________________ [ 4 ] अन्ते च व्यवहारकार्यभारं कर्मशाहाय समर्प्य सम्मेतशिखर एवानशनपूर्वकं देहोत्सर्गमकरोत् / असौ कर्म.शाहोऽपि पितुर्मार्गेणैव सर्वकार्याणि संपादयन् पितुरुज्वला कीर्ति सर्वत्र प्रसारयामास / स्वयमुदारस्वभावो धर्मकार्ये प्रधानत्वं प्राप्तः सर्वथा धर्माराधनतत्परोऽभूत् / व्यापारजालजटिलीकृतहृदयोऽपि नित्यनियमेन देवमन्दिरदर्शनादिकायें सदैव सप्रयत्नोऽभूत् / स्वबुद्धिचातुर्येण व्यापारक्षेत्रमधिकं विस्तारितमनेन / व्यापारोऽपि पाश्चात्यदेशेषु विशेषतः प्रसृतोऽभवत् / एवमपि नगर्यामागतानां साधूनां शुश्रषणं तु तदीयमेव मुख्यं कर्तव्यमासीत् / तत्संसर्गतस्तस्य धर्माराधने प्रतिदिन रुचिरधिकां वृद्धि मवाप / एकदाऽर्धनिद्रितं देवी सच्चायिका तमगादीत्-वत्स ! उपकेशपुरस्थितस्य भगवतो महावीरस्य त्वं तीर्थयात्रां कुरु येन ते महान् लाभो भविष्यतीत्युक्त्वा साऽन्तर्दधे / तत उत्थाय स्वचेतसि निश्चयं कृत्वा प्रातरीयं धर्मकर्म समाप्य स्वस्य भार्या सुतांश्च स्वप्नवृत्तान्तं न्यवेदयत् / तैरपि शुभकर्मणि प्रोत्साहनं दत्तम् / अन्यैरपि कौटुम्बिकैरनुमोदितम्-कर्मशाह ! भाग्यवानसि त्वं, तव पूर्वजा जन्मभूमो गन्तव्यं गमिष्याम इति विचारयन्त एव दिवं याताः / स एव लाभोऽद्य कुलदेव्या दत्तः / प्रथमं तु यात्रालाभः परं जन्मभूमिदर्शनम् / ततो भगवतो महावीरस्य दर्शनलाभो देवीसच्चायिकायाश्च वन्दनम् / एवं सर्वपुण्यसाधके कर्मणि न ते विलम्बो योग्य इति / अथ कर्मशाहः शुभे दिने संघं निष्कास्य विहारक्रमागतस्य देवप्रभवाचनाचार्यस्याधिष्ठायकत्वे स्वस्य च संघपतित्वे प्रतस्थे / ___ क्रमेणासौ उपकेशपुरमेत्य चिरकालेप्सिता तीर्थयात्रां महता द्रव्यव्ययेन समपादयत् / दैववशात्तस्य कर्मशाहेन श्रीयक्षदेवसूरीश्वरस्यापि दर्शनलाभः प्राप्तः / इदमेव देव्याः सचायिकायाः प्ररणमासीत् / तत्र सः परमानन्दमग्नान्तरङ्गः सूरीश्वरस्य परमविरक्तिजनकं संसारस्य सर्वथैव हेयत्वप्रतिपादकं व्याख्यानमाकर्य दीक्षामाहीत् / तस्य विशालमूर्तिरिति नाम जातम् / पश्चादसी योग्यतां गतः सूरिपदे प्रतिष्ठापित इत्युक्तं प्राक् / अथ कक्कसूरिर्गामानुप्रामं सशिष्यो विहरनागपुरमलंचकार / तत्र बप्पनागगोत्रीयः पुनडशाहो भव्यसमारोहेण नगरप्रवेशविधिमकरोत् तत्र च संपादलक्षं धनं व्ययीकृतम् / अहो पूर्वकाले जनानामाचार्यचरणयोः कीदृशी भावनाऽसीत् यत्तेषामागमनस्वागतविधावेवेहशो धनव्ययः सहसा कर्तुं शक्य आसीत् / सूरिस्तत्र धर्मसंभावनां कृत्वा व्याख्यानेनापदेशं सर्वेभ्यो विघाय धर्मेऽधिकतरां रुचिमभिवर्धयाञ्चके / ततश्चरडगोत्रीयः कपर्दीशाह उपकेशपुरयात्रार्थ सूरेरनुमत्त्या संघं निष्कासयामास / पन्थानं प्रस्थितः संधो मुग्धपुर-मेदिनीपुरमाण्डव्यपुरादिषु प्रामनगरेषु गच्छन्नुपकेशपुरं प्राप / तत्रत्यः श्रीसंघः श्रीसूरीश्वरस्यागमनं जानन शीघ्र नगरप्रवेशव्यवसाये जनानादिदश / भ्वजतोरणादिभिः सर्व महोत्सवोचितं कर्म कृत्वा महासमारोहणाचार्यचर. णस्पर्शेन पुरमलं कारयामास / तदनन्तरं स कपर्दी सर्वविधां यात्रा विधायाष्टाह्निकामहोत्सवध्वजारोपणादिकायें प्रभूतं द्रव्यं विनियुज्यापरिमितं पुण्योपार्जनमकरोत् / ___ उपकेशपुरे सूरीश्वरस्य व्याख्यानं प्रत्यहमेवाभवत् / एकदासूरिर्व्याख्याने सर्वानुद्दिश्यावदत्-भोः श्रावकाः ! मोक्षमार्गाराधकानि सन्ति यद्यपि बहूनि कारणानि तथापि तत्र सजातीयेषु समभावो, मिथो वात्सल्य साहाय्यकरणं शुश्रषणं चापि कारणत्वेन गण्यते / शास्त्रेऽपि दृश्यते यत् एगस्थ सव्व धम्मा साहिम्मिश्र वच्छलं तु एगत्थ / बुद्धि तुलाए तुलिया देवि अतुल्लाई मणिपाई॥ अपररूच तावद् वात्सल्यभावेनैव श्रीसंघेऽद्य लक्षादारभ्य कोटिपरिमिता जनसंख्याऽवलोक्यते / एवं संख्यावलाधिके संघे या सर्वार्थसाधनिका शक्तिरत्र दृश्यते तारशी नान्यत्र दृष्टचरा / अत एवोक्तम्-संघे शक्तिः कली युगे / संघबलेनैव साधारणा अपि भावुका अलभ्यं यात्रादिलाभं सोकण प्राप्य पुण्योपार्जन