय देवादेशेन सुरभिपुष्पमादाय पुनस्तथैव प्रतिन्यवर्तत / देवोऽसौ गुरुनिवासस्थलेऽवतार्य वं यथागतं ययौ। चरणकमलवन्दनं कृत्वा भवत्कृपया मे मनोरथः फलित इत्युत्तवा तदेव पुष्पं तत्संमुखं स्थापयामास / देवप्रसादरूपस्यास्य पुष्पस्य रत्नमयस्य वर्णगन्धरसस्पर्शाश्चिरकालादपि वथैवासान / प्रमुदितान्तरंगः सूरीश्वरः सभायां नन्दीश्वरद्वीपवर्णनाय तमादिशत / असी च नमस्कृत्य तं श्रोत नुद्दिश्योवाच-भव्याः ! द्वीपोऽयं 1638400:00 योजनपरिमितो दृश्यते / अस्य मध्ये चतुर्दिक्षु चत्वारोऽजनगिरयः। प्रतिपर्वतमत्र 1000 योजनपरिमितायो भूमौ 84000 योजनप्रमाणोच्छ या भमिः / उपरितले नीलरत्नखचितं यत्र भव्यं सिद्धायतनं विराजते / यद् दृष्ट्वा प्रमुदितमानसोऽहमभवम् / यच्च शतयोजनविस्तीर्ण पञ्चशवयोजनायामं द्विसप्ततियोजनोच्छायं विद्योतते / चतुर्दिक्षु चत्वारि भव्यानि द्वाराणि / चतुर्णा मण्डपानामप्रे चत्वारः प्रक्षेपमण्डपाः / तन्मध्ये रत्नखचितमाधारपीठमास्ते / तदुपरि ! सिंहासनं सूक्ष्मवस्त्राच्छादितं वांकुशसहितञ्च विराजते / यत्रांकुशें घटप्रमाणकानि मुक्ताफलानि विद्यन्ते / प्रक्षेपमण्डपस्याने एकैकः स्तूपः। तत्र चतुर्दिक्षु रत्मप्रथितान्याधारपी. ठानि यत्र पद्मासनस्था जिनप्रतिमाः। यासा दर्शने न मयाऽत्मा प्लावितः / ताश्वस्तूपसंमुखा विराजन्ते / प्रतिस्तूपं चत्वारि रत्नजटितान्याधारपीठानि / तत्र रत्न प्रभोद्भासितसर्वाङ्गाश्चैत्यवृक्षाः संदृश्यन्ते / तत्पुरोऽष्टयोजनप्रमाण कं मणिपीठम् / अत्र सहस्त्रोपग्वजयुक्तो महेन्द्रध्वजश्चतुः पुषष्ठियोजनोच्छायो नभस्युडुयते / तदने नन्दा पुष्करानाम्न्यो वापिका बर्तन्ते / ताश्च शतयोजनायामाः पञ्चाशद्योजनविस्तीणा दशयोजनगभीराः कमलकदम्वविराजिता ध्वजतोरणछत्रचामरादिभिरलंकृता द्रष्टयां मनांसि मोदयन्ति / तत उर्ध्व प्रत्येकं वनखण्डम् / यस्य वर्णनं वाचामविषयम् / तस्य प्रतिदिशं 4000 मण्डलाकाराणि, 4000 चतुष्कोणाकृतीनि चासनानि सन्ति यत्र देवा देवांगनाश्च यात्रार्थमायाताः संविशन्ति / सर्वमिदमेकस्य चैत्यालयस्य बहिःस्थं वर्णनम् / चैत्यालयस्यान्तः षोडशयोजनपरिमितं मणिपीठम् / तदुपरि तावानेव देवच्छदः / / यत्र शान्तमुद्राः पद्मासनस्था वीतरागभावनामाविता 108 जिनप्रतिमाः / यासां दर्शनेन मान्तरात्माऽनन्दसन्दोहसंभृतः समजनि / देवेन सह द्वितीयमजनगिरिमयां तत्र पूर्ववदेव सर्व दृष्टवान् / तथैवतृतीये चतुर्थे च / सर्वत्र दर्शनचैत्यवन्दनादिकं सम्पाद्यात्मनः कृतार्थतामन्वभवम् / अथ प्रतिपर्वतं चतुर्दिक्षु लक्षयोजनायामाः पञ्चाशत्सहस्रयोजनविस्तीर्ण सहस्रयोजनगभीरा वाप्यश्चतस्रः सन्ति / तन्मध्ये दधिमुखनामा पर्वतः / तत्र श्वेतरत्नस्तलमास्तृतम् / अर्थात् षोडश वापिकाः षोडश दधिमुखाः पर्वताः सन्ति / तत्र च षोडश चैत्यालया अजनगिरिवर्णने यथा वर्णितास्तथैव विद्योतन्ते / षोडशानां वापिकानामन्तरे द्वौ द्वौ कनकगिरी इति कृत्वा ते द्वात्रिंशत्संख्यकाः कनकगिरयः / येषां कनकमयानि सानूनि सर्वत्र प्रकाशन्ते / तेषु तत्संख्याकानि चैत्यायतनानि / द्विपञ्चाशत्संख्यकपर्वतातिरिक्ताम्यत्वारो रत्नमयाः पर्वताः / तेषां प्रतिदिशं मिलित्वा षोडश राजधान्योऽवलोक्यन्ते / सर्वमिदं सम्यक् दृष्ट्वा लौकिकानन्दमग्नस्तत्रैव स्थिति कुर्यामिति विचारमकरवम् / किन्तु प्रतिनिवर्तनमावश्यकं मां म्यषेधयत् / एतत्कथितं नन्दीश्वरद्वीपवर्णनं सर्वपापौघहरं निशम्य श्रीसंघस्तमभिननन्द / सर्वे च तत्र समाधिकश्रद्धालयो बभूवुः / अयं सर्वत्र विहत्य स्व. प्रभावमहिम्ना जनान् जिनधर्मदीक्षितान् विधाय शासनगौरवमभिवर्धयामास / / श्रीमद्भगवतो महावीरस्य परंपरायां चतुरशीतिसंख्याका गच्छा इति कथ्यन्ते / इदं परंपरायातम् ! इदानीमत्र शतत्रयादधिका संख्या विद्यते / एषु संदेशुनामकः कश्चिदेको गच्छः / अत्र महामहिममहनीयकी य Page #128 -------------------------------------------------------------------------- ________________ [ 113 ] श्वरसूरि-यशोभद्रसूरि-शालिभद्रसूरि-सुमतिसूरयश्च महाशासनप्रभावका प्राचार्या बभूवुः। तत्र यशोभद्रसूरेश्वरितमधिकं चमत्कारजनक पाठकानाच मनोरखकमिति कृत्वा संक्षेपेणात्र लिख्यते / श्री यशोभद्रसूरिचरितम् ___सर्वगुणजेगीयमानकीर्तिरमल विद्याविद्योतितदिङमण्डल आचार्यः श्रीयशोभद्रसूरिर्मारवाडदेशे पलासीप्रामवास्तव्यः प्राग्वटवंशालंकारभूतश्वासीत् / अस्य पुण्यसारनामा जनकः माता च गुणसुन्दरी निखिलगुणनिकेतना / वैक्रमे 957 तमेऽब्दे जनिमलभतासौ। अस्य सौधर्मेति नामकरणमभूत् / ___एकदा सांढेरागच्छीयस्याचार्यः श्रीश्वरसूरिः पञ्चशतसंख्यकैः शिष्यैः सहितो विहरन् धर्मप्रचारमकरोत् / विहरणक्रमेण मुंडाराप्राममाजगाम / स्वस्यानन्तरं पट्टधरस्य समुचितस्य शिष्यस्याभावेन खिनमानसस्तत्र वदरीदेवीमाराधयामास / समुपस्थिता च सा पात्रे सूरिणावतारिता। तदनु ता पप्रच्छ-भगवति ! मदीयोऽयं गच्छो विच्छेदमाप्स्यति, कश्चित् सच्छिष्यलाभो वा भविष्यतीति / पलासीप्रामवासी शाहपुण्यसारम्य गुणसुन्दर्याश्च पुत्रः पाठशालामधीयानो मसीपात्रभंजनेन सहपाठिना ब्राह्मणबाल केन कलहायितः, ब्राह्मणवालकेन तदेव मसीपात्रं याचितम् / असौ च सुवर्णस्य रूप्यस्य च ददामीति तमवादीत् / मदीयमेव देहीति ब्रुवनसौ तं बह्वभसयत् / विवदमानी तो गुरुसमीपं गतो तेन च बोधितौ। तथाप्यसौ स्वीयं दूराग्रह न तत्याज / न केवलमिदमपि तु प्रतिज्ञामप्यकार्षीद-विप्रपुत्र धुरि दई गाली कर करंबु तुम कपाली / जु षट तु वांमण सही नहीं तरी भरइउ भणिजे भई। सौधर्माऽपि रोषाविष्टस्तमत्रवीत्-तवते धइ वोलिड सुधर्म जोजे वामण सही नहीं तरी भरइउ भणिजे भई। सौधर्माऽपि रोषाविष्टस्तमब्रवीत् तवते धइ बोलिउ सुधर्म जोजे वामण माहरुकर्म / मूत्रो न मारु तुज प्राणिड, नहींतर नहीं सुघड वणियो। लवण्यसमयकृतयशोभद्रसूरिरास / एवंविधः सौधर्म एवानेतव्यः / दीक्षितोऽसौ भवदीयगच्छभारं वक्ष्यतीत्युक्त्वसा देवी यथागतमगमत् / सा च तत्र गत्वा सौधर्ममातरमुपदिश्य तमदीक्षयत् / षण्मासानन्तरमेवासी सर्वगुणसंपत्सन्वितः सर्वागमपारगश्च बभूव / सूरीश्वरश्च मुंडागग्राममेत्य द्वादशगोत्रीयैः सह बदरीमाराधयामास / सा संघसमक्षमेव सौधर्मकपाले तिल कं विधाय पुष्पमालामारोप्य सूरिपदं दत्त्वा यशोभद्रसूरीति नाम च कृत्वाऽदृश्यतामगात् / अथाचार्यः श्रीयशोभद्रसूगिविहरन् पाली नगरमगच्छत् / श्रीसंघेन च सत्कृतः / कदाचित् शौचनिवृत्यर्थ सूर्यमन्दिरस्यापरपार्श्वमुपाविशत् / भगवान् सूर्यश्च तदीयां महाप्रभावपूर्णा तपस्यामालक्ष्य तत्समीपं नीलमरकतपद्मरागादीनि रत्नानि प्राक्षिपत्। तथाप्यसो निःस्पृहो न जमाह / ततश्च सूर्यो वृष्टिं पातायामासासूरिश्च सूर्यमन्दिरमाययौ। द्वारश्च तेनावृतम्। किंचिन्मत्सकाशाद् याचस्वेत्युक्तः सूक्ष्मजीवदर्शनाय चूर्ण देहीत्यवोचत्। द्वितीयेऽह्नि स सर्व विद्याराधनप्रकारप्रदर्शक ग्रन्थं यन्त्रयुक्तं, अंजनशलाकामेकां च सूरिनिवासस्थानं गत्वा तस्मा अयच्छत् / तत्रोपदिष्टाः सर्वा अनवविद्या विद्या आत्मसाच्चकार / ततस्वदेव पुस्तकं सूर्यमन्दिर एव स्थापयितुं बलभद्रमुनिमरेषयत् / अनेन च तस्मात् पत्रत्रयं चोरितम् / मन्दिरे निधायोच्चैररुदत / सूर्येणोक्तम्-मुने ! मा रुदिहि मया दत्तमेव तत् पत्रत्रयमतो मा ते शोको भवत्विति / . यशोभद्रसूरीश्वरो नवनिधि-अष्टसिद्धि-आकाशगामिनी-इत्याद्या विविधा विद्या वशीचकार / तत्प्रभावेण प्रतिदिनमसौ शत्रुश्चय-रैवतक सम्मेतशिखरादीनां तीर्थानां यात्रा विधाय भोजनमकरोत् / अथ पालीनगराद्विहरन साढेरावग्राम मन्दिरप्रतिष्ठार्थमाजगाम / दर्शनार्थमागतानां जनानां कृते प्रारब्धे पाकनिर्माणे धृतं प्रमाणापेक्षया न्यूनतां गतम् / श्रुत्वैतत्सूरिरन्यधर्मावलम्बिनो धनिकस्य गृहाद् घृतमानाययामास / कार्ये च समाप्ते व्यवस्थापकास्तस्य मूल्य प्रदानाय तद्गृहं ययुः / तेषु च मूल्यं ददत्सु 15 Page #129 -------------------------------------------------------------------------- ________________ [ 114 ] तेनावोचि-मया पृतमेव न दत्तं मूल्यमहणस्य का कथेत्युक्त्वा-वृत्तपात्राणि पश्यति तदा सर्वाण्येव तानि घृतपूर्णान्यपश्यत् / सूरेरेवायं चमत्कार इति निश्चिन्वानोऽसौ सूरिसमीपमेत्योपदेशं श्रुत्वा दीक्षामाहीत् / एकस्मिन् समये गाघाट-रहेट-कविलाण-मैसर-संमरि-नगरे युगपदेव प्रतिष्ठामूहूत दत्वा सममेव स्वहस्तेन प्रतिष्ठाकार्य स्वविद्यावलेन विविधरूपधरः संपादयामास / एवमाधाटनगरष्टिना निष्कासितेन संघेन सह अणहिलपुरं (पाटणेति प्रसिद्धमधुना) जगाम / गज्ञा मूलगजेन सत्कृतः / तदनु स्वप्रासादे द्वारमावृत्य स्थापितोऽपि लधुशरीरेण रन्ध्रानिर्गत्य राज्ञे धर्मलाभाशीर्वादमदात् / राजा च चमत्कारजनकमस्य वृत्तं दृष्ट्वा विस्मितो बभूव / एवमस्यालौकिकं चरितं सर्वजनमनोमोदकं जिनशासनप्रभावकमासीत् / एतद्विषये 1557 वैक्रमेऽब्दे नाडोलाईग्नामेऽयं शिलालेखः / // 90 // श्रीयशोभद्रसूरिगुरुपादुकाभ्यां नमः // संवत् 1557 वर्षे वैशाखमासे शुक्लपक्षे षष्ठ्या तिथौ शुक्लवाससि पुनर्वसु ऋक्षप्राप्त चन्द्रयोगे श्रीसंडेरगच्छे / कलिकालगौतमावतार / समस्त भाविकजनमनोऽम्बुजविबोधनकदिनकर / सकललब्धिनिधानयुगप्रधान / जितानेकवादीश्वरवृन्द / प्रणतानेकनरनायकमुकुटकोटिस्पृष्टपादारविन्द / श्रीसूर्य इव महाप्रसाद / चतुःषष्टिसुरेन्द्रसंगीयमानसाधुवाद / श्रीषडेरकीयगणरक्षकावतंस / सुभद्राकुक्षिसरोवरराजहंसयशोवीर साधुकुलाम्बरनमोमणिसकळचारित्रचक्रवर्तिचक्रचूडामणि भ० प्रभुश्रीयशोभद्रसूरयः / तत्प? श्रीचाहुमानवंशश्रृंगार / लब्धसमस्तनिश्वविद्याजलधिपार श्रीबदरीदेवीगुरुपदप्रसादस्वविमलकुलप्रबोधन कप्राप्तपरमयशोवाद भ. श्रीशालि सूरिः त० श्रीसुमतिसूरिः / त० श्रीशांतिसूरिः / त० श्रीईश्वरसूरिः / एवं यथाक्रममनेकगुणमणिगणरोहणगिरीणां महासूरीणां वंशे पुनः श्रीशालिसरिः। त० श्रीसमतिसूरिः तत्पट्टालंकारहार भ० श्रीशांतिसूरिवराणां सपरिकराणां विजयराज्ये / अहि श्रीमेदपाटदेशे। श्रीसूर्यवंशीयमहाराजाधिराजश्रीशिलादित्यवंशे श्रीगुहिदत्तराउल श्रीवपाक श्रीषुम्माणादिमहाराजान्वये। राणाहमीरश्रीषेत सीह श्रीलषमसीहे / पुत्र श्रीमोकलमृगांकवंशोद्योतकारप्रतापमार्तण्डावतार। आसमुद्रमहिमण्डलाखण्डल / अतुलमहाबलराणाश्रीकुभकर्णपुत्र राणाश्रीरायमलविजयमानप्राज्यराज्ये ततपुत्र महाकुमारश्रीपृथ्वीराजानुशासनात् / श्रीउपकेशवंशे रायभएडारीगोत्रे गठल श्रीलाखणपुत्र श्री मं० दूदवंशे मं० मयूरसुत #0 साहूलहः / तत्पुत्राभ्यां मं• सीहासनदाभ्यां सद्वान्धव मं० कर्मसीधारालाखादि सकुटुम्बयुताम्यां श्रीनन्दकुलवत्या पुर्या सं०९६४ श्रीयशोभद्रसूरिमंत्रशक्तिसमानीतायां मं० सायरकारितायां देवकुलिकाधुद्धारित: सायरनाम श्रीजिनवसत्यां श्रीआदीश्वरस्य स्थापना कारिता कृताश्रीशान्तिसूरिपट्टे देवसुन्दर इत्यपरशिष्यनामभिः श्रा० श्रीईश्वरसूरिभिः इति लघुप्रशस्तिरिय लि. श्राचार्य श्रीईश्वरसूरिणा उत्कीर्णा सूत्रधारसोमाकेन // शुभम् // अयं श्रीनाडोलाईग्रामस्य मन्दिरे विद्यत एवेदानीम् // एवमस्य सूरीश्वरस्य बहवः शिष्याः स्वविद्यापलेन महाशासनाभ्युदयकर्मणि सहयोगं ददुः। अथाचार्यः श्रीदेवगुप्तसूरीश्वरो