________________ [ 106 ] परम्परासाधक धनमिति / सम्यग्दर्शनेन ज्ञानेन चारित्रेण च सह यावत् शरीरदमनं क्रियेत तावदेव भाविसुखलब्धये कल्पते / एवं ज्ञानवादेन समयमतिवाहयन्नसौ सम्मेतशिखरतीर्थम'ससाद / तदनन्तरमेव दीक्षाग्रहण भावनां पित्रे निवेदयामास / माता तु दोक्षानामप्रहणेन स्वचेतसि परं दुनोति स्म / तथापि संसारमिःसारतां बोधयित्वा तदाज्ञां मोहनोऽळभत / त्रयोदशभिर्भावुकैः सह शुभे मुहूर्ते भरावती जिनदीक्षा सूरीश्वरवरदहस्तेन स्वीचकार / ततोऽसौ मुनिसुन्दरेति नाम्ना प्रथितो बभूव / चतुर्विशतिवर्षपर्यन्तं गुरुकुले स्थित्वा काव्यव्याकरणन्यायगणितमन्त्रतन्त्रादिविविधागमतत्वचिन्तनपरायणः सर्वगुणविद्योतितजनमनोमोदकोऽसौ विक्रमसंवत्सरे 952 तमे नागपुरे चोरलियाशाखीयेन मलुकथाहेनानुष्टिते पट्टमहोत्सवे भगवत आदिनाथस्य चैत्यालये संघसमक्षं सूरीश्वरेणाचार्यपदे प्रतिष्ठापितः श्रीककसूरिनाम्ना / ___ अनुसृत्य पूर्वाचार्य परम्परामसौ पञ्चशतसंख्यकैर्मुनिभिः सार्द्ध सौराष्ट्रप्रान्तं व्यहार्षीत् / तत्र तीर्थराजस्य श्रीशत्रुजयस्य यात्रा संपाद्य प्रामनगरेषु व्याख्यानादिना धर्माभ्युदयं कुर्वन् कच्छदेशं पावयामास / तत्र भद्रेश्वरनगरे स्थितानां धर्मप्रचारार्थ विहरतां साधूनां समागमं प्राप्याभिनन्दनेन प्रचारकार्यप्रोत्साहन मकरोत समुचितेभ्य: पदवीप्रदानेन / ते च सर्वत्र द्विगुणितोत्साहेन धर्मप्रचारमकार्षः। सूरीश्वरश्च ततः सिन्धप्रान्तं विहार क्रमेणागमत् / तत्र पातोली-वीरपुर-मारोटकोटादिषु नगरेषु भावुकानां हृदयानि धर्मामृतो. पदेशेन भावकानि कुर्वन् उमरेल पुग्मेत्य चतुर्मासावस्थानं निश्चिकाय येन शासनकाय सौकर्येण सम्पादितम् / तसच जन्मभूमि गोसलपुरमलमकार्षीत् / जनाश्च महता गौरवेणास्यापूर्व स्वागतं कृत्वा वदुपदेशामृतमादरात् पिबन्त आत्मानं पावयांचक्रुः / एकादश भावुका वैराग्यरागपूर्णान्तरंगा दीक्षा जगृहुः / मांसमदिराद्यभक्ष्य. भोजिनश्चाहिंसाधर्मरुचयो बभूवुः / एवं धर्मकर्म समाप्य सूरिः पन्जाबप्रान्तमयासीत् / श्रावस्त्यां नगयो संघसभायोजनं कृतवान् / तत्र कुरुपन्चालशौरसेनादिषु विहरन्तो मुनयः श्रावकाश्च समाजग्मुः / सूरीश्वरस्योपदेशेन विशेषतो धर्मजागृतिः संपन्ना। मुनयश्वोपाध्यायगणिगणावच्छेदकादिभिः पदैः सम्मानिताः समुत्साहा धर्मप्रचाराय यत्र तत्र विजः / ततश्च मथुरामागच्छत् / तत्र वैदिकवौद्धधर्मानुयायिनस्तथैव जिनधर्मानुरागिणोऽपि बहुसंख्याका अवात्सुः / ततस्तेन स्याद्वादकर्ममार्गप्रतिपादकेन सामाजिकहितकारकेण व्याख्यानेनापूर्वो धर्माचरणोत्साहः प्रेरितो भावकानां चेतःसु / ततो प्रामनगरेषु विहरन् मत्स्यराजधानी वैराटनगरं गत्वा धर्मप्रचारन्य कृत्वा तदनु सूरीश्वरः-अजयगढ़नगरमबजत् / संघानुमतस्तत्रैव चातुर्मासिवा स्थितिमन्वमन्यत / असाधारणवैदग्ग्यपूर्ण व्याख्यानं सादरं समाकर्ण्य जातवैराग्या द्वादश भावुका दीक्षामगृह्णन् / पश्चात् पद्मा. वनी-शाकंभरी-डिडूपुर-हंसावल्यादिषु विहरन् नागपुरमयासीत् / तत्रैव चतुर्मासावस्थानेन सर्वेषां धर्माचरणशास्त्रसेवनदेवपूजाप्रभावनादीनि शिक्षयामास / नक्षत्र-जाति:--मुग्धपुरेऽक्षयद्रव्यमिधिर्महाकुटुम्बकः सदाशंकरनामा विप्रवर्यो मन्त्रविद्यासाधनोपायेनोपाश्रयस्थितमाचार्य कश्चित् सप्रश्रयमुपेत्य कश्चिन्मंत्रोपदेशयाचममकार्षीद् द्रव्यलिप्सुः, तेन च प्रसन्नहृदयेन नक्षत्रमंत्र उपदिष्टस्तत्साधमप्रकारश्च प्रदर्शितः / असौ च गृहमेत्य षसमासावधिकमनुष्ठानमारभत / अवशिष्टे दिनत्रये स्मशानं गत्वा मन्त्रं साधयामास येनानुचित प्रकाराचरणेनोन्मत्तो बभूव तत्कुटुम्बश्च महहःखमवाप बहुभिरुपायैश्चिकित्सितो न प्रकृतिं गतः। आचार्यः श्रीककसूरिरस्मिन्नेव समये मुग्धपुरमाययौ / संघेन भव्येन स्वागतविधिना सत्कृतो मन्त्रतन्त्रादिविषयक व्याख्यानमदात् / तदीयालौकिकशास्त्रकौशलाकृष्टमानसा ब्राह्मणाः सविनयं तमुपेत्य सप्रणाम न्यवेदयन्-भगवन् ! ब्राह्मणमेतं महतो दुःखादुद्धरतु भवभिलषितमवश्यं वर्ष पूरयिध्याम इति स्नेहभरितं करणार्द्र वचो निशम्य जातदयोऽसौ तानगादीत्-भवन्तः सर्वे विहायैनं स्वगृहं गच्छन्त प्रातरेवासी स्वस्थप्रकृतिको भविष्यति / समुत्पन्नविश्वासास्ते तथास्त्वित्युक्त्वा स्वगैहं ययुः / प्रातरेषासी