________________ [ 101 ] महानुभावाः ! अनादिकालादयं जीवः संसारे चक्रवद् बंभ्रम्यमाणोऽवलोक्यते स्वकृतशुभाशुभकर्म“वशगः / क्वचित्सुकृतप्रभावेण देवगति कदाचिञ्चाशुभकर्मवशगः नारकीयां दुःसहां गतिमवाप्नोति / एवमस्य सुखदुःखमिश्रास्ववस्वासु बहूनि जन्मानि व्यतीतानि, अन्यान्यपि व्यत्येष्यन्ति च / अत एवोच्यते / एगया देवलोए सु नरएसु विएगया। एगया आसुरं कायं अहाकम्मेहिं गच्छइ / एवं भव संसारे संसरइ सुहासुहेहिं कम्मेहिं / जीवो पमाय बहुलो समयं गोयमा मापमायए / / . एवमस्य चतुरशीति क्षपरिमितासु योनिषु परिभ्रमणं भवतीति शास्त्रे प्रतिपादितम् / अतो येन केनचि. दपि प्रकारेणात्मश्रेयस्येव सालो यत्नो विधेयो मानवैः / नात्र मनागपि प्रमदितव्यम् / अलसस्य निरुधेमिनः सिद्धिःसुदुर्लभैव / सर्वसाधनश्रेष्ठतरे. ज्ञानसाधने न केनाप्युपेक्षा कर्तव्या / येन पश्चात्तापो न भवेत् / आत्मप्रयत्नसाध्या सिद्धिर्नान्यलभ्या / मोक्षमार्गानुसरणं बुद्धिमतां परमं कर्तव्यम् / तदर्थ मेतानि साधनान्युच्यन्ते यथा- णाणं च दंसणं चेव चरिते च तवो तहा / एयमग्गमणुपत्ता जीवा गच्छन्ति सोग्गई / / शानदर्शन चारित्रतपापि स्वस्ताराषितानि मोक्षसाधकानि भवन्ति / एतदंगाना जघन्यवृत्याश्रयणेनापि पञ्चदशसु भवेष्वस्थ जीवस्य मोक्षोऽवश्यम्भावीति सत्यमेव जानन्तु भवन्तः। एवं वैराग्यभावनाभरितं मार्मिकं व्याख्यानं श्रुत्वा सभायां संस्थितः पुनडः प्राक्तनादृष्टप्रभावोद्वोधितविरक्तिभावयुतमानसो बभव / गहमेत्य मातापितरो कौटुम्बिकाश्च तत्वतो बोधयित्वा तदनुमतो विक्रमस्य 870 तमे संवत्सरे माघशुक्ल पूर्णिमाया लिम्बाशाहेनानुष्ठिते दीक्षामहोत्सवे षोडशभिर्भावुकैर्भगवतीमाहीजिनधर्मदीक्षाम् / तदनु कल्याणकुभेत्याख्यामगमत् / असी विंशतिवर्षाणि गुरुकुले स्थित्वा वर्तमानकालीनं साहित्यं निखिलशास्त्रतत्वञ्चाध्यैत / श्रीमता देवगुप्तसूरिणाऽयमाचार्यपदे सर्वथा समुचित इति मत्वा श्रीसंघसमक्षमुपकेशपुरे सूरिपदे प्रतिष्ठापितः संवत्सरे वैक्रमे 893 तमे माघे पूर्णिमायाम् / परम्परामनुसत्य श्रीसिद्धसूरीति नाम चकार श्रीदेवगुप्तसूरिः। . समधिकविहरणशीलो धर्मप्रचारकः श्रीसिद्धसूरिः स्वशासनकाले चैत्यवासिनो शैथिल्यस्य चरा सीमामालक्ष्य संतप्तमानसस्तदुद्धारार्थ सर्वत्र विहरणक्रममंगीचकार / - सालेचाजातिः-आचार्यों विहरणक्रमेण खेटकपुरमाययो / प्राप्तस्वागतसत्कारोऽसौ धर्मोपदेश नामदात् सभायां व्याख्यानप्रसंगेन / तस्य सर्वजनमनोहरा वस्तुप्रतिपादनशैलीयुतो व्याख्यानपद्धतिं दृष्ट्वा सर्वे नागरिका मतमतान्तरं दूरीकृत्य समाजग्मुः। कर्णपरम्परयाऽचार्यवर्यस्य प्रशस्ति चालुक्यवंशीयो वीरः सालूनामा भगवद्भक्तिभजनैकप्रवणानामप्रेसरोऽशृणोत् / स च नियमतो व्याख्यानश्रवणाय सभायामायाति स्म / एकदा प्रसंगवशाद्भगवद्भक्तिविषयमवलम्ब्य विस्तरेणावादीत् सूरीश्वरः-इह हि संसारे भगवद्भक्तिमात्र. तत्पराणां भक्तानां ध्येयमुद्दिश्यैव ध्यानमालक्ष्यते सर्वत्रेति सर्वयाऽभिनन्दनीयं तत् / केचिदत्र महानुभाग ध्येयस्वरूपमपि न जानन्तो भजनादिभिर्भगवन्तमुपासते / ध्येयस्वरूपं तत्त्वतोऽबोधवन्तो न समीहितफलप्राप्त. येऽधिकारिणो भवन्तीति सार्वजनीनमिदम् / न खलु वस्तुतत्वं परमार्थतोऽज्ञात्वा तज्जन्यफललाभेनाप्यात्मनः कृतार्थताऽसादयितुं शक्यते केनापि / अतो भावुकैः प्रथमतो ध्येयवस्तुनः स्वरूपज्ञानमवश्यं कर्तव्यं येनात्मोन्नतिः साधीयसी श्रेयस्करी च स्यादिति कथयिा दृष्टान्ता अपि समुपन्यस्ताः / एतदीयं वचोऽसौ शिरोमान्यममन्यत / सूरीश्वरसमीपं गत्वा साब्जलिबन्धमबवीत् महात्मन ! यदवोचि भवता सभायां ध्यानध्येयविषये तत्तत्वतोऽधिगन्तुमभिलषामि / आचार्यश्च सत्स्वरूपमस्य बोधयन्नवोचत / प्रत्यक्षतो न भगवान् ऋषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः / तेषां स्वरूपगुणमागमसंप्रभावाद् ज्ञात्वा विचारयत कोऽत्र परापवादः //