________________ [ 4] मेने / बिहूगोत्रीयेण शोभासिंहेन सपादलक्षमुद्राणां व्ययेन श्रीभगवतीसूत्रवाचनामहोत्सवानुष्ठानेनाक्षयं पुण्यमासादिवम् / चतुर्मासव्याख्यानश्रवणसमेधितवैराग्यभावनः षट्पञ्चाशद्वर्षीयस्यास्यात्मकल्याणे मतिरजायत / कौटुम्बिकानाहूयापृच्छ्य पञ्चाशल्लक्षद्रव्यव्ययेन माण्डव्यपुरदुर्गे जिनालयमुपाश्रयं च कारयित्वा सप्तभिः भावुकैः सह सूरीश्वरपावं दोक्षामगृहात् ततो विहरन्नाचार्य उपके शपुरमेत्य देवीसच्चायिकाकथनानुसारेण रावगोपाल. स्याग्रहाच्च तत्रैव स्थिरवसतिमङ्गीचकार / समुचिते समये चादित्यनागगोत्रीयस्य चोरडियाशाखीयस्य रावल शाहस्य महामहोत्सवे ज्ञानकलशोपाध्यायं समधिगतशास्त्रतत्वज्ञमाचार्योंचितगुणालयं मुनि सिद्धसूरीति नाम विधाय स्वपट्टे स्थापयामास / स्वयश्च सप्तदश दिनान्यनशनेन नीत्वा महाप्रयाणमकार्षीत् / अहो ! धर्ममयैकजीवनानां धमादृते नान्यामतिर्गतिश्च वर्तत इति शेषाणि वर्षाणि धर्मप्रचारकार्य एव पितानि / को नाम निवृत्तिप्राप्तो प्रवृत्तिमङ्गोकुर्यात् / जिनगदितनियमाचारपालनरवानां समेषामयन्तु सार्वजनीनः पन्था एव / वि० सं० 631 तः] 38 प्राचार्यः श्रीसिद्धसूरिः। (सप्तमः) वि. सं. 660 प.] श्रीदेवगुप्तसूरिपदे तपस्तेज:पुजविद्योतितदिङमण्डलश्चारुचारित्रपाथोधिः शमकल्लोलकेलितः सदानन्दमूतिः परममाननीयः श्रीसिद्धसूरिः समायात.।। स च बप्पनागगोत्रीयः सिन्धप्रान्तस्थमालपुरनगरनिवासी चासीत् / पिवाऽस्य क्रयविक्रयादिव्यवहारकुशलः परमधार्मिकः श्रावकव्रतनियमनिष्ठो देदाशाहः, माता च परमसौजन्यधन्या दाडमदेवी। तयोः पुत्रो नेत्रकमलानन्ददायको मुख्याधारस्तम्भ इवासलशानामाह / देदाश्रावकेण स्वोपार्जितद्रव्यस्यागमवर्णिते क्षेत्रे सदुपयोग विधाय भगवतो महावीरस्य जिनालयो निर्मापितः। सम्मेतशिखरयात्रायै संघश्च निष्कासितः / देवाश्रावकस्य निधनानन्तरमासलोऽशुभकर्मोदयाहारिद्रयमुपागतः / गृहस्थाश्रमभारं निर्वोढुमसौ सर्वथाऽसमर्थो बभूव / अस्यां,विषमायामवस्थायामपि स नित्यनैमित्तिकधर्मकृत्यान्न प्रमत्तोऽभूत् / कर्मवादमर्मज्ञोऽसौ कर्मण एव गहना गतिरिति विचार्य शान्तमना धैर्य न तत्याज। . ____एवं व्यतीते कियति काले तदीयभाग्योदयादाचार्यः श्रीदेवगुप्तसूरिः सिन्धप्रान्ते विहरन् मालपुरनगर. माजगाम / एकदा सूरिणा स्वकीयव्याख्याने कर्मवैचित्र्यं प्रतिपादितमत श्रासलो विशेषश्रवणेच्छया मध्याहुकालेऽपि सूरीश्वरसमीपमुपस्थितः / तच्चोदासीनमुद्विग्नश्यावलोक्य सूरिणा संसारासारता साटोपमुपवर्णिता / पीयूषरसाप्लावितमाचार्योपदशमाकासलेनोक्तम्-भगवन् ! संसाराद्विरक्तोऽहं किन्तु दारिद्र थावस्यायां दीक्षाप्रहणेन स्वधर्मस्यावहेलना भविष्यतीवि विचिन्त्य तथा प्रविपत्तुं न शक्नोमि / यदाऽहं पूर्वामवस्थां प्राप्नुया तदा सत्वरमव गृह्वायां दीक्षाम् / तदीयं वचः श्रुत्वा सूरिस्तमवाचत्-आसल ! सी चिन्तां दूरीकृत्य धर्मानुचिन्तनमेव समाश्रय / धर्म एवा स्मिन् संसारं परमसोख्यप्रद इत्युक्त्वा सूरिस्तु धमप्रचारार्थमन्यत्र प्रतस्थे / / इतश्च धर्मभ्यानासक्तत्वात्पापक्षयाच्चासलस्य धेनुबन्धनस्थलादक्षयो निधिः प्रादुरास / सोऽपि गुरुकृपै. बेयमिति विज्ञाय सूरीश्वरं प्रति कृतज्ञता प्रदर्शयत् / ततः प्रभृतिरसावासलो धनाधिप इवापगे बभव / धनिकावस्थायामप्यसी सूर श्वरो दशविस्मरण न व्यधात् / किमनन द्रव्येण सत्कार्य कुर्या यतो लक्ष्मीस्तोयतरङ्गभजचपलति सत्यमव / प्रथममहं दरिद्राणां मनोरथान् पूरयेयम् / यत उच्यते दारिद्रयान्मरणमेव वरम् / दारिद्रयाद्धिय मेति हीपरिगतः प्रभ्रश्यते तेजसो निस्तेजा, परिभूयते परिभवान्निर्वेदमापद्यते / निर्विणः शुचमेति शोकपिहितो वुद्धया परित्यज्यते निद्धिः क्षयमेत्यहो ! निर्बुधनता सर्वापदामास्पदम् //