________________ / 7.. राजसीश्रावकस्य पुत्रो धवलो विरक्तः सन् पितरौ सम्भाष्य भगवतीं दीक्षामगृह्णात् / ततश्च राजहंसमुनीति प्रसिद्धिमवाप / जिनमन्दिरे चाजनशलाका प्रतिष्ठाविधिश्च समाप्याचार्य उपकेशपुरमगमत् / सुरेरनुज्ञामवाप्य भिन्नमालसंघेना-भ्यर्थितः कुकुन्दाचार्यों भिन्नमालनगरे, सूरीश्वरश्वोपकेशे चतुर्मासावस्थानमकरोत् / ततः समाप्ते चतु. मसि श्रीसंघः कुकुन्दाचार्य न्यवेदयद्-भगवन् ! भवतो वृद्धावस्था वर्ततेऽतः कमपि योग्यं मुनिमाचार्यपदे प्रतिष्ठापयितुमर्हति, एवमाकर्याचार्योऽब्रवीत् / एकस्यैवाचार्यस्य विद्यमानत्वे द्वितीयस्य योजनाऽनुचितेति श्रीसंघस्तूष्णीं स्थितः / कुकुन्दाचार्यस्तु संलेखनातत्परोऽभवत् / व्यतीते काले कुकुन्दाचार्यः स्वर्गमगमत् / संघश्च दुराप्रहदूषितः सूरिवचमनादृत्य तदीयशिष्येषुकल्याणसुन्दरं मुनि देवगुप्तसूरिनाम्नाऽहूय पट्टे प्रतिष्ठापयामास / / ___आचार्यः कक्कसूरिस्तु चतुर्मासानन्तरं पूर्वदेशे धर्मप्रचारार्थ गतः पन्चालादिषु प्रान्तेषु विहरन् यदा सिन्धप्रान्तमाजगाम तदा ज्ञातं यत कुकुन्दाचार्यस्तु स्वर्ग गतस्तस्थाने तदनुमत्यभावेऽपि श्रीसंघेन देवगुप्तसूरिराचार्यपदे स्थापित इति / भवितव्यं भवत्येवेति मत्वा सूरिणा शान्तिमन्त्राराधना विहिता / ततः शत्रुजययात्रां विधाय विहारक्रमेण मरुधरप्रान्तस्थां चन्द्रावतीमायगै / तत्र समाप्ते चतुर्मास सूरेरुपदेशादेका श्रमणानां सभा मिलिता / अत्र देवगुप्तसूरि विहाय सर्वे साधवः साध्व्यश्च समागताः / सभाध्यक्षपदमलङ्कुर्वता श्रीमता सूरिणा यथा समये धर्मप्रचारसंरक्षणानुपालनादीनां प्रभावपूर्णा देशना दत्ता / शासनोन्नतये विचारा अपि चिन्तिताः / योग्यतां प्राप्तेभ्यो मुनिभ्यः पदवीप्रदानं कृत्वा, सर्वेभ्यो धर्मप्रचाराय विहारस्याज्ञां दत्त्वा च सभाकार्य समापितम् / ततो विहरन्सुरिरुपकेशपुरमाययो / तत्र श्रेष्ठिगोत्रीयो मंगलशाहः शत्रुजययात्रार्थ संघं निःसारितवान् / परोक्षदर्शनायाः सच्चायिकायाः कथनेन निजनिधनसमयं ज्ञात्वोपाध्यायपदभूषितं राजहंसमुनि देवगुप्तसूरीति नाम्ना संबोध्य स्वपट्टे संघसमक्षं प्रतिष्ठापयामास / स्वयञ्च सप्तविंशतिदिनान्यनशनेन समाधिना चातिवाह्य दिवं ययौ। वि० सं० 480 तः] 34 श्राचार्यः श्रीदेवगुप्तसूरिः (षष्ठः)। [वि० सं० 520 प०] श्रीकारिपट्टे पण्डितप्रकाण्डोऽमरगणसंभावनीयकीर्तिः श्रमणार्चितः सुविहितशिरोमणिः श्रीदेवगुप्तसूरिः समाजगाम / असो च खटकुम्पनगरनिवासी करणाटकगोत्रीयः / पितास्य तु क्रयविक्रयादिव्यापारकुशलो धार्मिकधुरन्धरो गजसीशाहो, माता च वनिताजनललामभूता सकलगुणगणनीययशा रुक्मिणीदेवी / तयोरयं परममेधावी विनयावर्जितसकलमनोमोहको धवलनामा / धवलोऽसौ पित्रा सह घृततैलादिव्यापारे दत्तचित्त आसीत् / एकदा काचिद् वृद्धा घृतपूरितं घटमधस्तादारिका (प्रारीति भाषायाम) युतमस्मिन् श्रेष्ठिनि विश्वस्य श्रेष्ठिन् ! घृतमिदं तोलयित्वा स्थापयतु यावदहमागच्छामीत्युक्त्वा संस्थाप्य च घटं ततोऽन्यत्रागात् / राजसी च यावदिदं घृतं पात्रान्तरे निष्कास्य तोलयति तावदस्माद् घृतं रिक्तं नाभूत् / किमत्र कारणमिति विचारयन्नसौ ज्ञातुमत्र कारणं नाशक्नोत् / तदा धवलो घटस्याधस्ताचित्रावलीनिर्मिता तामारिकां दृष्ट्वा पितरमुवाच-पितः ! अधः स्थापिताया अस्या एवायं प्रभावः / पूर्व सूरेाख्यानेऽन्यत्र च बहुशः श्रुतं यदस्याः प्रभाव ईदृश इति / परमसन्तुष्टो राजसीश्रावकः पश्चादागतां तां नियतपरिमाणकस्य घटस्थघृतस्य मूल्यमिदं गृहाणेति वामगादीत् / सा च तथेत्युक्त्वा घटं गृहीतुमैच्छत्तदा तां नावलोक्यारिको तदर्थमवदत् तम् / तेन च बह्वनुनीता किंचिद् गुडं मे देहीत्युक्ते पञ्चशेरकप्रमाणकेन गुडेन संबोषिताऽन्यां मत्कृतेऽहमानेष्यामीति मनसि विचार्य यथागतमयासीत् / गतायाश्च तस्यामसौ स्वकीये धनागारे तामारिका निचिक्षेप, यतो धननिधिरस्पाक्षयो बभूव / येनोभो जनकवनयो समधिकां धर्मभावनामभिवर्धबामासतः।