________________ ताभ्यं च सूरिरेव देशनार्थ साग्रह निवेदतः / एवंविधमाचार्यस्य कक्कसूरेविनयव्यहारं दृष्ट्वा प्रथम हृदयविनिवेशितकल्पना कल्पनेयं खल्विति मत्वा तां निष्कासयामासुरुपासकाः। एवं तदीयं साग्रहं निवेदनमनुमान्याचार्यवर्यः श्रीकक्कसूरिः प्रौढनिर्भरया गिरा मङ्गलाचरणपूर्विका देशनां ददौ-अयि धर्मतत्वजिज्ञासवः श्रावकाः ! भगवतः श्रीमहावीरस्य शासनं खल्वेकविंशतिसहस्रवर्षपर्यन्तं प्रचलिष्यति / अस्मिन् शासने च महामहिमशालिनो बहव प्राचार्यवर्या जाता अप्रे च तथाविधा भविन्ति / श्राचार्यत्वेन निर्धारणन्तु संघस्याधीनम् / शासनकार्यभारधुरंधरमेकमाचार्यपदे स्थापयितुं स एव समर्थः / सर्वमिदं व्यवस्थाप्रकरणं व्यवहारादिसूत्रेषु विस्तरेण विवेचितम् / अनेनेदं न कल्पनीयं यत्-कस्यचिन् नगरस्य प्रामस्य वा संघो यं कमपि मुनिमाचार्यपदे संस्थाप्य शासनस्य सामूहिक संघट्टनं शिथिलीकर्तुं शक्रयात् / पूर्वाचायैर्महाजनसंघद्वारेण संघट्टनकरणे या सफलता प्राप्ताऽसीद्या च संघसंख्याभिवृद्धिः कृता तस्या इदमेव प्रयोजनं यच्छासनस्य सार्वत्रिकं प्रभुत्वं संरक्षितं स्यादिति / रक्षिते च शासने सर्वे धर्माचरणेनात्मनः कल्याणमासादयितुं समर्था भवेयुः / इयमेवोदारात्मनां कल्याणभावना। संघट्टनविश्लेषे महत्यनर्थपरम्परा समुत्पद्यते / यथैकस्य चत्वारः पुत्रा भिन्नमतयो भवन्ति तदा तस्य कुलं स्वस्योत्कर्ष साधयितुं न शक्नोत्यधःपतनं च विन्दत एवमस्माकं संघट्टनविषयेऽपि सर्वैः सावधानमनस्कैनिष्पक्षपातेन विचारणीयम् / ___एकस्मिन समये पार्श्वनाथपरम्परायां तत्रभवति, वन्दनीयपादकमलयुगले श्रीरत्नप्रभसूगै विद्यमानेऽपि सहसा कोरण्टकसंघेन श्रीकनकप्रभसूग्ये प्राचार्यपदं समर्पितम् / परन्तु दीर्घदर्शी शासनशुभचिन्तकः श्रीरत्नप्रभसूरिः शीघ्रमेव तत्र प्रतस्थे / कोरण्टकसंघेन कनकप्रभसूरिणा चाचार्यस्य भावभव्य स्वागतं कृतम् / श्रीकनकप्रभसूरिः निखिलगुणानिधिः शासनगौरववर्धकश्चासीयेन कोरण्टकसंघेन दत्तमाचार्यपदं सूरीश्वरचरणकमळयोरेव सहर्ष तेन समर्पितम् / आचार्यः श्रीरत्न भसूरिरपि सर्वेषां सद्भावं विचिन्त्य स्वहस्तेनैव संघसमक्षमस्मै कनकप्रभसूरये समारोहपुर:सरमाचार्यपदं ददौ / एवं परस्परविनयविनिमयस्य मधुरो रमणीयश्च परिणामः सर्वेषां धार्मिकाणां सुखसम्पादनाय शक्तो भवति / केवलमत्रोपकेशगच्छकोरण्टकंगच्छेति नाममात्रेण भेदः / उभयोरीहशो मिथः सौजन्यपूर्णो व्यवहारोऽवर्तत यस्य वर्णनमप्यशक्यम् / अहो ! शासनस्यामुयाय त एव स्वनामधन्या आचार्यवर्याः कीदृशेन सरलव्यवहारेण दीर्घविचारेण च कर्तव्ये प्रावर्तन्त / तदा शासनगौरवमपि सुमहदामीत् / सर्वजनहृदयंगम स्नेहभरभरितं शासनाभ्युदयचिन्तकं विचारचारु वचश्व श्रुत्वा तस्मिन्नेव देशनासमाप्तिसमये सहसैव पीठादुत्तीर्याचार्यचरणसमीपस्थितः कुकुन्दाचार्यः कृतानुशयोऽब्रवीत्-भगवन् ! मर्षयुतु मर्षयतु ममापराधम् / पूर्वाचार्यसरणीमुल्लंध्य म्या महत्त्यपराधे पातित आत्मा / संघाधिरोपितमाचार्यपदं भवदीयचरणसरोजयोरेव तिष्ठतु ! नैवाज्ञासिषमहम्-भवान् शासनहितायैवं दृढपरिकरो वर्तत इति / किमत्र बहुना ! भवानेवास्माकं पूज्य आचार्यवों गच्छाधिपतिश्चेत्यलम् / ततः श्रीसंघेनापि-भगवन्नस्माकमेष महानपराधो, येन स्वच्छन्दतयाऽचार्यपदप्रदानं कृतम् / अतोऽत्र भवान् मूढमतीनज्ञानस्मान् क्षमताम् / शासनलाघवमस्माभिरेव सम्पादितम् / अतः परं वयं येन शासनस्य गौरवं रक्षितं स्यात्, संघबलं चाधिकं विचारशीलं भवेत्तथैव व्यवहरिष्यामः / सूरीश्वरः प्रसन्नगम्भीरः परमोदारप्रकृतिः सर्वान् तानवाद'त्-कुकुन्दाचार्यो निखिलागमवेत्ता सर्वथाऽचार्यपदाय योग्य एव वर्तते / श्रीसंघेन च यदाचरितं तदपि सुसंगतमेव प्रतिभाति मे / गुणगणगणनीय कीर्तीनां माननीयानां गौरवसंरक्षणमेव श्रीसंघस्यावश्यकं कर्त', तच्च सम्यगनुष्ठित तत्र न 'ध उपालम्भमर्हति / इदमेव कार्य गुरुवर्यस्य श्रीयक्षदेवसूरीश्वरस्य, श्रीनन्नप्रभाचार्यवर्यस्यानुमत्या