विहरन्नागपुरमयात् / सभाजितश्च श्रीसंघेन चार्तुमासावधिकमुवास व्याख्यानदानेन समापिते चतुर्मासे 19 भावुका दीक्षा जगृहुः / बप्पनागगोत्रीयेण नाहराशाखीयेन दुर्गाशाहेन निर्मापितस्य भव्यस्य जिनालयस्य प्रतिष्ठाकार्य समपादयत् / ततो मुग्धपुरमेदिनीपुरखटकुम्पनगरादिषु विहरन् सूरिरुपकेशपुरमागच्छत् / सुचन्तिगोत्रीयो लालाशाहो लक्षत्रयपरिमिताभिमुद्राभिरस्य नगरप्रवेशं कारयामास / सर्वाश्च धर्मव्याख्यानेन संतोष्य तत्रैवावात्सीत् / देवीसच्चायिकावचनमनुनान्योपान्यायपद Page #130 -------------------------------------------------------------------------- ________________ [ 115 ] विभूषिताय विनयचन्द्रमुनये सरिपदमयच्छत् / विक्रमस्य 1033 तमे हायने श्राषाढे शुक्लप्रतिपदि डिडूगोत्रीयेणे तेज़सीशाहेनारब्धे सूरिपदमहोत्सवे सिद्धसूरिनाम्ना स्वपट्टे तं स्थापयामास / समुचितेभ्यः पदवीप्रदानमध्यकृत / नवलक्षमुद्रा व्ययिता अत्र / वि० सं० 1033 तः] 47 प्राचार्यः श्रीसिद्धसूरिः (दशमः)वि० सं० 1074 प०] परमोपकारनिरतः सहस्ररश्मिरिव दुःसहप्रतापस्तपःक्षपितमनोविकारः सुधावर्षी कलानिधिरिव सर्वजजगदाल्हादको जिनेश्वरगदितागममर्मपारदृश्वा जिनधर्मधुरंधर आचार्यः श्रीसिद्धसूरिः श्रीदेवप्तसूरीश्वरपट्टपदे प्रतिष्ठामलभत / असौ मेदपाटप्रान्तीयदेवपट्टनगरनिवासी सुघडगोत्रीयश्च / पितास्प पुण्यकर्मरुचिश्चतरशाहो जननी च शीलसौजन्यवती भोलीदेवी / तयोरयं लाडुक-नामा कुलदीपकः सूनुरासीत् / अस्य जनकः सुकृतसमासादितेन धनेन वारत्रयं शत्रुखयरैवतकदीनां पापौधविध्वंसकानां तीर्थानां यात्रा, संघनिष्कासनं स्वजातीयेभ्यश्च सुवर्णमुद्रिकादिप्रदानश्च कृत्वाऽक्षयं यशोराशिमवाप / श्रीशत्रुञ्जयतीर्थे भगवतः पार्श्वनाथस्य भव्यं जिनालय निर्मापयामास / लक्षाधिकद्रव्यव्ययेन ज्ञानार्चनां कृत्वा ज्ञानकोषानस्थापयत् / - ___ कालस्य कुटिला गतिरिति समृद्धिमत्यस्मिन् कुले भगवत्या लक्ष्म्या लाडुकस्य मानसेन प्राग्भवीयाशुभकर्मण उदयेन मेवितं वैराग्यम् / परं दारिद्र यमनुभवन्नप्यसो न मनागपि धर्माचरणात् शिथिलादरोऽभूत् / धर्मेणैव प्राप्तव्यं सर्व प्राप्यते नान्येनोपायेनेति स्वचेतस्यमन्यत / ___एकदा योगविद्यानिपुणः कश्चिद् योगी देवपट्टनमायात् स च नानाविधान् भौतिकान् चमत्कारान् योगविद्यया दर्शयन् पौरान् स्वमतानुसरणाय समाचकर्ष / कतिपयदिवसानन्तरं परम्परया लाडुकस्य दारिद्रयपीडितामवस्था ज्ञात्वाऽसौ तद्गृहमाययो / प्रवृत्ते च वार्तालापेऽस्य निःस्पृहत्वं निरभिमानित्वञ्चानुभूय परमाश्चर्यान्वितमानसौ बभूव योगी / धर्मात् प्रलोभयितुतमगादीत् वत्स ! दारिद्रयदलनसमर्थ मत्रं ते दास्यामि, यस्यानुष्ठानेन ते दुरवस्था नक्ष्यति किन्तु जिनधमें त्यक्तवा मदीयधर्मानुसरणं कर्तव्यमिति / जिनधर्मानुरागिणा तेनावोचि महात्मन् ! यदावि तद्भवतु न खलु संपल्लाभमुद्दिश्य शाश्वतो जिनधर्मो मया कदापि त्यक्तव्यः / धर्मादेवार्थकामी शक्येते लब्धुम् / कर्मण एवायं प्रभावः / बलिष्टा हि कर्मणो गतिः। भगवत तीर्थकराणामपि कर्मण उपभोगः समासक्तः, का कथा मादृशस्याल्पजीवस्य / ज्ञानामृतोपदेशेन भवभयं नाशयन् परमकारुणिस्वभावः स्वधर्मधुरीण आचार्यः श्रीदेवगुप्त सूर श्वर एवात्र सर्वसंपदा निधानमिति स एव मे जिनधर्ममात्रपरायणस्य गुरुरिति नान्यं गुरु नान्यं च धर्ममाश्रये विषमेऽप्युपस्थिते प्राणसंकटेऽपि / तदीयं घचो निशम्य कासौ पूज्यवर्यः स प्राचार्यः ! तत्समागमः शक्यते प्राप्त मयेत्यवादीत तम् / अचिरकालभावी तत्समागमः, स खल्वत्रैव समागमिष्यतीति श्रुतं मया / भवानप्यत्रैव तावन्निवसतु / योगी च समाकार्य तदुक्तं स्वस्थानमगात् / ___ अथ कदाचिद् गृहस्थ संस्कारार्थ भूख नने विहिते लाडुः प्राक्तनसुकृतप्रभावाद् द्रविणनिधानमक्षयमवाप। परमात्मविचारकुशलो नश्वरं धनं पुण्योपार्जनसाधनेषु सप्तप्तु क्षेत्रेषु न्ययुक्त / स्वजातीयेषु ज्ञानप्रचार दीनानामनाथानाञ्च दुःखनिवारणमेवमत्कर्तव्यमिति स्वावस्थया विचार्य तदन्वतिष्ठत् / भाग्यवशात्प्राप्तमिदं. धनं वथैवोपयोक्तव्यं येमात्मकल्याणं साधयितु शक्यतेति मुहुर्मुहुश्चिन्तयामास / एवं समये व्यतीते पुण्यानुयोगात पार्श्वकुलकमलदिवाकरो भन्यहृदयपुण्डरी कविबोधकः परमवदनी. बचरणपंकजयुगल प्राचार्यः श्रीदेवगुप्तसूरीश्वरो देवपढ़नपुरमगात् / भक्तिरसमरितमानसो लाडुकः श्रीसंघन Page #131 -------------------------------------------------------------------------- ________________ [ 116 ] महास्य नगरप्रवेशमकारयत् / अथ योगी गुरुवर्यस्यागमनं विदित्वा लाडुकेन सार्द्ध सूरीश्वरसमीपमगमत् / आत्मनः कर्मणा सह संबन्धः कथं संपद्यत इत्यादिका बहुविधां शंकां कृत्वा सिद्धान्तपूर्ण समुचितमुत्तरमाससादाचार्यसकाशात् / संसार कारागृहं मन्यमानावुभौ च दीक्षोद्यतो बभूवतुः / लाडुकोऽसौ महता प्रयासेन कौटुम्विकान् प्रबोध्य भवविनाशिनी दीक्षा योगिना साकमगृह्णात् / अस्य सोमसुन्दरेति नामकरणं कृतं सूरिणा। गुरुचरणभक्तिपरिपूरितमानसः शीघ्रमेवैकादशांगादीन्यागमशाखाण्यध्यैत / तदतिरिक्तम-अध्यात्मवादनयबादपरमाणुवादमन्त्रतन्त्रादिषु शास्त्रेषु परं प्रावीण्यमाससाद / आचार्यवों विविधगुणविभूषितं गच्छभारवाहनक्षम सोमसुन्दरं पारसशाखीयेन नेमाशाहेनानुष्ठिते महामहोत्सवे सर्वसंघानुमत्या स्वपदे प्रतिष्ठापयामास श्रीसिद्धसूरिनाम्ना / योगिराजश्व दीक्षितो धर्मरत्ननाम्ना प्रसिद्धः शतसंख्यकै. शिष्यैः सहितो गुरोराज्ञया सर्वत्र धर्मप्रचारं कुर्वन् प्रीतमानसेन सूरिणोपाध्यायपदेन भूषितः / ___समारोपितशासनकार्यभारः श्रीसिद्धसूरिविहरन्नेकदा सत्यपुरमभिप्रतस्थे / मार्गागतस्य कस्यचिद् देवीमन्दिरस्याभ्याशं संमिलितान् मानवान्, पशुहननोधतान् ददर्श / वधार्थमुपस्थापिता मूका दीनदीनाः पशवोऽपि दृष्टाः। करुणाद्रचेताः सूरि(शमुद्विविजे। त्वरितमेव तत्र गत्वा तानुद्दिश्यावादीत-भव्या ! रुचिरवदना भवन्तः सर्वे महाप्रशस्तकुलोत्पना आकृत्या विलोक्यन्ते / नेदं भवतां सर्वसत्वशिकराणामुचितं कर्म / नात्र भवन्तोऽपराध्यन्ति, कस्यचिद् मांसभक्षणशीलस्य संसर्गजन्यैव प्रवृत्तिरियम् / अतः स्वजातिकुलक्रममनुसरन्तः स्वमभिलषितं सुखेन सम्पादयन्तु / आत्महननतुल्या प्रवृत्तिं च हिंसारूपां निरयमात्रफलां च दूरमुत्सारयन्तु / सौख्यसंवर्वकं मुनिवचः श्रुत्वा केचनात्र विरेमुः / फेचिच्च महात्मन् ! देव्युपम्हारसमपर्णमिदं कुलपरम्परागतं कथं त्यक्तव्यं स्यात् / अस्मदीयपरम्पराचारपद्धतिमजानन् भवानेवात्रोपदेशदानेऽपराध्यति / स्वसुखमाग. धयन् परोपकारधुरंधरोभवान स्थानादस्मात् त्वरितमेवान्यत्र प्रयातु। प्राणिनश्चैते म्रियमाणाः सर्वजनाभिलषणीयं दुरापं स्वर्गमेव प्राप्स्यन्तीति सरोषं सगर्वञ्चोचुः / यद्येवमनेन हिंसनेनालभ्यः स्वर्गलाभस्तर्हि , भवतां कि नाभिलषणीयः सर्गः। स्वयमेवोपहारीभताः प्राप्नुवन्तु स्वर्गम् / स्वकीयेनैव दृष्टान्तेन व्यवहरन्तु / एवं व्यवहारपरिपाटीमाश्रित्य तदनु शास्त्रप्रमाणैश्च वान् बोधयामास / दयाधर्मप्रचुरं वचनमाकये पश्चात्तापदुःख. दुःखितास्ते चौहानवीरमहारावप्रमुखाः सर्वे पशून् बन्धनस्थानादमुञ्चन् / पशवः सूरीश्वरमाशिषा संभावयन्तो मूकवाचा, स्वस्थानं गत्वा परमानन्दमवाप्नुवन् / सूरिश्च तान् धर्मतत्वमुपदिश्य जिनधर्मदीक्षां प्राहयामास / विनयान्वितो महारावो मालपुरागमनमभ्यर्थयामास / अङ्गीकृत्य तद्भावनां सूरिस्तंत्र कतिपयैः शिष्यैः सह ययौ / सर्वेभ्यो धर्मतत्वं तदाचरणसाधनानि च व्याख्यातानि / येन धर्मरुचिना महारावेण भव्यो जिनालयो निर्मापितः / यस्य प्रतिष्ठाविधिः सूरिणा वैक्रमे 1045 तमे वर्षे माघ शुक्लपूर्णिमायां विहितः / महारावस्य पुत्रः शिवनामा / तस्य च सूनुः सांवतः / असौ मनोवाकाय कर्मभिर्जिनधर्माचरणपरायणो बभूव / तद्भक्तिभाववशीभूता देवी सच्चायिका गरुडमारुह्यार्धनिद्रितावस्थायामस्मै दर्शनमदात् / सा च कल्याणिन् ! गोबन्धनस्थलस्याऽवस्तादक्षयो निधिः। तं गृहीत्वा धर्मकार्योपयोगेनात्मानं कृतार्थ कुरु" इत्युक्त्वा विरराम / अर्द्धनिद्रितः केवल मसो गरुडमद्राक्षीत् / तदनु सहसा तुमुलः शब्द उदचरत् / व्यक्तनिद्रो यावदितस्ततः पश्यति तावत्सोऽप्यन्तईितः / प्रबुद्धोऽसो रात्रिशेषं प्रभोगराधनेनात्यवाहयत् / प्रातर्जिनमन्दिरं गत्वा गुरवे निवेदयामास / गुरुश्च तमभ्यनन्दत् / प्राप्तं धननिधि शासनोत्कर्षे दीनानाञ्चोद्धरणे न्ययुक्त / यस्मिन् समये तस्य स्वप्नलाभस्तस्मिन्नेव समये धर्मपत्नी क्षत्रियकुलोत्पन्ना स्वप्ने पार्श्वप्रभुप्रतिमा बदर्श / उत्याय स्वपति निवेदयामास / स च स्वकीयं स्वप्नवृत्तान्तमकथयत् / अपि भाग्यशालिनि ! कोऽस्य. Page #132 -------------------------------------------------------------------------- ________________ [ 117 ] साधारणप्रभावो जीवस्त्वयि स्थितः / फलितास्ते मनोरथाः / धर्मेऽधिकां प्रीतिमावहेति तामगादीत् / व्यतीते च काले सा मंगलमूर्वि कुमारमसून / तस्य पारसेति नाम चकार / जनाश्च धर्मकर्मणि द्रव्यमुपयुञ्जानं तमब्रुवन् भोः कुतस्तवेयान् द्रव्यलाभः / भगवतो गरुडस्यैषः प्रभाव इति प्रत्युत्तरं प्राप्य तदनु तं गरुडेत्युपनाम्नाऽह्वयन् / एवञ्च तद्वंशजा गरुडजातीया इति प्रसिद्धाः / एवमेवात्र ओसवालवंशे इंसा-मच्छा-कागेत्यादिका जातयः प्रादुर्बभूवुः / अथ पारसजन्मान्तरं केनचिन्निमिनेन राज्ञा सह वैमनस्यमजनि / ततः सत्यपुरं विहाय स्त्रीपुत्रसहितो नागपुरमसावर्द्धरात्र एवाभिप्रतस्थे / तद् ज्ञात्वा राज्ञा अश्वारूढाः प्रेषिता मध्ये च ते मिलित्वा राजसन्देशं श्रावयित्वा प्रतिनिवर्तयितुमयतन्त / तेन च तन्निषेधः कृतः / संजातकोधैस्तैन सह कलहायितम् / शस्त्रप्रहारभीषणं युद्धमभूत् / चत्वारस्ते भूमौ पतिताः प्राणांस्तत्यजुः / असौ सांवतः तीक्षणशस्त्रप्रहारच्छिन्नगात्रो देहमुदसृजत् / सतीभवितुमिच्छती सा शान्ता पुत्रस्नेहविह्वला वस्तुजातमेकीकृत्य फलवृद्धिनगर. मयासीत् / तत्र स्वजातीय रक्षिता न्यवात्सीत् / यत्र धर्मघोषसूरिणा पञ्चशतसंख्यकैः शिष्यैः सह चतुर्मासो विहितः / धर्ममयकजीवना शान्ता पुत्रमुपलालयन्ती धर्मध्यानमेवाङ्गीचकार / एकदा रात्री देवी पद्मावती पारसमर्धनिद्रितं विबोध्यावोचत् / पारस ! पूर्वस्यां दिशि करीरवृक्षस्य समीपे प्रकृत्या गोर्दुग्धं स्त्रवति तस्य तले श्रीपार्श्वनाथस्य श्यामवर्णा प्रतिमा विद्यते / यदा त्वं तत्र गत्वा द्रक्ष्यसि तदा तत्र पञ्चवर्णा पुष्पवृष्टि पतितामेव द्रक्ष्यसि / देवीवचः श्रुत्वा तामब्रवीत्। भगवति ! यदुक्तं सर्वमहं विद्यास्ये किन्तु मन्दिर निर्माणाथै धनं नास्ति / यत् किंचिद् वस्तु रात्री करीरवृक्षतले स्थापयित्त्वा प्रभाते तत्र गतस्तत्सर्वमेव सुवर्ण भविष्यति तत एव सर्व सम्पाद्यमित्युक्त्वा साऽन्तर्दधे / स च प्रातरुत्थाय स्वप्नवृत्त मात्रे कथयित्वा मांगलिकवायघोषेण तत्स्थानं गत्वा यावद् भूखननं करोति तावत्तथैव श्यामवर्णा ददर्श प्रभुप्रतिमाम् / नीत्वा च शुभे स्थानेऽस्थापयत् / प्रारब्धं मन्दिर निर्माणम् / समाप्ते तत्कार्वे सूरीश्वरपार्श्वमेत्य प्रतिष्ठायै निवेदयामास / तेनावोचि-भव्य ! प्राचार्यः श्रीमद्देवगुप्त सूरिरधुना