________________ एकदा जेतीदेवी निद्रिताऽर्धरात्रे रत्नागमस्वप्नं विलोक्य पतिपार्श्वमेत्य संत दीयस्वप्नवृत्तान्तमगादीत् / ततस्तेन कोऽप्यलौकिकप्रभावो रत्नोपमो नीवस्त्वद्गर्भमागत इति कथयित्वा समाहता। सर्वथा धर्ममार्गानु. सरणशीला चतुर्थे मासे शत्रुजययात्रायै गन्तुमियेष, तदर्थच स्वामिनं व्यज्ञापयत् / असौ श्रेष्ठी धनं धर्मसात् कर्तु तदीयं वचोऽभिननन्द / शुभे मुहूर्ते विवेकविधानमुनेरध्यक्षत्वे संधं निःसारितवान् / क्रमेण तत्र गत्वाऽष्टान्हिकामहोत्सवध्वजागेपणार्चनादिकानि तीर्थकार्वाणि कृत्वा परममानन्दं संघस्था सर्वेऽवापुः / एवं तीर्थयात्रयाऽक्षयं पुण्यमासाद्य मध्ये दीनेभ्योऽन्नवस्त्रादिकं, मन्दिराणां जीर्णोद्धारकादीनि च कुर्वन्नसौ श्रेष्ठी स्वनगरं प्रत्यागच्छत् / संघश्च समुचितसरकारेण संमानितः। . अथैषं प्राप्ते दशमे मासे प्राची रमणीयबिम्बं सर्वजगत्कल्याणकरं तेजोनिधानं रविमिव साऽलोकिकतेज:पुज्जपुञ्जितावासस्थानं, सौम्यमूर्ति सुकुमारं कुमारं सुषुवे / क्रमेणासौ सिते दले रुचिरमूर्तिश्चन्द्र इव ववृधे / एवमष्टमेऽब्देऽध्ययनाथे विद्यालयमगच्छत् / पूर्वजन्मकृतसुकृतपुण्यप्रभावेणाल्पेन कालेन व्यवहारोपयुक्तं ज्ञानं प्राप्य धर्मसंस्कारभावितहृदयो जिनागमतत्त्वजिज्ञासुरभव / तदपि धर्मज्ञानं शनैः शनैः सामयिकमासादितम् / प्रत्यहं जिनालये गमनं, स्नात्रपूजाविधिः, देवगुरुमुनीनाञ्च वंदनमस्य दैनंदिनीयः क्रमो जातः / एवमस्य धर्मप्रीति विचिन्त्य तस्य माता तत्पितरं संबोध्य ठाकुरसिंहस्य बलाहगोत्रोद्भवस्य चतुरश्रावकस्य शीलरूप. गुणसमन्वितया जिनदासीनामिकया कन्यया सह पाणिपीडनमकारयत् / येन संसारसुखासक्तोऽपि निसर्गतो दृढ़तरधर्मसंस्कारविशुद्धमानसो, न मनागपि धर्मक्रियाभिर्बहिर्मुखो बभूव / ___ व्यतीतेषु षट्सु मासेषु श्रीदेवगुप्तसूरिरात्मना जाबलीपुरमभूषयत् / जगाशाहस्तत्पुत्रः ठाकरसिंहश्च श्रीसंघेन सहितस्तस्य पुरप्रवेशे महामहोत्सवं चकार, ततो व्याख्यानकाले कृतं मङ्गलाचरणमात्रमेव श्रुत्वा सर्वे श्रावका आनन्दाप्लावितचेतसो बभूवुः / सूरीश्वरस्य व्याख्याने त्यागवैराग्यात्मकल्याणभावनानां विशेषतः प्राधान्यमासीत् / अत्र संसारस्यासारत्वमुद्दिश्य सौम्यगंभीरया वाचाऽवोचत्-अयि धर्मतत्वश्रवणसमेधितमानसाः श्रावकाः ! अयं संसार एव सर्वेषां दुःखानां मूलनिवासोऽस्तीति भगवद्भिस्तीर्थकरैरे सर्वेभ्य उपदिष्टम् जम्मं दुक्खं जरा दुक्खं रोगा य मरणाणि य / अहो ! दुक्खो हु संसारो जत्थ किस्सं तिजंतुणो / जरामरण कंतारे चाउरन्ते भयागरे / . मये सोढानि भीमाणि जम्माणि मरणाणि य / / इमानीह जन्मजरामरणादीनि सर्वाण्येव दुःखानीन्द्रियेभ्य एव प्रभवन्ति / इन्द्रियविषयभूतौ कामश्च भोगश्च / श्राभ्यां कामभोगाभ्यां जीवोऽज्ञानवशंगतः संसारेऽस्मिन् परिभ्रमति / भ्रान्तिभ्रमणयुतचेता असो * मुढो दुःखेऽपि सुखं मत्वा प्रवृत्तो भवति / अर्थात् हालाहलं विषमध्यमृतं मत्वा पिबति / यथा जहां किंपाकफलाणं परिणामो " सुन्दरो / एवं मुत्ताण भोगाणं परिणामो ण सुन्दरो॥ सल्ल कामा विसं कामा कामा श्रासीविसोवमा / कामेय पत्थेमाणा अकामा जेति दुग्गई / किल्च यथाकथंचित्कामभोगाभ्यां प्राप्तवैराग्योऽपि जीवो मातृपितृभार्यापुत्रादिषु स्नेहबद्धः कर्मबन्धमवाप्नोति, / यथा- ..