________________ [1] अथ कदाचिद्विहरन् रत्नप्रभसरिवरिपूरमागच्छत् / सूरीश्वरागमनञ्च विज्ञाय सर्वे ब्राह्मणा नृपसमीपं गत्वाऽवदन् राजन् ! जिनधर्मानुयायिनो नास्तिकाः साधवोऽत्र समागताः / ते च श्रुतिप्रतिपादितयज्ञादिकर्मकलापस्योत्थापनमेव कुर्वन्ति / अतो भवता तैः सार्धं वार्तालापोऽपि न विधेय "इति तेषां वचनमादृत्याह भूपतिः-भवद्भिः सर्वैः सत्यमेवोच्यते परन्त्वस्य निर्णयो वादविवादेनैव भवितुमर्हति / पश्चात्तत्र रत्नप्रभसूरिमाहूय वादविवादस्तैराख्धः / सूरेः सर्वशास्त्रविचक्षणेन निधानमूर्तिनामकेन शिष्येण स्वधर्ममाहात्म्य सिद्धान्तपूर्ण दर्शयित्वा सर्वे विभाः पराजिताः / तत्र कैश्चित्कल्याणमभिलपद्भिः सरिपदारविन्दमुपस्पृश्य सर्वकल्याणसाधिका दीक्षा गृहीता। वीरधवलो भूपोऽपि जिनधर्मे कृतादरोऽभूत् / चतुर्माससमाप्तौ किमपि कमनीय व्याख्यानं श्रुत्वा वीरसेनो वीतरागो भूत्वा पितरावामंत्र्य पञ्चचत्वारिंशद्भावुकैः सह दीक्षामग्रहीत् / अधीतजिनधर्मतत्वोऽसौ व्यतीते कियति काले सूरिणा स्वपदे यक्षदेवनाम्नाऽधिष्ठोपितः। . ___ अथैकस्मिन् काले द्वादशाव्दीय दुर्भिक्षमभवत् / बहवश्च साधवोऽनशनं कृत्वा स्वर्गमगच्छन् / अतीते च दुर्भिक्षसमयेऽवशिष्टाः साधवः सौपारपतने संगताः / तैश्चैका महती सभा कृता / अतीते च दुर्भिक्षकाले श्रीवज्रसेनसूरिश्चन्द्र-नागेन्द्र-निवृत्ति-विद्याधरनामकान् श्रेष्ठिपुत्रान् दीक्षितान् कृत्वा तैः सह सौपारपत्तनमगमत् / यक्षदेवसूरिसमीपे ऽध्ययनं कुर्वत्सु तेषु सहसा वज्रसेनरिर्दिवं ययौ / सूरीश्वरस्तान् स्वधर्मशास्त्रमध्याप्य पदवीप्रदानञ्च चकार / पश्चादेव तत्तन्नामकानि तेषां चत्वारि कुलानि प्रसिद्धिमगमन् / यथा 1 चन्द्रकुलम्, 2 नागेन्द्रकुलम्, 3 निवृत्तिकुलम्, 4 विद्याघरकुलम् // ततो विहरन् यक्षदेवमूरिमुग्धपुरमाययौ / तत्र म्लेच्छानां भाव्यागमनमशृ. णोत् / अतो म्लेच्छागमनवृत्तान्तं ज्ञातुमसौ शासनामरी देवी प्राहिणोत् / दैवयोगाच्च सा म्लेच्छदेवताभिर्गृहीता। ते च म्लेच्छदेवा अहर्निशं तत्रागत्य कथयामासुः-प्रभो ! जिनालये म्लेच्छाः सन्ति / तेषां वचसि विश्वस्य स सूरिस्तत्रागच्छत् / न च कोऽपि दृष्टिपथमायातः, तथापि शङ्कितमनाः सूरिः सर्वान् श्रावकानाहूयावदत्-अस्मिन् विषमे संकटे प्राणव्ययेनाऽपि प्रभोः प्रतिमाऽवश्यमेव रक्षणीयेति / अथ रात्रौ बहवः साधवः श्रावकाश्च प्रभुपतिमां शिरसि निधाय कस्मिंश्चित् स्थाने रक्षितुमगमन् / इतश्च म्लेच्छदेव विमुक्ता देवी सरिसमीपमागत्य शीघ्रमवादीत् -भगवन् ! म्लेच्छाः समागताः / सत्वरमेव तत्प्रतीकारो विधेय इति श्रुत्वा सूरिस्तमाह-देवि ! तब विश्वासेनैव वयमत्र स्थिताः, त्वं तु चिरादागता / तया च प्रोक्तम्-किं करोम्यहं तत्र व्यन्तरैधृताऽसम् / ___ ततश्च म्लेच्छागमनं जातं नवेति ज्ञातुं सूरिः शिष्यावप्रेरयत् / स च पञ्चशतसंख्यकैः साधुभिर्ध्यानमङ्गीचकार / समागता म्लेच्छाः आगत्य च प्रतिमामदृष्ट्वाऽपृच्छन् सूरिप्रभृतीन मुनिवरान् किन्तु नोत्तरमासादितवन्तः / अतः केचन तैर्मारिता, धृताश्च केचित् , पलायिताश्च केऽपि / म्लेच्छैबन्दीकृतं मूरि कश्चिद् भूतपूर्वः श्रावको बलात्कारेण म्लेच्छत्वं प्राप्तः कारावासद्वाररक्षकोऽमोचयत् / अन्यै रक्षकैश्च सार्द्ध खटकुम्पपुरमप्रेषयत् / यत्राऽन्येऽवशिष्टाः साधवः संमागच्छन् / मरिमेकाकिनमवस्थितं वीक्ष्य तन्नगरमधिवसन्तः श्रावकाः दीक्षार्थ पुत्रानर्पयामासुः / सं च तानेकादश