________________ उत्तप्रयत्ना श्रपि कौटुम्बिका तीव्रतरविरक्तिभावोपपनमानसमेनं निधयानिवारयितुं मनागपि नाशक्त वन् / अन्ते च तैरेवानुज्ञात एकादशभिर्भावुकैः साई मङ्गलमुहूर्तोपयुक्ते दिने सूरीश्वरकरकमलेन भगवतीमगृह्वाहीक्षा वैक्रमे 799 तमे हायने फाल्गुने शुक्छतृतीयायाम / ध्यानसुन्दरनाम्ना तदनु प्रसिद्धिमाप सः / चिरकालं गुरुकुलसम्पर्कमासाद्य समधिगतनिखिलागममर्मशः सूरिपदसमुचितगुणगणविद्योतिवविद्वज्जनमण्डलः सूरीश्वरेण कक्काचार्येण विक्रमस्य ८३७तमेऽब्दे स्वपदे प्रतिष्ठापितः / अस्य श्रीदेवगुप्तसूरीत्याख्या विश्रुता बभूव / आचार्यवर्यः श्रीदेवगुप्तसूरिगुरुसिद्धान्तसरणीमनुसृत्य स्वधर्मप्रचारहेतुकं विहरणं कुर्वन् सिन्धप्रान्तमयासीत् / शिष्यमण्डलीमण्डनायमानोऽसावेकदा रात्री मार्गाभ्याशवर्तिनः कस्यचिद् घटवृक्षस्याधस्तात् कृतावस्थितिर्बभूव / सर्वे मुनियो निद्रामुद्रितनेत्रा अभूवन् / सूरीश्वरश्च संग्रहणीशास्त्रस्य स्वाध्यायमकार्षीत् / तटवृक्षाधिष्ठायकः कश्चिद् यक्षो निद्रावशंगतान् मुनीनालोच्य रोषारुणितनयनस्तस्यैव वृक्षतलस्योपरि कृतावस्थितेः सूरीश्वरस्याभ्याशमाययौ / स्वाध्याये स्थितस्यास्य मुखकमलान् मनोहरान् शद्वान् समाकण्याश्चर्यचकितहृदयः शिथिलीभूतरोषावेश एकमनाः स्वाध्यायमशृणोत् / स्वाध्याये क्रियमाणं देवभवननिर्माणादिकं वृतान्तमसौ सादर श्रुत्वा परमसन्तुष्टमानसो यदा भवता मदीयं स्मरणं करिष्यते तदाऽवश्यमहं भवत्समीपमेवोपस्थितो भविष्यामीत्युक्त्वा सोऽन्तर्दधे / ततः परं व्यतीवायां रजन्यां जाते च प्रभाते सूरीश्वरः शिष्यगणसमन्वितो विहरम् वीरपुरमाससाद / पथि समागतस्य कस्यचिन्मठायतनस्याधिष्ठायकोऽस्य प्रतिरोधार्थ संचरणमार्गे सर्वत्र सर्पानाच्छादयामास / तदीयां मन्त्रबलशक्तिं सम्यगनुमाय सूरीश्वरो यक्षं सस्मार | स्मरणान्तरमेवोपस्थितोऽसौ मयूरानुत्पादयामास / ते च सर्पान चंच्या गृहीत्वाऽकाशमुदचरन् / आचार्यवयस्येदृशं महामहिमशालित्वं ज्ञात्वा निस्तेजस्कः स सन्यासी क्षमा ययाचे / स्वाश्रम एवैनमस्थापयत् / भगवन् ! धर्मस्वरूपविषयके विचारे बौखवेवान्तिचार्वाकजैनादिविविधनामपरिकल्पनं किं हेतुकम् ? नाममात्रविवादाडम्बरे निमग्नहृदयाः किमारमश्रेय प्रासादयितुं समीहन्ते उतानर्थम् ? सत्यपि सिद्धान्तज्ञाने दृढतरे वेशपरिवर्तनादिकं शक्यमशक्यं वेति संदिग्ध मानसोऽसौ सूरीश्वरं पप्रच्छ / मिथ्याग्रहनिवारकः स्वकल्याणसाधको निराबाधको धर्मः सिद्धान्तत्वेन परिक्षातस्तदा तदनुकूलाचरणेनैवेष्टसिद्धिरिति समुचितमुत्तरमासाद्य, मिध्याप्रहमुन्मुच्य,सम्यक्त्वं प्य च द्वादश भावकवतान्यङ्गीचकार स सन्यासी / एवमद्वितीयप्रभावमस्य कर्णपरम्परया विदित्वा वीरपुराधिपतिर्मुदितमानसोऽस्य स्वागतविधये स्वयमेवोद्युक्तो बभूव / नगरशोभासंस्काराद्यर्थ राजसेवकानादिदेश। प्रातरुन्मिषत्युषोरागे भगवति च सहस्रांशुमालिन्युदिते च चतुरङ्गबलसमन्वितः प्रधानकर्मचारिभिर्नगरनिवासिभिः पुरन्ध्रीभिर्वा. दिनमांगलिकद्योषपुरःसरमस्य भव्य स्वागतं विदधे राजा सोनगदेवः / नगरीमलंकृत्याचार्यवर्यः सभायां सारग. भितां देशनामदात् / येन जनाः प्रमुदितान्तरङ्गा धर्मामृतपानसादरा बभूवुः / . अथैकदा मिथो राजा सर्वसंपत्समन्वितोऽप्यनपत्यदुःखदवाग्निदन्दह्यमानमानसः सूरीश्वरसमीपमुपेत्य तदर्थ स्वदुःखं व्यवृणोत् / न खलु धर्मकर्मान्तरा समीहितसिद्धिः कस्यचिदपि दृष्टचराऽत्र जगतीतलेऽवलोक्यते / अतस्तदर्थमेव त्वमनुचिन्तय / अपत्यलाभादिकन्वानुषङ्गिकमवेहि" इति शास्त्रप्रमाणप्रयुक्तं वचः सादरमा. कर्याऽसौ राजा धर्माचरण एवाधिका रुचिमकार्षीत् / श्राचार्यः श्रीदेवगुप्तसूरिः श्रीसंघस्य राज्ञो सोनगदेवस्य चामहातिशयमनुमान्य तत्रैव चातुर्मासिकीमवस्थिति, स्वीचकार / जनता चापूर्वलाभं मन्यमानाऽत्मकल्याणसाधनाय क्षणोऽपि दुर्लभ इति मत्वा सोत्साहा बभूव / आचार्यसदुपदेश समुत्साहितो राजा भगवतो महावीरस्य मन्दिरमेकं भव्यं निर्मातुं शिल्पिन श्रादिदेश / ___ अथैकदा सन्यासिनो मानसे पूर्णतयाऽकृतार्थतामनुमानेन परिकल्प्य सभायामसी सूरीश्वरः साधूनामाचारविषयं सशास्त्रं सुस्पष्टमित्यं विवृणोति स्म / जैनश्रमणा हि द्विविधा जिनकल्पिनः स्वविरकल्पिनश्चेति / तत्र