________________ [ 52 ) सूरीश्वरपार्श्व गत्वा गृहीत्वा च वासःक्षेपं मन्दिरे स्नात्रपूजार्थमगच्छत् / असौ पूजायै मन्दिरं गत इत्युपलभ्य प्रतिकूलपक्षीया आचार्यसन्निधिं प्राप्यावीचन् भगवन् ! वरदत्तोऽस्यं प्रबलतररक्तविकृतिकरोगावस्थायामपि स्नात्रपूजायै गच्छतीति महदनुचितमेतदिति सर्वास्तानाश्वास्य शनैरवादीत्-गा त्वरयत, मया सर्वमेतच्चिन्तितम् / अस्य व्याधिशमनसमयः समाप्त एवेति कृत्वा मयाऽनुगृहीतः स तत्र गत इति नासौ तस्यापराधः / सर्वे प्रकृति प्राप्ताः / अतः परं वरदत्तोऽप्युपस्थितः / एतं गुरुकृपाकटाक्षकटाक्षितं दृष्ट्वा सर्वे ते परस्परं क्षमामयाचन्त गृहं च प्रत्यागच्छन् / अथान्येद्युः सूरिर्व्याख्याने कषायस्वरूपमित्थमवर्णयत् "कषायस्वरूपवर्णनम्" अस्मिन् जगति सर्वेषां प्राणिनामात्मोन्नतिपथप्रबलविरोधकाः क्रोधमानमायालोभाख्याश्चत्वारः सन्ति कषायाः / ते हि प्रकृतिवैषम्यं विधाय कर्तव्यज्ञानशून्यतामापादयन्ति देहिनाम् / तन्त्र क्रोधमानी द्वेषमूली रागमूली च मायालोभी। अतश्चतुणां कषायाणां प्रेरकरूपेण स्थितावेतो संसरणशीलस्य संसारस्य बीजमित्युच्यते / 1 अनतानुबधिनश्चैते कषाया मौलिकं सम्यक्त्वमुच्छेदयन्ति / 2 अप्रत्याख्यानिनश्चत्वार एते देशवतिगुणं प्रतिबध्नन्ति / 3 प्रत्याख्यानिनश्चत्वारः सर्वव्रतिगुणस्य प्रतिबन्धका भवन्ति / 4 संजलस्यैते कषाया वीतरागिगुणमवरोधयन्ति / एवं सर्वज्ञानविरोधका एवं स्वस्वरूपज्ञाने महतीमेव विप्रतिपत्तिमातन्वते / संसारे प्राणिन एत एव परिभ्रामयन्ति / सर्वमिदं श्रीभगवतीसूत्रस्य द्वादशे शतके प्रथमोडेशे भगवतो महावीरस्य शंखश्रावकस्य च संवादे सुस्पष्टं प्रतिपादितम् / सर्वे च भवन्तः सदस्या नैव जानन्ति यत् .कषायचतुष्टयावेशयुतानां कीदृशी दुःखदावस्था भवतीत्यत्रोदाहरणेन विशदीकरोमि / यथा-ढेलीप्रामे चंडानाम्नी स्थविरामहर्निशमेवोष्णभोजिनं पुत्रमारुणमुपलालयन्ती निर्धनत्वात् पौराणां धनिकानां गृहे कर्मकरी बभूव / एकदा कस्यचिच्छोष्ठिनो गृहादाव्हानमागतं दृष्ट्वा दारिद्रयपीडिता ततः पुत्रस्नेहमपि दुरीकृत्य झटिति पार्क निर्माय नागदन्ते संस्थाय श्रेष्ठिनो गृहमगच्छत् / इयं पुत्रं चण्डप्रकृतिं ज्ञात्वाऽपि बहिर्गतं तं प्रतीक्षमाणाऽत्रागंतासीत् / अथासौ पुत्रो गृहमेत्य तत्रासंनिहितां दृष्ट्वा क्रोधपूर्णहृदयो यावत्सा कार्य समाप्यागता तावत् तां भर्त्स यन् जगाद-श्राः! पापिनि ! मामपि दूरीकृत्य कुत्र गताऽसीः 1 अद्य शूल एवारोपयामि किम् ? बुभूक्षापीडितं मां न पश्यसीति पुत्रवचनं श्रुत्वा साऽपि क्रुद्धा तमाह-मूर्ख ! किं तव हस्ती छिन्नी ? येन नागदन्तावस्थितमपि नीत्वा न भक्षितम् ! एवं कलहं कृत्वाऽन्ते तो विरती बभूवतुः / कालान्तरे तो निधनमगच्छताम् / ततः परमसौ कस्यचित् श्रेष्ठिनः, सा चापि तथैव धनिकस्य गृहे जन्म लेभे / व्यतीते च काले दुर्भाग्यवशात्तयोरेव वाग्दानमभूत् / स च प्राप्तवयस्को देशान्तरं गत्वा प्रभूतोपार्जितधनस्तस्यै कङ्कणद्वयं प्राहिणोत् / स्वदेशमागन्तुमसौ केनचिन्मित्रेण सह निर्गतस्तस्या एव कन्याया प्राममागतोऽपि नाजानादयं श्वसुरमाम इति / बहिरुद्याने स्थितः। अथ सा च सायं शौचार्य गता केनापि तस्करणाकान्ता भृशं चुक्रोश। ततश्चौरो तस्या हस्तौ छिरवा कंकणद्वयं गृहीत्वा मध्य एव राजसेवकानां समापततामागमनं ज्ञात्वा तस्मिन्नेवोद्याने समागतो यत्राऽसौ श्रेष्ठिपुत्रः सुप्तः। भयादनेन तत्समीप एव मुषितं कंकणद्वयं स्थापितम् / आगता राजसेवकास्तमेव चौरं मन्यमाना राजसमीपमनयन् / शूले च से आरोपितो राज्ञा / सुहृदसौ परं पीडितः श्रेष्टिपुत्रस्य श्वसुरालयं गत्वाऽसौ वजामाता एव शूलारूढः कृतो राज्ञेति सर्व तस्मै न्यवेदयत् / तेनाप्युक्तमेषा मे तनया छिन्नहस्ता, किं करोमि ! अहो महत्कष्टं खलुभयतः प्राप्तं मयेति / अनेन स्पष्टं ज्ञायते क्रोधेन कीहशी परम्परामनर्थानामवाप्नोति जनः। अतः सर्वथा विचार्य