________________ बभूवुः / नानादेशेभ्य आगतानां श्रमणानां महत्या संख्यया सर्व एव समूह एकत्रैव संन्निहित एकनगरीवास्तव्य इवादृश्यन्त जनैः। सभायां पञ्चसहस्राधिकाः साधवो लक्षाधिकाश्च श्रावका, अपरे च महीपाला अन्यधर्मावलम्बिनश्च धनिकशिरोमणयः श्रेष्ठिनः सभायाः परमरामणीयकमधिकं विस्तारयामासुः। सभावेद्यामसौ सूरीश्वरः श्रीदेवगुप्त. सूरियाख्यानपीठमारुरोह तदा सदस्याः सर्वे महता जयशब्देन तमभिननन्दुः / आचाण प्रशान्तगम्भीरेण स्वरेण हृदयङ्गमं व्याख्यानमारब्धम्-सदस्याः! सुदुःसहेऽस्मिन् कलिकाले धर्मस्य ह्रास उपासकानां शैथिल्येन सर्वत्र विहरता मया प्रायो दृष्ट एव / धर्म एव / सर्वस्य जगतः प्रतिष्ठा / सर्वप्राणिनामपेक्षया ज्ञानत एव मानवानां प्रधानत्वम् / अन्यथाऽहारनिद्रादिषु पशुपक्ष्यादिभिः समानतैव / अत एवोच्यते आहारनिद्राभयमैथुनं च सामान्यमेतत् पशुभिर्नराणाम् / धर्मो हि तेम्योऽभ्यधिको विशेषो धर्मेण हीनाः पशुभिः समानाः / अपि च न जातुकामान्न भयान्न लोभाद्धमै त्यजेज्जीवितस्यापि हेतोः। धर्मो नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः / अतो धर्माचरणं विना नैव मनुज जन्मनः साफल्यं लोके / स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयादिति यथाकथञ्चिदप्याचरितो धर्माशः सर्वथैव क्षेमङ्करो भवतीति धार्मिकानुदिश्य पश्चात्प्रचारकानुद्दिश्याह-श्रावकाणामपेक्षया धर्मप्रचारकाणां भवतां समेषां साधूनां साध्वीनाचावश्यकत्वेन प्रधानं खलु कर्तव्यमास्ते यत्सर्वत्र जिनागमगदितसिद्धान्तसरणीमनुसृत्यैव धर्मप्रचारः समधिकतया कर्तव्यः / कर्तव्यपालनार्थमेव साधवोऽत्र स्थापिताः / ते च सर्वत्र व्याख्यानोपदेशादिभिः सर्वान् धर्माचरणासक्तान् कुर्युः / अधुना यत्र कुत्रचित्तान्तेषु बौद्धानां प्रचारो वर्तते तदर्थमस्माभिः सावधानर्भवितव्यम् / एवमनेन धर्मपथेन विहरतां भवतां भगवान महावीर एवानुकूल्यं विधास्यतीति सर्वान् कर्तव्यपरायणान् व्यधात् / ते सर्वे च सामयिक सूरिंवच श्रादृत्य धर्मरक्षाप्रचारपालनादिषु दत्तमनस्का बभूवुः / सूरिश्च तत्रागतानां साधूनां मध्ये ये योग्या श्रासन् तान् पदवीसमर्पणेन विशेषोत्साहोत्साहितानकरोत् / यथा १-योगीन्द्रमूर्त्यादिभ्यः सप्तभ्यः पण्डितपदम् / २-महेन्द्रविमलादिभ्यो द्वादशभ्यो गणिपदम् / ३-निधानकलशादिभ्यः पञ्चदशभ्यो गणिपदम् / ४-शान्तिशेखरादिभ्यः पञ्चभ्य उपाण्यायपदम् / एवं महता समारोहेण समाप्य सभाकार्य तत्रागतानां स्वस्वप्रामनगरागमनप्रार्थनामङ्गीकृत्य, सर्वस्मिन् प्रान्ते विहृत्य धर्मप्रचारप्रवृत्ति वेगबहुलामकरोत् / ततः क्रमेणाघाटपत्तनमाजगाम / तत्र श्रेष्ठिगोत्रीयो मन्त्री श्रीनाहडः पार्श्वनाथमन्दिर निर्मापितवानासीत तत्र प्रतिमाप्रतिष्ठापनं विहितम् / सूरेरुपदेशेन विज्ञातधर्मतत्वा अष्टौ भावुका दीक्षामग्रहीषुः। ततो मरुधरप्रान्ते विहरन शाकभरी-हंसावती मुग्धपुरादीनि प्रामनगराणि स्वागमनधर्मतत्वोपदेशादिभिरलस्कृत्य माण्डव्यपुरमगमत् / तत्र डिडूगोत्रीयेण ठाकरशीशाहेन विहिते महामहोत्सवेऽशोकचन्द श्रीसिद्धसूरिनाम्ना प्रख्याप्य तं स्वपट्टे प्रतिष्ठाप्य सप्तदिनान्यनशनेनातिवाद्य योगवर्यया शरीरमत्याक्षीत् / वि० सं० 370 तः ] 30 श्राचार्यः श्रीसिद्धसूरिः (पञ्चमः) वि० सं० 400 पं० ] श्रीदेवगुप्तसूरिपट्टे जिनधर्मप्रचारको मन्त्रतन्त्रादिविविधविद्याविशारदः श्रीसिद्धसूरिः समायातः / अस्य जावलीपुर निवासस्थानम् / पिता मोरक्षगोत्रीयो जगाशाहो मावा च पतिव्रतानामप्रेसरीभूता धर्मप्रिया जेवीनामिका /