________________ [ 76 // धर्मप्रचाराय परिभ्रमणं चक्रुः / कदाचिन्महाराष्ट्र-तिलङ्ग-विदर्भादिष्वपि प्रचारार्थ ते विहरन्ति स्म / कोरण्टकगच्छीयाः साधव आबु (अर्बुदाचल) समीपस्थनेषु कदाचिन्मथुरापर्यन्तश्च विहरणेनोपासकानां धर्मभावनां संवर्धयामासुः / इदमेव सौमनस्यं यदेकका मिथः संगतानां वैमनस्यं न / सूरीश्वरश्च विहरणक्रमेण चन्द्रावतीमगात् / श्रीसंघेन चासाधारणः स्वागतविधिः नगरप्रवेशाय सम्पादितः / ततो धर्मव्याख्यानानि क्रमेण जातान्यासन् / तस्मिन्नगरे कश्चित्सालगनामा वेदमार्गानुयायी श्रेष्ठी प्रतिवसति स्म / तस्मै च ब्राह्मणा जिनधर्मः पाखण्डपथावतारः, तदाचरणेन निरयफलमेवाप्यफलम् / अयं च धर्मः श्रुतिस्मृतिप्रतिपादितवैदिकधर्मस्य प्रबलतरः शत्रुः। अस्य नामोच्चारोऽपि महते पापाय कल्पते / हस्तिना ताज्यमानोऽपि न गच्छेजिनमन्दिरमित्युक्त्या तन्मन्दिरदर्शनगमनादिकमपि निषिद्धमिति बहुविधमुपदेशं ददुः / येनासी जिनधर्मरताना नाकरोदादरातिशयम् / सूरीश्वरव्याख्यानश्रवणार्थमेकदा सवैर्वणिग्भिरुक्तः श्रवणार्थमगच्छत् श्रमणसभाम् / व्याख्याने च भारतेऽस्मिन् क्षेत्रे धर्मतरिवाहको भगवान् ऋषभदेवः प्रथमो बभूव / तदीयां शिक्षा प्राप्य चक्रवर्तिना भरतेन चत्वारो वेदाः पृथक् निर्मिताः / तदधिकारश्च निःस्पृहाणां ब्राह्मणानां परहित. निरतानां निर्धारित एभियूयं जनहितं साधयन्त्विति यावन्निःस्पृहत्वं परमोपकारकत्वं च स्थितं तेषां मानसे . तावदेव तैः सर्वेषां कल्याणं साधितम् / परस्मिन् काले लोभोपहतचेतसो ब्राह्मणाः तदर्थपाठपरिवर्तनादिभिः छिन्नपरंपरांश्चकुर्वेदान् श्रेयःसाधकासमर्थान् / न खलु कदाचित् परमकारुणिकः सर्वहितनिरतः परमेश्वरो जीवहिंसया सन्तुष्टो भवतीति मुधैव चेष्टा यज्ञकर्मणि पशुमारणे, यत्र च सर्वेषां हितमभ्युदयश्च दृष्टचरः स एव श्रेयान् धर्म ईश्वरप्रणीत इति निश्चप्रचं विद्वदप्रेसराणाम् / न चात्रान्धपरम्परानुसरणं सौख्यहेतुः / न च लोकापवादा तव्यं परमपुरुषार्थविघातकात् / न चास्माकं धर्मोऽहिंसारूप एकदेशाइतः, अधीतवेदैरष्टादशपुराणपारदृश्वभिः पण्डितैरनेकैरपि भूपतिभिः सदा संसेव्यमानत्वात्सर्वसुखप्राप्तये / अतो गतानुगतिका विहाय बाह्यदृष्टिं शास्त्र युक्तिभिश्च निर्णीतोऽहिंसारूपो धर्मो विश्वस्य जगतः प्रतिष्ठा सर्वश्रेयसामगम्यः पन्थाः समाश्रयणीय इति महता प्रभावेणाहिंसाधर्मस्याश्रयणं सिद्धान्तरूपेणाचार्येण सशास्त्र सयुक्तिकं च प्रतिपादितम् / येन हिंसाधमें जनानां वृत्तिः समूलोच्छिन्ना / सभा च समाप्ता / सव स्वगृहं ययुः / __ अथ ब्राह्मणा भाविनि काले महान्तं यज्ञं कर्तुमिच्छुरयं श्रेष्ठी श्रमणसमा किमर्थ गतः 1 नूनमस्य साऽभिलाषा मूलवश्छिन्ना ! इति बहुविघं विमृशन्तोऽस्य गृहमेत्याशीर्वादेन तं संभावयामासुः। ततो वार्तालापप्रसंगेन महदनुचितमेतद्भवतो यद् अद्य श्रमणसमायामुपस्थानम् / अज्ञानाचरित एषः स्वपितृपितामहादिभिरप्यनादृतः पन्था जिनधर्मस्य / स्वधर्म एवाभिरुचिः सर्वसंपदों परमं निधानम् / एवं बहुविधं बोधयन्तस्ते श्रेष्ठिनमवोचन् / परमविनीतोऽसौ तानवादीन् मान्याः ! विरमतानर्थकप्रलापात् / कोऽयं स्वधर्म इति तु सूक्ष्मदृष्टया विवेक्तव्यम् / यद् भावि तद् भवतु किन्तु धर्माचरणेऽन्तिमं निश्चयं कृत्वैवाहं श्रीमद्भयः समुचितं सिद्धान्तरूपमुत्तरं दास्यामीत्याकर्ण्य ते विफलाशाः प्रतिन्यवर्तन्त / __ एकदा श्रेष्ठी सालगः समयं वीक्ष्य सूरीश्वरपार्श्वमुपेत्य तमवादीसविनयम्-भगवन् ! श्रात्मकल्याणप्राप्तये धर्म एकोऽनेकविधो वा समाश्रयणीयः 1 श्रुत्वा च तद्वचः समाधातुमाचार्यस्तमुवाच-श्रेष्ठिन् ! एक एवाचरितो धर्म आत्मकल्याणमासादयितुं शक्नोति, अस्तु नाम तदाचरणसाधनानां वैचित्र्यं, नात्र विप्रनिपत्तिः / अनेके च धर्माः प्रधानीभूतस्य धर्मस्य विस्तृताः शाखाः / स्वाभिप्रेतसिद्धये तत्तन्मार्गानुसारिभिः . प्रारंभे मिथः कश्चिद् भेदविशेषं कृत्वा स्वस्वसंप्रदायाः पृथक् कृताः किन्तु परिणामे तत्र हिंसाप्रधानानि स्वार्थपरायणानि कर्माणि यज्ञादौ च धर्मरूपेण परिगृहीतानि / एवं धर्माचरणविषये विविधमतानामुपस्थितिर्विवेचकानां धर्मरत्नपरीक्षकाणामने निकषोपलरूपा बुद्धिः साधुत्वमसाधुत्वं वा ज्ञापयति / तदर्थमेवोच्यते "बुद्धेः