________________ [6] जनानां पुरतो झापयितुमारब्धः शास्त्रार्थो बलात् सूरीश्वरेण / बौद्धानां पराजयेन सर्वत्र जिनमतानुयायिनी कीर्तिः समैधत / अत्र चातुर्मासावस्थानेन धर्माभिवृद्धि विधाय स सौपारपट्टनमाययो। तत्र महाराष्ट्रप्रान्ते पाखण्डमतावम्बिनां शक्तिर्दैनंदिनमभिवर्धत इत्येकेन श्रावकेण निवेदितं श्रुत्वा सूरीश्वरोऽपि शिष्यैः सह महाराष्ट्राभिमुखं प्रयाणमकार्षीत् / सूरीश्वरस्याप्रतिहतप्रभावं धर्मसिद्धान्तं व्याख्यानतो विदित्वा निस्तेजका रुद्धवीर्या भोगिन इव तेऽभूवन् / समाप्य चात्र प्रचारकार्य गृहस्थानां परिचयबाहुल्येनात्मनो व्यासक्तिर्माभूत, सर्वत्र विविधप्रकृतीनां जनानां सहवासेन विशेषलाभः स्यात, अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवतीत्यनुस्मृत्य सर्वत्र धर्मप्रचारार्थ वरमेव विहरणमिति मत्वा तदेवानुतिष्ठति स्म / __ अथ विहरणे बहुविधानि दुःखान्यनुभूय "मनस्वी कार्यार्थी न गणयति दुःखं न च सुखमिति" वचनमनुस्मरन्नसौ सर्वमपि विमृश्य महाराष्ट्रप्रान्ते वर्षद्वयं विहारमकरोत् / अत्र दिगम्बरीया अपि साधवो विजह - स्तथापि समानस्नेहेन धर्मप्रचारं तेऽन्वतिष्ठन् / संपूर्णरूपेण धर्मप्रचारं विधाय मदुरापुर्यामाजगाम / अतिमहती चैका श्रमणसभा विहिता / सर्वेषां साधूनां प्रोत्साहनार्थ पदवीप्रदानमपि कृतं येन द्विगुणितधर्मप्रचारोत्साहास्तत्र विहरणमकार्षः। तत आवन्तिकाप्रदेशं गत्वा माण्डव्यपुरे चतुर्मासावधिको स्थितिं चकार / ततः शूरसेनकुर्वादिषु देशेषु विहरता कालान्तरे मथुरापुर्या चतुर्मासो विहितः / तत्र श्रेष्ठिगोत्रीयेण हरदेवशाहेन चतुर्मासे श्रीभगवतीसूत्र[वाचनामहोत्सवः कृतः / सपादलक्षपरिमितं द्रव्यं व्ययीकृतम् / समाप्ते च महोत्सवेऽष्टभिर्भावुकैभगवती दीक्षा गृहीता / अपरं च बप्पनागगोत्रीयेण चाचणश्रावकेण श्रीपार्श्वनाथस्य महान जिनालयो निर्मापितः / सूरीश्वरस्य वरदेन हस्तेनास्य भव्यसमारोहपुरःसरं प्रतिष्ठा विहिता / वो भगवतः श्रीपार्श्वनाथस्य कल्याणभूमौ स्पर्शनादि विधातुं वाराणसीमगमत् / तत्रात्मशान्तिमनुभवितुं किंचित्कालं स्थिरनिवासो विहितः / ततः पञ्चालदेशे सिन्धः प्रान्ते च धर्मप्रचाराय वर्षद्वयं व्यहार्षीत् / सर्वतोभावेन धर्मविषयकाणि व्याख्यानानि कृत्वा साधूनां समुत्साहाभिवृद्धयर्थमेका श्रमणसभा विहिता / तत्र गणिवाचनाचार्यादिभिः पदवीभिः साधवश्च सत्कृताः / एवं स्वकार्य पूर्णोत्साहेन सम्पाद्याचार्यवर्यः सौराष्ट्रप्रान्ते विहरन् श्रीशत्रुजयतीर्थमाससाद / पूजास्पर्शनादि विधायात्मसुखसंपादनार्थ कियन्तं कालं तत्रैव न्यवात्सीत् / ततो विश्रान्ति लब्ध्वा लाटदेशे विहारं कुर्वन् , क्रमेण मरुधरे प्रथमश्चतुर्मासः पद्मावत्यो विहितः तत्र सूरीश्वरस्योपदेशं प्राप्य मासमात्रेण कृतपाणिपीडनां भायो त्यक्त्वा मुखापुत्रेण प्राग्वटवंशीयेन सूरिपार्श्वे दीक्षा गृहीता / चतुर्मासानन्तरं नोढाश्रावकेण निर्मापितस्य श्रीमहावीरस्य जिनालयस्य प्रतिष्ठाविधिर्भव्येन समारोहेण कृतः / तदेवं समाप्य च धर्मकार्य कोरण्टकपुरमयासीदाचार्यवर्यः / तत्र कोरण्टकगच्छीयाचार्यः श्रीसर्वदेवसूरीश्वरो न्यवात्सीत् / स च सूरीश्वरस्यागमनं विज्ञाय सशिष्यः प्रत्युजगाम सन्मानार्थम् / श्रीमालवंशीयेन खुमाणशाहेन सपादलक्षपरिमितं व्ययं कृत्वा नगरप्रवेशो महता समारोहेण विहितः अथ कोरण्ट कपुरेऽशुभकर्मोदयात सूरीश्वरस्य वपुषि सजातोऽसाथ्यो व्याधिः / अतो रात्रावसावचिन्तयत्-ममाद्य वृद्धावस्था वर्वतेऽतः कस्मैचिन्मुनये सूरिपदं दत्वा श्रात्मकल्याणनिवृत्यर्थमवश्यं प्रयत्नो विधातव्यः / तत एव देवी सच्चायिका परोक्षरूपेण समीपमेत्यावादीत भगवन् ? अष्टौ वर्षाणि जनकल्याणं भवान् विधास्य तीति मा खेदं करोतु / तत उपकेशपुरप्रत्यागमनाय प्रार्थयामास श्रीसघः / सूरिणाऽपि याशी क्षेत्रस्पर्शनेति स्वी. कृतम् / देव्याः कृपया च शरीरस्य सोमनस्यं जातम् / कोरण्टकपुरान्निर्गत्य भिन्नमालाजाबलीपुरमेदिनीपुरादिषु प्रामनगरेषु विहरन् सूरिर्माण्डव्यपुरमाययौ / अस्मिन् काले माण्डव्यपुरं तूपकेशपुराधिपस्य गोपालरावस्याधीनमासीत् / यतः श्रेष्टिगोत्रीय शोभासिंह सूरीश्वरस्य स्वागतप्रबन्धाय स राजा प्राहिणोत् / स च तत्र महता समारोहेणापूर्व स्वागवं सम्पाद्य चतुर्मासावस्थानायामहमकार्षीत् / सूरिरपि तदाप्रहमनुमान्य तत्रेव स्थितिमनु