नागपुरे विराजते तमत्राह्वय / तेन सहैव मिलित्वा प्रतिष्ठाकार्य करिष्यामीति वचः समाकर्ण्य नागपुरं गत्वा प्रार्थयामास फलवृद्धिमलंकर्तुम् / शुभे दिवसे सूरीश्वरस्तत्राजगाम / महता समारोहणानन्देन च विक्रमस्य 1181 तमे संवत्सरे माघशुक्लपूर्णिमायां प्रतिष्ठा विहिता। मन्दिररस्यावशिष्ट कार्य नागपुरीयः समापितं तद्नु वादिनो देवगुप्तसूरीश्वरस्य वरदहस्तेन प्रतिष्ठाकार्य संपन्नमभूत् / संप्रति फलोदी नगरे कश्चिदेतद्विषयको लेखो नास्त्येव तथापि निम्नलिखितः शिलालेखः समुपलब्धः / यथा-"संवत् 1221 मार्गसिर सुदि 6 श्रीफलवद्धिकायां देवाधिदेवश्रीपार्श्वनाथचैत्ये श्रीप्राग्वटवंशीय रोपिणि मं० दसादाभ्यो आत्मश्रेयार्थ श्रीचित्रकुटीयसिजफटसहितं चन्द्रको प्रदत्तः शुभम् भवतु"। "बाबू० पूर्ण० सं० जैन लेख० सं० प्रथमखण्ड शि० ले० न० 870" भूरा-जाति:-नारपुरस्थ शिवधर्माराधकः भूरसिंहनामा सेनाधिपतिर्घामान्तरं गच्छन् संमुखमेव समागतान् साधून विलोक्यापशकुनमनुमाय तानतर्जयत् तावदेव पश्चादागच्छन् परमानन्दसूरिदृष्टः / सूरिश्च सर्व विदित्वा श्रमणाचारजिनधर्मस्वरूपादिकमवर्णयत् / श्रुत्वा च जिनधर्मस्वरूपं विशेषतो ज्ञातुमभ्यर्थनामकरोत् / सूरिश्च विशदं तत्स्वरूपमस्मै श्रावयामास / असौ च सन्तुष्टमानसो जिनधर्माराधको बभूव / नारपुरनगरे श्रीपार्श्वनाथमन्दिरं निरमापयत् / तस्य सप्त पुत्राः परमादरेण जिनधर्मानुरागिणः स्वाभ्युदयमकाएः / एतदीय. वंशपरम्परा भूराजात्या प्रथिता बभूव / जम्बुनागमुनिचरितम् / . प्राचार्यस्य श्रीसिद्धसूरेः शिष्योऽलौकिकचमत्कारपूर्णविद्यापारगो ज्योतिःशास्त्र कोविदो बभूव / Page #133 -------------------------------------------------------------------------- ________________ [ 118 ] स्वविद्याबलेनासो धर्मप्रचारं कुर्वन मरुधरप्रान्ते लुद्रुया ( लोद्रवा ) नगरं ययो / तत्रत्यः संघः सबहुमानमादृत्य निवेदयामास-म वन् ! वयमत्र नगरे जिनमन्दिर निर्माणाय प्रयतमाना ब्राह्मणानामुपद्रवेण विनिता विफलमनोरथा जाताः। भवत्समीपेऽस्माकं साऽभिलाषा पूर्णा स्यादित्येव प्रार्थयामहे / भवंतः सर्वे मिलित्वा राजानमेतदर्थ निवेदयतेविजम्बुनागमुनेर्वचनं सादरं श्रुत्वा तत्र गत्वा मन्दिरनिमार्णार्थ भूमि ययाचिरे / धर्मभावनां तेषां विदित्वा राज्ञा भूप्रदानं प्रतिश्रुतम् / मन्दिर निर्माणार्थ भूमिखननमारब्धम् / किन्तु द्वेषबुद्धिमिब्राह्मणैस्तदुपरुद्धम् / इदं ज्ञात्वा मुनिरसो. तान् सप्रश्रयमगादीत-भव्याः ! त्रिजगत्पूजनीयस्य परमाराध- / नीयस्य भगवतो जिनदेवस्य मन्दिरनिर्माणे भवतां का क्षतिः 1 अत्रोपरोधेन महत्तापाचरणं वो न न्याय्यम / यदि च शास्त्राभिमानो भवतां तहि मनोनुकूलेन शास्त्रार्थेन परीक्षितव्यः / एवमेतदीयं गर्वपूर्णमिव वचो निशम्य जिनमुनयो दार्शनिका इति ज्योतिःशास्त्रवादेन सुखं जेतव्या इति मत्वा शास्त्रार्यायोधता बभूवुः / उभयपक्षीय राजा मध्यस्थत्वेन स्वीकृतः / तेन चोक्तम्-मदीयं वर्षफलादेशं कुर्वन्तु / यस्य विशेषतो भूतकालीनं सत्यं स एव पक्षो विजयी भविष्यतीति। सर्वैश्वाङ्गीकृतम्। ब्राह्मणै दैनंदिनीयं तत्कृतम्। मुनिना च प्रत्येकघटिकाया / राज्ञा च तन्नीत्वा कोषाध्यक्षाय समर्पितम्। जम्बुनागेन भाविफलमित्यमुल्लिखितमासीत्-अमुकस्मिन् दिनेऽमुकघटीप्रमाणेन सम्रा यवनो 1 मुम्मुचिः पञ्चाशत्सहस्रसंख्यकैः सैनिकैः सह तव राज्यप्रणायाक्रमणं विधास्यति / यदि भवास्तदीय सेनानिवेशात् प्रागेव तं महता धेगेनाक्रमिष्यति तदा तव विजयो ध्रुवम् / नात्र सैन्यन्यूनता शंक्या / तदर्थमयं संकेत:-बदा भवानिर्गमिष्यति तं विजेतुं तदा मार्गागतस्य पाषाणस्य खण्डद्वयं विधास्यतीति / समीपमागते शत्री राजा युद्धार्थ निर्गतः स्वकुलदेवताभिवन्दनार्थ तन्मन्दिरं गच्छन्मध्यपतितस्याश्मनः खण्डद्वयमकरोत् / ततश्च जम्बुनागवचने विश्वस्य केशरी द्विपघटामिव शत्रुसेनां प्रमथ्य शत्रु जीवप्राहमगृह्णात् / तदीयकोसैन्यादिकमात्मसाच्चकार / बहवश्च सैनिकाः प्राणपरित्राणविह्वला दिक्षु पलायन्त / मुनिसमीपमेत्य कृतज्ञता प्रकटीचकार / तदादिष्टः स्वनारे भगवतो महावीरस्य मन्दिर निर्मापयामास / यत्र मूर्तिप्रतिष्ठा जम्बुनागेनैव संपादिता / ब्राह्मणाश्चापि / तस्मिन् मुनी परमस्निह्यन् / निर्मानमोहाः सरलमनसा व्यवहारमकार्षुः / असी मुनिः साहित्येऽपि सर्वाङ्गीणामुन्नतिमवात् / तन्निमिता प्रन्था नेदानीमुपलभन्ते केवलं संवत्सरे वैक्रमे 1005 तमे रचितं मुनिपतिचरित्रं 1025 वर्षे प्रणीतं जिनशताब्चेति द्वयं दृग्गोचरीभवति / अपररुच बहवो मौसमदिरासेविनः प्रतिबोधिता दीक्षा प्रापिताः / / श्रीपद्मप्रभमुनिचरितम् / / जम्बुनागमुनिपरम्परायां जिनभद्रो मुनीश्वरः समायातः / असौ सशिष्यो विहरन् पाटणनगरमयासीत् / अद्वितीयव्याख्यानपरिपाट्या श्रोतृमनांसि मोदयामास / सभायां राज्ञः सिद्धराजस्य भ्रातृध्यपुत्रः कश्चित् / क्षत्रियकुमारो धर्मरुचिरागतोऽभूत् / तस्य च धर्मभावनां शुभानि सामुद्रकलक्षणानि च दृष्ट्वा धर्मशासनसमुन्नति विचिन्त्य तज्जननीं प्रबोग्य तदनुज्ञातश्च तस्मै दीक्षामदात् / अल्पेनैव कालेन नूतनदीक्षितोऽसौ पद्मप्रभनामा मुनिः सर्वाणि शास्त्राण्यधीत्य पण्डितमण्डलीमण्डनायमानो बभूव / भगवत्याः सरस्वस्याश्चानुप्रहेण संगीते व्याख्यानवक्तृत्वकलायामलौकिकं प्राप नैपुण्यम् / विहारकालेऽसौ मुनिर्वस्तृत्वकलया सर्वानाश्चर्यरसनिमग्नान् कृत्वा वाचकपदवीमवाप / ___ एकदा पाटणनगरे धर्मव्याख्यानकौशजमस्य हात्वाऽचार्यः श्रीहेमचन्द्रसूरिः स्वस्थाने वमायद् व्याख्यानार्थम् / असौ च बापदायावस्वावदेव सूरिः कुमारपालश्च राजा समायामेव निभुवो तत्स्थतुः / श्रुश्वा Page #134 -------------------------------------------------------------------------- ________________ [ 116 ] च शब्दच्छटाबहुल भावमनोहरं प्रौढार्थनिर्भर व्याख्यानमाकर्ण्य श्रीहेमचन्द्रसूरिश्तस्मिन् पद्मप्रभमुनी समधिकादरोऽनु दिनमस्निह्यत् / धर्मप्रचाराय समभावनाभावितो तो समुचितसर्वगुणसंपन्नाय पस्पर्द्धतुः / अन्ते स्वसमीपे स्थापयितुं देवप्रभं मूरिजिनमद्रमुनि न्यवेदयत। स च तन्निषेधमकरोत / प्राचार्यस्य राज्ञः कुमारपालस्य वशवतित्वमालोच्य स मुनीश्वरः पद्मप्रभेण सहाधरात्रे सिनपल्ली (सिनवली) नामके स्थाने स्थितिमकरोत् / पश्चाद्राजपुरुषा इतस्ततोऽन्वेषयन्तो नासाद्य प्रतिनिववृत्तिरे / ___अथ यत्रोभी स्थिती तत्समीपवर्तिनो नागरिका कस्यचिद्भावुकस्य शरीरे कृतसंन्निधानया देव्या उक्ताः / भद्रमुखाः ! ह्यो मुनीश्वरौ युष्मद्प्रामसमीपमायाती तत्र पद्मप्रभ नाम मुनिं गत्वा देवी स्वमन्दिरे भवन्तमाह्वयतीति निवेदयत / भुत्वा च ते तत्र गत्वा देवीसंदिष्टं न्यगादिषुः / मुनिश्च श्रुत्वा जगाम तन्मन्दिरम् / प्रणनाम च भगवतीम् / सा तमवादीत् कल्याणिन ! अहं त्रिपुरादेवीं वन्दनार्थमगमम् / तया चाहमादिष्टा यत्तव मन्दिरे योऽयं पद्मप्रभो मुनिरागच्छेत्तं त्वं निवेदय-स्वया जन्मत्रयं म उपासना विहिता किन्त्वल्पायुषा त्वया नाहमधिगता / अतः परं त्वं मामाराधय यतोऽहं से सिद्धा भविष्यामीति / एतनिवेदनायैव मया त्वमाहूतः / असो तु विधाय वन्दनं तदारभ्यैव त्रिपुरादेव्याराधनमकरोत् / क्रमेण च सा मन्त्ररूपेणाराधिता वरमस्मा अदात् / उपाध्यायपार्श्वमागत्य सः सकलं वृत्तान्तमवोचत् / स च शिष्योत्कर्षसन्तुष्टमानसो बभूव / शिष्योत्कर्षस्तु गुरोरेवोत्कर्षसाधकः / ततो विहरन्ती तावुपाध्यायवाचको मुनीश्वरी सिन्धप्रान्ते उमरेलपुरमा जग्मतुः / तदानीं सुहडनामा नृपत्तिः प्रजाः शशास / यः प्रातः प्रतिदिनं सपादकोटिपरिमितं धनं विभज्य याचके भ्यो ददाति स्म / मंत्री च यशोदित्यः परमधर्मरुचिरस्तस्य हितैषी प्रजापालने साहाय्यमाचरति स्म / उभौ तौ महामहोत्सवपुर:सरमनयोः स्वागतविधि संपादयामासतुः / तदनु वाचकस्य पद्मप्रभस्य मुनेरश्रुतपूर्व मनोमोदकं सारगर्भितं व्याख्यानं श्रुत्वा सप्रश्रयं गजा द्वात्रिंशत्सहस्रपरिमितान् द्रम्मान (तदानींतना तन्नामिका मुद्रा) तावत एवा। श्वान् तत्प्रमाणानेव चोष्ट्रानुपायनरूपेण समर्पयामास सन्तुष्ठमानसः / असौ तु निःस्पृहो न मे धनादीनां प्रयोजनम् / धर्मप्रचार एव मे मुख्य प्रयोजनं येन तत्रैवेदं धनमुपयुक्ष्व / मंत्रिणानुमतः स राजा विचार्या. श्वोष्ट्रकप्रमाणकांश्चतुःषष्टिसहस्रसंख्यकान द्रम्मान् परिकल्प्य मिलित्वा षण्णवतिसहस्रपरिमितान द्रम्मान धर्मकर्मणि विन्ययुक्त / यशोदित्यश्च मन्त्री तेन धनेन रामरोदीनगर्या भव्यं जिनालयं निरमापयत् / यस्य प्रविष्ठाविधानं समजनि जिनभद्रवरदहस्तेन / एवं ततो यशोदित्यसहायेन पजावप्रान्तं विहरन्नाथयो / आगधयामास त्रिपुराम् / प्रसन्ना च सा वचनसिद्धिरूपं वरमदात् / एकदा मागें वृषभस्य पोठे मारिचपूर्णा गोणों संस्थाप्य प्रामान्तरं गच्छन् कश्चिन्मिलितः / उपाध्यायेनोक्तम्-भद्रमुख ! किं तव गोण्यां वर्तत इति / जातशंकः स माषा वर्तन्त इत्यवोचत् / तथास्त्वित्युक्ते यावत्पश्यति गोण्यामसो माषानेवादाक्षीत् / तत्प्रभावानभिज्ञतया मृषा वदन्नसौ क्षमामयाचत / ततश्च जातदयेनोपाध्यायेन पूर्ववदेव माषाः मारिचानि कृतानि / एवं वचनसिद्धिविद्याप्रयोगनिरतः स गुरुणा सह गुर्जरप्रान्तमाययो। तत्र भीमदेवस्य राज्ञो महिषी प्रतिदिनमध्यात्मशास्त्रनिरता वस्तुतत्वावधारणसमर्थ योगिनं कंचिदप्यलभमाना समागतानपि पण्डितान मुनीश्च नाद्रियत / न चासनादप्युदतिष्ठत् / एतदीयं वृत्तान्तं श्रुत्वा गुरुशिष्यौ तत्पाव ययतुः / सा तु पूर्ववदेवोदासीना नैव तयोः सम्माननमकरोत् / उपाध्यायेनाभ्यागतसत्कार विधावस्या नादरहेतुः पृष्टः / समीचीनतत्वविदः प्रायो यत्र दुर्लभा दृश्यन्ते योगिनो ये स्वयं तथैवाध्यात्मज्ञानाराधनैकबुद्धयो भवन्ति / स्वविद्याचमत्कारदर्शनपरोऽसावुपाध्यायम्तामवादीत्-कल्याणिनि ! अष्टांगयोगमर्मज्ञोऽहम् / अत्रैव त्वदने प्राणान् निरुन्धे / त्वया च मदीयानि प्राणवहिर्गमनस्थानानि कार्यासेन Page #135 -------------------------------------------------------------------------- ________________ [ 120 ] निरोद्धव्यानि / ब्रह्मरन्ध्रेणैवाहं प्राणाम् प्राणनिरोधानन्तरं बहिर्मोक्ष्यामति / तया च कौतुहलाकृष्टचेतसा तथैव स्वीकृतम् / प्राणायामविधिसमाप्तिकाले प्राणवायुब्रह्मरन्ध्रेण बहिर्निगतः / तदुपरि स्थितं कार्पासं दूर पतितम् / सा राजमहिषो मटित्येवासनादुत्थाय साष्टाङ्गं प्रणाम / प्रभूतं च द्रव्यमुपायनं ददौ / निःस्पृहेण तेन प्रद्मप्रमेण मुनिना सन्मार्गव्ययस्तस्य धनस्योपविष्टस्तस्यै / शुभलक्षणे काले गुरुत्वेम पूजयामास / एवं विद्यायोगसाधनवचनसिद्धिसमन्वितो महाप्रभावाकृष्टसकलजनहृदयोऽसौ जिनधर्मस्य प्रभावमभिवर्धयामास / बहवो मुनयः श्रीजम्बुनागाचार्यस्य परम्परायां महाप्रभावसंपन्ना जिनधर्मप्रचारकार्यसमर्थकाश्च बभूवुः / अनेन सुस्पष्टं विज्ञायत एव श्रीसिद्धसूरीश्वरस्य शासन कार्य समुचितशिष्यमण्डलेनैव सौकर्येणानुष्ठितम् / आचार्य श्री सिद्धसूरीश्वरश्चित्रकोटनगरे श्रेष्ठिगोत्रीयेण मांडाशाहेन समनष्ठिते सूरिपदमहामंगलोत्सवे भुवनकलशनामानं सकलविद्यापारहश्यानमाचार्यगुणभूयिष्ठं 1074 तमे वैक्रमेऽन्दे वैशाखे