________________ [ 11 ] व्याख्यानतः श्रुत्वा शुभाशयो जिनदेवः श्रावकोऽभ्युत्थाय श्रीसंधं व्यज्ञापयत् सिद्धाचलयात्रायै संघनिष्कासने ममाभिलाषा वर्तते / श्रीसंघोऽपि तद्वचनं स्वीचकार / श्रीजिनदेवस्य संघाधिष्ठातृत्वे शुभ मुहूर्ते श्रीसंघः शत्रुञ्जयं प्रति प्रतस्थे। अष्टान्हिकामहोत्सवादिकानि पुण्यजनकानि कर्माणि कृत्वा श्रीसंघस्तु चन्द्रावतीं प्रत्याजगाम, किन्तु शान्तिनिकेतनः श्रीदेवगुप्तसिरिस्तु तत्रैव स्थितिं चकारः। ___क्रमेण च श्रीसिद्धसूरिं स्वपट्टे संस्थाप्य वीरनिर्वाणात्त्रयोविंशत्यधिकद्विशत 223 तमे वषेऽतिक्रान्ते स्वर्गपथप्रवासी बभूव / वि. पू. 247 तः] १०-श्रीसिद्धसूरिः। [वि. पू. 217 पः विद्यावारिधिर्धारधीषणः काव्यकलाकलापकः श्रीसिद्धसूरिः समागतः / स च चन्द्रपुरीपालकस्य कनकसेनराज्ञः कनीयान् पुत्र आसीत् / शिशुत्वेऽप्यसौ संसाराद्विरक्तः सिद्धार्थाचार्यस्य समीपे वैदिकी दीक्षां जग्राह / पञ्चालप्रान्ते सूरिणा सह धर्मतत्वं दृढं विनिश्चित्य दृढ़पतिज्ञया जिनधर्मरतिर्दीक्षितो बभूव / सिद्धसाधुना सत्वरमेव गुरोरनुग्रहात्सकलशास्त्रवैदग्ध्यमासादितम् / / ___ अथ सूरिपदमासाद्य धरणीतले परिभ्रमन् कदाचित् पालिकानगरी ययौ / तत्रैका श्रमणसभी कारिता / सहस्राधिकाश्च शासनोन्नतिसमुत्सकाः साधवश्च समाययुः। मिथश्च मिलितास्ते शासनोत्कर्षसाधकान् नियमान् व्यरचयन् / तत्रत्यं कार्य समाप्य चन्द्रावतीमियाय सूरिः / तत्र च वैदधर्मप्रकाशकः शिवाचाय आसीत् / स एकदा चन्द्रावतीनगराधिपतिमकथयत् राजन् ! नगरीयं नूनं यातना पीडिता भविष्यत्यतो कस्यचित्तदुपद्रवनाशकस्य यज्ञस्यायोजनं कर्त्तव्यमन्यथा प्रकुपितो देवो महान्तं संक्षयं विधास्यति, शान्तिस्तुष्टिः पुष्टिः कार्या सिद्धिश्चावश्यं भविध्यतीति श्रुत्वा जिनदासो नाम तत्सचिवोऽब्रवीत् न हि स्वीकुर्मो वयमिदं भवदीयमनृतं वचः, कर्ममार्गतत्परा अपि वयं यज्ञार्थं पशुहननं कदाचिदपि न करिष्यामः इति मन्त्रिगदितं निशम्य स्वापमानखिन्नमानसोऽसौ नगराद् बहिर्निगत्य मन्त्रतन्त्रादिसाधनैरनेकविधानुपद्रवान् चकार / नागरिकाश्चदुःखभाजोऽभवन् / अतः सर्व मिलित्वा सूरिपावं ययुः प्रार्थयामासुश्च भगवन् ! निवारयतु चास्माकमिदं कष्टम् , ऐश्यान्विता अपि भवादृशाः सन्तः संघ नमस्यन्ति, संघसेवा च पुण्यफलपदा / विमृश्य च सरिराह-नात्र भवद्भिश्चिन्ता विधेया,अत; परं न विघ्ना न चोपसर्गाः भविष्यन्ति / एवं संघ सन्तोष्य मुनिः शान्तचेतसा ध्यानस्थितस्तस्य विद्याप्रभावं शिथिलोचकार / शिवाचार्योऽपि स्वशक्तिशैथिल्यं वीक्ष्य विस्मयमाययो। किमिदम् ! शक्तिशैथिल्य किंहेतुकम् ! इति निपुणं निरूपयन मुनेरेवेदं कार्यमिति स निश्चित्य तत्समीपमाजगाम / तच्चरणयोः सन्निवेशितशिरा उबाच-प्रभो! प्रमादकृतमपराधं मे क्षमस्व संसाराम्बुधिनिमग्नं मां करावलम्बनेन त्वरितमुद्धर / एवं सप्रश्रयमाद्रञ्च वचो निशम्य करुर्णाद्रचेता मुनिस्तन्मस्तके हस्तं निधाय प्राहआत्मकल्याणसाधकः सर्वत्रागाधितो जिनधर्मः स्वीक्रियताम् ,संप्राप्यताञ्च श्वः श्रेयसम् +" इति परमप्रेमपीयूषपूर्ण मुनिवचनमुररीकृत्याऽसौ मुनेः पार्थादेव दीक्षामगृह्णात् / '