________________ [60 ] तेणे जहा सपिं मुहे गहिए सकम्मुणा किच्चइ पाव कारी। ____ एवं पया पेच्चइहंच लोय, कडाण कम्माय नमोक्खअत्यि / / एवं सूरीश्वरस्य, वराग्यापादकं व्याख्यानमाकर्ण्य वराग्यरागसमेधितमानसो भीमदेवो मातरं पितरञ्च प्रबोध्यकत्रिंशत्परिमितेः श्रावकैः श्राविकाभिश्व सह भगवती दीक्षां जमाह / श्रीधन्नाशाहस्य ज्येष्ठः पुत्रो रामदेवो दीक्षामहोत्सवमन्वतिष्ठत् / सूरीश्वरोऽस्य शांतिसागरेति नामप्रसिद्धिमकरोत् / आचार्यसमीपं शुश्रषणपुरःसरमसो लक्षणादिनानाशास्त्राभ्यासाद् विद्वज्जनमण्डलीमण्डायमानकोतिराशिबभूव / * अथैवं विहारक्रमेण श्रीसिद्धसूरिर्डमरेलपुरमाजगाम / तत्रौको रसायनविद्यापारगो जिनधर्म निन्दकस्वदीयपूर्वाचार्याणामवगुणवादी योगी प्रतिवसति स्म / स एकदा शौ वनिवृत्यर्थ बहिः प्रयान्तं शान्तिसागरं मुनि मिलितः प्रत्युवाच-रे परमेश्वरकर्तृत्वनिषेधक ! मुने! स्नानादिना शुद्धयभावे कथं त्वमीश्वरस्तवनं करोषि 1 कथञ्चेश्वरस्थ कर्तृत्वं न स्वीकरोषि 1 अतोऽहं दृढं विश्वसिमि जिनधर्मानुयायिनो भवन्तः खलुः नास्तिका एवेति वदीयं वचः समाकार्य तमीश्वरात्मस्वर्गापवर्गाणां जिनागमप्रतिपादितान् सिद्धान्तानवेदयत् / ततश्च वापसोऽसौ सूक्ष्मतो जिनधर्मरहस्यं निशम्य सूरिपार्वमेत्य स्वशिष: सह दीक्षितो बभूव / पश्चादानन्दमूर्तिरिति नाम्ना प्रथितः / काले व्यतीते श्रीसिद्धसरिः सकलगुणगणगीयमानचरित्रं शान्तिसागरमुनि श्रीरत्नप्रभसूरिनाम्ना स्वपट्टे प्रतिष्ठाप्य / १-सोमप्रभादिभ्यः पञ्चभ्यो मुनिभ्यः उपाण्यायपदम् / २-राजसुन्दरादिभ्य एकादशभ्यो , पण्डितपदम् / ३-कल्याणकलशादिभ्यः सप्तभ्यो , वाचनाचार्यपदम् / ४-रत्नशेखरादिभ्यो नवभ्यो , गणिपदम् एवं पदवीप्रदानेन मुनीन् धर्मप्रचारप्रोत्साहितान् विधाय समाधिना देहमुत्ससर्ज / ततः श्रीरत्नप्रभसूरिः पन्चालदेशस्थां भावस्तीनगरीमगमत् / तत्रैकदा व्याख्याने क्षणिकवादिना सौगतेनोक्तम्-सूरे ! तव व्याख्यानश्रवणाज्जनाः स्वर्गलोमान्नरकमयाच्च मौलिकोन्नविमार्गान्निवर्तन्ते अतस्तव व्याख्यानं निश्चितमेवोत्कर्ष प्रतिरुणद्धि / एवं सौगतस्य मुनेवेचनमाकये क्षणिकवादस्य व्यर्थत्व, जिनधर्मस्य च वैशिष्ट्य शास्त्रसिद्धान्तसरणीमनुसत्य प्रतिपादितम् / येन सोऽपि सद्धर्मप्रभावप्रभावितो भूत्वा सूरिपार्श्वे दीक्षितोऽभवत् / ततः स प्राचार्यों विहरन्ननुक्रमेण तक्षशिला भूषयामास / सर्वेषामुपासकानामाप्रहं विचिन्त्य तत्रैव चतुर्मासमकरोत् / समुचितोऽयं पुण्यार्जनसमय इति मत्वा भद्रगोत्रीयो चाचणश्रावकः श्रीभगवतीसूत्रवाचनामहोत्सवमन्वतिष्ठत् / चतुर्मासानन्तरं श्रेष्ठिगोत्रीयण हाप्पाशाहेन सम्मेतशिखरयात्रायः संघो निष्कासितः / श्रीसम्मेतशिखरयात्रा विधाय वत्र परमपावने तीर्थे सूररुपदेशाज्येष्ठापुत्राय कुम्भाशाहाय संघपतित्वमर्पयित्वा स श्रेष्ठी हाप्पाशाह एकादशभिर्भावुकैः सह दीक्षामप्रहीत् / ततो विहरन्सूरिश्चन्देरीनगरीमाजगाम / तत्र महामारीरोगस्य प्रबलवरोपद्रव आसीत्, जनाश्च सर्वथा महत्कष्टमन्वभूवन् / परमकारुणिकचेताः सूरि वृहच्छान्तिस्नात्रपूजनमकरोद्रागोपशमनार्थम् / ततश्वरागः शान्तिमगात् / सर्व चाज्जीविताः कृताः / ततो निर्गताः विहरणकरण जन्मस्थान शंखपुरमगमत् / तदीयमागमनमाकण्यं शंखपुरवासिभिर्जनैर्नगर प्रवेशोत्सवः कृतः / सर्वे च तत्रत्या नूनमनेन सर्वजगद्विदितं कुलमधिकमुज्वलीकृतमिति प्रशशंसुः / तेषामादराधिक्यात्तत्रैव चतुसिंविधाय जिनधर्मविषयफव्याख्यानेन मनांसि रब्जयामास श्रोतृणाम् / चतुर्मासान्ते सूरेमिकव्याख्यान प्रभाबेण शंखपुरे एकादशपरिमितर्भावुकैर्दीक्षा स्वीकता / एकपा देवी सच्चायिका बन्धनार्थमागवा जमुहिश्यावादी-भगवन् ! अधुनोमकेशपुरविहारे महानेव