________________ [14] मशकव्याधिसंयुक्तमिव दूरीकरणीयमिति निश्चित्य ते स्थविरान् प्रोचुः / -वृद्धैरुक्तम्-इदमवाच्यमपुण्यजनकं वचः कदाचिन्न वाच्यम् / अनादृत्य वृद्धानां वचनं ते सूत्रधारं प्रलोभ्य तद् ग्रन्थिद्वयच्छेदनमकारयन् / सूत्रधारस्तु तत्क्षणमेव प्राणान् जहौ / छेदस्थलाच्च रक्तधारा निर्गता। तद्रोधनार्थे कृतप्रयत्नास्ते निष्फला अभवन् / अतः श्राद्धाः व्याकुला जाताः। ततः सूरिमाह्वातुं ते सविज्ञप्तिकं कञ्चनौष्ट्रिकं माण्डव्यपुरं प्राहिण्वन् / असौ गतस्तत्र / श्रुतं मुनिनेदं दुःखाकरमुदन्तजातम् / अन्ते चोपकेशपुरं गन्तुं विहारं चकार। अथागत्य च तत्र संघयुक्त न तेन मुनिनोपवासत्रयं विहितम् / तृतीयोपवासावसाने शासनामरी (चामुण्डा) प्रत्यक्षं प्राह-बालश्रावकर्मन्निर्मितं विम्बमाशातितं तन्न युक्त कृतम्, अतोत्र परस्परं जनानां विरोधः जनाश्च दिशो दिशं परिभ्रमिष्यन्ति, किंबहुना कियद्भिर्वासरैश्च नूनं पुरभंगो भविष्यति / सूरिः प्रोवाच-कर्मयोगेन जीवानां यद् भावि तन्नकोऽपि मिथ्याकर्तुं शक्नोति / अतो येन केन प्रकारेण स्रवद्रक्तं तु नियारय / देव्या प्रोक्तम्-चतुविधसंघेन शुद्धाष्टमं तपो विधाय सर्वोषधिभृतैर्दधिदुग्धधृतेक्षुरसपूरितैर्घटैरष्टादशगौत्रैमख्यपुरुषैः संमील्य स्नानं कारयितव्यम् / वीरप्रतिमाया उभयपार्वेऽष्टादशगोत्रपुरुषास्त्वधोदर्शितक्रमेण ज्ञेयाः / प्रथमतो दक्षिणपार्वे यथा तप्तभट्टो बप्पनागस्ततः कर्णाटगोत्रजः / तुयो बालभ्यनामाथ श्रीमालः पञ्चमस्तथा // कुलभद्रो मोरिशश्च मिरिहियाह्वयोऽष्टमः / श्रेष्टिगोत्राण्यमून्यासन् पक्षे दक्षिणसंज्ञके // ततो वामपार्वे यथासुचिंतितादित्यनागौ मोरोभाद्राथ चिंचिटिः / / कुंभटः कान्यकुब्जोऽथ डिडुमाख्योऽष्टमोऽपि च // तथाऽन्यः श्रेष्ठिगोत्रीयो महावीरस्य नामतः / नव तिष्ठन्ति गोत्राणि पंचामृतमहोत्सवे // मूलप्रतिष्ठानन्तरं वीरप्रतिष्ठादिवसात् 303 वर्षातिक्रमे चतुर्मासानन्तरं गुरूपदेशप्रभावित आसलः शत्रुञ्जययात्रार्थ संघं निःसारितवान् / तीर्थयात्रानन्तरं सूरिश्वरः संघमामन्त्र्य प्रोवाचअहं तु सर्वथा शान्तिमिच्छामि / सूरिपदसमुचितो देवसिंहो मुनीश्वरोऽतोऽत्रैव सूरिपदमहोत्सवं कुर्वन्तु / यात्रार्थमायातास्ते सर्वे मुनिवचनमनुमान्य सोत्साहं तथैव चक्रः। संघश्च स्वस्थानं प्रतिनिवृत्तः / कक्कमरिश्च तत्रैव स्थितः / निमित्तज्ञानेन स्वमृत्युकालं परिज्ञायाऽनशनसमाधिना 361 वर्षे स्वर्ग जगाम / वि० पू. 76 तः] १४-श्रीदेवगुप्तसूरिः। [वि. पू० 12 10 . पितास्य रावखती मातादेवी कुमारिका / बाल्य एव श्रीमतः ककस्रेाख्यानमाकये संसाराद्विरक्तः / गृहमागत्य पितुः समीपे स्वस्य दीचाया इच्छा प्रकटीचकार / श्रुत्वा च