________________ [ 15 ] पिता मुमूछी / जलाभावे कमलिनीव माता म्लानिमाप / न चापि कुमारो वैराग्यभावनां तत्याज / तदीयं दृढं वैराग्यं वीक्ष्य तावपि तत्क्षणादेव विरक्तौ / अन्येऽपि कोट्यधिपास्तेन सह विरक्ता बभूवुः / क्रमेण 35 भावुकैः, 60 स्त्रीभिश्च युतो दीक्षामग्रहीत् / अन्पीयसि काले सर्वशास्त्रपारहश्वा स परमपण्डितो बभूव / समुचितोऽयमिति ज्ञात्वा सूरिपदे प्रतिष्ठापितः। ततो विविधग्रामनगरेषु विहरन्नसौ दयाद्रचेताः क्रमेण मरुधरप्रान्तमाययौ / तत्र स्थितश्च श्रीमालनगरे यज्ञारंभमशृणोत् / असौ तत्र यातः / सूरेश्चागमनं ज्ञात्वा शंकितमानसा यज्ञकर्मनिष्णावा याज्ञिका नृपसमीपमीयुः प्रोचुश्च राजन् ! नास्तिको यज्ञोत्थापकोऽश्रद्धेयो वेदविध्वंसको जैनाचार्यः समागतः, किन्तु न तत्र विश्वासो विधेयो भवता, इति निवेद्य निर्वेदमुक्तास्ते स्वस्थानमगमन् / राजाऽपि तद्वचः श्रुत्वा स्थितः। इतश्चानेकवादिमतजिष्णुर्धामिकाग्रणीः सूरिनित्यं सर्वशिकरं दयाधर्म प्रत्यपादयत् / तदीयवाङ्माधुरीचातुर्यात् व्याख्यानश्रवणसमुत्सुका विपुलसंख्याका जनास्तत्सभायां समाजग्मुः। एकदा व्याख्यानश्रवणसमुत्सुका मन्त्रिणो यज्ञदत्तस्य गृहं ययुः। व्याख्यानश्रवणार्थञ्च तं प्रेरयामासुः / सुरेरसाधारणं पाण्डित्यं ज्ञात्वा यज्ञदत्तो नृपसमीपमेत्योवाच राजन् ! देवगुप्तमूरि-इति नामको धुरन्धरो जैनाचार्योऽत्र समागतः,स च नित्यं शास्त्रप्रमाणतो दयाधम सयुक्तिकं वर्णयति जनाश्च निर्निमेषनयनास्तदीयं वदनकमलमालोकयन्तो न तृप्तिमधिगच्छन्ति, श्रवणसादरा व्याख्यानञ्च शृण्वन्ति" इति वचो निशम्य धर्मतत्वनिर्णयाय राजा सूरीन् विप्रांश्चामन्त्रयामास / ते च यथाकालं सभायामाजग्मुः / पारस्परिकचर्चासु प्रवर्तमानासु सुरिराड् विमान संबोध्य प्राह-यज्ञकरणेनैव स्वर्गप्राप्तिश्चेद् यज्ञकर्तारस्तदर्थ स्वपुत्रादीन् बलिहेतवे कथमग्नौ न जुह्वति ! किमयमेव न्याय्यः पन्थाः 1 वराका मूका निर्दोषाः पशव एते ज्वलने प्रवेश्यन्त इत्यहो धर्मविडम्बनम्, तत्वज्ञा ये, ते कदाप्येवं नानुमन्यन्ते न समाचरन्ति चेति" वचः श्रुत्वा ते सर्वे विप्रपण्डिता लज्जाभरावनतमस्तकाः पराभूताः / परश्च जिनधर्मानुयायिनोऽभवन् / ' एवं विविधस्थानेषु परिभ्रमता ज्ञाननिधिना देवगुप्तमरिणा जिनधर्मपताकाः सर्वत्र प्रसारिता / योग्यकाले च मृत्यु परिज्ञाय धनदेवं नाम मुनि स्वपट्टे प्रतिष्ठाप्य श्रीवीरनिर्वाणाद् 458 वर्षे दिवं जगाम। वि० पू० 12 तः] १५-श्रीसिद्धसूरिः। [वि० सं० 52 . विशालयशाः श्रीसिद्धसूरिः परदुःखदारिद्रयदलनपटुः-ओसवंशविवर्द्धकः समागतः। अस्य पिता रूपणसिंहो माता च जाल्हणदेवी / धर्मव्रतपरायणोऽसौ बाल्यादेव भोपालो देवगुप्तसूरेाख्यानं श्रुत्वा विरक्तो गृहमागत्य दीक्षार्थ पितरौ पप्रच्छ / तद्वचो निशम्य तस्य पिता रिसमीपमेत्यावदव-प्रभो ! भोपालो दीक्षाविषयमेव न जानाति शिशुकल्पो दीक्षानहः। अहमेव दीक्षा ग्रहीष्यामि / ततः सूरिः प्राह भवदाज्ञाभावे नाहं तं दीक्षितं विधास्यामि, किन्तु भवानात्मनः श्रेयोमार्गे प्रयान्तममुं कथं निवारयति विनभूतो भवति च / प्रभावपूर्ण चेतस आल्हादकं सूरेर्वचः श्रुत्वा पुत्रेण सार्द्धमसौ दीक्षार्थ तत्परोऽभवत् / जाल्हणदेवी च पतिपथानुसरणशीला बभूव / अथ सप्तत्रिंशन्नागरिकसमा