________________ [ 1] अष्टिगोत्रीयो नागदेवः (3) चरडगोत्रीय: पुनडशाहः (4) सुचन्तिगोत्रीयो लिम्बाशाहः, एवमेते चत्वारो व्यवस्थापका स्तर्दयद्रव्यग्य जिनागमप्रन्थलेखनेन सद्व्ययमकाषुः / सा च शुभे मुहूर्तेऽष्टभिः श्राविकाभित्रिभिः श्रावकैश्च सह दीक्षिता बभूव / सूरीश्वरश्च मेघाशाहेन निर्मापितस्याभिनवस्य पार्श्वनाथमन्दिरस्य प्रतिष्ठामकरोत् / ततो विहानाचार्यों मेदपाट-बुदेलखण्ड-शौरसेन-मत्स्य-पचाल-कच्छादिषु प्रान्तेषु धर्मप्रचारकार्यामसाधारण शेमुखीबलेन विधाय गैराष्ट्रप्रान्तमाजगाम / तत्र शत्रुब्जयतीर्थयात्रां लोकांश्च धर्मरतान् कृत्वा स्तम्भतीर्थे चातुर्मासिकी स्थितिं कृत्वा मरुधरदेशं पावयामास / विहरणक्रमेण चन्द्रावती गते चन्द्रावतीसंघः सप्रश्रयं तं व्यवेदयत् / भगवन ! जराजर्जरितावस्थो भवतो देहो वर्ततेऽतः कस्मैचित् शिष्याय सर्वगुणसंपन्नायाचार्यपदं देयम् / सूरीश्वरोऽपि स्वीकृत्य तदीयमभ्यर्थनां प्रार टवंशीयेन कुम्भाश्रावकेणानुष्ठिते महामहोत्मवे सर्वगुणगणविद्योतितप्रभावमुपाध्यायपदभूषितं मेरुप्रभमुनिं स्वपट्टे संस्थापयामास / अत्र परमधार्मिकेण तेन पचलक्षसंख्यका मुद्रा व्ययीकृताः / मेरुप्रभस्य देवगुप्तसूरीति नाम विहितम् / ततश्च श्रीककसूरिश्चतुर्विशतिपरिमितानि दिनान्यनशनेन समाधियोगेनातिवाह्य स्वर्गमगमत् / इदम वधेयं विशेषतः-अस्य शासनकाले चैत्यनिवासिनः साधवरतदीयोपदेशं स्वीकृत्य सर्वत्र स्वधर्मप्रचारकार्यमात्रतत्परा महान्तं प्र सिं प्रयत्नब्वाकार्षुः / येन शिथिलितप्रायोऽपि जिनधर्मः प्रबलतरवातावलिसंधुक्षितः स्फुलिंग इवाधिका द्युतिमघाप / [वि० सं० 6.1 तः] 37 श्राचार्यः श्रीदेवगुप्तसूरिः (सप्तमः) [वि. सं० 631 50 " श्रीककसूरिपट्टे परमयशोमूर्तिः सौजन्यौदार्गगुणगणोपमण्डितो जिनधर्मप्रगरचारुचरित्रा नानाविधविद्याविचक्षणश्चन्द्रावतीवास्तव्यः श्रीदेवगुप्तसूरिः पदमवाप / अस्य जनकः श्रावकव्रतनियमनिष्टः पञ्चपरमेष्ठिमहामन्त्रोपासकः प्राग्वटवंशीयः सामाद्युपायचतुरो महामात्यो यशावीरः / माता च सतीमण्डलमण्डनीभूता रामादेवी / तयोमडन-खेता-जीवसिंहाख्यास्त्रयः पुत्रा आसन् परम्पराप्राप्तजिनधर्मकर्मनिरताः / तत्र पिता, मण्डनश्च राजकीयक्षेत्रे लब्धप्रतिष्ठी, अपरौ द्वौ व्यवहारकार्यकुशलावभूताम् / व्यतीते काले यसोवीरः स्वकीयामात्यपदे मण्डनं प्रतिष्ठाप्य परमनिवृत्यर्थ रामादेव्या सह स्वोद्याने स्थिते श्रीककसूरिप्रतिष्ठापिते चैत्यालये नलिनीदल मिव 'सारान्निर्लेपो भूत्वा भगवन्तं जिनदेवमागधयामास। , एकदा मण्डनस्य प्रासादपार्वे तारुण्ये वयसि वर्तमानः कश्चिद् दुर्भाग्यवशात् पञ्चत्वं प्राप्तः / अतोऽस्य कौटुम्बिका दुःखिताः करुणं मुक्तकण्डमाचक्रन्दुः / चेतोविदारक तेषा रोदनध्वनि समाकण्ये मण्डनः संसारविषय कविचारनिमग्नो बभूव / प्रातः स्वनियमानुसारेण सूरिपार्श्वमेत्य स्ववैराग्यकारणं निवेद्य दीक्षाये सजीवभूव / नृपं पितरौ चापृच्छय स्वज्येष्ठात्मजं रावलं मन्त्रिपदे नियुज्य सप्तदशभिमुमुक्षुभिः सह दीक्षितोऽभूत् / मेरुप्रभेति समाख्यामसौ प्राप। शनैः शनैराचार्यसमीपे व्याकरणसाहित्यतर्कमीमांसादीनि शास्त्राण्यधीत्य जिनसिद्धान्तसरणीतरणीकृतबुद्धिप्रसरः पण्डितप्रकाण्डो जाबलीपुर उपाध्यायपदभूषितश्चन्द्रावत्यां सूरिपदालतो बभूव / ततश्च देवगुप्तसूरिरिति प्रसिद्धिमगमत् / - तस्मिन् काले भृगुपत्तने सौगतानामतीव प्राबल्यमासीत् / सूरीश्वरोऽपि विहारक्रमेण लाटदेशमागतः स्तम्भतीर्थमगमत् / भृगुपुरवासिभिः श्रावकैः परम्परया ज्ञातं यदसावाचार्यः स्तम्भतीर्थमात्मना भूषयतीति श्रीसंघः स्तम्भतीर्थं प्रेषितः।। सूरिरपि सकलं वृत्तान्तं विदित्वा प्रार्थनाच स्वीकृत्य जिनधर्मप्रचारचोद्दिश्य भृगुकच्छमयासीत् / तत्र स्याद्वादवादिनों पुरः क्षणिकवादिनो बौद्धाः स्थातुमपि न शेकुः / शास्त्रार्थस्तु दूरत एव तैः परिहृतः ! न चायं प्रथमो दृष्टान्तः बहुशस्ते बौद्धा उपकेशवंशीयैराचार्यैः सह विहारकाले संगताः पराजिता बभूवुः / येन सूरीणां नामश्रवणमात्रादेव ते पलायन्ते स्म / प्रकृतमनुसरामः / स्याद्वादसिद्धान्त