________________ [ ] कधिजीव: प्रवेशं प्रातः / पत्युर्वचः श्रत्त्वा सा प्रसन्नमुखमा सन्तुष्टान्तरका वाभवत् / ततः पूणे समये प्रभाकरकिरणकान्तिरमणीय तनयमसूत सा। तस्य च शोभनेति नामकरणं कृतम् / शैशवेऽपि प्राप्तधर्मसंस्कारो बालोऽसौ शनैः शैशवमतिक्रम्य यौवनं प्राप / इतश्च भव्यजिनालयनिर्माणप्रभावान्मेनायाः क्रमेण सप्त पुत्रा जादाः / पूर्णे च जिनमन्दिरे प्रतिमाप्रतिष्ठापना कारयितुं सूरीश्वरस्यालह्वानायाबंदाचलमसौ मंत्रिपुत्रो ययो / सुरिश्च तस्य प्रारब्धरेखा शाऽश्चर्यान्वितः सन् तस्मै संसारासारतामुपदिदेश / ततो भाविलाभकारणमुदिश्य शोभनस्य प्रार्थना स्वीचकार / क्रमेण च शिवपुरी प्रति विहरणमकरोत् / तत्र च तन्नगरमधिवसन्तो जना अतीवोत्साहेन सूरेनगरप्रवेशमकारयन् / अन्येाश्च सूरिर्वैराग्यरतिवर्धिका देशनामदात् / आकर्ण्य देशनां शोभनस्तु तत्क्षणादेव वैगग्यान्वितो बभूव / गृहमागत्य महता प्रयत्नेन पितरौ संबोध्य तदीयामनुज्ञाश्च प्राप्य दीक्षोद्यतो जातः / अक्षय तृतीयायां दीक्षाप्रतिष्ठाकार्य निर्धारितम् / शुभे मुहूर्वे विरक्तिरागरक्षितस्वान्तोऽसौ शोभनो द्विशत्वारिंशत्परिमितैः श्रावकैः सह दीक्षा लेभे / सुरिः सोमप्रभेति नाम्ना तं ख्यापयामास / ततश्च प्रतिमाजनशलाकाप्रतिमाप्रतिष्ठादीनि शुभानि कार्याणि निर्विघ्नेन सम्पादितानि / व्यतीते च का ने सोमप्रभमुनिरपि स्वबुद्धितक्ष्ण्यादङ्गोपाङ्गलक्षणादिषु शास्त्रेषु परमं प्रावीण्यमुपाससाद / नेदमेव केवलमपि तु युवाव. स्थोऽप्यसौ सर्वयमनियमासनादिसंयमसंरक्षणशीलोऽद्वितीयेन ब्रह्मचर्यप्रभावेण रविरिव दुःसहप्रभावो भव / क्रमेण चोपकेशपुरे सूरिपदमवाप। इतश्च यक्षदेवसूरिनिधनानतरं कुकुन्दमुनिरपि भिन्नमालसंघेन सूरिपदे प्रतिष्ठापितः / यदा श्रीकक्कसूरिरिदमजानात् तदा सूक्ष्मदृष्ट्या विचारमकरोत्-ये हि पूर्वाचार्यास्त एव महाभाग्यवन्तः / एकच्छत्रं शासनं कृत्वा संघबलेन सर्वत्र धर्माभ्युदयो विहितस्तैः / मदीयमेव दुर्भाग्यमद्य वर्तते यत्रैकस्मिन्नेव गच्छे प्राचार्यद्वयस्य नाम शृणोमि ! अस्तु / भवितव्यतां को नाम निवारयितुं शक्रोति / तथाप्यत्र किमपि विवेक्तव्यं येनेदृशस्यानिष्टस्य फलमनुभवनीयं न स्याद् गच्छस्य च कापि क्षतिर्न भवेदिति विचारणीयमेव / यद्यहं तत्र गत्वा कुकुन्दविरुद्धं किंचित्कुर्या तदपि नाम शासनस्यैव लघुता प्रतीयेत / अन्ते चाचार्यश्रीरत्नप्रभसूरेः कोरण्टकगच्छस्य, श्रीकनकसूरेश्चोदाहरणं स्मृतिपथमारूढम् / ततस्तत्रैत्य व्यवस्थाविधानार्थमवश्यमेव यातव्यमिति कृत्वा देवीं सच्चायिकां सस्मार / सा चागत्य सर्व सूरिनिवेदितं हृदये कृत्वा तमाह-भगवन् ! विषमः समयः शासनस्य समायातः / सर्वकर्मविचक्षणो भवान् तत्र भिन्नमालनगरे गच्छतु / मानापमानौ च दूरीकृत्य शासनसंरक्षणार्थ त्वदीया प्रवृत्तिरवश्यमेव सफला भविष्यतीत्यनुमोदनं दत्वा तिरोदधे / ___अथ स श्राचार्यो विलम्बेन विना शिष्यैः सह भिन्नमालमुद्दिश्य प्रतस्थे / तस्मिन्काले तत्र कोण्टकगच्छीय आचार्यः श्रीनन्नाभसूरिः समागतः / तस्यागमनेन कुकुन्दाचार्यस्य स्वपक्षसमर्थनेच्छाऽपि किं न भवेत् ! नन्नप्रभसूरिणा सूरीश्वरस्यागमनं ज्ञा, तदा सर्वेभ्यो निवेदितम् / मुण्डे मुण्डे मतिर्भिन्नेति कृत्वा किमर्थमत्रागमनं जायते ! किमुभयोमहान् कलहो भविष्यति ! कुकुन्दाचार्येण पूर्वाचार्याणां मर्यादोल्लंघितेत्येदर्थमाचार्य प्रागत इति विविधान् विकल्पान् सर्वे स्वचेतसि विदधिरे / सर्वमि' व्यवहारस्वरूपेण विचार्य नन्नप्रभसूरिः संघमुवाचश्रावकाः ! प्राचार्यः श्रीकक्कसरिनगरमिदं पावयितुमागच्छति, तदर्थ च सवैर्युष्माभिः कुकुन्दाचार्यसहितैः सत्कारपूर्वकं स्वागतमवश्यमेव कर्तव्यम् / दीर्घदृष्टया विचारिते तत्रत्यैः संघस्थैः श्रावकैः सूरर्वचनमङ्गीकृतं ततो नन्नप्रभसूरिः कुकुन्दाचार्यः श्रीसंघश्च सर्वे मिलित्वा भव्यसमारोहण सूरीश्वरस्य नगरप्रवेशविधिमकार्षुः / सम्पादिते च नगरप्रवेशे सूरीश्वरो भगवतो महावीरस्य यात्रां विधाय धर्मशालामागच्छत् / एकस्मिन्नेव व्याख्यानपीठे विराजमाना ह्येते मूर्तिमन्ति ज्ञानदर्शनचारित्राणीव सकलजनमनांसि नितरां रजयामासुः / ततश्च विनयादिगुणगणालंकृत आचार्यो वयोवृद्धं नन्नप्रभसूरिमनन्तरश्च कुकुन्दाचार्य देशनायै सविनयं न्यवेदयत् /