शुलत्रयोदश्या दिनानि षोडशानशनेनातिवाह्य दिवमगात / वि० सं० 1.74 तः] 48 प्राचार्यः श्रीकक्कसूरिः [एकादशः वि० सं० 1108 तः प्राचार्यः श्री कक्कसूरिः प्रतिभासंपन्नो बालब्रह्मचारी तीव्रतपस्वी हिमांशुरिव मृदुप्रकृतिः सहस्त्रांशुरिव प्रचण्डप्रतापो मेरुरिव दृढस्वभावः श्रीसिद्धसूरिपट्टपदं भूषयामास / असौ गुर्जरदेशालं कारभूताणहिलपुर (पाटण) निवासी। एतन्नगरनिर्माणविषये संक्षिप्तमितिवृत्तमिदम्-राजा जयशिखरः परमशौर्यसंपन्नो प्रतिपक्षीयेण नृपतिना भुवडनाम्ना सहसाऽकान्तो तुमुले युद्धे स्वर्गपथप्रवासी बभूव / रूपशीलसौजन्योपेता महिषी रूपसुन्दरी मौलै रक्षिता संपूर्णगर्भदिवसाऽरण्यवसतिमकरोत् / पूर्णेकाले वनराजनामकं केशरिकिशोरमिव पुत्र प्रासूत / एकदा पंचासर चैत्यवासी शीलगुणसूरिविरन् यत्र वृक्षे प्रन्थिबद्धवने सुप्तमेनमपश्यत् / वृक्षछायां तस्योपरि स्थिरतां गतामालोक्याऽयं शिशुमहामहिमशाली भविष्यतीति निश्चिकाय / तदनु तत्रागतां रूपसुन्दरीं तद्वृत्तान्तमसावप्राक्षीत् / तया च सर्वमुदन्तमश्रुमुख्या सकरुणं निवेदितम् / ताञ्च समाश्वास्य सूरिः पंञ्चासरं गत्वा तत्रत्यान् श्रावकान् घृतान्तमिमं निवेदयामास / जातदयास्ते च तत्र गत्वा रूपसन्दरी नवजातशिशुसहितामानीय साहाय्यं विधाय स्वप्रामे वसतिमकारयन् / सा च जिनधर्मानुरागिणी जिनदेवमाराधयन्ती दिनान्यनैषीत् / व्यतीते च काले गोपालकानां सवयस्कानां साहाय्येन अणहिलनामकस्य गोपालाप्रेसरस्य स्मृतिचिन्हरूपेणाणहिलपुरनगरनिर्माणमकरोत् स वनराजः / वैक्रमे 802 तमे वत्सरे वैशाखशुक्लतृतीयायां रोहिणीनक्षत्रे शीलगुणसूरेसिःक्षेपपूर्वकं वनराजस्य राज्याभिषेकोऽभूत् / वनराजश्च गुरूपदिष्टमार्गेण मरुधरदेशादुपकेशवंशीयान् प्राग्वटगोत्रीयान मालववंशजांश्चाहूय स्वनगरे विविधमानुकूल्यं कृत्वा तत्रापिवासमकारयत् / दिने दिने चास्य सर्वजनमनोमोदप्रदाऽभ्युन्नतिर्बभूव / चावडोपाह्वो वनराजः क्रमेणाचार्योपदेशानुष्ठितप्रकारेण स्वकीयाद्वितीयपौरुषबलेन च पितुः समपं राज्यं प्राप / अस्मिन्नेव समृद्धिमति नगरे बप्पनागगोत्रीयश्चन्द्रनामा वाणिज्यकर्मनिपुणः कोट्यधिपः श्रेष्ठी प्रति. वसति स्म / अस्य पिता पुनडशाहो व्यापाराथै विदेशं गत्वा महामूल्यानि रत्नानि प्रभूतान्याससाद / तेन च सप्तांगुलप्रमाणा माणिक्यमयी प्रभूप्रतिमा गृहे पूजार्थं स्थापिता / श्रेष्टिनश्चन्द्रस्य पंच पुत्रा आसन् / कनीयान् भोजश्च पितुरिव व्यापारकर्मसंलग्नोऽपरिमितं द्रव्यमलभत / विदेशेषु परिभ्रमणेनासौ हीरकनीलपनरागादीनि रत्नान्युपार्जयामास / ततश्च जिनदेवदृढानुरागया धर्मपत्न्या मोहिन्या विविधरत्नमयी माला निर्माय प्रमुकंठे समर्पिता / तदर्थ च भगवत आदीश्वरस्य चैत्यालये महानुत्सवो विहितः। मोहिनीप्रणयमनुमान्य तेनैव Page #136 -------------------------------------------------------------------------- ________________ [ 121 ] भगवतः कण्ठे- मालार्पणं विहितमासीत् / तदनन्तरमियं मोहिनी दर्शनाय गता हारं नाद्राक्षीत् / ततश्च गृहमेत्य पतिमवादीत् / दयित ! भवदनन्तरं देवदर्शनाय याता मन्दभागिन्यहं हार नाक्षम् / परमश्रद्धासमन्वितया मयैव तत्सुकतमनुष्ठितं यस्य दर्शनेऽपि मे नाधिकारः। असौ च श्रेष्ठी समाश्वासयन्नाह-अवश्यमेव स मया प्रमुकण्ठे समर्पितो, यस्य रक्षणं देवालयाधिष्ठायकस्याधीनम् / स एव व्यवस्थां विदधाति / यद्येतदधीनमिदं तदा कथमसावत्रोदास्ते / तेन तु तस्यान्वेषणमवश्यमेव कर्तव्यमिति प्रकारेण हारविषयको विवादः प्रतिदिनं प्रचलति स्म / , एष्वेव दिवसेषु महाशासनप्रभावकः श्रीसिद्धसूरीश्वरः पाटणनगरमलं कर्तुमाययौ / श्रीसंघश्च भव्येन स्वागतविधिनाऽस्य नगरप्रवेशमकारयत् / असौ समयोचितां मांगलिकी देशनां भावुकेभ्यो ददौ। तदनुक्रमेणा. त्मकल्याणसाधनानां दुष्प्राप्यत्वं मनुजजन्मनश्च महामूल्यत्वं व्याख्याने सशास्त्रं सयुक्तिकमवर्णयत् / येन बहवः श्रावका वीतरागा बभूवुः / प्राप्तवैराग्यो भोजश्च मोहिनी प्राबोधयद् दीक्षामहणार्थम् / हारविषयिणी दुराशाऽपि मां बाधते इत्युक्त्वा सा भृशमुद्विग्ना बभूव / तस्यामेव रात्री हारो देव्याऽधिष्ठायिकया भोजाय दत्तः। प्रातरसो तस्यै तमदर्शयत् / सन्तुष्टान्तरंगा सा देवालयाधिष्ठायकाय हारं समर्पयापास देवभूषार्थम् / ततश्च भोजो नागरिकान् दीक्षाग्रहणाथै न्यवेदयत् / तेन च चतुस्त्रिंशत्संख्यका भावुका दीक्षोद्यता बभूवुः / विक्रमस्य 1055 तमे संवत्सरे वैशाखे शुक्ल तृतीयायां शुभे दिने सूरीश्वरवरदहस्तेन तैः सह मोहिनीसहितश्च भोजो दीक्षामप्रहीत् / दीक्षानन्तरं मुवनकलशनाम्ना विश्रुतो बभूव / ... मुनिरसौ भुवनकलशः क्रमेण न्यायव्याकरणकाव्यकोशादीन्यधीत्य जिनागमरहस्यपारंगमो निखिलगुणकमनीयमूर्तिः पद्माशाहेन समनुष्ठिते दीक्षामहोत्सवे विक्रमसंवत्सरे 1074 तमे माघशुक्लपूर्णिमायां श्रीसिद्धसूरिणाऽचार्यपदे श्रीकक्कसूरीति नाम विधाय प्रतिष्ठापितः / / परमप्रभावकः शासनाभ्युदयकर्मपरायणोऽसौ षष्ठपारणवतमन्वतिष्ठत् / तत्राप्येकविप्रयग्रहणस्य भीषणां प्रतिज्ञा पालयामास। विमलतीव्रतरतपोऽनुष्ठानेन काश्चिदपूर्वा लब्धयोऽस्य स्वयमेव प्राप्ताः, तथैव सर्वजनचेतश्चमत्कारकाः शक्तयोऽपि / येन न केवलं साधारणजनताया अपितु महामहिम्नो राज्ञां महाराजानां च मनांसि समाकर्षत् / तीव्रतपश्चर्यालब्धसिद्धिश्च विहरन् सशिष्यो धर्मप्रचारमालक्ष्य नागपुरमगमत् / सम्पादितमस्याकृत्रिमप्रेमरसाभिरामं भव्य स्वागतं श्रीसंघेन / तदभ्यर्थनामादृत्य तत्रैवावात्सीत् स चतुर्मासव्रतार्थम् / विविधागमज्ञानपूर्णान्यस्य व्याख्यानानि सर्वेषां भावुकानां चेतःसु कामपि धर्मभावना प्रादुरभावयन् / समाप्ते च चतुर्मासे सूरीश्वरप्रभावसमेधितभक्तिरसपूर्णान्तरंग आदित्यनागगोत्रीयः कर्मणशाहः शत्रुजयतीर्थमुद्दिश्य संघं निष्कासयामास / तत्र संघे सहस्रत्रयपरिमिताः साधवः साध्व्यो लक्षपरिमिताश्च जनाः समगच्छन्त / क्रमेण तीर्थस्थानं गत्वा मणिमौक्तिकदामभिः पूजाप्रभावनादिकं चकार / अथ सूरीश्वरः सशिष्य उपकेशपुरमयात् / श्रीसंघेन च कृतसत्कारोऽभूत् / भावुकानां भव्यां भावनामनुमान्योररीचकार तत्र चतुर्मासावस्थानम् / सर्वसौख्यमार्गप्रदर्शनपरं वैराग्यभावनोपयुतं व्याख्यानमाकये दश भावुका दीक्षास्वीकरणेनात्मानं पावयामासुः / तदनन्तरमपरश्चतुर्मासः पालीनगरे निर्धारितः। बप्पनागगोत्रीयेण मलाशाहेन श्रीभगवतीसूत्रवाचनामहोत्सवोऽनुष्ठितः / तृप्तभट्टगोत्रीयो बालामेहराजोऽष्टाहिकामहोत्सवाराधनेनालभ्यं धर्मलाभभलभत / यत्र चानेन लक्षपरिमिता मुद्रिका नियुक्ताः / स्वधर्मिभ्यो यथायोग्य सुवर्णमुद्रिकामूल्यवस्त्रादिकमुपहारीकृतम् / चतुर्मासानन्तरं भाणाशाहस्य श्रेष्ठिगोत्रीयस्य सुपुत्र उदाशाहः परिणयानन्तरं षट्सु मासेष्वसीतेषु धर्मपत्नी परित्यज्य जातवैराग्यो दीक्षामग्रहोत् / यत्र महोत्सवे सपादलक्षं धनं 16 Page #137 -------------------------------------------------------------------------- ________________ [ 122 ] चिनियुक्तमासीत् / एवमत्र धर्मप्रचारमाधाय भिन्नमाल-सत्यपुर-शिवगढ-जावलीपुरादिषु धर्मजागृतिं कुर्वन् सूरिश्चन्द्रावती चतुर्मासावस्थित्याऽलंचकार / अत्र च सूरीश्वरोपदेशसमासादितधर्मसंस्काराः पंवार जातीयाः क्षत्रिया जिनदीक्षा प्रापुः / प्राग्वटवंशेऽन्तर्भाविता आचार्येण।। शाकम्भयो नगयों दुर्दैववशान्महामारी गेगः सहसोदभूत् / मन्त्रतन्त्रदेवागधनादिकान् बहूनप्युपायान् कृत्या ब्राह्मणा निष्फला बभूवुः / ततः श्रीसंघस्तच्छान्तये सूरीश्वरमानेतुं चन्द्रावतीमयुः / परोपकारमात्र. जीवनो निःस्पृहः सूरिस्तेषां वचनमादृत्य तत्राजगाम / एत्य चाष्टाह्निकामहोत्सवं, शान्तिस्नात्रपूजां च विधाय स्वयं चाष्टमिकं तपोऽनुष्ठाय जिनदेवमाराधयामास / येन त्वरितमेव रोगोपद्रवः शान्तिमगात् / असाधारणमा हिमानं तं विदित्वा ब्राह्मणा जिनधर्मानुयायिनो दीक्षिताः श्रीसंघेन मिलिताः परमानन्दमवापुः / धर्माचरणानुरक्तचेताः सुचन्तिगोत्रीयः फागुशाहो भगवतो महावीरस्य मन्दिरं ज्ञानध्यानोपयोगार्थ पौषधशालाच निरमापयत् / डिडगोत्रीयश्चार्जुनशाहो वैराग्यज्ञानसंवर्धनाय च श्रीभगवतीसूत्रवाचनामहोत्सवमकारयत् / एकदा स्थंडिलभूमिं गत्वा प्रतिनिवर्तमान सूरि चौहानजातीय आभडरावोऽन्ये चाश्वारोहा मृगयाये गच्छन्तो मार्गे मिलिताः / तदीयानुपमप्रभावप्रतिष्टब्धमृगयाभिलाषास्तेः किंकर्तव्यमूढा बभूवुः / सूरिश्च तानाकारवेषपरिधानादिना क्षत्रिया एवैते मत्वा हिंसाप्रवृत्तिं च तेषां दूरीकर्तुमहिंसाधर्मतत्वमुपदिदेश-निखिलप्राणिनां च प्राणा नितान्तं प्रियाः / तदर्थमेव ते सर्वथा चेष्टन्ते स्वस्वमार्गेण / उक्तव्चैतद् आचारांगसूत्रे यथा / सत्वे सुह सापा दुह पडिकूला अप्पिय वहा पिय जीविणो तम्हा णातिवाएज किंचणं / / ___अर्थात-सर्वेषां जीवनमभिमतम् / अनुकूलं सुखम् / दुःखञ्च प्रतिकूलम् / पूर्वकृतसुकृतपरिणामरूपो देहो यथा स्वकल्याणमेव साधयितुं प्रभवेत्तथैवाचरणीयम् / कृतं च भोक्तव्यं देवमनुष्य॑तिर्यग्जातीयैः सर्वैः / यतो युष्माभिः स्वात्मदृष्टान्तेनात्र व्यवह्रियताम् / तथैव वो ध्रुवं श्रेयः / एतदर्थ भगवती सर्वकल्याणप्रधाना केवलमहिंसैव सर्वाणि श्रेयांसि साधयितुमलम् / एवमाचार्यभाषितमात्मोन्नतिसाधनपरं सादरमाकण्यं ते विलज्जमानाः क्षमामयाचन्त / सूरिसमक्षं दृढप्रतिज्ञा चाहिंसाधर्मपालनाय कृता / स्वनगरं तमाचार्य नीत्वा जिनदीक्षां जगृहुः / ततः परमपि शतत्रयमिताः क्षत्रिया वासःक्षेपपूर्वकं दीक्षां प्रापिताः / सर्वे च धर्मव्याख्यानलाभेन कृतार्थतामगमन् / एवमसी धर्मप्रचारमात्रेण स्वकीयब्रह्मचर्यतपःप्रभावेण शासनकार्य साधयामास / . सूरीश्वरानुमत आभडरावश्चिन्तामणिपार्श्वनाथस्य मन्दिर निर्मापयति स्म / श्रीशत्रुञ्जययात्रायै संघ निष्कास्य प्रभूतपुण्यमाससाद / मन्दिरनिर्माणाय भूखननलब्धधनेनासी स्वश्रेयःसमाराधनतत्परः समाप्ते जिनालये सूरीश्वरविमल करकमलेन प्रतिष्ठामकारयत्। सत्संगतिः कथय किं न करोति पुंसामिति सत्यमेबोक्तम् / श्रोसवालवंशे तज्जातीया श्राभडसंज्ञया प्रथिता बभूवुः / एवं सर्वत्र विहरणकाले प्रबलतरोत्साहेन धर्माभ्युदयं कुर्वन् सूरीश्वरः सच्चायिकावचनानुसारेण मेदपाटप्रान्ते व्यहार्षीत् पञ्चशतपरिमितैःशिष्यैः सह भाषाटनगरे चित्रकूटे, उज्जयिन्यां चन्देरीनगरे च चतुर्मासाधिवासेन भावुकानां दीक्षाप्रदानमभिनवमन्दिरमूर्तीनां च प्रतिष्ठापनं जैनेतराणां जिनधर्माभिरुचिजननश्च संपाद्य मथुरानगरी विभूषयामास / तत्र कोरण्टकगच्छीयस्य सर्वदेवसरेः समागमेन विशेषतः कार्यसौकर्यमभूत् / जैनानां ब्राह्मणानाज मिथः काकोलुकीयम् / विप्रवर्याणां च जिनपंप्रदायो वेदनिन्दक इति दूषणं शास्त्रार्थेनैव परिहृतम् / मिथ्याग्रहमहाभिभूतमानसास्ते जिनधर्मतत्वं सूरीश्वरात् सम्यग् ज्ञात्वा दीक्षामापुः / - सूरीश्वरश्चैकदा सम्मेतशिखरादीनां द्वाविंशतिसंख्यकानां तीर्थानां सरलमधुरया वाचा वर्णनमाचष्ट, येन तीर्थयात्राभिरुचेर्बप्पनागगोत्रस्य नाहटाशास्त्रीयस्य श्रावकस्यासलस्य पूर्वप्रान्तीयतीर्थयात्रायै संघायोजनेच्छा Page #138 -------------------------------------------------------------------------- ________________ / 123 1 समुद्भता / तदर्थमसी प्रार्थयामास / सर्वत्रामन्त्रणानि प्रेषितानि / आचार्यस्याज्ञा संप्राप्य वैक्रमेऽन्दे 1086 तमे मार्गशीर्षशुक्लपूर्णिमायां सूरीश्वरस्य नेतृत्वे वस्य च संघपतित्वे महान् संधो यात्राभिमुखं प्रययो / यात्रायां पूजाप्रभावनाष्टाहिकामहोत्सवध्वजारोपणादीनि सत्कर्माणि संपाद्य स्वामिवात्सल्यमपि विहितम् / संघश्च प्रतिनिववृते / प्राचार्यस्तु कलिंगदेशमयात् / तत्र कुमारकुमारीतीर्थयात्रा संपादयन् सशिष्यः पूर्वस्यां दिशि व्यहार्षीत् / श्रीमद्भगवतः पार्श्वनाथाय कल्याणभूमौ वाराणस्यां दर्शनस्पर्शनपूजादिमिरात्मा पावितः / ततः पचाबप्रान्त परिबभ्राम / साधवः साध्व्यः समुपासकाश्च तदीयदर्शनोपदेशश्रवणादिभिः परममुदितान्तरात्मानो बभूवुः / चतुर्मासद्वयेन धर्ममूलस्थैर्यमापादितमत्र / पदवीप्रदानेन समुचितेभ्यो मुनिभ्यो धर्मप्रचारकर्तव्ये समुचिता देशनां दत्वा सिन्धदेशमाजगाम सः / नवोद्यतं चन्द्रमिव पश्यन्तो भावुका निनिमेषनयना बभूवुः / समारोहपुरःसरमस्य भव्य पुर प्रवेशं कारयामासुः / गोसलपुर-डमरेल-मारोटकोटेषु नगरेषु चतुर्माससमये वीरपुरनगरे श्रमणानां सभा संपाद्य तेषां चेतःसु कर्तव्यभावनोत्साहमधिकमवर्धयत् / संमानिताश्च योग्यतां गता मुनयो गणिगणाध्यक्षोपाभ्यायपदैः / अनन्तरं कच्छप्रान्ते भद्रेश्वरपुरे चतुर्मासस्थित्या धर्मसंभावना विहिता / तदनु सौराष्ट्रदेशमा पयो / तत्र श्रीशत्रुजययात्रामकरोत् / तदानीमत्र मरुधरवासिनां त्रयः संघा भरोचनगरस्य चैकः संघः समागतः / चतुर्णा पञ्चमेन समागमः सामदानभेददण्डानामपायानां फलसंपद्गुणेनेव विशेषेण मनोरमोऽभूत् / जंगमतीर्थलाभोऽपि पुण्यप्रदो लब्धः संघेन / संघाश्च विधाय यात्रां स्वदेशं प्रत्यगच्छन् / उषित्वा तत्र च कतिचिद्दिनानि सूरीश्वरः सौराष्ट्रलाटदेशयोर्विहरणक्रमेण भृगुकच्छमाजगाम / तत्र विंशतितमस्य तीर्थकरस्य मुनिसुव्रतस्वामिनो दर्शनस्पर्शनादिकं कृत्वा कोकणदेशस्य प्रधाननगरे सौपारपत्तने परिभ्रमणं व्याख्यानदानं धर्मप्रचारं च विधाय शौर्यपुरमवात्सीत् चतुर्मासनताय / अत्र महती धर्मप्रभावना कृतां / पञ्चदशवर्षापर्यन्तविहरणेन सार्धशतपरिमितानां दीक्षादानम्, परःशतानां मांसादिपरिहारव्रतम् / जैनेतरान् दीक्षया जिनधर्म स्थापयित्वा-ओसवंशाभिवृद्धिः, शास्त्रार्थेषु वादिविजयश्चैतत्सर्वमेव शासनकार्य वकीयसततोत्साहन संपादितम् / अथ वार्द्धके सूरीश्वर उपके शपुर एव चिरस्थितिमकृत / सकलशिष्यगुणसमन्वितं शासनगौरववर्धनक्षम देवचन्द्रोपाध्यायं सूरिपदसमुचितमिति मत्वा चिंचटगोत्रस्य देसरडाशाखीयेन जयकरणशाहेनानुष्ठितेऽष्टाहिकामहोत्सवे भगवतः श्रीपार्श्वनाथस्य मन्दिरे चतुर्विधसंघसमक्षं सूरिपदे प्रतिष्ठायमास देवगुप्तसूरिनाम्ना। स्वयम्चैकविंशतिदिनान्यनशनं विधाय सुरलोके पदं न्यधात् / धर्मवीरो भैंसाशाहः-गदइयाजातिश्च / डिडूपुर (डिडवाना) नगरे द्रव्येऽपरो वैश्रवण इव भैंसाशाहो गधाशाहश्च प्रतिवसति स्म / नामैतयोः पशुसहशं, कर्म तु धर्ममयम् / जिनधर्मानुरागिणावेती शमदमाविव परं स्नेहमुपागतौ सुहृदौ वाणिज्यकर्मकुशलो देवपूजनशास्त्रश्रवणादिभिः सत्कर्माभिश्च समयमत्यवाहयताम् / व्यतीते च कियति काले दैववशादसौ गधाशाहो परं दारिद्रय मुपागतः / न च सर्वथा सर्वदा प्राणिनां सुखं दुःखं वा / यदुपनतं तदेव भोक्तव्यम् / अत एवोक्तम् / सुखमापतितं सेव्यं दुःखमापतितं तथा। चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च / ततश्च मित्रेण भैंसाशाहेन प्रभूतमस्य साहाय्यमाचरितम्। येनासौ दुःखादुन्मुक्तः / अथ देवप्रातिकूल्याद् भैंसाशाहस्य व्यापार महसी क्षतिरायाता। विदेशादागच्छन्तः प्लवाः समुद्रमध्ये मज्जिता अभवन् / तथाप्यसो Page #139 -------------------------------------------------------------------------- ________________ [ 124 ] धर्ममयकजीवनो महता दुःखेन समयं यापयति स्म / तदीयां दुर्दशामालोच्य सुहृद्धर्ममनुस्मरन् कृतोपचार जानन् गधाशाहो रहस्तपार्श्वमुपेत्यावोचत्-मित्र ! मा ते दुःखं भवतु / भवदीयमेवेदं धनमिति मत्वा गृहाण / त्वया च बहूपकृतम् / मया च तन विस्मर्तव्यम् / उपकारस्तु प्रत्युपकारेण शोभते / इयमेव नीतिः / यथा अचिरादुपकर्तुराचरेदथवात्मौपयिकीमुपक्रियाम् / पृथुरित्थमथाणुरस्तु वा न विशेषे विदुषामिह ग्रहः // श्रुत्वा च तद्वचोऽसौ तमवादीत्-अयि सखे ! त्वदुक्तं सर्वमेव सत्यम् / यच्चोपस्थितं शुभम शुभं वा फलं तदेवानुभवितव्यम् / भोगेन कर्मणां क्षयः। कर्मक्षयं विना न निरतिशयसुख्खास्वादः / तदभावे च किमिदं जीवनम् / यत्रात्मकल्याणं नासायते कर्मबन्धनेनेदं दुःखमनुभूयते / पुनरहं त्वत्साहाय्यं प्राप्य कथमपरमप्यनर्थजनकं गृह्णीयाम / यच्चाकर्तव्यं तत्तु नैव कर्तव्यम् / अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि / कर्तव्यं तत्तु कर्तव्यं प्राणैः कण्ठगतैरपि / श्रत आत्मकृतानां कर्मणां फलमात्मनैवानुभवितव्यमित्येवं जानामि / त्वं तु मित्रधर्ममतुसरसीति प्रशंसनीय एव / बहुविधं बोधितोऽप्यसौ स्वनिश्चयं न तत्याज / अथैकदा परोपकारी लब्धिसंपन्नः करुणा वलयः श्रीककसूरि भ्रमणनिमित्तेन तत्रायासीत् / स्वयमेव गोचरीचर्यायै तदीयगृहं जगाम / अनेन च खिनचेतसा परमधार्मिकेण बर्जरीधान्यं (बाजरी ) गोचरीरूपेण दत्तम् / तदीयां भक्तिं परीक्ष्य सूरीश्वरस्तद्धान्य राशेरुपरि रजोहरणं भ्रामयामास / येन धान्यगशिः सुवर्णमयो जावः। एतद् दृष्ट्वाऽश्चर्ययुतमानसः स प्राचार्यचरणकमलयुगले प्रवृद्धभावनो बभूव / प्राक्तनकर्मक्षयेऽस्योपादानकार• णात्पृथक् सूरीश्वरसमागमरूपं निमित्तं कारणं प्राप्तमतः पूर्ववदेव धनाधिपोऽभवत् / महात्मना किं दुःसाध्यम् सुरीश्वरश्च ततो विजहार / भैंसाशाहोऽपि गुरुपादपद्मवन्दनं विधाय गृहमायातः / अक्षयद्रविणराशिलाभेनासौ गदइया-नामिकाः सुवर्णमुद्रा - निरमापयत / गुरुकृपाप्राप्तधनराशिनाऽनेन भव्यो जिनालयः, प्रवासिनामुपयोगार्थमगाधजलः कूपो, नगरपरिरक्षणार्थञ्चाभेयो दुर्गश्च निर्मापितः / अधापि तत्स्मारका एते विद्यन्त एव / गदइयामुदानिर्माणेन जना तं गदइयेत्युपनाम्ना संबोधयामासुः / एतदीया वंशजास्तथैव ख्यातिमगमन् / . प्राचायवर्योऽतीते कियति समये मिन्नमालनामक भैंसाशाहस्य श्वसुरनिवासभत नगरमगात् / तत्रोपस्थितोऽसौ नवलक्षपरिमितद्रव्यव्ययेन निरुपमं स्वागतं चकार / संघसभायोजनमपि कृतम् / दूरदूरमामन्त्रणानि प्रेषितानि / समागताः सहस्राधिकाः साधवः साध्व्य उपासकाश्च / वर्तमानपरिस्थितिपर्यालोचनेन धर्माराधन• . प्रचारार्थ हृदयंग व्याख्यानं कृत्वा देवभद्राय सूरिपदं, ज्ञानकल्लोलादिभ्यः सप्तभ्य उपाध्यायपदं, हर्षवर्धनादिभ्यः सप्तभ्यो गणिपदं, देवसन्दरादिभ्यो नवभ्यो वाचनाचार्यपदं, शान्तिकुशलादिभ्य एकादशभ्यः पण्डितपदं च दत्वा सूरीश्वरः सभा विससर्ज / अत्रातिमहति पुण्यकर्मणि दानवीरः श्रेष्ठी भैसाशाह एकादशलक्षसंख्यका मुद्रा विन्ययुंक्त। एवं धर्माचरणेनात्मकल्याणमाससाद / ईदशा दानवीरा धर्मवीराश्च तदानीन्तने काले बहव आसन् यैर्धर्म एवं धनमिति सिद्धान्ति मासीत् / प्राचार्यवर्यः श्रीककसूरीश्वरश्चतुस्त्रिंशद्वर्षाणि शासनसेवा पूर्णपरिश्रमेण सर्वत्र संपादयामास / वार्द्धके भगवतः श्रीमहावीरस्य मन्दिरे चिंचटगोत्रोयेण जयकरणशाहेनारग्धेऽष्टाह्निकामहोत्सवे देवचन्द्रमुपाण्याय Page #140 -------------------------------------------------------------------------- ________________ [ 125 ] प्रिपदे प्रतिष्ठाप्य महाशासनकार्यभारान्निर्मुक्तो बभूव / प्रवर्तमाने च विक्रमस्य 1108 तमे हायने नरवरं देहं त्यक्त्वा सुरलोकपदे पदं चकार / [वि. सं० 1108 तः ४६आचार्यः श्रीदेवगुप्तसूरिः (एकादशः) वि० सं० 1128 प.] प्राचार्यप्रवर श्रीकक्कसूरिपट्टे महाशासनप्रभावका जिनधर्मप्रचारको नानाविधविधानवग्रहृदयो विविधलब्धिलब्धयशोराशिः श्रीमान् देवगुप्तसूरीश्वरः स्थितिमवाप / असौ सिन्धप्रान्तस्थडमरेलपुरवास्तव्य अादित्यनःगगोत्रीयो गुलेच्छाशाखीयः / जन कोऽस्य दानवीरो धर्मपरायणः सौजन्यमूर्तिः श्रेष्ठी पद्माशाहः, माता च धर्मरता पतिचित्तानुसरणशीला भोलीनाम्नी / तयोरयमात्मजश्चोखानामकः कुलदीपकः / त्रयोदशसु पुत्रेष्वयं परमधार्मिको विनयसौजन्याद्यनेकगुणभूयिष्ठः पित्रोः स्वान्ते परमानन्दं विस्तारयामास / येन तो एकोऽपि गुणवान् पुत्रो निगुणैः किं शतैरपि / एकश्चन्द्रो जगन्नेत्रं नक्षत्रैः किं प्रयोजनम् // एवं विचारयन्तौ पुत्रेणानेनात्मानं कृतार्थममन्येताम् / क्रमेण कालेऽनीते यदासी विंशतिवर्षवयस्कोऽभूत्तदाऽस्य काग्दानं भाद्रगोत्रीयस्य समदडियाशाखीयस्य गोसलशाहस्य कुलपुज्या निखिलकलाकोविदया रूपगुणसंपरसमन्वितया रोली-नामिकया कन्यया सह निर्धारितम् / विवाहार्थमपि विचारः प्रचलति स्म / अस्मिन्नेव समये श्रीमदाचार्यवयः श्रीककसूरिः शासनोद्योतभास्करः सकलशिष्यसमन्वितो डमरेलपुरमायासीत् / कृतश्च संघेन स्वागतविधिः / प्रारम्भिकी देशनां समाकये सर्व भावुकाः सन्तुष्टमानसा बभूवुः / एकदा प्रसंगवशात्सूरिणा नरकनिगोदानां वर्णनं यथार्थतया विहितम् / सर्वे च भविष्यति कालेऽस्माकमीरशी दुःखबहुला परिस्थितिर्मा भूदिति कोऽत्र प्रतीकारः कथश्चानुष्ठेय इति स्वचेतसि चिन्तयामासुः / सभायां समासीनश्चोखाशाहोऽपि सांसारिकी संसरणशीला केशबहुलामवस्था परिलक्ष्य अर्थाः पादरजःसमा गिरिनदीवेगोपमं यौवनं आयुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितम् / धर्म यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते // एवं विचार्य सर्वथा धर्मध्यानमेव अयस्करमात्मकल्याणपरम्परायै इति निश्चिकाय / विचार्य च "मम तु मतिर्न मनागपैतु धर्माद्" इति भगवन्तं मुहुमुहुर्ययाचे / असारसंसारविरक्तमतिस्तीक्ष्णबुद्धिरसो गृहं गत्वा पित्रोरप्रे दीक्षामहणाभिलाषां निवेदयामास / समाकर्ण्य च दुःखितान्तःकरणौ तौ तं बोधयामासतुनशे कतुस्तं निवारयितुं निश्चयात् / जनकेन चास्य श्वशुराय सर्वो वृत्तान्तो निवेदितः / उद्वाहविधिनैवासी संसाराकष्टमानसो भविष्यतीति विचार्य शुभे दिने पाणिपीडनविधिः सम्पादितः / तेन च सा प्रथमरानावेव तथोपदिष्टा यथा दीक्षामहणाय सन्जीबभूव नववधूः / अन्ते मात्रा पित्रा चानुज्ञाती तो विक्रमस्य 1 96 तमे संवत्सरे फाल्गुने शुक्ल पक्षे पञ्चम्यां स्थिरे लग्ने श्रीकक्कसूरेवरदहस्तेन द्विचत्वारिंशत्संख्यकैर्भावुकैः सार्ध दीक्षां जगृहतुः / दीक्षाप्रहणादनन्तरमस्य देवभद्रमुनिरिति नाम कृतम्। एतदीयदीक्षाग्रहणवृत्तान्तः सिन्धप्रान्ते धर्मप्रचारकर्मणि प्रभूतं सौकर्यमकरोत् / महता हि चरितमनुकरणीयं भवति सर्वत्र / असो देवभद्रमुनिराचार्यवर्यस्य समीपे स्थितोऽल्पेनैव कालेन न्यायव्याकरणतर्कालंकारादिषु शामेषु Page #141 -------------------------------------------------------------------------- ________________ [ 126 ] पर नपुण्यमाससाद / अष्टांगयोगविद्यायां निमित्ताने च तथैव कुशाप्रबुद्धिः सर्वानत्यशेत / विक्रमस्य 1108 तमेऽब्दे चन्द्रावतीस्थः संघस्तं महामहोत्सवपूर्वकमुपाध्यायपदविभूषितमकार्षीत / तस्मिन्नेव संवत्सरे भिन्नमालनगरे वैशास्त्रशुक्ल पूर्णिमायां भैंसाशाहेनानुष्ठिते