________________ माया पिया पहुसा भाया भज्जा पुत्ता य श्रोरसा / नालं ते मम ताणाय लुप्पंतितस्स सकम्मुणा // अहो ! महत्कष्ट खलु ! न जानात्यसौ मूर्खा यदा प्राप्ते हि कर्मादये नैते मे संरक्षका भविष्यन्तीति / अन्तत्वहमेक एव गभिष्यामि / अत एव, सुस्पष्टमुक्तम् / तृणानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि जनः श्मशाने / देहश्चितायां पतितस्तदानी कर्मानुगो गच्छति जीव एकः // ततः कृतं कर्मतु तेनैवोपभोक्त' भवति / तत्रोदाहरणं यथा-कश्चिदेको मिष्ठान्नकोपाचराजकर्मचारिभिरादिष्टोप्तपोलिका निर्ममे / सर्वाश्च निर्माय तोलयित्वा स्थापिनाः। ततोलुब्धमना असो ततश्चतस्त्रो निष्कास्य गृहं प्रेषयामास / तत्रत्यैर्विचारितं वयं चत्वार एता अपि तावत्संख्याका, अतः प्रतिजनमेकेति कृत्वा तिम्रः समापिताः / ततो दैववशादागतं जाल्मातरं वीक्ष्य पाचकाथै स्थापितां घृतपोलिका तस्मै सा गृहिणी ददौ / अपरत्र राजसेवकैर्नीत्वा ताःपोलिकाः पुनस्तत्रतोलिताश्चतस्रो न्यूना जाताः। ते च तद्गृहं गत्वा बह मर्स्यन्तस्त्रं ताडयामासुः / तेनोक्त मान्या यद्यपि मुषिता मया किन्तु न खादिताः / गृहिण्यादिभिरेवखादिताः / ततस्ते ताडनोद्यतास्तावदुक्त भार्यया-अस्माभिः सर्वैरेवंनोक्त यच्चोरयित्वाप्यानयेति / पश्चादसावेव तैः शिक्षा प्रापितः / एवं ये / शुभाशुभं कर्मकेति स एवोपभोक्ता तस्य फलस्य भवति / एकस्यैवापराधस्य महान् दण्डोऽनुभूयते लोके का कथा यावज्जीवं कृतानाम् / अपरञ्च तृष्णावशीभूतचेतसः, कियन्तो धनार्जनवर्धनरक्षणोत्सुका हिताहितं नैवालोचयन्ति / प्राप्तऽपि द्रव्ये सैव भगवती धनाशा चिरं जागर्ति तेषां मानसे / यथा सुवन्नरूप्पस्य उपव्या भावे सियाहु कैलास समा असंखाय / नरस्स लुद्धस्स न ते हि किंचि इच्छाहु श्रागाससमा अणन्ताय // .. न सहस्त्राद् भवेत् तुष्टिर्न लक्षान्न च कोटिना / न राज्यान्न च देवत्वान्नेंद्रत्वादपि देहिनाम् / / अतः संयम्येन्द्रिय प्रचारमात्मकल्याणाप्राप्तये विचारो विधेयः / तदर्थं च न वयोऽपेक्षितम् / वाल्ये कौमारेऽपि सैव कल्याणभावना साधीयसी / शास्त्रकारैरत्रोक्तमेव / यथा- ' परिजूरइ ते सरीर यं केसा ! पडुरायहवन्ति ते / से सव्व बलेय हावई समयं गोयमा ! मा पमाय ऐं। जग जाव न पीडेइ वाही जाब न बढ्इ। जाव्विं दिया न हावन्ति तावधम्म समायरे // महानुभावाः / श्रात्मकल्याणप्राप्तये शोभनोऽवसरो न मुधा क्षपणीयः / शुभस्य शीघ्र कर्तव्यम् / कालस्य कुटिला गतिः / न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतमिति विषयेऽस्मिन् श्रीतीर्थङ्करैर्गणधरैः पूर्वाचायैश्चेदमेवोपदिष्टम् / तथाहि-अरइ गंडं विसुइया अयंके विविहा फुसंतिते / विहडइ विद्धंसह ते सरीरं यं समय गोयमा / मा पमायए // वोच्छिंद सिणेहमप्पणो कुमुदं सारयियं च पाणियं से सव्वं सिणेहवज्जिए समयं गोयमा / मा पमायए / किमधिकं वक्तव्यमवशिष्यते ! भवतामात्मोन्नतियन स्यात्तदर्थमेवागमपरिशीलनसाधुसेवनात्मचिन्तनाछुपायानाश्रयन्तु / अन्यथाऽन्ते पश्चात्तापाहते नान्या गतिरित्युक्तमत्र / अवले जह भारवाहए मामग्गे विसमेऽवगाहिया। पच्छा पच्छाणुतावए समयं गोयमा / मापमायरु // इति //