________________ [ 5] प्यत्र संपूर्ण भवते सहयोगं दास्यामीति दृढमत्र विश्वसितु भवान् / “श्रेयांसि बहुविघ्नानि" स एष सार्वजनिको नियमः / तथापि खलुत्न निश्चितार्थाद्विरमन्ति धीरा" इति विचार्य भवता सत्वरमेव तदर्थ प्रयतितव्यमिति / अन्यथा छिद्रे ष्वना बहुलीभवन्तीति निश्चितम् / अथ श्रीककसूरिरनुदिनं धर्मप्रचारमेव लक्षीकृत्य मासकल्पं तत्र स्थिति।विधाय लक्ष्मणावतीमियाय / तत्र जिनधर्मोपासको धर्मपालो नाम राजा न्यवात्सीत्। तदीयादरवशीकृतचेता असौ चतुर्मासावस्थानेन द्विगुणितां धर्मभावनां भावुकानां सम्पाद्य वैशालीराजगृहादिषु प्रामनगरेषु विहरन् पाटलीपुत्रमगच्छत् / ततः सम्मेतशिखरतीर्थयात्रा विधाय कलिङ्गदेशमाययो / कलिङ्गपत्तने चतुर्मासं कृत्वा महाराष्ट्रप्रान्ते वैदिकधर्मप्रचारकस्य कुमारिलभट्टस्यागमनं ज्ञात्वा तत्र जगाम / कस्मिंश्चित् पत्तने कुमारिलभट्टेन सहाचार्यवर्यस्य शास्त्रार्था निश्चितः / उभयोरेव परस्परजयैषिणोर्मध्ये तुल्यबलत्वात्संदिग्धमानसा विजयलक्ष्मीः कुत्रापि निर्भरं पदं न चकार / स्वस्वसिद्धान्तप्रतिपादनमुभाभ्यां साटोपं सयुक्तिकं कृतम् / तथापि हिंसाकर्मणि जनानामनास्थायाः प्राकृतिकत्वात्सभ्यैः स एवाहिंसा धर्मो विशेषतोऽनुमोदितः। तन्मूलाश्च सूरीश्वरस्य जिनागमसिद्धान्तप्रतिष्ठा सर्वमान्या बभूव / ततः सूरिविदर्भलाटादिषु विहरन् सौपारपत्तने चातुर्मासिकी स्थितिं चक्रे / सर्वजनमनोरम स्वशास्त्र सिद्धान्तप्रतिपादकमलौकिकं व्याख्यानं श्रुत्वा को नाम मुदं नोपेयादत्र / विहरणक्रमेण सौराष्ट्रदेशे शत्रुबजयतीर्थयात्रां विधाय कन्चित् कालं तत्रैव न्यवात्सीद् विश्रमितुमसौ। अस्मिन्नेव विश्रान्तिकाले कच्छमरुधरदेशस्थौ संघी यात्रार्थमाजग्मतुम्तत्र / ती च स्वस्वप्रान्तमागमनेनालंतुकमाचार्य न्यवेदयताम् / सूरिरपि किं विधेयमिति संदिहानो विचारयामास / तस्यामेव निशायां देवी सच्चायिका सूरदर्शनार्थमागताऽभूत् / तदीयामुक्तिमनुमान्य स कच्छदेशाभिमुखं विहारमकरोत / तत्र सर्वत्र विहरतोऽस्य चतुर्मासो भद्रेश्वरपत्तने निश्चितः / चतुर्मासानन्तरमत्र श्रेष्ठिगोत्रोद्भवो लोढाशाहात्मजो मासद्वयात्प्राक् कृतोद्वाहां भार्या त्यक्तवाऽष्टादशभिर्मुमुक्षुभिः सह दीक्षितो बभूव / ततः सिन्धपचालकुर्वादिषु प्रान्तेषु धार्मिकी लोकभावनामुद्दीपयन् हस्तिनापुरे चतुर्मासावस्थितिमङ्गीचकार / तत्र तात्विकदार्शनिकैतिहासिकादिषु विविधविषयेषु क्रमेण व्याख्यानदानेन भावुकान् सन्तोषयामास / . . A-शाङ्करमतप्रचारको वैदिकशिरोमणिः श्रीशङ्कराचार्यो भगवान् वैदिकधर्मप्रचाराय तस्मिन् काले मथुरामलंचकार / एतत्परम्परया विदित्वा श्रीकक्कसूरिरपि स्वधर्मरक्षणार्थ तत्रैव विहारक्रमेणाजगाम / मिलितो चोभावाचार्यो / सानन्दं सबहुमानं सामयिकी परिस्थिति जनानां समीक्ष्य स्वस्वसिद्धान्तालोचनं कृतम् / भगवता शंकराचार्येण तदा अग्निहोत्रं गवालम्भं संन्यासं पलपैतृकम् / देवराच्च सुतोत्पत्तिः कलौ पश्च विवर्जयेत् // इति सिद्धान्तितम् / महतां हि प्रादुर्भावो जगत्यस्मिन् जनानां जीवनरहस्यपथदर्शनाय न तु मिथो विरोधप्रदर्शनेन वैरानुबन्धाय भवति / लेखक:-ब्राह्मणधर्मप्रचारकस्य भगवतः श्रीशंकरावतारस्य श्रीशंकराचार्यस्य प्रादुर्भावो मलबारप्रान्ते कालटीग्रामे, युधिष्ठिरशके 2631 तमे इति शंकरदिग्विजये सुस्पष्टमेतदवगम्यते / अन्यान्यपि बहूनि प्रमाणान्यत्रोपलभ्यन्ते / दिग्विजये सिद्धान्तिते तु न पराजयगन्धोऽपि / श्रीमज्जगद्ग - रुरिति भगवत उत्तमपदस्यापि व्यवहारो दूरापास्त एव स्यात् / अतोऽत्र सूक्ष्मेक्षिकया सुधीभिरेव तत्वनिर्णयो विधेयः /