________________ / 100 ] प्रतिक्रमणादि सामयिकं धर्मकृत्यमाचरितम् / असावप्यत्रैव पश्चादाययो रात्रौ / कुंकुंमादेवी निद्रामुद्रितने के विवोन्य कल्याणिन् ! अस्यामेव भूमो भगवतः पार्श्वनाथस्य प्रतिमा तद्वामपार्वे चाक्षयो धननिधिः / त्वरितमेव प्रातरुत्थाय खनित्वा वा भूमि भव्यं मन्दिर निर्मापय / स्थापय च तत्र प्रतिमामासादय च धर्मकर्मानुष्ठानेन शाश्वतं पुण्यमित्युक्त्वा सा तिरोधे / प्रातश्च सूरीश्वरं स्वप्नवृत्तं निवेदयामास / स च तमभिननन्द / चतुरान् समाहूय शिस्पिनो मन्दिरं निरमापयत्। नूतननगरनिर्माणमप्यारब्धम् / तस्य च देवीपुरीति नाम देव्यनुरू विहितम् / भव्यस्य जिनालयस्य च कुंकुमविहारेत्यमिधानमकरोद् अहकमलः / समाप्ते च कार्ये सूरीश्वरमाहूय महता द्रव्यन्ययेन प्रतिष्ठाविधिमन्वतिष्ठ, कुंकुंमादेवी कुलदेवतास्वेनास्थापयच्च / ___ अथ व्यतीते काले कमनीयमूर्तिः सर्वलक्षणसमन्वितः पुत्रोऽजनि / तस्य कुंकुमकुंवरेति नाम पकार / परमधार्मिक: कुंकुंमः प्राप्तवयस्कः श्रीशत्रुब्जययात्रार्थ महान्तं संघं निष्कासयामा / अपराण्यपि धार्मिकाणि कार्याणि संपादयामास येन तस्य शरदिन्दुरुचिरुचिरं यशः सर्वत्र प्रससार / अस्य परम्परा कुंकुंमजात्या जगती. दलविश्रुता बभूव / अस्या एव चोपडा-गणधर-कड-धूपिया-वटवटा-रांकावाल-संघवी-जावलियादिकाः प्रभूताः शाखा प्रचारमवापुः। विनायकिया जाति:- भंभोरियानगरनिवासी देव्यर्चनाय हिंसानिरवो विनायकरावः सूरिणोपदिष्टः स्वकीयराज्ये प्राणिवर्ष न्यवारयत्। भगवतः पार्श्वनाथस्य भव्य मन्दिर निर्माय मूर्तिप्रतिष्ठा सूरीश्वरवरदहस्तेन कारयामास / ततः परं जिनधर्मोपासको बभूव / अस्य वंशजा विनायकिया इत्याश्यां नेभिरे। वि० सं० 862 तः] 44 प्राचार्यः श्रीसिद्धसूरिः (नवमः) [वि० सं० 652 प. निखिलागमदवावबोधविभाषितदिमण्डलालंकारचूडामणिमहामहिममहनीयकीर्तिरखिलविबुधवरेण्यः श्रीसिद्धसूरिः श्रीदेवगुप्तसूरिपदे प्रतिष्ठामवाप / तपःप्रभावसमासाहितसिद्धिरसौ डिडूपुरनगरवास्तव्यः श्रेष्टिगोत्रीयश्वासीत् / विविधवणिक्कर्मकलाकलापकलापी पिताऽस्य शाहोपाधिविभूषितो लिम्बाश्रेष्ठी, माता च गृहकर्मकुराला पविधर्मानुरागिणी रोलीनाम्नी बभूव / पूर्वजन्मकृतसुकृतप्रभावेण व्यापारेऽपरिमितं द्रविणराशिं प्राप्य लिम्बाशाहो धर्म एव हतो हन्ति धर्मो रक्षति रक्षित इति मत्वा पुण्यकर्माराधनतत्पर एव कालमनेषीत् / तीर्थयात्रायै वारत्रयं संघायोजनं कृत्वा तन्जनितमक्षयं पुण्यमर्जयामास / सप्तकस्वश्चानयज्ञमकार्षीत् / कल्पद्रुम इव याचकेभ्यो मनोमिलषितं दत्वा दारिद्रय व तेषां दूरीचकार / एवं स्वजातीयानामभ्युन्नतिविषयेऽसौ प्रयतमानो प्रभूतं द्रव्यं विनियुज्य साहाय्यमाचरति स्म / एवं धर्ममयैकजीवनस्यास्य सप्त पुत्राः, पञ्च पुज्यश्च बभूवुः / तत्र सप्तसु पुत्रेषु पुनडनामा पुत्रः परमोदारस्वभावः सरलमतिः प्रतिभान्वितश्चासीत / तदीयं गाम्भीर्यमौदार्य धर्मझतां परोपकारनिरतत्वं वीरताब्च दृष्ट्वा कौटुम्बिकाः स्वकुटुम्बस्य भाविनमुत्कर्षमाशंसन्ते स्म / यथा बीज तथाऽङ्कुर इत्येवंसः स्वपितरमनुकरोति स्म / ___ भाग्यवशादेकदा शिष्यगणसमन्वितः श्रीदेवगुप्तसूरीश्वरो डिहूनगरमात्मना भूषयामास / जैनेतरांणामाश्चर्यजनकमस्य भव्य स्वागतमत्रत्यः श्रीसंघो महता समारोहेण चकार / लक्षाधिकमन्न धनमुपयुक्तमासीत् / सामयिफमुपदेशं दत्वा सभा विसर्जिता / व्याख्यानानि क्रमशः प्रारब्धानि / प्रसंगरशान्मानवो देहो दुर्लभ इति विषयेऽवोचि सूरीश्वरेण /