________________ [ 10 ] क्रमेण तत्र गत्वा ध्वजारोपणपूजाप्रभावनादिकं वृत्वा यात्राजनितपुण्यराशिं संगृह्य प्रतिनिनवृत्य गोसलपुर. मागच्छत् / सूरीश्वरस्तु तत्रैवात्मध्यानार्थ न्यवात्सीत् / कालान्तरेऽपरेण संघेन सह वीरपरम्परागतसाधवोऽपि पातकरराशिप्रक्षालनसमर्थं श्रीशत्रुजयमाजग्मुः / यदा तैर्देवगुप्तसूरः समवसरणं ज्ञातं तदा सत्वरमेव ते वन्दनार्थ तत्समीपमीयुः / सूरीश्वरेण जिनशासनस्य वर्तमानकालीना स्थितिर्वर्णिता / तद्वारेण ते च कर्तव्याभिमुखाः कृताः साधवः ।सूरेार्मिकं समयोचितञ्च वक्तव्यं ज्ञात्वा धर्मप्रचाराय तेषां हृदये नूतनं चैतन्यमागतमिवालक्ष्यत / अपरेास्ते सूरिणा सह परमसौजन्याकृष्टचेतसः साधव श्रादिनाथदर्शनार्थ पर्वतस्योपरिभागे गमनमकार्षुः / ___ भगवत आदिनाथस्य दर्शनं विधाय देवगुप्तसूरिः सौराष्ट्रदेशे सर्वत्र विहरणेन धर्माभ्युदयं विधाय कोकणप्रदेशे देवपट्टननगरे चतुर्मासमकरोत् / चतुर्मासादनन्तरं त्रयोदशभिर्भावुकैर्दीक्षा गृहीता / अभिनवजिनालय. प्रतिष्ठापि तत्र विहिता / ततो दक्षिणप्रान्ते विहरन् विदर्भदेशस्थं बालापुरनगरमयासीत् / तत्रापि सूररुपदेशेन परमश्रद्धालुभिरेकादशभिः श्रावकैर्दीक्षा गृहीता / एवं जिनागमरहस्यवेत्ताऽसौ सूरीश्वरो महाराष्ट्रप्रान्ते विहरन्नष्टाविंशतिसंख्यकान् जनान् स्वधर्मोपासकान् विधाय दीक्षयामास / पञ्चभिः क्षपणकमुनिभिरपि श्वेताम्बरीया दीक्षा गृहीता। एकदा सूरिणा शत्रुञ्जयमाहात्म्यमुपवणितम् / तन्नगरामात्यो रघुवीरः शत्रुञ्जययात्रायै संघायोजना योद्यतो बभूव / क्रमेण शुभे मुहूर्ते शतत्रयपरिमितैः श्वेताम्बरमुनिभिः पञ्चविंशत्यधिकैकशतपरिमितैर्दिगम्बरीयैः साधुभिः पञ्चविंशतिसहस्राधिकैः श्राद्धैः सह शत्रुजययात्रार्थ संप्रतस्थे / संघरत्वनुक्रमेण नीलमरकतपद्मरागादिभी रत्नैः पूजां देवमूर्तीनां विधाय तीर्थयात्राजन्यसुकृतराशिं संगृह्य परावृत्त्य स्वस्थानमाप / सूरिस्तु खेटकपुरस्तम्भनती. र्थादिषु प्रान्तेषु विहरन् भरुचनगरे चातुर्मासिकी स्थितिं कृत्वाऽसाधारणपाण्डित्यवलेन समधिकां धर्मरुचिं लोकानामभिवर्धयन्-अवन्तिकामाण्डव्यगढमहेन्द्रपुररत्नपुगदिषु प्रामनगरेषु धर्मप्रचारं विधाय चित्रकूट ययौ / तत्र चतुर्मासकाले बलाहकगोत्रीयः श्रावकशिरोमणिदेवगुरुचरणसरोजचञ्चरीकः पञ्चपरमेष्ठिमहामन्त्रस्मारकः श्राद्धगुणसंपन्नो निर्मन्थकोपासको दुर्गाशाहो महामहोत्सवपूर्वकं श्रीभगवतीसूत्रवाचनामकारयन्नवलक्षप. रिमितेनद्रव्येण पयामास ज्ञानार्चनागतद्रव्येण ज्ञानभण्डारप्रभृतीनि ज्ञानप्रचारसाधनानि स्थापयामास / चतुर्मासा. नन्तरं सप्तभिर्मुमुक्षुभिर्गृहीताऽत्मकल्याणसाधिका भगवती दीक्षा / ततो मेदपाटप्रान्तस्थप्रामनगरेषु धर्मोद्यमं विधाय सुरिनागपुरं भषयामास / तत्र चतुःशतसंख्यकैर्विमिथ्यात्वं हित्वा जिनधर्मोऽङ्गीकृतः / ततः क्रमेणोपफेशपुरमागतः / तत्रत्ये संघे परस्परं मनोमालिन्यमासीत् / किन्तु सरीश्वरस्योपदेशेन त्यक्तविद्वेषभावनः स मिथः स हार्देन व्यवहारमकार्षीत् संघः / चतुर्मासानन्तरं चोरडीयाशाखीयस्यात्मात्यस्यात्मजः करणः षण्मासविवाहितां पत्नी हित्वा सूरिपाश्र्व दीक्षोद्यतो वभव / एकत्रिंशत्परिमितेर्मुमुक्षुभिर्मुक्तिमार्गसाधिका दीक्षामगृह्णात् / ततः कुमटगोत्रीयेण देवाशाहेन निर्मापितस्य भगवतः पार्श्वनाथस्य प्रतिमा प्रतिष्ठापिता / ततो विहरन् सूरिः स्वजन्मभूमि नारदपुरमलञ्चकार / श्रीसंघस्योत्साहवर्धनाथै तत्रैव चतुर्मासो विहितः।। चरमसमये योगविद्यया स्वनिधनसमयं ज्ञात्वा देवोसच्चायिकाप्रदत्तसूचनामनुमान्य नारदपुरीयेण ग्वटवंशीयेन डाबरशाहेन समनुष्ठिते महोत्सवे चन्द्रशेखरमुनये सूरिपदमर्पयामास / श्रीसिद्धसूरीति नाम्नः परिवर्तनं विहितम् / स्वयं च त्यक्ताहारः समाधिपूर्वकमेकादश दिनान्यतिवाह्य दिवमगच्छत् / वि० सं० 724 तः] 41- प्राचार्यः श्रीसिद्धसूरिः। (अष्टमः) वि० सं० 778 प.] श्रीदेवगुप्तसूरिपट्टपदं विविधप्राणिविघ्ननिवारको न्यायव्याकरणसाहित्यपारावारपारगो महाशासनप्रभावकः सुरासुरसेवितचरणसरोजयुगलः सिद्धपुरुष इवानेकगुणगणालकतः श्रीसिद्धसूरिरलञ्चकार / अस्रावा