________________ [ 64 ] प्राप्नुय म / येनान्येऽपि मदीययोग्यता जानीयः / गुणी जनो यत्र छति तत्रासावश्यं सन्मानमश्नुत इति वैदिका अप्यवगच्छेयुः / इयं दुराशा तस्व चेतः कुटिलीचकार / अस्य मुनेर्भगवतीसूत्रवाचनाविषयको वृशान्त: सूरिणाऽवगतस्तदा तस्यार्बुदाचले कथितं सच्चायिकावचनं स्मृतिपथमारूढम् / प्राचार्यो यक्षदेवसूरिः श्रीस्थानायांगसूत्रस्योपरि व्याख्यानमदात् / तत्राचार्यस्य तदीयाष्टसंख्याकस्य सम्प्रदायस्य च विस्तरशो वर्णनं कृतम् / सर्वमेतच्छुत्वोपासकाः श्रद्धयावनतहृदया बभूवुः / . अथैकदा देवी सच्चायिका बन्दनार्थमाजगाम / सूरिश्च तामवोचत् / देवि ! ममायुषोऽस्थैर्य येन कञ्चिद् योग्यमाचार्यपदे स्थापयितुमिच्छामि / विचार्यमाणे सोमप्रभोपाध्याय एवोचितो मे प्रतिभाति / एवमाचार्यवचनमादृत्य देवी तं प्राह भगवन ! एवमस्तु / इदमप्यधिक मे निवेदनं यत् श्रीरत्नप्रभसूरिणात्र स्वकीयपूर्वश्रुतज्ञानेन भविष्यत्कालिकी परिस्थतिं सर्वतोभावेन विचार्य श्रीसंघस्य स्थापनां विधाय तद्वारेण जिनधर्मश्चिरस्थायी कृतः / अतोऽत्रोपकेशपुरे तदीयगौरवपरिरक्षणार्थ, धर्मस्य च दृढतायै श्राचार्योऽप्युपकेशवंशीय एव भवितुमर्हति / यश्चात्मत्यागवैराग्यजातिकुलमर्यादाभिराचार्यत्वं निर्वोढुं सर्वथा शक्तो भवेद् / सूरिरपि तद्वचनमंगीचकार सा च वन्दनं विधाथादृश्यतामयासीत् / प्रातराचार्यः श्रीसंघ न्यवेदयत्-श्रावकाः ! भगवत्याः सरचायिकाया अनुमोदनेनोपाध्यायपदभूषित सोमप्रभमुनिमाचार्यपदे स्थापयितुमिच्छामि / अपरं च विशेषतो वक्तव्यं यदत्राचार्यश्रीरत्नप्रभसूरिपट्टपरम्परायामुपकेशवंशीय एव योग्यो मुनिराचार्यपदे प्रतिष्ठापयितव्य आगामिकाले जिनधर्मस्य संरक्षणार्थम / अत्र प्राग्वटघंशीयस्य श्रीमालवंशीयस्याप्यन्त वो भवितुमर्हति / सर्वैश्च शासनाभ्युदयार्थमवश्यं प्रयत्नो विधेयः / __सर्वे संघस्थिताः सहर्ष सूरीश्वरस्य वचनमनुमोदयांचक्रिरे / ततश्चादित्यनागगोत्रीयो वरदत्तशाह प्राचार्यपदार्पणमहोत्सबमारभत / दूरदेशस्थाः संघास्तेनामन्त्रिताः / जिनमन्दिरेष्वष्टाह्निकामहोत्सवः प्रारब्धः / सर्वत्रानन्दबहुलेऽस्मिन् शुभे समये भगवतो महावीरस्य मन्दिरे चतुर्विधसंघसमक्षं सर्वागमसिद्धान्तकुशलं निखिलगुणगणालङ्कृतमुपाध्यायं सोमप्रभमुनि श्रीकक्कसूरिरित्यभिधानेन प्रख्याप्य सूरीश्वरो यक्षदेवसूरिराचार्यपदे प्रतिष्ठापयामास / वरदत्तशाहेन पूजाप्रभावनादिकं कृतमा परमधार्मिकेण तेनात्र महोत्सवे नवलक्षपरिमिता मुद्रा विनियुक्ताः। सूरीश्वरस्तु लुणाद्री त्रिंशदिनानि समाधो स्थित्वा पञ्चपरमेष्टिमन्त्रस्मरणपूर्वकं विनश्वरं शरीरमत्याक्षीत! श्रीसंघश्च शोकाकुलितचेता बभूव / ततोऽग्निसंस्कारौं विहितः / चितायां प्रज्वलितायां कुंकुंमपुष्पाणां वृष्टिराकाशात्पपात / अतः परं भारते क्षेत्रे श्रीरत्नप्रभश्रीयक्षदेवसूरिसदृशो नाऽन्य आचार्या भविष्यतीति व्योमवाणी कथयामास / अहो नु खलु कष्टम् ? ईदृशानां महाभागधेयानां पुनरसंभवेन जिनधर्मः कथमुन्नतिपथमुपेयात् ? व० सं०४४० तः ] 33 श्राचार्यः श्रीकक्कसूरिः ( षष्ठः) [वि. सं. ४८०प० ___ श्रीयक्षदेवसूरिपट्टे आदित्यनागगोत्रीयो विद्वज्जनचक्रचूडामणिः काव्यकलाकलानिधिः श्रीकक्कसूरिः / असौ शिवपुरीवास्तव्यः / अस्य पिता शिवपुर्यधिपस्यामात्यो न्यायनीतिनिपुणो यशोदत्तः / माता च परमरमणीयस्वभावा मेनादेवी। ___ मातापित्रोऽक्षयद्रव्यसद्भावेऽपि सन्तत्यभावान्महत्कष्टमासीत् / अतोऽपत्याभावेन न्यायोपार्जितद्रव्यस्य सदुपयोगार्थ जिनामगप्रन्थलेखनादीनि धर्मकार्याण्याचरत सचिवः / अथ पूजन्मपुण्यप्रभावादर्धनिशायां सा पतिव्रता मेनादेवी स्वप्ने सिंहदर्शनं प्राप्य स्वपतिपार्श्वमेत्य स्वप्नवृत्त न्यवेदयत् / तदाकये। मन्त्रिणोत्तम-सुभगे|! समाधीयतां धर्मे मनः / तव कुक्षावलौकिकंप्रभावः