________________ कदाचिदरण्यभूमिं गच्छन् सूरीश्वरो मृगयायै व्रजन्तमश्वारूढं राजपुत्रमद्राक्षीदध्वनि / मृत्युभयत्रस्त्ता मृगशशकादयो दीनाः पशवोऽश्वस्याग्रे धावन्ति स्म। इदं करुणाजनकं दृश्य विलोक्य सूरिणोक्तम् कुमार ! तिष्ठतु कुत्र गच्छति भवान् ! इत्याकश्विारूढेन तेन प्रोक्तम्, महात्मन् ! यत्कथनीय तत् सत्वरं कथयतु / कुरंगशशकादयो ममाखेटकस्योपस्करभूता अग्रे गच्छ. न्त्यतो मा विलम्बस्व / आचार्येण सक्षेत्रं विज्ञायोक्तम् भव्य ! पापात्मकमिदं कर्म त्यक्त्वा दयाधर्म भजस्व / एष एव सर्वदर्शनसंमतो मार्गः / यादृशी भवतः पीड़ा तादृश्येव सर्वेषां प्राणिनां भवति / अतो दुःखोत्पादिका जीवानां हिंसा न कर्तब्येत्युपदेशप्रतिबुद्धोऽसौ सूरिं शिवपुरं प्रति विहाराय प्रार्थयामास / नृपात्मजः कक्ककुमारोऽपि पादचारीभूत्वा सूरिणा सहैव चचाल / क्रमेण शिवपुरं प्राप्य बहिरुद्याने सशिष्यो मुनिरतिष्ठत् कुमारस्यानुशासने। प्रातःकाले जिनतत्वं सम्बोध्य रुद्राटनृपसहितान् सर्वान् जनान् जिनधर्मरतान् विधाय सूरिमन्दिरनिर्माणार्थ तानुवाच / धमोत्साहोत्साहितः शिवपुराधीशोऽपि सूरेरुपदेशात्प्रभावशाली विनयप्रणतो देवगृहमकारयत् / शुभे महूर्ते तत्र शासनाधीशस्य महावीरस्य मनोहरा प्रतिमा प्रतिष्ठापिता तेन सूरिणा। ___वैराग्योत्पादकमपदेशं च श्रुत्वा वैराग्यपरिपूर्णहृदयः कककुमारः पितरावापृच्छ्य-विपुलसंख्यकैर्मानवैः स्त्रीभिश्च जनकेन च सार्द्ध सूरेः पावं दीक्षामङ्गीचकार / गृहीतदीक्षश्च स जननी जन्मभूमिञ्च भव्यर्जिनालयैरुज्जहार / क्रमेण द्वादशाङ्गी चतुर्दशपूर्वी च बभूव / वीराद् 128 वर्षे व्यतिक्रान्ते श्रीयक्षदेवसूरिः श्रीकक्कमुनि स्वपट्टे प्रतिष्ठाप्य स्वर्गमगमत् / वि. पू. 342 तः] 8 श्रीककसूरिः [वि. पू. 288 पः श्रीककसरिः सर्वसत्वशिवंकरो ज्ञानाम्भोधिर्जिनशासनरतोऽखिलशास्त्रविचक्षणोऽतितेजस्वी समायातः / अयमपि मातुलादेव्याः परामर्शमासाद्य सर्वोपसर्गान् दूरीकृत्य कच्छपान्तं प्रति प्रतस्थे / ___.. एकदा विस्मृतमार्गोऽसौ मार्गभ्रान्त्या समीपवर्तिपर्वतपार्श्वस्थं देव्यालय ययौ / तत्र देव्यै बलिकरणायोपनीतं राजपुत्रं ददर्श / भयत्रस्तं च तं विलोक्य सरिर्घातकान् वधकर्मसमुत्सुकान् जगदम्बिकोपासकान् सप्रगल्भमाह - भो मनुजाः 1 किमर्थमिदमनर्थकरं कर्म कुरुथ ? इत्याकये क्रूरकर्मणि तत्परास्ते मोचुः-महात्मन् / पश्य नरममु वयं देव्य प्रसन्नतार्थ बलिं समर्पयामः / अस्मादेव कारणाद् वयं ग्रामीणा मिलिताः स्मः / समाकण्यं तदीय वचो मुनिस्तानाह - नैतत्सौख्यसंवर्धकं कर्म / जगदम्बिका हि सर्वेषां प्राणिनां रक्षिका न तु भक्षिकेति / / अथ ते मुनिवचोऽवगण्य हठांग्रहात्कुठारमादाय देवीसमीपे तं हन्तुमुद्यता बभूवुः, मुनेः प्रभावातिशयाच सः कुठारः कुण्ठितोऽभवत् / हस्तावप्यवरुद्धौ / तत आचार्यप्रभावप्रभावितास्ते विस्मयमादधुः। बलिकरणायोपनीतो राजपुत्रो देवगुप्तश्च प्राणसंकटान्मुक्तः / ततश्च राजकुमारो मुनिचरणसरोजसंलग्नशिराः सविनयं तमाह-प्रभो ! पुरीं मे भद्रावतीं समागच्छतु / आचार्येणोक्तम्-देवगुप्त ! वयं पञ्चशतसंख्याका मुनयस्त्यक्तमार्गाः परिभ्रमन्त इत. स्ततोऽत्र समागताः / अवशिष्टा मुनयः कुत्र गता इति न जाने / अतोऽस्माकमागमनं कथं भवेत् ?