________________ [ 1 प्रचारकार्यकुशल श्चारित्रचित्रीकृतजगन्मण्डल: परमप्रभावकः श्रीदेवगुप्तसूरि: समायातः / असौ च नानाविध. तरुलताकुसुमपलस्तबकोपशोभितोद्यानवाटिकाप्रासादपडितपरिशभिता धनधान्यसमृद्धिसम्पन्न। नारदपुरीमुवास / पिताऽस्य सुचन्तिगोत्रीयो द्रविणनिधिर्महापरिवारो वाणिज्यकर्मनिपुणो धर्ममयैकजीवनो बीजाशाहः / माता च परमधर्मपरायणावरजूदेवी। तयोः पुत्रः पुनडोऽतीव भाग्यवान् धर्मकर्ममर्मज्ञश्चासीत् / बाल्यावस्थायामसौ सरस्वतीकृपापरिपूर्णो व्यावहारिकधार्मिकविद्यासु वैचक्षण्यं प्राप | स्वर्गीयानपि सोऽत्यशेत / गुरूपदिष्टमसी चायस्कान्त इव शीघ्रमेव बुद्ध थारूढमकरो / गुरुरपि सर्वापेक्षया तस्मिन्नतिस्निह्यति स्म / अवन्ध्ययनश्चासीत् स आचार्यः शिक्षाप्रदाने / अत एवोक्तम् प्रवन्ध्ययत्नाश्च बभबुरच ते क्रिया हि वस्तूपहिता प्रसीदति / अथ श्रीकक्कसूरिर्धर्मोपदेशार्थ नारदपुरीमलंचकार / नगरष्टिना देवलशाहेन सपादलक्षद्रव्योपयोगेन नगरप्रवेशमहोत्सवो विहितः / सूरिश्च मनुष्यदेहस्य क्षणिकत्वं मयक्तिकं प्रत्यपादयद् व्याख्याने / तथाहिश्रावकाः ! यदर्थमेव भवन्त आपातमात्राम्ये संसारेऽहमहमिकया प्रवृतिं कुर्वन्ति तदिनमेव शरीरं जल बुद्वद वातिचञ्चलम् / अनित्यानि शरीगणि विभवो नैव शाश्वतः / तस्मात्सर्वमिदं व्यर्थम्वेति मत्वाऽत्मकल्याणसाध. नोद्यता भवन्तु भ-याः। यद्विभवाद्यर्थ सर्वत्र समेषां प्रवृत्तिष्टचरा तदप्यशाश्वतमिति जानन्तोऽपि जनास्तत्रासक्ता मुधैव जीवनं यापयन्तीत्यत्र दृष्टान्तरूपेणोच्यते यथा-कस्मिश्चिन्नगरे कश्चिद् भूपती राज्यमशासत् / तस्य सूनू गज्यलोभाकृष्टः पितरं हन्तुमियेष / राज्ञा चेदं गुप्तचरसकाशादवगतम् / अत्रोपायः कश्चिद् विचिन्त्यो येन न मे मरणं न च राज्यच्यतिः स्यामिति मत्वा कंचिदमात्यवरमाहूय सर्व वृत्तान्तं न्यवेदयत्तस्म / तेन विचार्योक्तम-देव ! प्रतिस्तम्भमष्टावेवं शताधिकाष्टपरिमितस्तम्भयुक्त प्रासाद उपवेष्टव्यं तत्र तेन राजकुमारेण सर्वे ते स्तम्भा विजेतव्या एकमप्यसौ पराजयेत तदा प्रथमत एव तं खेलनीयम् / ईदृशी व्यवस्था भवत एव लाभाय तस्य चानिष्ठाय बोधाय च भविष्यति / रामा च तदङ्गीकृत्य राजसभायां सर्वजनसमक्षमाह पुत्रम् / वत्स ! यदि ते राज्यमभिप्रेतं तदाष्टकोणसहितशताधिकाष्टपरिमिताः प्रासादस्य स्तम्भास्त्वया सर्वे एव विजेतव्याः / एकेनापि त्वं पराजितः स्यास्तदा पुनः खेलनं द्यतस्य कार्यम् / मूढबुद्धिनानेनेदं न विचारितं यदेवं कृत्वा राज्यप्राप्तिः सुशका दःशका वेति / अनेनेदं ज्ञायत एव क्षणिकलाभसन्तष्टा जीवा आत्मनोऽमूल्यमेव जीवनं व्यर्थमेव यापयन्ति / अन्ते च दःखिताः सन्तः पश्चात्तापयता भवन्ति / अत श्रात्मकल्याणसा कालस्यापेक्षा विद्यते / तत एवोक्तम श्वःकार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् / न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् / / एवं सूरीश्वरस्य व्याख्यानकुसुमसौरभ जनमण्डलप्रशंसामारुतसरूचालितं सर्वत्र नगरं व्याप्नोत् / यतो मधुकरा इव श्रोतारः स्वयमेवपुष्परसमिवोपदेशं प्रहीतुमिच्छवः समागच्छन , नात्र प्रेरणापेक्षाऽसीत् / उक्तञ्च सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् / आमोदो न हि कस्याः शपथेन विभाव्यते / श्राचार्यवर्यस्य व्याख्यानं श्रुत्वा पुनडस्तत्क्षणादेव विरक्तिरागरब्जितस्वान्तोऽभवत् / पितरावामन्त्र्य षोडशसंख्यकैर्भावुकैः सह दीक्षितो बभव / दीक्षानन्तरमस्य विमलप्रभेति नामपरिवर्तनं कृतम् / गुरोः पार्श्व० विनयपूर्वकमागमाभ्यासं विधाय सर्वविषयेष्वसाधारणपाण्डित्यवैदग्ध्यविराजितो विदुषां समाजेऽप्रेसरो बभूव / उपकेशपुरे श्रीदेवगुप्रसूरीति नाम्ना पट्टपदं भूषयामास। अथाचार्यवर्य उपकेशपुरान्निर्गत्य माण्डव्यपुरशङ्खपुरासिकादुर्गमुग्धपुरखटकुम्पनगरनागपुरपालिहका पुरादि मरुधरप्रान्तस्थेषु प्रामनगरेषु विहरणेन धार्मिकी भावनामुपदेशा मृतेन संवर्धयन् चतुर्मासं चन्द्रावत्यामनीचकार / तत्र त्या भावुका श्रात्मानं धन्यं मन्यमानाः क्षणोऽपि दुर्लभ इति कृत्वा तदीयव्याख्यानलाभ परमप्राप्तव्यलाभममन्यन्त / चतुर्मासानन्तरं प्राग्वटवंशीयेन रोडाशाहेन सूरेरभ्यनुज्ञां प्राप्य तस्यैवाभ्यक्षत्वे