________________ [10] तेन चोक्तम्-प्रभो ! प्रातस्ते सर्वे भवता सह मिलिष्यन्त्यतो नात्र चिन्ता विधेया। देवगुप्तस्यातिशयमाग्रहं वीक्ष्य कक्कसरिरपि भद्रावतीममिप्रतस्थे / ____ अवशिष्टा मुनयस्तु सूर्यास्तमनवेलायां समीपस्थपर्वतस्थितवृक्षस्याधस्ताद् ज्ञानध्यानादिक्रियानिरताअभवन् / तेऽपि प्रभाते तेनैव सरिणा सा समागच्छन् / अथ क्रमेण विहरन् निर्दिष्टस्थानमासाद्य मुनिर्वाटिकायां स्थितः / प्रातश्च महत्यां सभायां मुनिना धर्मतत्वप्रतिपादिका जिनोक्तदेशना दत्ता / अतस्ते सर्वेऽपि पौराः स्वेच्छया दयाप्रचुरं जिनधर्म भेजिरे / शिवगुप्तराज्ञः कुमारो देवगुप्तस्तु विरक्तः। क्रमेण पितरावापृच्छ्य कतिपयमुमुक्षुभिः सह महतीं जिनधर्मदीक्षामाप / अस्मान्महती जैनधर्मप्रभावना प्रादुरभवत् / इतश्च शिवदत्तस्याध्यक्षत्वे लक्षाधिकैर्भावुकैः सार्द्ध सिद्धाचलयात्रायै संघः शत्रुञ्जयं प्रति निर्जगाम / विधाय च तीर्थयात्रां संगत्यागी सूरीश्वरः संघमामन्त्र्य प्रोवाच-अयं देवगुप्तः सर्वधर्मकर्मधुरीणः सकलशास्त्रनिष्णातः सूरिपदसमुचितः, अहममुसूरिपदे नियुज्य सर्वथा शान्तिं सममिलषामि ततोऽत्रैव सरिपदोत्सवो विधेयः / सूविचःसंमाननं कृत्वा धर्मोत्साहसंभृतास्ते जिनधर्मप्रवर्धक महोत्सवमनुतिष्ठन्ति स्म / एवं देवगुप्तं महामुनि पट्टे प्रतिष्ठाप्य तत्रैवानशनं विधाय च समाभिना देहं जहौ। वि० पू० 288 तः] 6 देवगुप्तसूरिः। [वि. पू० 247 पः श्रीदेवगुप्तसरिः संसाराम्बुधिनौकर्णधारकश्चारित्र्यचूडामणिरुत्कृष्टक्रियाकलापको वादिमानविमर्दकोऽभवत् / एकदा कर्मशाह-नामापश्चनददेशवास्तव्यः श्रावको दर्शनार्थमाजगाम / मुनेमुखकमलाद् हिंसाधर्मस्य हेयतां श्रुत्वा मुदितः सन् जगाद / प्रभो ! पश्चालदेशे यज्ञधर्मप्रचारकः श्रीसिद्धाचार्यों वर्तते / तदुपदेशात्सर्वेजना उन्मार्गगामिनो दृश्यन्ते / यदि कल्पवृक्षकल्पो भवान् पञ्चनददेशमागमनेनालंकुर्यात्तदा दयाप्रधानस्य जिनधर्मस्य प्रचुरः प्रचारोऽवश्यं भवेदिति दृढं विश्वसिमि / प्रेमपीयूषपूर्ण तदोयं वचनं श्रुत्वा मूरिः पञ्चनददेशगमनमकरोत् / क्रमेण स्वस्त्याख्यां नगरीं प्राप्य तत्रैव बसतिं चकार / प्रातःकाले विद्वत्सभायां दयाधर्ममाहात्म्यं वर्णयामास / इतश्च सिद्धाचार्यो “यजेत स्वर्गकामः" इति वेदप्रमाणतो यज्ञधर्म प्रतिपादयामास / पारस्परिकविरोधोत्पादकं व्याख्यानमाकर्ण्य सर्वेऽपि किमिदमित्याश्चर्यान्विता बभूवुः पौराः। सञ्जातसंशयाश्च ते "अनयोः कतरः श्रेष्ठः" इति निर्णयाय समुत्सुका राजसमीपं ययुः / अथैकदा नीतिनिपुणेन राज्ञा तत्वनिर्णयाय वादिप्रतिवादिपक्षौ समाहूतौ / केशरिकुञ्जरयोरिव तयोर्मध्ये महान् संघर्षोऽभूत् / अन्ते च मुदितेन नृपेण जयपत्रं सूरये समर्पितम् / अतो जिनधर्मस्य चमत्कृतिजनकः कोऽपि महान् प्रभावः सर्वेषां चेतसि पदं लेभे / सिद्धाचार्योऽपि सर्पः कञ्चुकमिव स्वकीयं दुराग्रहं त्यक्त्वा सशिष्यो जिनधर्मदीक्षामगृह्वात् / ___ततो विहरन् कोरण्टकपुरमागतो देवगुप्तसरिः कोरण्टकगच्छाधिपेन सोमप्रभसूरिणा मिलितः / उभयोर्व्याख्यानमप्येकस्मिन्नेवावस्थानेऽभवत् / चंद्रावत्यामेकदा तीर्थयात्राजनितफलं