________________ वृतो भोपालो दीक्षामग्रहीत् / प्रव्रज्यासौ धनदेवाभिधानं लेमे। शास्त्रवैदग्भ्यश्चासाद्य सूरिपदे प्रतिष्ठितः। ___ अथ क्रमेण विहरन् स सौराष्ट्रदेशं ययौ / वल्लभी नगरी प्राप्य तत्रैव मासावधिकमुवास / तदधीशः शिलादित्यः सूरिणा प्रतिबोधितः / अन्ये च बहनो जनाः सत्पथे स्थापिताः। तत्पाव शत्रुञ्जयमाहात्म्य श्रुत्वो शत्रजये बहूनुद्धारान् विदधे / पर्युषणे चतुर्मासीत्रये च राजा नियमतः शत्रुञ्जययात्रायै गच्छति स्म / राज्ञ आग्रहात् सूरेश्चतुर्मासस्तत्रैवाभवत् / तत्र मुनेाख्यानं श्रुत्वा शोभनोऽसावसारात्संसाराद्विरक्तः / ततः सा वृद्धा निराश्रिया शिलादित्यमुवाच-राजन् ! एक एव मे पुत्रः स च दीनां समीहते / अतो दीक्षानिरोधः कतव्योऽन्यथाहमात्मघातं करिष्यामि-इत्याकये दयाद्रचेता नृपः सूरीश्वरमुवाच-प्रभो ! तस्मै दीक्षा न देया, वृद्धस्य यष्टिरिव सर्वालम्बनरूपः सूरिराह नाहं कालत्रयेऽपि दीक्षां दास्यामि किन्त्वयं मे पुत्रः, इयं मे मातेति मोहोऽनर्थजनकः सर्वथा त्याज्य एवेत्याकये जातवैराग्या वृद्धा प्रसन्नतयाज्ञां दीक्षायै ददौ / शोभासिंहेन सानन्दं सप्रश्रयं दीक्षा गृहीता / ततः परमसौ तपःकर्मणि संलग्नः / मासानन्तरं सोऽभिग्रहं जग्राह / तदर्थं वने पुरे ग्रामे रथ्यायाश्च नित्यं पर्याटत्, किन्तु मनसा यन्निधारितं तत् सफलं न जातम् / जैनसाधूनामभिग्रहव्रतं पाखण्डमेवेति ब्रुवाणो योगिराड् मुनिमनुगच्छति स्म / आत्मोपशमनतत्परो मनिः कदाचिन्नित्यनियमानुसारेण विपिनं प्रत्यगच्छत् / तत्र दैवयोगादेका सिंही दृष्टा / तां दृष्ट्वा च पात्रमभिमुखं गृहीत्वोत्वाच मुनिः-भिक्षा मे देहोति / सा च किंचिद् भैक्ष्य ददौ / समभावान्वितः साधुर्भिक्षामादाय स्वस्थानमगमत् / सूरिपार्श्वमागत्यावेदयदखिलं वृत्तान्तम् / विबुधाग्रणीः सूरिरपि प्रसन्नवदनोऽभवत् / तत आश्चर्ययुक्तो योगी क्षमामयाचत / सरिपार्थे मुदा न्वितो जैनदीक्षामग्रहीत् / ततः परं योगकलानिपुणः सः कल्याणमूर्ति-इत्याख्या जगाम / अथ ग्रामानुग्रामं विहरन्मुनिः सिद्धसरिरुपकेशपुरमाजगाम / तदधिपति रत्नसिंहं प्रबोध्य महती श्रमणानामेका सभा कारिता। 'रत्नसिंहोऽपि' पूर्वजानामादर्शमनुसृत्य स्वीचकार सुरेराज्ञाम् / सभायामुपाध्यायगणिपदादिभिर्वहवो मुनयो विभूषिताः / सभासमाप्तौ च धर्मप्रेमभरितमानसासं मुनय इतस्ततः परिभ्रमणं चक्रुः / ___ कालान्तरे च श्रीसिद्धसरिनिअशिष्य गुणचन्द्रं सकलशास्त्रार्थतत्ववियोधकं निखिलगुणगण गणनीयकीर्ति श्रीरत्नप्रभ-नाम विषाय स्वपट्टे नियोज्य वीरनिवाणात् 522 वर्षे दिवमगात् वि० सं० 52 तः] 16 श्रीरत्नप्रभसूरिः ( तृतीयः) [वि० सं० 115 प. __ श्री सिद्धसरिपट्ट' श्रीरत्नप्रभसूरिः समायातः। असौ च ॐकारपुरवास्तव्यः। कुल्लीन मन्यां मातरि शाहपेथा-संज्ञकेन जनकेन तस्य जन्मासीत् / राजसिंह इति मूलामिधानम् / सकल शिशुशिरोमणिरसौ बाल्येऽपि मुनिवदेव कांचित् क्रियामकरोत् / यदा श्रीसिद्धसूरिस्तत्राजगा तदास्य जननी तं पप्रच्छ-सुरे! मदीयः पुत्रो मुनिवत् कांचित् क्रियां करोति किं तस्य कारणम् ? सूरिराह प्राक्तनजन्मसंस्कारोऽयम् / दीक्षामसौ स्वीकुर्यात्तदा महामुनिप्रभावकः सकलविद्वद्गणललाम भूतो धुरंधरो भवेदिति /