________________ यंदा नन्नप्रभसूरिराचार्यः तपोऽनुष्ठानमज्ञासीत्तदा तं न्यषेधीत् / तथापि सूरीश्वरेण कसूरिणोक्तम्-यावन्मदीयविहारव्याख्यानादिकर्मस्वन्तरायो न भविष्यति तावदहं तपो विधास्यामि / एवं संयमव्रती सूरीश्वरो दृढनिश्वय आसीत् / तपसा सहाचार्यो योगासनसमाधिस्वरोदयादिविषयाणामपि पारदृश्वाऽभूद्येन गच्छीया अन्यधर्मस्था अपि जनाश्च योगज्ञानाय स्वरोदयस्याध्ययनाय च सूरीश्वरसमीपमागच्छन् / एवं चतुर्माससमाप्तावष्टादश भावुका भगवती दीक्षां जगृहुः / तदनन्तरं नन्नप्रभाचार्यः कोरण्टकं, कुकुन्दाचार्य उपकेशपुरमाचार्यः श्रीककसूरिश्च विहरणक्रमेण शिवपुरीमाययो / प्राचार्यागमनं विज्ञाय जनकेन यशोदित्येन नगरप्रवेशमहोत्सवो विहितः / अन्येधुराचार्यस्य संसाराद्विरत्युद्वोधकं व्याख्यानमाकर्ण्य पौरा आश्चर्यान्वितमानसा बभूवुः / एकस्मिन् दिवसे मन्त्री यशोदित्यो भार्यया मेनादेव्या कुटुम्बेन च सह वन्दनार्थमगच्छत् / वन्दनादिकं विधाय जननी मेनादेवी तमगादीत्-भगवन् ! अस्मान् विहाय गच्छता वयं विस्मृताः किम् ? प्रामनगरोपनगरेषु यस्य बहवः संख्यातीताः शिष्या भक्ताश्च विद्यन्त एवम्भूतस्य भवतोऽप्रे के नाम वयम् / अस्तु / अस्मभ्यमप्यात्मनः श्रेयस्करमुपदेशं ददातु, येनात्माभ्युदयः कर्तुं शक्येत / सूरिश्च तामाश्वासयन्नाह.. मातः ! सर्वमिदं प्रत्यासन्ने हि मृत्याविहैव स्थास्यति / एकाकिगमनमेव श्यते संसारेऽतो वृद्धावस्थायां यथा स्वकल्याणं स्यात्तथैव पूजनधर्माचरणोपदेशश्रवणादीनि धार्मिकाणि कृत्यानि सम्पादयतु भवती / अन्येऽपि कौटुम्बिका धर्मलाभाशिषा संभावितास्तथैवोपदिष्टा वन्दनं विधाय स्वसदनमगमन् / ततो निर्गत्य चन्द्रावतीमाययौ सूरिः / तत्रत्येन संघेनार्बुदाचलयात्रायै प्रार्थना कृता / सूरिरपि तदभ्यर्थनां स्वीचकार / अथ निदाघकाले सूरीश्वरेण सह सहस्रसंख्यकाः श्रावका अर्बुदाचलं प्रति प्रस्थिताः / मार्गे जलाभावात् पिपासापीडिता यमकवलवां प्राप्ता इवाश्यन्त / अतस्ते जलप्राप्तये सूरीश्वरसमीपमेत्य दुःखनिवारणार्थ प्रार्ययामासुः-भगवन् ! पिपासापीडिता वयं सर्वे विषीदामः, अतस्तन्निवारणं करोतु / कृपया पूर्वस्मिन् काले श्रीवास्वामिना दुर्भिक्षदुःखिता जनाः संरक्षिता आसन् / एवमत्र भवानेवास्माकमुद्धारको भवत्विति / सूरिरपि तान् समाश्वास्य स्वयमेकाप्रमना बभूव / अतस्तत्क्षणमेव श्वेतपक्षः कश्चिद् विहगो दृष्टः / तत्सूचि. तेङ्गितस्थान प्राप्य यावत्खनितुमारब्धं तावत्प्रभवं जलं प्राप्तम् / गुरुचरणसरोजप्रसादात्ते प्रत्युज्जीविताः / सहस्रपरिमिवैर्जनैः पीयमानमपि तज्जलं तथैव परिपूर्णमासीत् / संघेनापि तत्स्मरणार्थमेकः कुण्डः, एकश्च जिनमन्दिरं तत्र निर्मापितम् / ततोऽबुदाचलं प्राप्य भगवत आदीश्वरस्य यात्रा सम्पादिता। पूजाप्रभावनादिकं कृत्वाऽक्षयं पुण्यं प्राप्तम् / जय विधाय यात्रा संघश्चन्दावतीं प्रति निवृत्तः / सूरीश्वरश्च लाटदेशे विहरन् क्रमेण भृगुपुर (भरुच). माजगाम / श्रीसंघेन कृतसम्मानो व्याख्यानेन धर्मभावनामभिवर्धयामास / इतश्च मारोटकोटनगरे सोमशाइनामा जिनधर्मकर्मनिरतो दृढश्रद्धावान् श्रावकः प्रतिवसति स्म / स च जिनदेवं विहायान्येभ्यो देवेभ्यो जिनमुनिश्च विहायान्यसाधुभ्यो न प्राणंसीत् / आपत्काले दर्शननियमार्थमनेन मुद्रिकायामाचार्यवर्यस्य श्रीककसूरेश्चित्रं संस्थापितमासीदतस्तदर्शनेनात्मानं कृतकृत्यमसावमन्यत / एकदा तन्नगराधिपते राज्ञो गृहे पुत्रप्रसवोऽभवत्। ततस्तदभिनन्दनार्थ सर्वे जना राजानं नमस्कतु राजप्रासादमगच्छन् / सोऽपि व्यवहाररक्षणार्थ वत्र गत्वा ककसूरेर्मुद्रास्थितं चित्रं युक्त्या पुरो निधाय प्रणनाम / प्रणामव्यवहार विधाय तस्मिन् गृह गते तद्विरोधिभिः पिशुनवृत्तिभी राज्ञे निवेदितम्-राजन् ! परमधार्मिकः सोमदेवः भाषक: कस्मैचिदपि न प्रणमति / राजा च तेषां वचः श्रुस्खोवाच-अधुनैवासो गतः कथमेवमुच्यते 1 / तेऽवादिषुःप्रभो ! नैवमसौ तु गुरोश्चित्रं पुरो निधाय तस्मै नमस्कारमकरोत् / ततो रोषारुणनेत्रः स राजा सत्वरं मोमशाहमायत् / भागवकच दं पप्रच्छ / भोः अधिन् / पूर्वमागतस्त्वं कस्मै प्रणामं विहितवानसि 1 / न