________________ [ 50 ] कुर्वन्ति / ततश्च सर्वे धर्मरचयश्च भवन्ति / एवं सजातीयवात्सल्यादिविषयकं मननीयं व्याख्यानं श्रुत्वा ते मिथः समभावनोपेतमानसा बभूवुः / एवं धर्मप्रचारकार्य विधाय श्रीककसूरिः शिष्यमंडलसहितः कोरण्टकपुरमगात् / तत्र परस्परं विक्षुब्धचेतसो भावुका उदासीना इवास्य स्वागतविधौ शिथिलादर। आसन् / ततश्च तत्र स्थित: कोरण्टकगच्छीयः श्रीमेरुशिखरमुनिः सर्वानेकीकृत्याह-भावुकाः ! महानयं खेदस्य विषयो यद्भवन्तः सर्वेऽद्य पारस्परिकवैमनस्य. मासाद्याचार्यस्य स्वागतविधावुदासत इति किमधिकमतः परं लज्जास्पदम् / यश्च मिथो विवादविषयः स तु. सूरीश्वर एव शमयिष्यति, किन्त्वघुना प्राप्तकालं स्वागतं शीघ्रमेव सम्पादयन्तु / ते चोपाध्यायवचनमाकर्ण्य संमिलिता महान्वं स्वागत विधि विधाय नगर प्रवेशमकारयन् / आचार्यश्च धर्मलाभाशिषा तान् सर्वान् संभावयामास / अथापरस्मिन् दिने विवादनिर्णयायाचार्य व्यज्ञापयन् / भगवन् ! अत्रैकेनोपकेशवंशीयेन कस्यचित क्षत्रियस्य कन्यया सह पाणिग्रहणं कृतमेतदर्थमस्माकं मिथो वैमनस्यमस्ति श्रुत्वैतत् सूरिस्तान सयुक्तिकं बोधयामास-उपासकाः ! अत्र भवतां का विप्रतिपत्तिः ? एका क्षत्रियकन्या भवत्संप्रदाये समागता जिनधर्माचरणं विधास्यति, पुण्यं च प्राप्स्यति / अपरन्च भवन्तोऽपि क्षत्रिया एवासन् / किञ्च व्यावहारिक क्षेत्रं . . यावद्विशालं तावदेवानुकू ल्यं वर्तते / तस्य संकोचकरणेनैव महती हानिर्भवति / अतः क्षत्रियकन्या जिनधर्मस्य वासःक्षेपं गृहीयात् शिक्षा दीक्षां च स्वीकृत्य भगवतो महावीरस्य स्नात्रमहोत्सवं करिष्यति तदा संघस्थेन केनापि दुराग्रहो नैव विधेयः / शास्त्रे नीतिविषयेऽपि अयं निजः परो वेति गणना लघुचेतसाम् / उदारचरितानान्तु वसुधैव कुटुम्बकम् / अतः सर्वे मिथो वात्सल्येन व्यवहरन्तु / ततः सर्वैरेव गुरुवचः शिरसाऽभिनन्दितम् / बिरोधश्च विभान्तिमगात् / अपरोऽपि वरदत्तस्य विषये जातः कलहः सूरिणा दूरीकृतः / वरदत्तोऽपि गुरुप्रभावप्रभावितो दीक्षामग्रहीत् / अयं सूरेः कार्यदक्षतायाः समवर्तित्वस्यैव शुभः परिणाम आसीत् / अथकदा सूरिवों व्याख्याने कर्मव्यासक्त्या मोहं गतो जीवोऽनादिनि संसारे चक्रवत् परिभ्रमन्नुत्पद्यते म्रियते च / मोहनीयकर्मण उत्कृष्टा स्थितिस्तु सप्ततिकोटिकोटिसागरोपमा विद्यते, तत्रोनसप्ततिपरिमिता मिथ्यात्वदशायां जीवः क्षपयति / यदा धर्मप्राप्तियोग्यानां द्रव्यक्षेत्रकालभावानां निमित्तकारणानां तस्य लाभो भवति तदा मिथ्यात्वमोहनीय-मिश्रमोहनीय-सम्यक्त्वमोहनीया-नन्तानुवंन्धिक्रोधा-नन्तानुबंधिमाना नन्तानुबन्धिमाया-नन्तानुबन्धिलोभरूपाणां सप्तानां प्रकृतीनां क्षयं करोति / एवं सप्तविधप्रकृतिक्षयवशादस्य जीवन दर्शनगुणः (सम्यक्त्वम् ) प्राप्यते / यदाऽस्य क्षायकगुणप्राप्तिस्तदात्र संसारेनोत्पद्यते न च म्रियते / दर्शनेन सह ज्ञानचारित्रयोरप्यावश्यकत्वं श्रीभगवतीसूत्रस्याष्टमे शतके दशमोडेशे विस्तरतो वर्णितम् / ईशं तात्विकज्ञानमस्माकमागमेषु बहुशो निरुपितम् / अतः संसारनिःसारतां विचिन्त्यात्मकल्याणसाधकः पन्थाः समाश्रयणीय इति। एवं परमतत्त्वविषयकाणि बहूनि व्याख्यायानि दत्त्वा ततश्चन्द्रावतीसंघस्यामहातिशयेन तत्राययो / तत्र च श्रीमालगोत्रीयेण दुर्गाश्रावकेण निमाप्तिस्य श्रीशान्तिनाथस्य प्रतिमायाः प्रतिष्ठामकरोत् / सर्वेषां च विज्ञप्तिमनुमान्य चातुर्मासिकमवस्थानमपि चकार येन धर्मप्रचारकार्य सविशेषतः सम्पादितम् / समाप्ते च चतुर्मासे तेनाचार्यानुमत्या शत्रुञ्जययात्राथै संघो निष्कासितः / क्रमेण तत्र तीर्थयात्रा समाप्य सूरेः संसर्गसंसेवनेन प्राप्तसंस्कारः संसारस्य हेयतां च ज्ञानोपदेशेन ज्ञात्वा शुभे दिवसे एकादशसंख्यकैर्भावुकैः सहाईती दीक्षां जमाह /