________________ [ 17 ] एवं मरिकथितमाकर्ण्य गृहमागत्य च सा पतिमुवाच-स्वामिन् ! राजसिंहस्य सत्वरमेवोद्वाहः कर्तव्यः, अन्यथाऽसौ विरक्तो भविष्यति / भयत्रस्तमानसः स तस्य भेष्ठया लावणवत्या कन्यया सह पाणिग्रहणमकारयत् / षण्मासा व्यतीताः। दैवयोगाच्च मूरिस्तत्पुरमाजगाम क्रमेण विहरन् / सूरिवदनकमलाच्छ्रुतं व्याख्यानं संसारासारविषयकम् / राजसिंहो विरक्तः सन् पितरौ पर्यपृच्छत्-दीक्षामङ्गीकुर्यामिति / पुत्रस्याग्रहातिशयं ज्ञात्वा तावप्यनुमोदनं ददतुः। अन्येऽपि बहवो भावुका दीक्षायै तत्परा बभूवुः / सर्वैस्तैः सहितः, स दीक्षामग्रहीत् / प्रव्रज्यानन्तरमसौ गुणचन्द्रेति संज्ञां लेमे। गुरुप्रसादपरिपूर्णो व्याकरणादिसकलशास्त्रपारगोऽसाधारणः पण्डितप्रकाण्डश्चाभवत् / सरिणा च स्वपट्टऽधिष्ठापितः।। ___ अथानुक्रमेण विहरन् विविधान् देशान् सूरिः पद्मावतीं प्राप / तत्र व्याख्यानेन शत्रम्जयमाहात्म्यातिशय प्रतिपादितवान् / रमणीयतरं तन्माहात्म्य श्रुत्वा प्राग्वटवंशीयो राणकनामा श्राद्धो शत्रुञ्जययात्रायै संघ निःसारितवान् / अस्मिंश्च संघे पंचसहस्रसंख्यकाः साधवः पञ्चलक्षपरिमिताश्च श्रावका मिलिताः ! यात्रां च विधाय संधस्तु प्रतिनिवृत्तः / सूरीश्वरश्च कच्छसिन्धपान्तयोर्विहारं विधाय पञ्चनदप्रदेशे तक्षशिलामाजगाम / तत्र सूरीश्वरस्योपदेशं समाकण्य मंत्री सम्मेतशिखरयात्रायै ‘संघं निष्कासितवान् / यात्रां विधायाङ्गबङ्गकलिंगादिषु विहरणक्रमेणासौ मरुधरप्रान्ते वीरपुरमाययौ / तत्र. च वाममार्गिणां महती संख्याऽसीत् / वीरधवलो नाम नगराधीशोऽपि तन्मार्गानुसरणशीलो येन तदनुयायिनो जना अपि तद्धर्मावलम्बिन आसन् / दीर्घदर्शिना तेन सूरिणा। धर्मरहस्य प्रतियोधितास्ते / सर्वतोगामि मर्मस्थलस्पृशं परमानन्दजनकं -च व्याख्यानं श्रुत्वा राजकुमारो वीरसेनस्तु विरक्तो जातः / कतिपयैव्यैर्भावुकैश्च सह दीक्षां जग्राह / अल्पसमयेनैव सर्वाणि शास्त्राण्यधिगमय्य सूरिणोपाध्यायपदं प्रापितः सोमकलश इत्यभिधानेन / ... इतश्च कोरण्टकगच्छाधिपतिः सर्वदेवसूरिः स्वपट्ट कमपि मुनिमसंस्थाप्य स्वर्गमागमत् / ततः कोरण्टकगच्छीयाः सर्वे मिलित्वा रत्नप्रभसूरिपार्श्वमेत्यावदन्-भगवन् सर्व देवसूरिर्दिवं यातः, अतः कस्मैचिद् योग्याय मुनये सूरिपदं देयं पट्टाभिषेकोऽपि भवतैव विधेयः। सूरीश्वरस्तत्र गत्वा तद्गच्छादेव योग्यं सोमहंसमुनि सूरिपदालंकृतं कृत्वा पट्ट' स्थापयामास / ___ व्यतीते हि कियति काले सर्वत्र स्वधर्मप्रचारं विधाय रत्नप्रभसूरिः स्वमृत्युकालं ज्ञानदृष्टया ज्ञात्वा सोमकलशं तत्पट्ट स्थापितवान् / श्रीरत्नप्रभसूरिणा 63 वर्षाणि जिनधर्मस्य जीवितनिरपेक्षं सेवा विहिता / वि० सं० 115 तः] 17 श्रीयक्षदेवसूरिः (तृतीयः) [वि० सं० 157 प. तत्पर श्रीयक्षदेवसूरिः समायातः / असौ धीरपुरवास्तव्यः / पिताऽस्य वीरधवलो, माता च गुणसेनाऽसीत् / तयोश्च वीरसेननामा तनयोऽभवत् / षोडशवर्षवयस्कस्यास्य पाणिग्रहणमुपकेशपुराधीशस्य कन्यया सोनलदेव्या सहाऽभूत् / विज्ञातजीवाजीवादितत्वविस्तरा सोनलदेवी जिनधर्मोंपासिका श्राविकाऽआसीत् / तया वीरसेनस्तत्कौटुम्बिकाश्च जिनधर्मपरायणाः कृताः /