________________ | 4 ] ख्यापनदुराशादग्धहृदयत्वाच्च शासनकाय दूरमेवोत्सारित परिणामेऽस्मद्धानये भवति / परहितमात्रनिरतरस्मा. भिरयं संसारः परित्यक्तः प्रथममात्मकल्याणमासादयितुं किन्तु स्वश्रेयस्येव प्रमादास्तैरस्माभिः किं नाम लब्धम्। यैराचार्यैः स्वनामधन्यैर्दुःसहाः परिषहाः सोढाः , दुर्गमेष्वपि स्थलेषु विहारं विधाय धर्मप्रचारार्थ यावज्जीव मात्मकल्याणप्राप्तिपुरःसरं महाशासनसमुन्नतिविहिता / तत्र किमर्थमस्माभिर्लाघवं विधेयम् / यदि नाम न शक्येत तदभ्युदयस्तथापि तदवनतिस्तु नैव कर्तव्या / व्रतनियमादिकी शुद्धिः सा चात्मन: कल्याणाय कल्पत इति निश्चितम् / अतो भवन्तो दृढपरिकराः स्वधर्माचरणे प्रचारे च संलग्ना भवन्तु / तथैव भवतां जीवनस्य कृतार्थता / सत्पथे विहरतां सर्वदा श्रेय एव भवतीति नूनं जानन्तु / श्रीकक्कसूरेरसाधारणब्रह्मचर्यप्रभावाज्जयाविजयाम्बा देव्यस्तदीयचरणकमलसामीप्यं कदाचिदपि न तत्यजुः / स प्राचार्य एकदानुक्रमेण विहान् कान्यकुब्जप्रान्तमगमत् / तस्मिन्समये श्रीगोपाचले श्रीदप्पभट्टसूरिंगसीत् / गोपाचलाधिपतिः श्रामो बप्पभट्टसूरिणा सार्द्ध ककसूरेः स्वागतार्थमभिमुखं ययौ / ततः समाप्ते स्वागत विधौ बप्पभट्टसूरेराप्रहाद्देशनामदात् सर्वेभ्यो भावुकेभ्यः / बप्पभट्टसूरिरपि परं विस्मयमवाप सूरीश्वरस्याद्वितीयदेशनादानात् / ततः कदाचिद् एकान्ते सुखमासीनः ककसूरिर्बप्पभट्टसूरिमवादीत्-सूरीश्वर ! अद्य खलु चैत्यनिवासनिरतानां धर्म प्रति शैथिल्यं दृष्ट्वा न जाने कीदृश्यवस्था भविष्यति नो धर्मस्येति चेतो मदीयं सततं तदीयविचारपरम्पराव्याप्तं दन्दह्यते / येषु धर्मः सर्वथा प्रचारसापेक्षतां गतस्त एव के 'लं स्वकीयस्वेच्छा. वादरता धर्मस्य नामापि न शृण्वन्तः सुखेनैव कालं यापयन्तीति महानयं खेदस्यावसरः / स्वधर्मकर्मनिरतानां येषामाचरणानुसरणतत्पराः श्रावका आत्मनः कृतार्थतां मन्यन्ते त एवेदानीं स्वप्रभाव मिथः प्रख्यापयन्तः पूर्वानप्याचार्यानतिशेरते / ये हि विमलयशोव्यातदिङमण्डलाः प्रातःस्मरणीया रमणीयचरित्रचित्रीकृतनिखिललोकाः स्वधर्माय जीवनमपि निरपेक्षममन्यन्त मानमपि दूरीकृत्य धर्माभ्युदय एव परमं कर्तव्यमिति दृढपरिकरा आसन् तेऽद्य चैत्यनिवासिनां शिथिलप्रायां परिस्थितिमुद्दिश्य परत्र स्वकीये स्वान्ते परितप्यन्त इव मन्ये / यदि तेषां शैथिल्यपरिहाराय कश्चन तीक्ष्ण उपाय आचरितः स्यात्तदा त एव विरोधिनो भवेयुः / ततो मिथः संक्षुब्धे व्यवहारे धार्मिकाणामाश्रयदातॄणां च चेतसि महती ग्लानिः शासनं प्रत्युदासीनत्वञ्च ध्रुवं संभवेत् / एवं सति धर्मप्रचारे प्रोत्साहकानामभावेन स्वकार्यविरोध एव परिणमेत् / अथ चास्माभिरौदासीन्यमवलम्ब्येत तदा वयमेवानर्थपोषकाः सर्वजनोपहासविषया अनादरणीयवचनाः स्वधर्मविधातका भवेम / अन्यमतावलम्बिनश्चा. वसरं प्रतीक्षमाणाः सर्वतोभावेनास्मद्धर्मावहेलनां कृत्वा स्वधर्मस्थापनप्रचाराभ्युदयकर्मसु द्विगुणितोद्योगा अस्माभिरेव तत्र दत्तावलम्बनाः स्युः / येनेष्टप्राप्तिस्तु दूर आस्तामनर्थप्राप्तिश्च सुतरामुपस्थापिता स्यात् / अतोऽत्र संदिग्धप्राये वस्तुनि कः प्रतिकारः समुचित इति शीघ्रमेव विवेक्तव्यमनुष्ठेयश्चास्त इति / सर्वमिदं हृदय. निर्वेतापादकं मनोव्यथापूर्ण वृत्तान्तं चैत्यवासिनां समाकर्ण्य श्रीबप्पभट्टसूरिरेनमवोचत् मान्यवर ! भवदुक्त. मशेषं तथैव वर्तत इत्यहमपि जानामि सैषा परिस्थितिर्न श्रेयस्करीति निश्चितमेव / न चात्रौदासीन्यं युक्तम् / नापि तीक्ष्ण उपायोऽपेक्षितः। एवं सत्युदारप्रकृतीनां धार्मिकाणामौदार्य धर्म संक्षुब्धभावं समालोच्यास्तमियात् / येन स्वसिद्धान्तानुचिन्तनं लोके सूत्रादिवाचनक्रमेण क्रियमाणो धर्मप्रचारश्च शैथिल्यं गतः स्यात् / स्वमतेऽप्येकच्छेदोपस्थापनीयमपरच्छेदोपस्थापनीयं भवेत् / चारित्रपर्यायेऽपि षड्गुणिका हानिरेव स्यात् / अन्ते च सर्वमिदं धर्मतन्त्रमनियन्त्रितमुच्छिन्नप्रायं च सर्वजनोपहसनीयं भवेत्तदेतन्माभूदिति कश्चन मध्यमः पन्था अवश्यमेव समाश्रयणीयो येन शनैः शनैरुपायोपक्रान्तास्ते स्वशैथिल्यं परित्यज्यात्मन्येव स्वेच्छागरं निन्दन्तो विचारयन्तः स्वधर्मकर्माणि पुनर्धर्मप्रचारमा नहेतुकाः सर्वप्रयत्नेन सर्वासु दिक्षु धर्मप्रचारायाप्रेरिता एव विचरेयुः / भवन्तमत्र भूयो भूयोऽहमभ्यर्थये पदवश्यमस्माभिरीशी धार्मिकी परिस्थितिः कथंचिदप्युपेक्षणीवा न भवेत् / अहम