________________ [ 102.] यत्र रागद्वेषस्नेहमोहेच्छादयो विकारा न संभवन्ति स एव भगवान् देवशब्दवाच्यः / ये च भका एवंविधं भगवन्तं भजनेन, भक्त्योपासनया च सेवन्ते त एवात्मकल्याणं सौकर्येण प्राप्नुवन्ति / एवमागमनिरूपितं भगवत्स्वरूप परमार्थतो ज्ञात्वा सपरिवारोऽसौ जिनधर्मोपासको बभूव / पवित्रधर्मरागरंजितस्वान्तश्च स भीशत्रुब्जयतीर्थे भगवतः श्रीऋषभदेवस्य भव्यं मन्दिरं निरमापयत् / शत्रुजयतीर्थमुद्दिश्य च संघ निष्कासयामास / येन स्वजातीया अन्ये च प्रभूतं पुण्यं तीर्थयात्राजनितपर्जयामासुः / एवमसौ जीवनावधि धर्मकार्याण्यन्वतिष्ठत् / एतदीया सन्तानपरम्पराऽस्मादेव सालेचा जातिरिति सर्वत्र प्रसिद्धिमाप। वाघमारजातिः-तुंगीनगयो राजा सुहडनामाऽसीत् / अली ब्राह्मणधर्मोपासकः कदाचिहधाराधममुहिश्य यज्ञं कतु मियेष / शुभमुहूर्ते यज्ञारंभो जातः / विविध मूकाः पशव एकत्रिताः। अस्मिन्नेवकाले सद्भाग्यवशात् श्रीसिद्धसूरिस्तत्राययौ / पशुहनन हर्मकं यज्ञं दृष्ट्वा सत्वरमसौ राजसभां गत्वा राजानमुपदिदेश-राजन् ! दैवी सृष्टिरियं, देवाश्च कारुणिकाः रक्षकाः सर्वेषां प्राणिनां कथं ते हिंसारुचयो भवेयुः / अपरं च यथात्मनः शरीरे पीडाऽसह्या भवति तथैवान्येषां कथं न स्यात् / यदत्र शुभमशभं वा कर्मानुष्ठीयते तस्य फलमवश्यं परत्रोपभोक्तव्यम् / येन याताः पितामहास्तेनैव व्यवहारे सर्वसुखं नितरां सम्पद्यते इत्युपदि. श्य स्वस्थानमगात् सूरीश्वरः / कृतावबोधो राजा ब्राह्मणैः पुनरुपदिष्टोऽपि न तद्धचोऽन्वमन्यत / रुष्टास्ते गृहं ययुः / राजा च वृष्ट्यभावेन प्रजादुःखस्य दूरीकरणार्थ सूरिसमीपं गत्वाऽवोच / भगवन् ! भवदुक्तं सर्वमेव यथार्थमवैमि / किन्तु मदीया प्रजा वृष्टयभावेन भृशं दुःखिता, तदर्थमेव कश्चिदुपायश्चिन्त्य एव / येन देवतासन्तोषः स्याद् वृष्टिश्च भवेत् / अन्यथा रुष्टा इमे ब्राह्मणा अभिचारादिना महान्तमुपद्रवमाचरिष्यन्ति / राजत्रचो निशम्य सूरीश्वरो धर्म हदभावनाये पुनरुपादिशत् / राजाऽपि सूरिवचसि विश्वस्य राजगृहमयात् / रात्री संस्तारापोरषीं पठित्वा शयनायैच्छन्नपि सर्वजनश्रेयश्चिन्तयन निद्रा लेभे / अन्ते सच्चायिकामस्मरत् / परोक्षरूपेण सोपस्थिता सूरीश्वरमभिनन्द्यावादीत् भगवन् ! धर्माभ्युदयाय ते प्रवृत्तिः साधीयसी / अधारभ्याष्टने दिने वृष्टिरवश्यं भविष्यतीत्युक्त्वाऽदृश्यतामयासीत् / तदनु प्रभावे दर्शनार्थमागतं नृपं तथैवाष्टमे दिने वृष्टिर्भविष्यतीति जगाद / निर्धारिते दिने सहसा धारावृष्टिः पपात / आनन्दा प्लुतमानसा प्रजा राजा च जिनधर्माभिरुचयो विना विलम्बन जिनधर्म स्वीचक्रुः / वंशावलीष्वियं घटना 933 वि० संवत्सरे ज्येष्ठशुक्लसप्तम्यामजनीति स्पष्टमुल्लेखः। अस्यैव राज्ञः सूर्यमल्लेत्यपरं नामासीत् / तस्य सलक्षणनामा पुत्रः कदाचित् केनचित् कार्यप्रसं. गेनाश्वारूढः कुत्रचिद् ययौ / सूर्यास्तसमयेऽसौ समीपवर्विनो वेणीनगरराद् बहिः स्थितस्य कस्यचिद् गृहे रात्रीनिवासार्थमाजगाम / तन्नगरं तदानीमवरुद्धद्वारमभूत् / गृहाधिपतिस्तमवोचत्-महाशय ! प्रतिरात्रमत्र कश्चिद् व्याघ्र प्रआयाति तद्भयात् सर्वाणि द्वाराणि सायंकालादेवावृतानि क्रियन्ते / अतो भवानपि स्थानान्तरं रक्षणायान्वेषयतु / असौ तु पौरुषातिरेकात् तस्य वचो नाजीगणत् / तत्रैवासौ सावधानेन स्थितो यावद् ध्याघ्र आयाति तावदेवैकेनैव खड्गप्रकारेण द्वेषाऽकरोत् / प्रातर्नागरिकास्तंब्यानं मृतं, एनं चाक्षतशरीरं च दृष्ट्वा रामानमवोचन् समप्रं वृत्तान्तम् / राजा च हर्षेण प्रत्युद्वजन स्वागतेन विधिना नगरप्रवेशमकारयत् / तदीयपराक्रमसन्तुष्टमानमोऽस्मै लक्षपरिमितान् रुप्यकान् कांश्चिद् प्रामान दत्वा च स्वप्तमीप एवास्थापयत् / तत भारभ्यास्य वंशजा बाघमार-जात्या-प्रसिद्धिमगमन् / वाघचारेति नाम भ्रममूलकम् / व्याघ्रमारेति संस्कृतस्य सार्थकस्य शब्दस्य स्थाने रूढ्या वाघमारेत्यपभ्रंशशब्दप्रयोगः / मंडोवरा जाति:-प्रतिहारदेवादीन् / मांसभक्षिणः क्षत्रियान सूरीश्वरः प्रतिबोध्य मांसमदिराद्यभक्ष्यभक्षणान् निवर्त्य विक्रमस्य 939 तमे संवत्सरे जिनधर्मदोक्षितान करोत् / एतेषां निवासस्थानं मागउन्यपुरम.