________________ धर्मलाभः स्यात्ततस्तत्रैव विहारं करोत्विति देवीकयनमाहत्य सूरिरपि क्षेत्रस्पर्शनाभावनया ततो निर्गत्योपकेश• पुरमाययो / तस्मिन् समये तस्याधिपतिः-आल्हणरावः आसीत् / स च जिनधर्मस्य परमोपासको दृढश्रद्धावान् संघेन सह स्वागतविधि महासमारोहेण समपादयत् / तदीयाश्च प्रार्थनामङ्गीकृत्य चतुर्मासव्रतं तत्रैव चकार सुरीश्वरस्य चतुर्मासावसरमासाद्योपकेशनगराधिपतिरसी राजा आल्हणः श्रीभगवतीसूत्रवाचनामहोत्सव राजसंपदनुसारेण सूरिहस्तेनाकारयत् / अष्टाह्निकाद्युत्सवानुष्ठानेन धर्मभावनां जनानां समवर्धयञ्च। चतुर्मासानन्तरमाचार्यदर्यस्योपदेशमहिम्ना श्रमणसभाकार्यमारब्धम् / सामन्त्रणं प्राप्य, चरमतीर्थङ्करस्य भगवतो महावीरस्य यात्रामप्युद्दिश्य, गुरुवर्यदर्शनलाभन्चानुषङ्गिक विचिन्त्य च सहस्रत्रयपरिमिताः स्वगच्छीयाः कारण्टकगच्छीयाः सोधर्मगच्छीयाश्च साधवः साध्व्यश्चोपस्थिता आसन् / तत्र स्वधर्माभ्युदयप्रवृत्तिमुद्दिश्य सर्वेभ्यो धर्मप्रचारकरणं मुख्यतोऽस्मदीयमेव कर्तव्यमित्यादिश्य सभा विससर्ज सूरीश्वरः / तत्रैव श्रीसंघानुमोदनानुसारेण स्वपट्टे प्रमोदरत्नमुनि यक्षदेवसूरीति नाम विधाय स्थापयामास / स्वयञ्च लुणाद्रिकाननेऽनशनेन समाधिपूर्वकं शरीरमत्यजत् / वि० सं० 424 तः] ३२-आचार्यः श्रीयनदेवसूरिः (षष्ठः) वि० सं० 440 प०] श्रीरत्नप्रभसूरिपट्टे जिनशासनसद्मप्रधानस्तम्भो यक्षार्चितचरणकमलयुगलो जिनगदितागमधर्मकर्ममर्मज्ञः श्रीयक्षदेवसूरिः। असौ करणावतीनगरनिवासी कन्नौजगोत्रीयश्वासीत् / अस्य जनकोऽपरो निधिपतिरिव सर्वेषां धनिकानां मूर्धाभिषिक्तो बभूव / तस्य दानजन्या कीर्तिकन्या दिगाङ्गणे रिङ्गन्ती ततोऽपि पारं गन्तुमियेष / एवं नासो केवल धनिकः, अपि तु परमधार्मिकः पञ्चवारं तीर्थयात्रासु संघायोजनेन द्रव्यस्य सदुपयोगमप्यकरोत् / सुवर्णमुद्रिकोपायनं प्रतिजनं संघस्थेभ्य इति धनिकस्येशस्य किं वक्तव्यम् / कोऽप याचकः कल्पद्रुमादिव तस्य सकाशाद्विफलमनोरथो न न्यवर्तत / सत्यमुच्यते शतेषु जायते शुरः, सहस्रषु च पण्डितः / वक्ता दशसहस्रेषु, दाता भवति वा न वा // ..महामोहलुब्धानां जनानामियं वराकी धनाशा सर्वथा कद करोति / एवं सत्पात्रे त्यागस्तु सत्यपि विभवे न सर्वेषां दृष्ठचरः। अस्य सतीधर्मानुरक्ता धर्मप्रिया रोहणीनाम्नी सर्वदा पतिमार्गानुसारिणी सरलोदारस्वभावाऽसीत् / तस्याः पाताशाहनामा सूनुरभवत् / तया च धर्मरतया भगवतो वासुपूजस्याराधनार्थमेकं विशालं मन्दिरं निर्माप्य तत्र भगवतो वासुपूजतीर्थङ्करस्य प्रतिमा प्रतिष्ठापिताऽसीत् / असौ पाताशाहोऽपि प्राप्तधार्मिकसंस्कारसंस्कृतमतिः पितुरिव वदान्यतमोऽभूत् / मातापित्रोदेहावसा. नानन्तरं, व्यवहारभारो बलादपि तस्येव शिरसि समापतितः। देव्याः सच्चायिकायाः प्रसादादसावपि व्यापारकार्य कोटिपरिमितं द्रव्यमवाप / धर्मकार्याणि च सम्पादयामास / अथाऽतीते काले दुर्दैवाद्विक्रमस्य 429 तमे व भयंकरः क्षयङ्करो दुष्कालोऽभवत् / सर्वत्र प्राणिनां करुणाक्रन्दनं दुभेद्यहृदयविदारकं विहाय न किंचियत / अस्मिन् समये पावाशाहेन करणावत्यामन्नस्य तृणघासादीनां मुक्तहस्तेन दानं विहितम् / आपणे दोनेभ्यो देयवस्तूनि सर्वत्र संस्थापितानि येन जनसंमर्दो न भवेत् तद्ग्रहणार्थम् / नात्र जावीयानामाग्रह आसीत / व्यापारे यद् यदुपार्जितं, येच गृहिण्या मणिमयरत्नखचिताः सुवर्णालंकारास्ते सर्वऽपि दुःखितानामुद्धरणे समर्पिताः / एवं कृतेऽपि प्रबन्धेऽसौ दुर्विपाकः करालकालो दुष्कालो न शान्तिमगमत् / ततः पाताशाहः कुलदेवतां सच्चायिकामस्मरत्भगवति / स्वमीरशमेव पोरु मे देदि, येनाई दुर्मिनशमनं विवण्यामिति / ततः सा मत्यक्षदर्शना प्रसवदना वस्म