________________ [) शत्रुखवयात्रायै संघो निष्कासितः / तत्र यात्रां विधाय सूरीश्वरः सौराष्ट्रप्रान्ते धर्मोपदेशेनाहिंसाधर्मेऽभ्यधिकां जनमनोभावनां विशदीकृत्य सिन्धप्रान्तमाययो / एकदा विहारकाले भयङ्करमरण्यं गच्छता सूरिणा मार्गे वनाधिपेन व्याघेण सहाजायुद्धं दृष्टम् / कुतूहलाक्रान्तचेता असौ कब्चित कालं तत्रैव स्थितः / इतश्चाश्वारूढाः सहरूलाधिकाः पञ्चालप्रान्तीयाः क्षत्रियवंशीयाः सैनिका अपि म्लच्छाक्रमणभयादाययुस्तत्र / ते सर्वे च योगिराज सूरीश्वरं वीक्ष्य वन्दनव्यवहारेणानुक्रमेण तस्य पार्श्वमुपस्थिताः / सर्वप्रमुखसैनिकमुखमण्डले क्षत्रियोचितभावनामालक्ष्यैते जिज्ञासवः श्रोता. रश्च सन्तीति मत्वा सूरिस्तानवादी-आर्याः ! धर्मशास्त्रं श्रोतुमिच्छन्ति भवन्तः 1 ते च सर्वे सहसैव बाद. मित्युक्त्वा धर्मतत्वजिज्ञासया तदीयविवेचनाय सूरिमभ्यर्थयामासुः / सूरिणाप्यवसरोचितं धर्मतत्वं विवेचितम् / यथा चला लक्ष्मीश्वलाः प्राणाश्चले जीवितयौवने / चलाचले च संसारे धर्म एको हि निश्चलः // धर्मः शर्म परत्र चेह च नृणां धर्मोऽन्धकारे रविः / सर्वापत्तिशमक्षमः सुमनसां धर्माभिधानो निधिः / धमों बन्धुरवान्धवः पृथुपथे धर्मः सुहृन्निश्चलः / संसारोरुमरुस्थले सुरतरु स्त्येव धर्मात्परः // धर्मो दुःखदानलस्य जलदः, सौख्यैकचिन्तामणिः / धर्मः शोकमहोरगस्य गरुडो, धर्मो विपन्नाशकः // धर्मः प्रौढपदप्रदर्शनपटुर्धर्मोऽद्वितीयः सखा / धर्मो जन्मजरामृतिक्षयकरो धर्मो हि मोक्षप्रदः // ___ अयि मान्याः ! मैत्रीधर्ममुद्दिश्य भहाभारतेऽप्युक्तम् न तत्परस्य सन्दध्यात् प्रतिकूलं यदात्मनः / एषः संक्षेपतो धर्मो कामादन्यः प्रवर्तते // इति विशदधर्मस्वरूपं जिनधर्मस्य च वैशिष्टयमाचार्येण वर्णितम् / तैः सबैरेव धर्मस्वरूपं तत्वतो ज्ञात्वा जिनधर्मः स्वीकृतः ! ततः सेनाधिपति रावगोसलं सूरिस्तस्मिन्नेवारण्यस्थाने नवनगर निर्माणार्थ संक्षिप्तसूचनामकरोत् / ततः सूरीश्वरस्योपदेशात्तेन सर्वविघ्नोपशान्तये भगवतः पार्श्वनाथस्यारब्धो जिनालयः / क्रियमाणे च तदर्थ भखननेऽक्षयो निधिनिःससार / ततोऽसौ तं सिद्धपुरुषं मन्वान आचार्यवये मुहुः प्रशशंस / पञ्चालप्रान्तीयस्य रावगोसलस्य नामसदृशं तन्नगरस्थापि गोसलपुरेति नाम कृतम् / ___ गोसलपुराधीशस्य गोसलस्य चतुर्दशस्वात्मजेष्वष्टौ पुत्रा गोसलपुरं न्यवात्सुः / ते च आसलः पासलो देशलः खुमानो रामपालो भीमः खंगारः साङ्गणाख्या आसन् / __पुनरेकदाऽचार्यो देवगुप्तसूरिरनुक्रमेण विहरन् गोसलपुरमगमत् / गोसलपुराधिशस्यादरमनुमान्य तत्रैव चातुर्मासिकी स्थितिं चक्रे / पूर्वस्मिन् काले संस्काररूपेण स्थापितां धर्मभावना व्याख्यानपरम्परयास्मिन् संप्राप्ते समये पल्लवितामकरोदाचार्यः / चतुर्मासानन्तरं गोसलेन निर्मापितस्य जिनालयस्य प्रतिष्ठाविधिः सूरेरेव वरदहस्तेन सम्पादितः / ततः शत्रुञ्जययात्रायै संघनिष्कासनमपि निश्चितं सर्वैः / सर्वे च दूरस्थाः समीपस्था भावुकाः सप्रश्रयमामन्त्रिताः / ततः शुभ मुहूर्ते गोसरस्य संघपतित्वे सूरीश्वरस्याध्यक्षत्वे च संघः शत्रुश्चयमभिप्रतस्थे / 13