सूरिपदमहोत्सवे श्रीककसूरिराचार्यपदे स्थापयामास / परम्परानुसारेण तस्य देवगुप्तसूरीति नाम चकार / / आचार्यः श्रीदेवगुप्तसूरिः प्रवरप्रतिभान्वितो बालब्रह्मचारी पण्डितधुरन्धरो धर्मप्रचारकः शासनसमुन्नतिकारको बभूव / तदीयालौकिकतपस्तेजःप्रभावेण जनानां मानसानि स्वयमेव तं प्रति समाकृष्टान्यासन् / व्याख्यानशैली च मधुरा हृदयप्राहिणी चतुरस्रपाण्डित्यपूर्णा श्रोतृजनमनोरलिजकाऽभूत् / सर्वत्र शिष्यमण्डलीमण्डितो विहरणेन जनान् धर्मतत्वमुपदिश्य सत्पथानुसरणशीलान् व्यधत्त। एवमसौ विहरन् भैसाशाहस्याग्रहमनुमान्य भिन्नमालनगरे चतुर्मासावधिकमवास। सपादलक्षपरिमितधनेन सः श्रेष्ठी श्रीभगवती. सत्रवाचनामकारयत् / श्रेष्ठिनो जनन्या प्रतिप्रश्नं सुवर्णमुद्रया ज्ञानपूजा कृता / समाप्ते चतुर्मासे तस्य मातुः श्रीशत्रुब्जयतीर्थ प्रति संघनिष्कासनस्याभिलाषो जातः। तदर्थ तस्मै सान्यवेदयत / परमधर्मरुचिरसौ. प्रसन्न मनसा तदी वचः स्वीचकार / सूरीश्वरस्यापि संमतिः प्राप्ता / संभृतानि घार्थमुपकरणानि / मात्राऽसावुक्तः पुत्र ! संघनिष्कासनार्थमुपयक्तं धनं विद्यत एव किन्तु मार्गेऽकस्मादावश्यकता स्यात्तदर्थमपेक्षितम् / भैसाशाहेन सा प्रोक्ता। अम्ब ! यत्रावश्यकता तत्समीपस्थे प्रामे नगरे वा मम नामकथनेन तत्रत्यः कश्चिदपि धनं तेऽश्वयं दास्यति / सा च तथास्त्वित्त्युक्त्वा शुभे दिने महता संघेन सह यात्रार्थमभिप्रतस्थे / क्रमशो मार्गागताना देव " मन्दिराणां दर्शनादिकं कृत्वा संघः सिद्धाचलमाययो। तत्राशतिकामहोत्सवपूजाप्रभावनादीनि कृत्वा प्रभत पुण्यलाभमलभत सा श्रेष्ठिनो माता / यात्रां विधाय संघो निर्गतः क्रमेण पाटणनगरमाजगाम / तदानीं तन्नगरं कोट्यधिपैः परिपूर्ण समृद्धिसमन्वितमभत् / तैः सह स्पर्धमाना सा तत्र धर्मकर्मणि धनमधिकं विन्ययुंक्त / कोशोऽपि रिक्ततामगमत् / सा च संघप्रबन्धकै: सह नगरं गत्वा श्रेष्ठिन ईश्वरदासस्य समीपमुपस्थिता / प्रबन्धकैश्चोक्तम्-इयं धनकुबेरस्य भैसाशाहस्य जननी तीर्थयात्रा सम्पाद्य धर्मार्थ धनं विनियुज्य रिक्तकोशा वर्ततेऽतो मान्यो भवान् अस्यै द्रव्यमुपयुक्तं ददातु / स्वस्थानं गत्वा वयं तद् द्रव्यं प्रेषयिष्यामः / एवमप्यविश्वासश्चेदिमा पेटिकां न्यासरूपेण गृह्णातु भवान् / स च तदीयं वचाऽनाहत्य तानवोचत् सोपहासम्-नाहं तं भैसाशाहश्रेष्ठिनं जानामि / अस्माकं नगरे बहवो भैंसा जलभरणकर्मकराः सन्ति / सा च समाकये गर्वपूर्ण वस्य वचनं यथागतं प्रत्याययो प्रबन्धकैः सह / द्रव्यप्राप्तये श्रेष्टि नो माता नगरं गतेत्युपलभ्य सर्वे संघस्थाः स्वसमीपस्थं धनालंकारादिकं सव प्रत्यागतायै तस्यै समर्पयामासुः / सा च क्रमशो भिन्नमालनगरं प्रत्याजगाम / सर्वे च संघस्थाः सुवर्णमुद्रावस्त्रादिमिश्च सत्कृताः स्वगृहं ययुः / कुशलप्रश्नानन्तरमसौ श्रेष्ठी स्वमातरमगादीत् मातः ! मम नाम्नः प्रसिद्धिः कियद. वधिका कीडशी च 1 अस्मदीयनगरद्वारावधिकस्त्वन्नामप्रचार इति साक्षेपं सा तमवादीत् / स च ग्लानिमापन्नो मुहुर्मुहुरत्र कारणमप्राक्षीत् / जननी च सर्व पाटणनगरे श्रेष्ठिन ईश्वरदासस्य वृत्तान्तमस्मै श्रावयामास / स च वाहत इव तस्य प्रतिकारार्थ घृततैलक्रया स्वकीयकर्मकरान् तत्र प्राहिणोत् / ते च गत्वा क्रयार्थ तन्नगरव्यापारिभ्यः प्रभूतं द्रव्यं ददुः / स्वयंञ्च समीपस्थप्रामेभ्यः प्रमाणाधिकं धनं दत्वा घृततैलसंचयं चक्रुः / येन लाभलोलुपास्ते पाटणनगरनिवासिनों व्यारारिणो घृततैलसंचयं कृत्वा तेभ्यः प्रत्यर्पयितुं नालंबभूवुः / ततः खिन्नमानसास्ते भैंसाशाहस्य कर्मकरानवादिषुः मान्याः ! धनमिदं गृह्णन्तु भवदीयं भवन्तो, नास्माभिघृततैलसंचयः कर्तुं शक्यते येन भवद्भयोऽर्पयितुं वयं समर्था भवेम। व्यापारिणामिदं वचनमाकये ते प्रोचुः जानन्ति भवन्तो वयं भैंसाशाहस्य कर्मकराः स्मः / यस्य माता संघमत्र संस्थाप्य रिक्तधना धनार्थ याचमाना Page #142 -------------------------------------------------------------------------- ________________ [ 127 ] भवद्भिरुपहसिता न केवलमिदमपि तु भैसा हि बहवोऽत्र जलाहरणकर्मकराः सन्तीत्यपमानितासीत् / वच एतदीयं श्रुत्वा वदप्रेसर ईश्वरदासो लाज्जयाऽधामुखः स्वचेतसि महती ग्लानिमवाप। विफलमनोरथास्ते भिन्नमालं गत्वा सप्रश्रयं श्रेष्ठिनं भैंसाशाहमवोचन स्ववृत्तान्तं क्षमा चायाचन्त / तेन च भृशमुपालब्धास्ते प्रत्युत्तरं , दात नाशक्नुवन् / अन्ते सः श्रेष्ठी तेषामपराधमक्षमत / कृतादराश्च तत्र नद्यां क्षिप्यमाणं घृतं तैलश्चमाण्डवगढ़नगरस्थास घृततैळवापीसु प्रवाहरूपेण गच्छददृशुः / अयं सच्चायिकाया एवं महान् प्रभा श्रासीत् / सा च श्रेष्ठिनोऽनुप्रहतत्परा वर्तत इति विचारयन्तः स्वदेशं प्रतिनिववृतिरे। वंशावलीकारा अत्र वदन्ति-पाटणनगरे मरुधरदिशि वर्तमानस्य द्वारस्योपरिभागे भैंसाशाहस्य पाषाणमयी प्रतिमा स्थापिताऽभूत् / तदधोमार्गेण ते गुर्जराः क्षमा याचमानाः स्वस्थानं प्रति ययुः / / पाटणनगराद् बहिर्यस्यां घृतं तैलं च निक्षिप्तमासीत् सेदानीमपि तेलिया-नदीति लोके व्यवतियते / श्रीमान् चन्दनमलजीनागोरी-नामको लेखकः भैसाशाहेन माण्डवगढ़नगरे निर्मापिता घृततैलवाप्यः पूर्वमासन् तासां भमप्राया अवशेषा इदानीमपि दृश्यन्त एवेति लिखति / भैसाशाइस्य माता तीर्थयात्रां कृत्वा स्वस्थानमाजगाम तदा तेन प्रतिजनमेकादश मुद्रा इति नियमेन सबहुमानं सवस्त्रं सर्वे संघस्थाः सत्कृता बभूवुः / याचकेभ्यश्चान्नवसादिकं दत्तं यस्य वर्णनमपि कर्तुमशक्यम् / मात चली जब जात बेटा जव बाल समर पे / कत पडत तोय काम धन नाम मम लेत करपे // . भैसाज सेठ खरहत्थतणो आपणा बोल निभाइयो / एवमस्य घटनाया उल्लेखः पट्टावल्यां दृश्यते / अथैकदा श्रीमदाचार्यचरणश्चन्द्रावतीमाययो। तत्र धर्मतत्वोपदेशेन सभ्यान् धर्मरुचिरुचिरानकरोत् / कश्चिदेको भावुकः सहसा तत्रोत्थाय धन्येयं भूर्यत्र विद्वद्वरेण्यस्य श्रीगुरुवर्यस्यामृतमयी देशनाऽस्मान् पावयति / धन्यश्चार्य दिवसो यत्र धर्मतत्वश्रवणेन प्रभूतं पुण्यमासादितम्" इति बहुविधामाचार्यस्यैव प्रशंसामकरोत् / श्रुत्वा च दुःखितान्तःकरणः स आचार्यस्तमवादीत्, महाशय ! नाहं तथा प्रशंसनीयः अधिको हि मानोऽपमानं जनयति / क सर्वतन्त्रस्वतंत्रसिद्धयस्तीर्थकराः कैवल्यदर्शनाः, क चाल्पज्ञः परिमित. शक्तिको माह: पामरः / भवत्कृतां प्रशंसामहं निन्दामेव मन्ये / अतो वाग्व्यवहारो विचार पुरःसरमेव शोभते / भगवन्तः श्रीतीर्थकराः कैवल्यज्ञानेन दर्शनेन च लोकालोकस्थानखिलान् पदार्थान् हस्तामलकवत् प्रत्यक्षान् कुर्वन्ति / यत्र तेषां परमं पवित्रं विमलं ज्ञानमुत्पद्यते तत्र भूमी देवताः खलु समवसरणस्य दिव्या रचनामा: तन्वते / यथा वायुकुमारस्य देवता स्वकीयदिव्यवैक्रियशक्तया योजनप्रमाणाया भूमेः काष्ठकण्टकपाषाणादोन् दूरमुत्सारयति / शुद्धा पवित्रां च करोति / ऋतुदेवताश्च तत्र पञ्चवर्णा जानुदधनां पुष्पवृष्टि कृत्त्वा तत्स्थानमः धिकमनोहरं विधत्ते / यथा समवायोगसूत्रे / ___ जलथ लय भासुर पभूतेणं विठंठाविय दसवण्णेणं कुसुमेणं जाणुस्सेहप्पमाण मित्ते पुष्फोषयारे किज्जई / / इत्यादि / / एवमन्या अपि देवतास्तां भूमि विविधरत्नसुवर्णरचनादिभिरधिकमनोहरां कुर्वन्ति / तत्र स्थिताः श्रीतीर्थकरा निखिलान् देवदानवयक्षादीन् धर्मदेशनां श्रावयन्ति / न तत्र रागद्वेषमानापमानाः प्रवेशं लभन्ते / यत्र .. स्वाभाविकवैरा गोमहिषादयोऽपि विगतवैरा देशनां शृण्वन्ति / एवं यत्र तीर्थकराणां कैवल्यज्ञानमुत्पद्यते तत्रैक Page #143 -------------------------------------------------------------------------- ________________ [ 128 ] समवसरणमपरमन्यत्रेति समवसरणद्वयं भवति / परन्त्वस्मिन्नवसपिणि काले भगवतः ऋषभदेवस्याष्टी समवसरणानि नातानि / तदानी जनाश्च भद्रिका श्रासन् / भगवतः श्रीमहावीरस्य द्वादश समवसरणानि यतो मिथ्याग्रहप्रसिता जना याज्ञिकानां पशुहिंसानिरतानाच प्राबल्यम् / श्रवशिष्टानां द्वाविंशतिसंख्याकानां श्रीतीर्थकराणां प्रत्येक द्वे द्वे समवसरणे / तेषां व्याख्याने बाह्याऽभ्यन्तरीया चेति द्विविधा विभतिः बाह्यायामष्टौ महाप्रतिहार्याणि, आभ्यन्तरं केवलज्ञानं केवल दर्शनश्च / धन्या एव ते महानुभावाः यस्तीर्थकराणां समवसरणं प्राप्य निखिलपातकक्षपणसमर्थानि स्वकल्याणसाधकानि श्रुतानि व्याख्यानानि / सर्वमिदं शाने सुविशई निरूपितं मयाऽत्र संक्षेपेणोक्तम् / श्रीतीर्थकरसमवसरणविषयकं व्याख्यानमाकर्ण्य सभ्या श्रात्मानं धन्यममन्यन्त / प्राचार्यः श्रीदेवगुप्तसूरीश्वर एवं विंशतिवर्षाणि शासनस्यातिमहती सेवामकरोत् / मांसमदिराद्यभक्ष्यभक्षणशीलान् धर्मतत्वामृतं पाययित्वा जिनधर्मदीक्षादिक्षितान् चकार / नूतनानां मन्दिराणां मूर्तीनाच प्रतिष्ठापनं विराट् संघायोजनमिति बहुविधानि शासनकार्याण्यविरतं संपाद्य धर्मलतां दृढमूलामकरोत् / / अन्ते च स्वपट्टे श्रीसिद्धसूरि प्रतिष्ठाप्यानशनसमाधिसेवनेन स्वर्गपथप्रवासी बभव / __ उपकेशगच्छे खटकुम्पशाखा। प्राचार्यस्य श्रीकक्कसूरेरनन्तरं श्रीसिद्धसूरिनामक प्राचार्यो बभूव / असौ सर्वगुणसंपन्नः शासन प्रभावक खटकुम्पनगरे स्थिरवसतिमकार्षीद् येन विहाराधभावेन धर्मप्रचारशैथिल्यमालक्ष्य शुभचिन्तकैः श्रमणैर्विज्ञापितोऽपि स्वामहं नात्याक्षीत् / ततस्तैर्मिथः शासनसमुन्नति विचार्य देषविमलनामानमाचार्यगुणभूयिष्ठं नूतनमाचार्य प्रतिष्ठाप्य तदध्यक्षत्वे सर्वत्र विहरणदेशनादिमिर्धर्मप्रचारकार्यमारब्धम् / खटकुम्पनगरनिवासिनः श्रीसिद्धसूरेरध्यक्षत्वे बहवः साधवः साध्व्यश्वासन् / तथापि न कश्चित्समुचितः शिष्यः स्वपदेऽनेन प्रतिष्ठापितः / अकस्मादेष सः स्वर्गमत्रजत् / अतस्तदीयकार्यभारं तस्य यक्ष महत्तरनामा शिष्य उवाह / ___एकदा परिभ्रमन्नसौ मथुगमयासीत् / तत्र गृहीतारण्यकदीक्षो नन्नभट्टनामा महाप्रभावो नगराद् पहिः सिद्धान्ताभ्यासार्थमवात्सीत् / तमुपदिश्य श्वेताम्बरीयां दीक्षां दत्वा निखिल गुणवरिष्ठं तमाचार्यस्य श्रीसिद्धसूरीश्वरस्य पट्टे स्थापयामास / नाम चास्य श्रीकक्कसूरीति चकार / अयंच जनान् धर्मतत्वं विबोध्य दीक्षां दत्वा स्वगच्छाभिवृद्धिमकार्षीत् / श्रमणानाञ्चातिमहती संख्या बभूव / तत्र कृष्णर्षिनामकः परमतपस्वी तीक्ष्णबुद्धिविप्रश्रमण आसीत् / सर्वगुणसंपूर्तिरसौ जिनागमतत्वज्ञः क्रमेण वभव / किन्तु आचार्यः श्रीकक्कसूरिरस्य दीक्षाग्रहणानन्तरमल्पेन कालेन स्वशरोरमत्यजत् तदानीं यक्षमहत्तरः खटकुम्पा गरे स्थिरवासमझी वकार / कृष्णर्षिश्वतत्र गत्वा कक्करिवृत्तान्तं निवेदयामास / ज्ञात्वा च स्वसमीपे तमुपसंपदादिक्रियाकलापं शिक्षयामास / अन्ते च शासनभारं तस्मै समj सोऽप्यनशनसमाधिव्रतानुष्ठानेन तत्याज नश्वरं देहम् / कृष्णपिस्तु देव्याश्चक्रेश्वर्या अनुज्ञामासाद्य चित्रकूटं गत्वा कस्यचिदाचार्यस्य समीपं कम्चिदेकं शिष्यमध्या. पयामास / सकलगुणमण्डितश्च तमाचार्यपदे संस्थाप्य देवगुप्तसूरीति तन्नाम कृतान / गच्छकार्यभारं तस्मै समर्प्य स्वयं स्वतन्त्रो भत्वा विहरणक्रमेण नागपुरमाययो / तत्र तदीयमलौकिकगुणसमन्वितं धर्मप्रचुरं व्याख्यानं श्रुत्वा नारायणनामा श्रेष्ठी चतुःशवसंख्यकैः कुटुम्बिभिः सार्ध