________________ / 51 / संघपतिश्च तदीयो ज्येष्ठपुत्रः कुम्भाशाहः संघेन सह चन्द्रावती प्रतस्थे। दीक्षामहोत्सवे सूरिरधोलिखितेभ्यः पदवीप्रदानं चक्रे / 1 पूर्णानंदादिभ्यः पञ्चभ्यो मुनिभ्य उपाध्यायपदम् / 2 राजसुन्दरादिभ्यः , मुनिभ्यो महत्तरपदम 3 कुमारहंसादिभ्यः , मुनिभ्यः पण्डितपदवीम् / . एवं पदवीप्रदानेन मुनीन् संतोष्य तेषां चेतसि धर्मप्रचारकार्यप्रोत्साहनं विधाय सूरिः सौराष्ट्रदेशे विहारमकरोत् / तत्रापि प्रामनगरेषु धर्मस्य जागृतिं प्रचारञ्च विधाय मांसाहारिणां मांसत्यागवतमहिंसापालनञ्चादिशदुपदेशदानेन / मौलिकप्रन्थानां निर्माणमत्र सावकाशेन सम्पादितं सूरिणा / बहूनां नूतनमन्दिराणां मूर्तीनाश्च प्रतिष्ठापनमाचार्यस्य परम्पराप्राप्तमिति नोच्यत एव / एवमेव कच्छसिन्धदेशयोधर्मप्रचारं विधाय पजाबप्रान्तमाजगाम / कियन्तं कालं तत्र विहृत्य धर्मामृतपानप्राप्तसंस्कारान् जनान् धर्ममयैकजीवनान् कृत्वा हस्तिनापुरे मथुरापुर्याञ्च तीर्थयात्रामचीकरत् / ततश्च बुदेलखण्डावन्तिमेदपाटादिषु विहृत्य मरुधरदेशमात्मना विभूषयामास / प्राचार्यस्यालौकिकव्याख्यानप्रभावेण दीक्षितानां साधूनां महती संख्या बभूव / ततः सर्वत्र देशे धर्मप्रचारार्थ तान् प्राहिणोत् / विहरणक्रमेणोपकेशपुरमागच्छदाचार्यस्तत्र कुमटगोत्रीयेण लाधाशाहेन प्रारब्धे महामहोत्सवे सूरीश्वरो देवीसच्चायिकासंसूचनमनुमान्य शुभे मुहूर्ते पूर्णानन्दमुपाध्यायमाचार्यगुणभूयिष्ठं देवगुप्तसूरिनाम्नाऽलंकृतं पट्टे प्रतिष्ठाप्य षोडशदिनानन्तरं योगवलेन स्वर्गमगच्छत् / वि० सं०३५७ तः ] 26 श्राचार्यश्रीदेवगुप्तसूरिः ( पञ्चमः )वि० सं०३७६ प०] श्रीककसूरिपट्टे परमसौभाग्यशाली जिनागमगदितयमनियमतपोनिष्ठो मुनिपुङ्गवः श्रीदेवगुप्तसूरिः प्रतिष्ठापितोऽभूत् - असौ श्रीमालवंशीयः कोरण्टकपुरवास्तव्यश्चासीदस्य रिता लुम्बाशाहो माता च संफुल्लवदनपुण्डरीका ' पविभक्तिपरायणा फुल्लादेवी / ततोः पुत्रो वरदत्तनामा। बाल्यादेवासौ वरदत्तो धर्मप्रियो भगवतो.महावीरस्य मन्दिरे स्नात्रपूजा नियमेनान्वतिष्ठत् / दुर्दैववशादस्य शरीरे रक्तविकृतिको रोगः प्रादुर्बभूव / किन्तु नित्यनियम एवासीदतः-अङ्गीकृतं सुकृतिनः परिपालयन्तीति वचनादसी जिनालये भक्तिप्रवणमानसः पूजां विदधाति स्म / यदास्य रोगस्य प्रबलतरा वृद्धिर्जाता तदा कोरण्टकपुरवासिनः श्रावका भगवत आशातनामयात्तं न्यवारयन् / केचिदस्मै प्रोत्साहनमपि ददुर्यत्श्रीपालेन कुष्टरोगे सत्यपि भगवतोऽर्चना कृताऽसोदतो नात्र कोऽपि दोषकलङ्कले शोऽपि, ततः करोतु नामाऽसौ स्नात्रविधि सुखेनेति तत्र पक्षद्वयं स्थितम / महांश्च पारस्परिको विरोधो दैनंदिनं प्रावध / वरदत्तोऽपि प्रभोः पूजनरूपां प्रतिज्ञामविहाय श्रीसंघस्य मिथः कलहप्रशमनार्थमनशनं चकार / ___एवं प्रभोरर्चनामकुर्वतस्तस्य नव दिनान्यतिक्रान्तानि / तथापि स्वां प्रतिज्ञामनुपालयन्नसौ नवदिवस. पर्यन्तमन्नजलादिकमपि नाप्रहीत् / अथ भगवता महावीरेणास्यानुप्रहाथै प्रेरित इव श्रीककसूरिरत्र समाययो / सर्वैरपि श्रावकैः सूरेः शुभागमनरूपः समुचितावसरो निर्णयार्थ प्राप्तः / समारोहपूर्वकं विधाय च पुरप्रवेशमस्य पुरस्तादिममेव वृत्तान्तं मूलतो निवेदयामा नुः / उभयतो विचारं कुर्वन्नाचार्याऽत्र कमपि निर्णयं सहसा दातुम. शक्नोत् / ततो देवी सच्चायिकां सस्मार / साऽपि सर्वाभिलषितसंपूरण कमलतिकेव तत्र समागता / तमाचाथैच ज्ञापितवती भगवन् ! अस्य वरदत्तस्य रोगो मद्रवप्र रामनकालः समाप्तप्राय एव / अत आगामिनि दिवसेऽस्मै वासःक्षेपो देयो भवतेति कथयित्वा वन्दनं विधाय वरदत्त पार्श्वमेत्य तं जगाइ-भो वत्स ! श्वः सूरि. समीपं गया त्वया वासापोऽवश्यं महोतव्य इत्युक्त्वाऽदर्शनमयासीत् / सोऽपि देवोकथितववनमनुस्मरन्