________________ [ ] प्रोक्तं मम गुरव एवं मया प्रणामो विहितः। स्वापमानेन संक्रुद्धो राजा सप्तसंख्यकैरयोमयैर्बन्धनैरेनं दृढं बद्ध्वा गाढान्धतमसावृते कारागृहे स्थापयन्त्विति सेवकानादिशत् / सेवकैरपि तथैव कृतम् / ततः स सोमशाहोऽप्येक चेतसा ध्यानेन चाचाम्लान्वितं गुरुं श्रीककसूरि प्राणमत् / गुरुचरणसरोजानुभ्यानेन मारोटकोटनगरे कारागृहे नियन्त्रितस्य सोमश्रावकस्यायोमयाः शृङ्खलाः शीघ्रं त्रुटिता अभवन् / अहो ! गुरोः परमकृपयैव दृढमपि मे बन्धनं छिन्नमतः साक्षादर्शनमहं करोमीति निश्चित्य कारागृहान्निर्गत्य नृपसमीपमुपस्थितः / विस्मयापन्नचेता राजा राजसभा च तस्मै सहर्षमभिनन्दनं ददुः / सन्तुष्टो राजा सोमशाहाय लक्षरूप्यकान् पारितोषिकरूपेणादात् / राजगृहान्निर्गतोऽसौ गुरुचरणकमलवन्दनार्थ भृगुपुर ( भरुच ) मयासीत् / अथ क्रमेण स गुरुसामीप्यमवाप / तस्मिन्नेव क्षणे देवी सञ्चायिका वन्दनायागताऽसीत् / शिष्याश्च गोचरचर्यायै गता इति हेतोरिमावृतमासीत् / अत्रत्यमिदं वस्तुजातं दृष्ट्वा स्वचेतसि सोमशाहो व्यचिन्तयत्अहो ! खलु कष्टं यद् गुरुरपि स्त्रीणां वशंगतो दृश्यते ! / अतः कथमप्यसौ वन्दितुमर्हो नास्तीति मत्वा तस्मातस्थानाद् यावन्न्यवर्तत तावदेव मटित्युया पपात / मुखाच्च तस्य रुधिरमसुनुवत् / ___ व्यतीते कियति काले मुनयो यदा समायातास्तदा तं द्वारपतितं स्त्रवद्रुधिरवदनं दृष्ट्वा वृद्धगणेशो नाम मुनिर्गुरुमुवाच भगवन् ! द्वारे सोमश्रेष्ठी शोणितशोणमुखः पतितो वर्तते / सूरिश्च देव्याः कोपेनास्येदशी स्थितिरित्युक्त्वा वामाहूय भवत्या किमिदं कृतमिति तामगादीत् / सा चाह-भगवन् ! कलुषितचेता असावुचितं दण्ड प्राप्तवान् / यस्य नामस्मरणमात्रेणैव तस्य निगडबन्धनानि छिन्नानि, राजसम्मानमपि लब्धं तस्यैव गुरोविषये दोषारोपणं कथं सोढव्यं स्यादस्य / अतोऽसावात्मकतापराधस्येदं फलमनुभवितुमर्हत्येव / देव्या वच श्रुत्वा-भगवति ! कोपं विहायास्य शांति विधेहोति सूरीस्तामवादीत् / यद्यस्य शान्तिरभिप्रेता तीतः परं मे प्रत्यक्षमागमनं नैव भविष्यतीति देवी सूरीश्वरमुवाच / एवं विषम परिस्थितिं विचार्यान्ते यथा तथा भवतु तथाप्येनमुज्जीवयेति सूरिकथित वचनामाहत्य देण्याऽसौ लब्धसंज्ञः कृतः सोमशाहो लज्जाभरनताननः सखेद. माह-गुरो! क्षमस्व ममापराधम् / नैव ज्ञातमीहशः प्रभाव प्राचार्यवर्यस्येति / गुरुश्च तं समाश्वासयत् / ततः परं सच्चायिका प्रत्यक्षरूपेण नागवा / इदमप्युक्तमासीदतः परं श्रीरत्नप्रभ-यक्षदेवसूरीश्वरसदृशा आचार्याः प्रायो दुर्लभा एव ततस्तयो मनी कोश एव संस्थापनीये / अर्थात् कस्यचिदाचार्यस्य नाम श्रीरत्नप्रभ-यक्षदेवसूरीति न कर्तब्यम् / अपरचोपकेशवंशीय एवाचार्यो भवितुमर्हतीति / अतः कक्कसूरिणा श्रीरत्नप्रभ-श्रीयक्षदेवसूरीति शब्दो कोशे स्थापितो। संघायापि निवेदितं यदुपकेशवंशीयो योग्यता प्राप्त प्राचार्यपदे प्रतिष्ठापयितव्य इति / स सोमशाहोऽपि मारोटकोटनगरं प्रत्याजगाम / प्राचार्यों भृगुकच्छाद् विहारं विधाय सौपारपत्राने चातुर्मासीमकरोत् / तत्र देवी सच्चायिका परोक्ष चन्दनायागता व न्यगादीद् भगवन् ! भवता दक्षिणप्रान्ते महाराष्ट्रे च विहारो विधेयो येन महान् लाभो भविप्यतीत्युक्त्वा साऽदृश्यतामयात / सूरीश्वरश्च देवीवचनमादृत्य शासनस्योत्तरदायित्वं कुकुन्दाचार्यस्योपरि निक्षिप्य पञ्चशतपरिमितेः शिष्यैः सह धर्मप्रचाराय दक्षिणस्यां दिशि विहारमारभत / क्रमेण प्रामनगरोपनगरेषु विहारं कृत्वा व्याख्यानोपदेशादिना वर्षयपर्यन्तं सर्वतोभावेन धर्मजागृतिमकरोत् / येन पूर्व तत्र विहरता साधुनां धर्मप्रचारे / द्विगुणीभूतो वेगः धर्मस्य समधिकप्रचारार्थ च पुनस्तानादिश्य क्रमेणोज्जयिनी भूषयामास श्रीसंघकवसमुचितसत्कारस्तत्रैव चतुर्मासमकरोत् / ततः खटकुंपनगराद् राजसीश्रावकस्तत्पुत्री धवलश्च जिनप्रतिमाप्रतिष्ठायै प्रार्थयामासतुः वत्र लाभकारणं विचिन्त्य सूरीश्वरः खटकुम्पपत्तनमगमत् / कुकुन्दाचार्योऽपि सशिष्य प्राचार्यस्य खटकुम्पनगर आगमनं विज्ञाय वन्दनायाजगाम / ततो योराचार्ययोरागमनमहोत्सवोऽवीव स्रोत्साहन पोरैः सम्पादितः। पूरीबवरल्यासाधारय वैराग्यभावनापरिपुष्टं व्याख्यानमाकपर्व