जिनधर्मदीक्षामगृहात् / तदीपप्रभावसमा- . कृष्टमानसः श्रेष्ठी मन्दिरनिर्माणार्थमाज्ञो प्राप्य तन्नगराधिपति राजानमुपेत्य सप्रश्रयमगादीत् / राजन् ! सर्वजनकल्याणसाधकमेकं मन्दिर निर्मापयितुमहमभिलषामि, तस्मात्तदुचितां भूमि मे ददातु भवान् इति तद्वचः सादरमाकार्य सन्तुष्टमना राजा समुचितां दुर्गभर्मि तस्मै तदर्थ ददौ विना मूल्यम् / प्रसन्नमानसः श्रेष्ठी शुभे Page #144 -------------------------------------------------------------------------- ________________ [ 16 ] दिने बातमुहूर्त कृत्वा मन्दिरकायमारभत / समाप्ते मन्दिरका कृष्णर्षिसमीपमेत्य तत्प्रतिष्ठायै निवेदयामास / स व समवोचत् श्रेष्ठिन् ! अवश्य प्रतिष्ठाविषिः सत्वरं कर्तव्य इत्यहं जाने / किन्तु श्रीदेवगुप्तसूरियर्योऽय गुर्जरदेशे विहरवि स एवात्रागत्य तत्काय सम्पादयिष्यति तदेव न्याय्यम् / अतस्तमाह्वातुमामन्त्रणं प्रेषयतु भवान् / प्रेषिताः सेवकाः। शासनशुभचिन्तकः स देवगुप्तसूरिनार्गपुरं समाययो / शुभे मुहूर्ते प्रतिष्ठाविधि समपादयत्। मन्दिरमिदमतीव विशालमासीद् यस्य व्यवस्थायै द्विसप्ततिपरिमिताः पुरुषास्तावत्यश्व स्त्रियो नियुक्ता आसन् / प्रतिष्ठाकार्य समाप्य कृष्णर्षिः सपादलक्षप्रान्ते विहत्य जिनधर्मप्रचारमकार्षीत् / देवगुप्तसूरीश्वरः स्वपट्टे जयसिंहमुनि सिद्धसूरिनाम्ना स्थापयामास / स च वीरदेवं मुनि ककसूरीति नाम्ना सूरिपदप्रतिष्ठितमकरोत् / कक्कसूरिश्च वासुदेवं मुनि देवगुप्तसूरीत्यभिधेयेनाचार्यपदे नियोजयामास / तस्य स्थानेऽपरः सिद्धसूरिः समायातः / स च चन्द्रावत्या श्रीमेकतिलकमुपाध्याय स्वपदे संस्थाप्य स्वर्गस्थोऽभूत् / यस्य कक्कसूरीति प्रसिद्धिः / एवं सिद्धसूरेटौं पट्टधरौ / एकचन्द्रावतीस्था चन्द्रावतीशाखीयः, अपरश्च खटकुम्पशाखीयः / द्वयोः परम्परा कसूरि-देवगुप्तसूरि-सिद्धसूरीति क्रमेण प्रचलति / चन्द्रावतीशाखा कियत्पर्यन्तं प्रचलितेति निर्धारणं दुःशकम् / खटकुम्पशाखा विदानीमपि नंगी-पोसालो-नाम्ना विद्यत एव / प्राचार्यः श्रीकक्क सूरिः।। मारोटकोटनगरे काकूनामको मांडलिका क्षत्रीयवंशीयो राजा बभव / असौ स्वनगरस्य परितो वर्तमानस्य दुर्गस्य जीर्णोद्धारार्थ दाव्याथै च कर्मकरानादिदेश / तेच पावखननमारभन्ते तावदेव ततो भगवतो नेमिनाथस्य विशाला मूर्ति दशः / दृष्ट्वा च राजानं व्यज्ञापयन् / प्रीतेन च राज्ञा मन्दिर निर्माणाप शिल्पिनः समाविष्टाः / प्रासादस्थितो राजा, अन्तपुरस्थिता राज्ञी चानायासेन दर्शनं कर्तुं शकुयात्तादृशं वृहन् मन्दिरं तैनिर्मितम् / अस्मिन्नेव शुभावसरे तत्रभवानाचार्यः भीककसूरिस्तत्राययो। राजा मन्त्री प्रजाश्च भव्यमस्य स्वागतं चकः / सर्वान् धर्मलाभाशिषा संभावयन् प्रतिष्ठार्थं निवेदितः शुभलक्षणान्विते मुहूर्ते रम्यां मूर्ति प्रतिष्ठापयामास / तस्मिन् समये मारोटकोटनगरे श्रावकाणां चतुःशतानि गृहाणि पंच पौषधशालाश्वासन् / अनेनानुमीयते यत्तदा सन्नगरं जैनानां महत् केन्द्रस्थानमासीदिति यथा राजा तथा प्रजेति नियमेन सर्वे जिनधर्माचरणेनात्मकल्याणाभिरुचयो बभूवुः। प्रतिष्ठाविधि समाप्य धर्मप्रचारार्थ विहरन्नसौ कक्कसूरी गणकदुर्गमाससाद / तत्र धर्मतत्वव्याख्यानश्रवणसमेधितजिनधर्मभावनो राजा सुरदेवो पावत्र मन्दिरं तिष्ठति तावदेव सर्वं धार्मिका दर्शनस्पर्शनमहोत्सवादिमिरात्मभेयासम्प्राप्तो प्रयतिम्यन्ते” इति महान्तं धर्मलाभं मन्यमानः सूरेराज्ञां प्राप्य रमणीयं विशालं मन्दिरमेकं निर्मापयामास / यस प्रतिष्ठाकार्य सूरिणव सम्पादितम् / दीर्घदर्शी सूरियथाधर्मभावना सर्वेषां तथैव वर्धतेति विचार्याष्टाहिकामहोत्सवानुष्ठानमादिदेश / राज्ञा च तद्वचः शिरसाऽभिनन्दितम् / / - एकदा भीकक्कसूरिः शान्तिमुनि स्वशिष्यमगादीत-मुने ! स्वमपि कंचिद् राजानं प्रतिबोध्यामिन देवालयं निर्मापयिष्यसि-किम् ?तेन च तदीयं वचनं साक्षेपं मन्यमानेन तथैवोक्तम् , यद्येवं स्यात्तदा भवानपि प्रतिशाविधये तत्रागमिष्यति किम् / गुरुणा च तथेत्यङ्गीकृतम् / गुरोराज्ञां प्राप्यासी त्रिभुवनदुर्ग गत्वा तदधिपति प्रतियोधयामास / मन्दिरनिर्माणं धर्मव्याख्याने मुख्यमुद्देश्यम् / मन्दिरनिर्माणेनालौकिकपुण्योपार्जनेऽनेकेषा गशामुदाहरणानि प्रदर्शितानि / हृदयंगममुपदेशमस्य श्रुत्वा नूतनजिनालयनिर्माणार्थमभिलाषा प्रकटोचकार राजा। तदनुमतम्ब स शिल्पिन प्रादिदेश सन्निर्माणार्थम् / शीघ्रमेव मन्दिरकार्य शिल्पिभिः समापितम् / शान्तिमुनिः प्रतिष्ठार्थ रामा कमसूरिमामन्त्रयामास / शिष्यस्याज्ञापालनं विचार्य सन्तुष्टमानसः स प्राचार्यस्तत्र गत्वा शान्तिमुनिमभिननन्द / सर्वशुभलक्षणलक्षणीये मुहूर्ते.प्रतिष्ठामकरोत् स्वकीयवरदहस्तेन / सूरीश्वरप्रभावसमाकष्ट Page #145 -------------------------------------------------------------------------- ________________ / 130 ] चेता राजा राज्ये सर्वत्राहिंसाधर्ममुद्घोषयामास / हो साक्षेपं वचोऽपीदशमेव शोभते यत्र परिणामो निधर्मप्रचार एव स्यात् / आचार्यदेवगुप्तसूरेवीणावादनम् / चन्द्रावतीनगरवास्तव्यः प्राप्पटवंशीयो वीरजगदेवः श्रीककसूरेः सकाशं दीक्षामाहीत् / अल्पेनैव समयेन सर्वाणि शास्त्राण्यधीत्य सर्वगुणोपपन्नोऽसौ देवगुप्तसूरीतिनाम्ना सूरिपदे प्रतिष्ठापितोऽभूत् / गच्छीयकार्यभारः सर्वस्वधीनः, तथाप्यसौ जिनभक्तिपरायणो भक्त्यावशेन वीणया देजिनवमुपवीणयन् समयमतिबाहयति स्म। वीणापादनमिदं चारित्रवृत्तिविघातकमिति मन्यमानः श्रीसंघस्तं सादरमभ्यर्थयामास प्राचार्यवर्य ! वीणावादनमिदं साधुवृत्तिविघातक शिष्यानानुबन्धि ततश्च स्वेच्छाचारप्रवृत्तिः साधूनामपि भवेत् / तदनुसरणशीला भावुका भवेयुः / येन धर्मतन्त्रमिदं सर्वथा स्वेच्छाचारपूर्ण धर्माचरणप्रतिकूलं स्यात्तदेतन्मा भूदिति भवानेव विचारपतु | एषमुक्तोऽप्यसो नात्याक्षीद् वीणावादनम् / मदोद्धतो गजोऽकुशमिव नाजीगणसूरिः भीसंघाभ्यर्थनाम् / भीसंघाच विमनस्को बभूव / ततो व्यतोते कियति काले शासनगौरवरक्षणाभिलाषुकः स्वप्रवृत्ति धर्मप्रतिकूलामपि पाचनजन्मसंस्कारमूलामप्रतिकार्या मन्यमानः सविनयं श्रीसंघसमक्षमवोचत् मायाः! अहं नात्मवश: किन्तु षशगः पूर्वकर्मणाम् / जानन्नपि जिनादेशं धयं यद्व्यसने रतः // गौरवं रक्षितं वः स्याद्धर्मस्यात्र मुहुर्मुहुः / जिनमक्तिरते चित्ते नास्त्यपेक्षा गुरोः पदे // पषमस्य ममस्वरहितं शासनसमुन्नतिसूचकं वचनमाकार्य न किंचिचेऽवादिषुः / मन्ते च स्वयमेव संघसमक्ष गुणभद्रमुनि स्वपदे प्रतिष्ठाप्य सिद्धाचलमभिप्रतस्थे / पवित्रतीर्थसेवनेन स ायुषः शेषमत्यवाहयत् / अयं भिम्नमालशास्त्रीय प्राचार्यः / पट्टावल्यामियं घटना वैक्रमे 995 तमेऽब्दे समजनीति समुल्लेखो रश्यते / ___ भाचार्यः श्रीककसूरियंदा हमरेलपुरमेश्य जिनधर्मप्रचारमकार्षीत्तदा केचन विरोधिनो द्वेषोपरक्तमानसाः कचनमन्त्रशक्तिकुशलं मुनिमन्यतो देशादाहूय भौतिकैश्चमत्कोरैर्जनान् जिनधर्मानुरागिणः स्वपक्षे समाचकषुः राजा हमीररावोऽपि भ्रमभ्रान्तहृदयः स्वधर्म दूरीकृत्य तत्पक्षीयो बभूव / दुःखितान्तःकरणैः कैश्विजिनमति परापणैः सूरिनिवेदितः / स च गुणसुन्दरं नाम मन्त्रशक्तिप्रभावरजितसकललोकमानसं शिष्यं रामः समी प्राहिणोत् / मुनिस्तु गुरुणाऽदिष्टो राजसभां गत्वा राजानं प्रतिबोधयामास-राजम् ! भवान् परम्पराते जिनधर्मोपासकः / आत्मकल्याण प्राप्तये स एव धर्मः परीक्ष्यमाणः सर्वधर्मोत्कृष्टः कथमप निरपेक्ष भवतात्यज्यते। भौतिकचमत्कारदर्शनेन न खत्वात्मकल्याणमासादयितुं शक्यते केनापि / तत्र तु बुद्धामोह एव फळम् / तथापि भवतस्तत्रैवाभिरुचिस्तदा जिनधर्मेऽपि तादृशचमत्कारबहुलानि शास्त्राणि / द्रष्टुमभिलषति भवान् वर्षि क्रमश उभयोरपि प्रयोगान् पश्यतु / राज्ञा चः तदीयं वचः सहर्ष स्वीकृतम् / उपस्थिता उभयपक्षीया जनाः / पारब्धाः प्रयोगाः क्रमेणोमयोः / प्रतिपक्षीयेण कथंचित् प्रथमो दिवसोऽतिवाहितः / तदनु रात्रावेष पलायित: सः / प्राचार्यः श्रीककसूरिः शिष्यप्रभावसन्तुष्टहदयः स्वधर्मप्रचारार्थ तत्रैव चतुर्मासमङ्गोचकार / वि. सं. 1128 तः] 50 प्राचार्यः श्रीसिद्धसूरिः / (एकादशः)[वि० सं० 1174 प ... श्रीमदाचार्यवर्यः श्रीदेवगुप्तसूरीश्वरपदं परमश्रद्धयो विविधागमममझो विविधकलाकलापी महातपस्वी शानदर्शनचारित्रचित्रीकृतनिखिलननमनोमोदकोऽसारसंसारार्णवनिममममहृदयोद्वारक: भीमान् सिखसूरिरलंच. Page #146 -------------------------------------------------------------------------- ________________ कार ! अयं भिन्नमालनगरनिवासी सकलजगद्विद्योतितकीर्तिमण्डलस्य श्रेष्ठिवर्यस्य भैंसाशाहस्योदारचरितस्य परमभाग्यशाली संस्कारसंस्कृतमतिः सूनुः / अस्य माता सौभाग्यसौजन्यौदार्याद्यनेकगुणगणालंकता लळ. नाजनललामभूता परमभगवद्धर्मानुरागिणी सुगनी देवी / नाम चास्य पूर्वाश्रमस्थं धवलेति / / - यदा भैंसाशाहस्य जननी शत्रुजयं प्रति संघं निष्कासयामास तदा संघस्य व्यवस्था घवलेन स्वीकृताऽसीत् / धार्मिके कर्मणि तस्य समधिका हार्दिकी रुचिरेवाचार्थस्य देव गुप्तसूरीश्वरस्य तस्मिन् पक्षपाते मुख्यो हेतुरभूत् / सूरीश्वरस्य परमवैराग्यजनकानि संसारस्य हेयत्वपदर्शकानि परमार्थतत्वनिरूपणपराणि व्याख्यानानि प्रसंग. वशासी बहून्यशृणोत् / येनात्मकल्याणसाधनेच्छा तस्य चेतसि रदमूला शनैः शनैः पल्लविता बभूव / ___एकदा सिद्धाचले निवृत्तिमाश्रित्य समीपस्थितं धवलं सूरीश्वरोऽवोचत् कल्याणिम् ! आत्मकल्याणसापनायोचतो दीक्षाग्रहणेन बहूनां संसारसमासक्तचेतसां जनानां मोहपाशं छित्त्वोपदेशेनात्मकल्याणं प्रापयितुं मर्षया शक्ष्यत्येव भवान् / स्वार्थेऽध्यानुषङ्गिकः परमार्थोऽवश्यमेव त्वया कर्तव्यः / संसारे स्थितोऽपि बहूनि सामामिकानि कार्याणि. साधयिष्यति किन्तु तानि संसारसंसरणसमर्थानि नात्मकल्याणसाधकानि भवेयुः / सादरं समाकण्य सूरीश्वरवचः सूक्ष्मदृष्ट चाऽत्मकर्तव्यं विचार्य भवदुक्तमेव वरमिति निश्चित्य तीर्थयात्रादर्शनस्पर्शनवजारोपणादीनि धार्मिकाणि संपाद्य कार्याणि क्रमशो भिन्नमालं प्रत्याययो / प्रत्यागल्य च मातापित्रोरने बोहामहणाभिलाषा निवेदयामास / पिता तस्मै शुभकर्मणि दीक्षाया अदादाज्ञाम् / माता तु दीक्षानामभवणेनैव भशमुद्विमा पतिमुवाच स्वामिन् ! अहं धवलस्य दीक्षाप्रहणं नाभिनन्दामि, सर्वगुणसंपन्नो धवलो मे महामूल्य रत्नम्, अक्ष्णः कनीनिका, वार्द्धकस्याभयोऽन्धस्य यष्टिरिव जर्जरितशरीराया मेऽवलंबनम् ! यथा तथा वा भवतु किन्तु दीक्षाग्रहणमशक्यमेव मयि जीवितायामस्य / श्रुत्वा च वात्सल्यस्नेहभावं तस्या भैंसाशाहस्तां बहनुनीयावानील-प्रिये ! दीक्षां गृहाणेति धवलमादेष्टुं नेच्छामि, किन्तु दीक्षाग्रहणाभिलाषामनुमोदितुं तस्या. मिलपाम्येव / मोहजन्य स्वार्थमात्रसार पुत्रप्रेम दूरीकृत्यात्मकल्याणसंपादनायोद्य पुत्रमवश्यं स्वमनुमोदयस्व / यतो हि जन्म प्राध्यान्ते नियमाणाः सर्वे श्यन्ते किन्तु मातृकुलं पिभृकुलं स्वकुटुम्बश्च यशसोज्जवलीकृश्य स्वर्ग प्रान्तो पिरला एव बिलोक्यन्तेऽत्र जगति / अत एवोच्यते / स जातो येन जातेन याति वंशः समुन्नतिम् / परिवर्तिनि संसारे मृतः को वा न जायते // पत्युरेवं परमार्थसारं निशम्य वचनं सा शीघ्रमेवानुज्ञा ददौ दीक्षार्थम् / सूरीश्वरः परममांगल्योपपने मुहर्त भैसाशाहेनानुष्ठिते महामहोत्सवे जिनमन्दिर एकादशभिर्मुमुक्षुमिः सा घवलाय दीक्षा ददौ / ततोऽस्येन्द्रइंसेति नानः प्रसिद्धिरासीत् / मुनिरसौ राजहंस इव नीरक्षीरविवेकविचक्षण, इन्द्रहंसोऽस्पेनैव, कालेन, प्राक्तनजन्मकृतसुकतप्रभावेण सकलागमतत्व संग्रहणकदक्षो विद्वज्जनवरेण्यो जितानेकवादी सत्यवादी विनयगाम्भीर्यायनंकगुणविभूषितमानसः प्रमोदमानमानसोऽभिनवतर्ककर्कशीकृतद्विषद्हदयः, परमतपस्वी यशस्वी बभूव / अनेकासु राजसभासु स्वसिद्धान्तप्रतिपादनपटुः समेषां राज्ञा सभ्यानां च मनासि रजयामास। . एकदा श्री देवगुप्तसूरीश्वरो विहरन् जावलीपुरमाययो सकलशिष्यमण्डलीसमेतः / श्रीसंघेन सरकतस्तत्रैव स्वीचकार चातुर्मासिकी स्थितिम् / श्रेष्टिगोत्रीयो लिम्बाशाहो भगवतीसूत्रवाचनामहोत्सवमारभत / हस्तिन उपरि श्रीभगवतीसूत्रपुस्तकं संस्थाप्य महासमारोहेण परिक्रमणं कारयित्वा सूरीश्वराय समर्पयामास / श्रवणाभिलाषुकायापूर्ववक्तृत्वशैलीपरिपूर्ण व्याख्यानं श्रुत्वा धर्मेऽधिको रुचिमादधिरे / समाप्तिमगाश्च महोसकः / सर्वे च पथासुखं प्रवणमन्यपुरवमलभन्त / तदा लाखणशाहः सूरीश्वरस्याधिष्ठातृत्व स्वस्व च Page #147 -------------------------------------------------------------------------- ________________ [ 132 ] अंधपतित्वे शत्रुजययात्रार्थ महान्तं संघ निष्कास्य प्रयाणमकार्षीत् / मङ्गलमये दिने च समशस्वत्र गत्वा तीर्थदर्शनस्पर्शनपूजनध्वजारोपणादीनि सत्कर्माण्यन्वतिष्ठत / संघस्था अपि भावुका यात्राजनितपुण्यलाभेनात्मानं धन्य मेनिरे। . अथ कदाचिन्निवर्तितनित्यक्रियाकलापं सूरीश्वरमुपेस्य श्रद्धाभक्तिसमन्वितो ठाखणशाहः सप्रश्रयं माखजलिबन्धं विज्ञापयामास भगवन् ! भवत इदानी वृद्धावस्था वर्ततेऽतः कमपि समुचितमाचार्यगुणगणनीबकीर्ति गांभीयमूर्ति मुनिमाचार्यपदे स्थापयितुमर्हति भवान् / चिरं विचार्य तदीयं वचोऽनुमान्य सूरीश्वरो लाखणशाहेनानुष्ठिते सूरिपदमहोत्सवे मुनिमिन्द्रहंस सिद्धसूरिनाम्ना प्रख्याप्य स्वपदे स्थापयामास श्रीसंघानु. मस्या सर्वमङ्गलकारके मुहू। पूर्वाचार्यपरम्परामनुसृत्याचार्यः श्रीसिद्धसूरीश्वरः क्रमेण धर्मप्रचारमुरिस्य विहरन् पाटणनगरमात्मना भूषयामास / सर्वे च संघस्थास्तस्य भावभव्य स्वागतं व्यदधुः। तदानीन्तने काले परमसमृद्धिमत्युपकेशपुरे कराल. कलिकालसाम्राज्येन मियः कुटुम्बक्लेशेन पीब्यमाना यत्र तत्र बुद्धिमन्तः प्रात्महितनिरता निवासार्थ निर्जग्मुः / तत्रत्यः सुचन्तिगोत्रीयः कदी श्रेष्ठी निवासार्थ पाटणनगरमभ्युपेतः स्वजातीयैर्दत्तावलम्बनः सहयोगमवाप्य राज्ञा सिद्धराजेनानुमतः स्वव्यापारकार्यमारभत / व्यापरे च प्रभूतमाससाद द्रव्यम् / तेनैकदा सूरेयाख्याने जिनालयनिर्माणमाहात्म्यमाणितम् / यथा___काउंपि जिंणायणेहिं मंडियं सयल मेइणीवट्ट / दाणाइचउक्केणवि सुट्टोवि गच्छिञ्ज अच्चुअयंण परउगोयमगिहित्ति। ___ अर्थात्-भगवतो जिनेश्वरस्य मंदिरैरुपशोभितां पृथ्वीं विधाय दयादानसत्याहिंसादिरूपं धर्म संसेव्य / श्रावको द्वादशं देवलोकमवाप्नोति / एकेनापि मन्दिरनिर्माणेन भाव कस्य दर्शनपदमाराधितं भवतीति / श्रावककुले प्राप्य दुर्लभं मानुषं जन्म नूतन जिनालयनिर्माणम्, श्रीमद्भगवतीसूत्रवाचनामहोत्सवानुष्ठानम् , सूरीश्वरपदमहोत्सवः, स्वामिवात्सल्यम् , पूजाप्रभावनादिकम् , इत्येतानि पुण्य जनकानि कर्माण्यविरतमनुतिष्ठेत् श्रेयस्कामः / मन्दिरनिमार्णेन निर्मापकस्य केवलं न धर्मलाभोऽपि तु भावुकानां दर्शनस्पर्शनपूजादिभिरपि पुण्यप्राप्तिः / सम्राट् संप्रतिदृश्यतामुदाहरणम् / अथ कियन्ति शतकान्यतीतानि तस्य / तथापि देवमन्दिरनिर्माणजन्यं यशस्तस्य समुज्ज भतेऽद्यापि / सूरीश्वरस्येतद् व्याख्यानं श्रुत्वाऽभिनवजिनालयनिर्माणार्थमनुज्ञां प्राप्याचार्य वर्यस्य राज्ञः सिद्धरानस्य समीपमेत्य सोपहारं सविनयमगदीत् कदी श्रेष्ठी-राजन् ! नवीनस्य जिनालयस्य निर्माणाय भूमेरावश्यकता सा च भवतैव सौ कर्येण दातुं शक्यते। राजा च धर्मरुचिः सहर्षमाह श्रेष्ठिन् ! यथा ते रोचते तथैव गृहाण विना मूल्यं भूमिम् / नात्र संकोचो विधेयः / भूमिदानेनाहमपि पुण्यं किंचिल्लभे / अत्र काऽपेक्षा म उपहारस्य 1 श्रेष्ठिना चावोचि सरल प्रकृतिकः परमधार्मिको भवानिति जानामि नात्रोपहारापेक्षा चेत्यपि तथाप्ययं बलु शास्त्रीयः सिद्धान्त: अरिक्तपाणिं न पश्येद् राजानं देवतां गुरुम् / यतो रिक्तपाणिना मथा न भवान् द्रष्टव्य इति मत्वोपहृतं मयेति विनयरुचिरमस्व वचो निशम्य राना परं प्रीतिमुपागतो भूमि श्रेष्टिने ददौ सहर्षम् / शल्पिन: शिल्पकलाकुशलानादिदेश निमार्तुम् / कृतश्च कार्यारम्भः / संपूर्णे च रंगमण्डपे मन्दिरस्य श्रेष्टिनोऽभिलाषा किंचिस्पित्तलादिभिर्मिमितेन सुवर्णेनैव प्रतिमाविरचनस्याऽभूत्। तदर्य मर्मज्ञान पप्रच्छ। यत्राभिनवजिनालयस्तस्य समीपमेव भावहताशास्त्रीयानां भावकाणामपि जिनालयो विराजते स्म / तत्र तद्गच्छीय प्राचार्यः श्रीवीरसूरिविविधमन्त्रविद्याविचक्षणो न्यवारसीत्। विशानस्य सर्वांगसुन्दरस्य मन्दिरस्य Page #148 -------------------------------------------------------------------------- ________________ परमरमणीयां शोभामभिवीक्ष्य स्वमन्दिरस्य शोभा प्रभावश्च निस्तेजस्को भविष्यतीति तस्य चेतसि देषः . पई म्यधात् / स च स्वविद्याबलेन यत्र कर्मकरा धातुरसं मेलयित्वा प्रतिमा विरचयन्ति तत्रैव बहसा अनभ्र. वृष्टिं चकार / ततश्च निष्फलमनोरथो दूधमानचेताः कदी सूरीश्वरं सिद्धसूरिं प्राप्य सखेदं निवेदयामास सर्व! वृत्तान्तम् / ज्ञानहष्ट्या सर्वमेतद् वीर सूररेव चेष्टितमिति निश्चित्य समाश्वासपूर्वमसो प्रोक्तः सूरिणा-श्रेष्ठिन् मा खेदं कुरु गच्छ, नातः परं किंचित्प्रातिकूल्यं ते भविष्यतीति / स च विश्वस्तो गत्वा कार्यमारभत / तस्मिन् समये वी सूरिणा कृतामनभ्रवृष्टिं श्रीसिद्धसूरिः स्वमन्त्रबले / म्तंभयामास / प्रतिमा च सर्वजनमनोने रमणीया सौकर्येण रचिता / नत्रयोः स्थाने महामूल्यो मणी शशिदिवाकराविवाखिललोकप्रकाशको स्थापयामास / परमप्रमोदमानमानसः श्रेष्ठी सूरीश्वरं बहु मन्यमानः प्रतिष्ठाविधये सादरं विज्ञापयामास / तदानीं तस्य कौटुम्बिकेन ब्रह्मदेवेन धर्मपरायणेनाबादि-श्रेष्ठिन् ! अतः परमहमपि किंचित्पुण्यं लभेयम् / ततस्तद्वचोऽनुमान्य सर्वमेव प्रतिष्ठापनादि कार्य तेनैव सम्पादयामास कदी श्रेष्ठी / ग्रहो ! गतः स समयो यत्रेशं सौमनस्य जनानां च धर्माभिरुचिः। प्राचार्यः श्रीमान् श्रीसिद्धसूरीश्वरो जिनागमगहनगहनाटवीसंचरणपश्चाननोऽपीतरशास्त्रतत्त्वसंग्रहणकोविदो मन्त्रविद्यार्णवमथनमन्दराच नो दृढोत्साहेन महाशासनाभ्युदयमकरोत् / सर्वत्र प्रान्तेऽविर विहारक्रममङ्गीकृत्य शिष्यमण्डलं विभज्य धर्मप्रचारार्थ प्राहिणोत् / जैनेतरानपि धर्मतत्वं बोधयित्वा जिनधर्म स्थापयामास / सर्वेषामारमकल्याणसाधना " पाठशालाना संस्थापनम् , धर्मशास्त्राणां मिथश्चिन्तनम् , वादविवादेन तत्वनिर्णयः, विविधगच्छीयानामपि परस्परसहयोगेन धर्मप्रचार कार्यमस्य 'प्रधानोदेश्यभूतमभूत् / धार्मिकाणां प्रन्थानामध्ययनेन गृहस्थानां व्यवहारो विनयरुचिरो देवगुरुभमणेषु च दृढा श्रद्धाऽप्यवर्धत / साधारणमपि तेषां शास्त्रज्ञानं विनयादिगुणैर्विस्तृतमासीत् / / - अद्य तु सखेदं वक्तव्यं यदेकस्मिन् गच्छे बहूनामाचार्याणां मिथो वैमनस्यम् / अहमहमिकयैष परस्पर. पक्षोपमर्दने व्यवसायात्मिका बुद्धिः / परमार्थो विलीनः ! श्राचार्यमहाशया अपि स्वशास्त्राध्ययनार्थमन्य मताव. म्बिनमाश्रयन्ते / तत्र स्वसिद्धान्तज्ञानस्य कथा तु दूरे वर्ततामपि तु तस्याध्यापकोऽहमेव गुरुः, स चायमस्माकं वेतनमात्र जामसन्तुष्टोऽण्यापकः, अस्माकमासनमाचार्यत्वेनोच्चतरमस्य चाश्रितत्वेन निकष्टमिति विचारण वर्तनेन घ कालं मुधैव पापयन्ति / पुरा विहरणं धर्मप्रचारहेतुकमधुना तु, स्वानुकूल्यं विदधता गृहस्थानां चेतो. रजनार्थम् / उपरित एष धर्मप्रचारप्रदर्शनम् / प्रायः स्थिरवाासेनात्मनः कृतार्थता / गतः स समयः / गतास्ते जीवितनिरपेक्षं जिनधर्माभ्युन्नतिमात्रप्रयोजना निरभिमानिनो महात्मानः सरलमतयो यैर्धर्मस्तंभा रढं निखाताः / तत एवेदानी गतेऽपि कियति कालेऽद्य जिनधर्मः कथं कथंचिदपि जीवति / विस्तृतमस्य साहित्यमिदानी गवेषकाणां ताम्रपत्रशिलालेखप्रतिमादिकं दृष्टिपथमायाति / अन्यधर्मावलम्बिनोऽप्यपगतवैराः प्राप्तं जिनधर्मसाहित्य सहर्षमाद्रियन्ते / वयमेव स्वकीयगौरवसंरक्षणपरा अन्नवस्त्रादिमिरेवात्मलाभं मन्यमानाः स्वधर्म दूरीकस्य स्वेच्छया विहराम इत्यत्र किं नाम वक्तव्यमवशिष्यते / भगवान जिनदेव एवास्मान् सन्मार्गानुगामिनः कुर्यादित्येवालम् / ___ प्रकृतमनुसरामः-कोरयटकगच्छीया गुरषो यथा जैनेतरानपि जिनधर्मे दीक्षितान् व्यदधुस्तथैवोपकेशवंशीया अपि लक्षाधिकान् जनान् जिनधर्मतत्वबोधनेनात्मकल्याणप्रापये स्वधर्म निवेशयामासुः / गच्छभेदेऽपि कार्यभेदो ममागपि नासीत् / नानन्ति भवन्तः पाठकाः श्रीपार्श्वनाथपरम्परायां षष्ठः पट्टधर आधाः श्रीरत्नप्रभसूरीश्वरः कनकप्रभसूरि लघुगुरुभ्रातरं शासनगौरवरक्षणार्थमेव स्वहस्तेन कोरण्टकपुरे सूरिपदे स्थापयामास / नदारभ्यष भगवतः श्रीपार्श्वनाथस्य परम्परायाः शाखाद्वयं प्रचलति / तत्र श्रीरत्नप्रभसूरीश्वरस्य परम्परा लोके Page #149 -------------------------------------------------------------------------- ________________ अपशगच्छनाम्ना, कनकप्रभसूरीश्वरस्य चकोरण्टक-गच्छनाम्ना प्रसिद्धा। प्रथमावामाचार्गणां नामपरम्परा श्रीरत्नप्रभसूरि:-श्रीयक्षदेवसूरि:-श्रीकक्कसूरिः-श्रीदेवगुप्तसूरिः-श्रीसिद्धसूरि:-एवं क्रमशः प्रचलिताऽभूत् किन्तु सा पञ्चत्रिंशत्तमं पट्टधरं व्याप्यैव, तदनु देव्याः सच्चायिकाया आदेशेन प्रथमं नामद्वषं ज्ञानकोश एष श्रीसंघेन स्य पितम् / कोरण्टकगच्छस्प नामपरम्परा-श्रीकनकप्रभसूरिः-भीसोमप्रभसूरि:-श्रीनन्नप्रभसूरि:श्रीककसूरिः-श्रीसर्वदेवसूरिः-एवं क्रमेण प्रचलिता / तथापि स्वमिवान्तानुसरणं धर्मप्रचारबकमस्येने सब रामायः संरक्षितमासीत् // अयं निजा परो वेति गणना लघुचेतसाम् / उदारचरितानां तु वसुधैव कुटुम्बकम् // लेखकस्याभ्यर्थना। शान्ता-स्वपंकमपरागतमामपास्य श्रीशारदा-दुपयोऽमृतसंपिपासुः / श्रीराम्पमूर्विधरदेवमहं जयन्तं सर्वाविशापिरमरूपम नमामि // 1 // माता पार्वती देवी, मोतिरामः सुधीः पिया। गौरीनाथस्तयोः पनुषस्येयं सरला कतिः // 2 // सूरीश्वरपदे भन्ये श्रीसंघेन समारतः।। ज्ञानसुन्दरमामाऽत्र मुनिर्विजयता सदा // 3 // अनुवादेऽहमाविष्टः मुधिया तेन सूरिणा। . मवा व लिखितः सोऽयमितिहासो यथामति // 4 // विदुषां परमो धर्मो गुणानां महणं मुदा / बलानां परमो धर्मो गुणानां गईणं सदा // 5 // ॐ शान्तिः शान्तिः शान्तिः / शुभं भवतु / * समाप्तोऽयं प्रन्थः // Page #150 -------------------------------------------------------------------------- ________________ AAAAAAAAAAAAAAAAAAA पुस्तके मिलने का पता१-श्रीरत्न प्रभाकर ज्ञान पुष्पमाला मु० फलोदी (मारवाड़) २–मुताजी नवलमलजी गणेशमलजी तमाकु बजार-जोधपुर. AMNNNNNNNNNN 變變變繁多美美端