________________ [ 103] भूत्ततस्ते मण्डोवरा नाग्मा प्रसिद्धाः / एतद्वंशीया महाप्रभावशालिनो दिगन्तविश्रुतकीर्तयश्च बभूवुः / . मल्ल-जाति:-खेडीपुराधिपस्य गठोडोपावं रायमल्लं जिनतत्वं संबोध्य वैक्रमे 945 हायने दीक्षितमधत्ताचार्यः / उपकेशीयवंशेऽस्य सन्तानपरम्परा मल्लजात्या ख्यातिमगात् / वीतरागा-कीडेचा-सोनी. सुखिया-महेता-नखरादयोऽस्या एव जातेथेंदा गण्यन्ते / अत्रापि बहवो दानवीरा धर्माचरणशीला महापुरुषाः समुत्पन्नाः। छाजेडजाति:--आचार्यः श्रीसिद्धसूरिविहरन् शिवगढनगरमगमत् / समहोत्सवं भावुकैरसौ सत्कृतः पुरं प्रवेशितः / यदाऽसौ शिवगढ कृतावस्थितिरासीत्तस्मिन्नवसरे नगराधिपते गठोडोपावस्य-श्रासलरावस्य सूनोः कन्जलरावस्योद्वाहविधिरासीत् / एकदाऽचार्यस्य शिष्यः कश्चिन्मुनिः शौचाथै कस्यचिद् वृक्षस्य व्यवधानमाश्रित्य स्थितस्तदा मृगयां गतस्य कस्यचित् क्षत्रियस्य बाणासनयन्त्रमुक्तो लक्षभ्रष्टो बाक्ष्यणस्तस्यैव साधोर्जा भित्त्वा दूरं पपात / अन्यः साधुः शौचविधि समाप्य यावदस्य समीपमायाति सावदेनं मूर्छितं ददर्श / बाणक्षेप्तारं ऋद्धोऽसौ मुनिर्बह्वभयित् / कृतापराधोऽप्यसो गर्वपूर्णहृदयस्तवाप्येषा गतिर्भविष्यतीत्यवादीत् / कथंचित स्वस्थप्रकृतिं विधाय मुनि सहैव नीत्वा गुरुसमीपमेत्य मदोद्धतानां क्षत्रियाणां सन्मार्गस्थापनार्थ शासनलघुतापरिहारार्थ च भाव्यनर्थनिवारणाय चावश्यं शिक्षा समुचिते त्युक्त्वा-निखिलवृत्तान्तं निवेदयामास / समुचितमस्य वचः समाकर्ण्य सूरिरसावुपायं चिन्तयामास / अन्यत्र क्षत्रियकृतं मुनेरुपद्रवं ज्ञात्वा भृशं खिन. मानसो महाजनसंघः कुद्धः सन् प्रतिकारार्थतत्परोऽभूत / क्षत्रिया अपि मद्धोद्धताः कृतमध्यपराधमकृतंमन्यमानाः प्रतिकारतत्पराय महाजनसंघाय दह्यन्ति स्म / पक्षद्वयं परस्परसंप्रहारायोद्यतमासीत् / महाजनसंघेन क्षत्रियपक्षाय निवेदितम्-भवन्तः सर्वे सूरीश्चरसमीपे क्षमा याचयित्वा विरोध परिहरन्तु / क्षत्राभिमानमदमत्ता नास्य वचो गणयामासुः / अतो विषमा परिस्थितिरभूत् / सूरीश्वरश्च करुणावलयः कथमसावुपद्रव उपशाम्येत् , क्षत्रियाश्च शिक्षिताः स्युरिति विचारयन् रात्री भगवतीं सच्चायिकामस्मार्षीत / सा च परोक्षरूपेणोपेत्य समाश्वासनपूर्वकमेनमगादीत्-भगवन् ! नात्र काचिच्चिन्ता विधेया / प्रातरेव सर्वमिदं तन्त्रं संक्षुब्धमप्यपगतवैरं शान्तिमेष्यति / तन्निमित्तं च भवदीयं यशः सर्वत्र प्रसरिष्यतीत्युत्तवा यथागतमगात् / श्रथ मांसभोजिनः क्षत्रिया गत्रावाहारार्थ मिलिता मांसं पाचयामासुः / दैववशात् पवितो विषजन्तुरपि पाकेन सह मिलितो येन मांसभोजनाः सर्वे ते विषव्यथामर्थिता वभवः। प्रातस्तान तदवस्थान दृष्टा साधोय॑थाजननिमित्तमिदं फलं, मन्त्रतन्त्रविचक्षणसाधुसमुदायस्येदं चेष्टितं, जिनमुनीनां मायेयमिति बहुविधं प्रालपन जनाः। ओसवालजातीयः संघो महदिदमकारणं दूषणमापतितमस्मास्विति तदपनोदनार्थमवशिष्टमांसस्य परीक्षणं कर्तव्यमिति यावत् परीक्षन्ते तावद्विषमिश्रितमिति निर्णयो जातः / सूरीश्वर एव सर्वान् सचेतनान् विधातुं शक्ष्यति इति मत्वा सप्रश्रयं तत्समीपमुपेत्य लज्जावनतमुखाः क्षत्रियाः सखेदं क्षमा ययाचिरे / असौ च समाश्वास्य देवगुरुसाधूनामाशातनं कदापि प्रमादेनापि न विधेयं भवद्भिः / न हि रक्षकाणां रक्ष्येषूपद्रवः शोभते / महाजनसंघेन सूरीश्वरचरणप्रक्षालितं जलं मूर्छितानामुपरि प्रक्षिप्तं येन ते झटिति सचे. तना बभूवुः सूरीश्वरपुण्यप्रभावात् सच्चायिकायाः साहाय्याच्च / आचार्यप्रभावप्रभाविता आत्मानमनुशोचन्त. स्ते सर्वे जिनधर्मोपासकाः शिष्यतामगमन कज्जलेन सह केवलं चमत्कारदर्शनेनाकष्टचेतसां धर्मभाव मला संपद्यत इति मत्वा स सर्व प्राणिनोऽस्मामिरात्मदृष्टया एव दृष्टव्याः, श्रात्मनः सत्स्वरूपज्ञानार्थ हिंसामयैकजीवनं लुब्धप्रकृति गुरुमपास्योदारचरितः सर्वजगद्धितभावनोपपन्नस्त्यागमयैकजीवनो निस्पृहः कर्तव्य पथप्रदर्शको गुरुः संसेव्यः सर्वतोभावेनेत्युपादिशत् / पट्टावलीकारैरिय घटना वि० सं० 942 तमेऽन्दे समबनीत्युक्तम् / क्षत्रियास्तत्स्मरणार्थ शिवगढनगरे विशाल महावीरमन्दिरं निर्मापयामासुः / राव-कज्जलस्थ