________________ [3] श्वरस्य परमपवित्रकरकमलेन जातः / तत्र भावुकेभ्यो धर्मोपदेशो विहितो, येन स शोभनशाहो भगवतीमाईती, दीक्षामग्रहीत् / - अपरतो मेदपाटदेशे बौर धर्मानुयायिनो बौद्धा बुद्धधर्मप्रचाराय समागतास्ते च जिनधर्मस्यावहेलना विधाय स्वधर्मस्योत्कर्षमवर्धयन्त / तत प्राघाट नगरस्थः श्रीसंधः सूरेः पार्श्व मेत्य सर्वमेव तेषामुदन्तजातमावे. द्याघाटपत्तनं पावयित्वा धर्मप्रचारायाचार्य व्यजिज्ञपन / धर्ममयैकजीवनः सूरीश्वरः सत्वरमेवाजीकृत्त्य तदीयामभ्यर्थनामाघाटपत्तनं सशिष्योऽभिप्रतस्थे / रात्री प्राप्तावकाशाः सूर्योदये तस्करा इव ते बौद्धा मुखमप्याचार्याय दर्शयितुं लज्जमानाः क्वापि पलायन्ताचार्यगमनात्प्रागेव / तत्र भावुकानां धर्माचरणे स्थैर्यापादनं विधाय स मथुरापुरीमगच्छत् / तत्र कापालिकनामा वेदाचार्योऽन्तेवासिभिः सह न्यवात्सीत् / एकदाऽसौ कापालिकः स्वव्याख्याने जिनधर्म महता स्फटाटोपेन निनिन्द / येनाचार्यस्तेन सह शास्त्रार्थाय सज्जीबभूव / प्रबलतरैः शास्त्रीयैः प्रमाणैरहिंसाधर्मस्य सर्वधर्मश्रेष्ठत्वमदर्शयत् / तेनापि प्राधान्यमङ्गीकृतमतः श्रोतणां तु वक्तव्यमेव नावशिष्यते / वैदिकी हिंसा न दोषायेति मतमपि खण्डितम् / जिनधर्ममर्मभावनामाचार्याद्विज्ञाय पञ्चशत. संख्यकैः शिष्यैः सह दीक्षितोऽभवत्मूरिपार्श्व कापालिकः / कुकुन्दमुनिरित्यभिधेयेन विश्रतो बभव / अपरन्च सुरेरलौकिकज्ञानप्रभावेण तत्र द्वात्रिंशत्परिमितैबौद्धैरपि दीक्षा गृहीता / एवं प्राथमिकं धर्मसंभावनाकार्य समाप्य श्रीसंघेन निर्मापितानां नतनानी जिनालयानां प्रतिष्ठाविधिविहितः। ततः पूर्वप्रान्तीययात्रायै सग्वणशाहेन संघो निष्कासितः / तत्र प्राचीननूतनशिष्यगणपरिवृत छाचार्यः कलिङ्गदेशस्थशत्रुक्षयरैवतकावताररूपस्य खण्डगिर्युन्यगिरितीर्थस्य यात्रां विधाय बंगप्रान्ते यात्रार्थमगमत् / तत्र हिमाचलयात्रां, व्याख्यानेन भावुकानां धर्मजागृतिञ्चापाद्य, विहारदेशे गजगृहस्थपञ्चपर्वततीर्थस्य, पावापुरीचम्पापुर्योश्च यात्रामकरोत् / श्रीतीर्थङ्करनिवार्णभूमिश्रीसम्मेतशिखरस्य दर्शनस्पर्शनादिकं कृत्वा भगवतः पार्श्वनाथस्य कल्याणभूमी वाराणस्यां यात्रां विधाय परमानन्दपूर्णमानसो बभूव श्रीसंघः / सर्वा यात्रां विधाय कतिपयैः शिष्यैः सह संधः प्रतिनिवृत्य मथुरामागच्छत् / / ____सूरीश्वरस्तु हस्तिनापुर धर्मोपदेशेनालंकृत्य पब्जाव-सिन्ध-कच्छदेशेषु विहारेण धर्मप्रोत्साहनं कृत्वा सौराष्ट्रदेशे शत्रुञ्जययात्र निर्वर्तयामास / एवं विहारसमयेऽध्ययनं कुर्वाणोऽसौ कुकुन्दमुनिर्जिनागमविचक्षणोऽभवत् / येनाऽसौ पजाबप्रान्तेऽहिंसाधर्मप्रचारं कृतवानासीत् / अतः सूरिणा पञ्चशतसंख्यकैः शिष्यैः सह कोकणप्रदेशे प्रचारार्थ प्रेषितः / अय शत्रुञ्जययात्रां विधाय ततो लाटदेशे विहारं कुर्वन्नबुंदाचले प्रभावतीचन्द्रावत्यादिष श्रावकाणां चेतःसु बलवत्तगं धर्मरुचिमापादयन् पाल्हिकानगरीमाजगाम / श्रीसंघस्याभ्यर्थनामनुमान्य चातुर्मासी तत्रैव चकार / विविधविषयकव्याख्यानानां परमेण लाभेन धर्मभावनाविशुद्धमानसा उपासकाः स्वकीयं महद्भाग्यममन्यन्त / संघेन च तत्रैका श्रमणाना सभा समाहूता / समीपस्था दूरस्थाश्च सर्वे तत्र श्रमणाः समयाताः / किन्तु किंचित्समीपस्थे सौपारपत्तने चातुर्मासीस्थितोऽसौ कुकुन्दस्तु न समागतः / सूरिरप्यत्र न किंचिद् विचारयामास / यतो ज्ञातं यत्तदीया पृथक् सूरिपदग्रहणाभिलाषासीदिति / तत्र धर्मस्वरुपसंरक्षणवर्धनप्रयत्नविषयक उपदेशः श्रमणेभ्यो दत्तः / सोमप्रभादयो मुनय उपाध्यायपदेन संमानिताः / ततो मरुधरप्रान्ते विहरन्सूरीश्वर उपकेशपुरमागच्छत् / श्रीसंघाभ्यर्थनया तत्र चतुर्मासो विहितः / इतश्च कुकुन्दमुनिरपि सहस्रशिष्यसमन्वितो मरुधरेषु विहरन् भिन्नमालमागतः / श्रीसंघेन समादृतः / सोऽपि तत्र चतुर्मासमकरोत् / श्रीमालवंशीयो देशलशाहः श्रीभगवतीसूत्रवाचनामहोत्सवमकारयत् / कुकुन्दमुनिः श्रीभगवतीसूत्रवाचनामकरोत् / अस्यैवं खलु मनस्यभूत्-यदहं पूर्व वेदान्ताचार्यो जिनधर्मेऽप्याचार्यत्वं