________________ पाणा यथात्मनोऽभीष्टा भूतानामपि ते तथा / आत्मौपम्येन सर्वत्र दयां कुवन्ति साधवः // तद्वचः श्रुत्वा सर्वे न किंचिदवादिषुः / स च देवरूपः सारंगमभ्येत्योवाच-भोः सर्वप्राणसंरक्षणार्थ त्वमेव मे बलिमुपनय नररूपम् / न चान्याद्वारगतिरत्र / अक्षुब्धान्तरङ्गः स सारंगस्तमवदत् - कतिवार प्लवा अत्र गता आगता, न च बलिरुपहृतः, नचाधुना मे दातुमिच्छा / अनकसुकृत नब्धोऽयं दिव्यो देहः किमनेनैव नरबलिना संपुष्टा भविष्यति ? / सर्व दोषायतनमिदं च शरीरं देवप्रसादजनक कथं स्यात् / / का च तेऽभीष्टा गतिः 1 / न च मया विचार्यमाणेनापि ज्ञातुं शक्यते कस्मै कर्मबन्धानुभवाय देवेनापादमिष्यत इति / सोऽपि लज्जाभरनताननः किमपि वक्तुमशनवन् हारमकमुज्वलाकारं तस्मै समर्प्य नाहमद्यारभ्य दृशं करं कर्म करिष्यामीति कथयित्वा सप्रतिज्ञं यथागतमगात् / शान्तोऽभूच्चोपद्रवः / सर्वे च मुदितमानसा तं प्रशंसन्तः सुखेन यथाभिमतं स्थानमवापुः / एवमसी हदभावनोपरञ्जिवस्वान्तः परमधर्मरुचिः स्वकार्य सुखेन सम्पादयामास / पिताऽपि वस्मिन्नतीव स्निह्यति स्म / व्यतीते च काले कदाचिदाचार्यः श्रीदेवगुप्तसूरिश्चित्रकोटमाजगाम / संघेन च सादरं सविनयमस्य भव्येन विधिना स्वागतं विहितम् / क्रमण च प्रारब्धानि व्याख्यानानि / सूरिण। च संसारस्यास्थैर्य, लक्ष्म्याश्चंचलता, परिवारस्य स्वार्थकांचः, आयुश्च कालप्रस्तं, भोगा भवरोगबन्धनानि, सर्वमिदं दृश्यत आपाततो रमणीयमन्ते च हालाहलोपमम् / नश्वराय शरीराय धर्मापेतं कः समाचरेत्” इति सारगर्भित उपदेशो दत्तः / श्रुत्वा जातवैराग्यः सारंगः श्रुतव्याख्यानं पितरं गृहं गत्वोवाच-आत्मश्रेयःसाधनादृते सर्वमिदं व्यर्थमेवेति' मतिमनुमान्य दीक्षायै सर्वथा मामनुमन्यतां भवान् / उमाशाहस्तु त्वमेव कायभारं गृहाणाहमव प्रहीष्यामि दीक्षामिति तमवादीत् / एवमुभयाविवादे परिणामे च-उमाशाहस्तस्य चत्वारः पुत्रा अपि दीक्षोद्यता बभूवुः / प्राप्ते च शुभे मुहूर्त सारंगादयो द्विचत्वारिंशत्संख्यका भावुका श्राईती दीक्षामगृहन् / सूरिणा सारंगस्य शेखरप्रभमुनिः, उमाशाहस्य च-उत्तमविजयेति नाम कृतम् / ___यदा गृहस्थत्व प्रासीदुमाशाहस्तदा श्रीसम्मेतशिखरयात्राभिलाषा तस्य चेतसि दृढाऽभूत् ततः पुनडनामा पुत्रस्वदर्थमुक्तः / स चात्मानं धन्यं मन्वानः सूरीश्वरस्याज्ञां गृहीत्वा सर्वत्रामन्त्रणान्यकार्षीत् / किमत्रो. च्यते ? सार्धलक्षका यात्रिण एकविंशतिहस्तिनाम् , राजानत्रयः, सहस्रचतुष्टयं साधूनां साध्वीनाञ्च तत्र संघे समुपस्थितमासीत् / कोटिपरिमितद्रव्यव्ययन संघं निष्कास्य, यात्राञ्च विधायात्मकल्याणमासादितं सर्वेरेव भावुकैः। सूरीश्वरोऽपि यात्रा विधाय शिष्यैः सह बंगकलिंगदेशविहाररुचिस्तत्र धर्मप्रचारं कृत्वा बहुसंख्यकान् बौद्धान् जिनदीक्षादीक्षितान् चकार / सूरीश्वरशुश्रूषायामेव दृढ़परिकरः शेखरप्रभो मुनिवर्तमानसाहित्यस्यागाधतलस्पर्शनः सर्वगुणगणगणनीयकीतिरभूत् / योगाराधने च परमविचक्षणः सर्वत्राप्रतिहतगति पाण्डित्यमाससाद गुरुकृपाकटाक्षितः / भूभ्रमणं कुर्वन्नसावाचार्या मथुरामागच्छत् / सच्चायिकावचनानुसारेण श्रीसंघस्यानुमत्या च सिद्धसूरीतिनाम्नालंकृतं स्वपट्टे स्थापयामास। अथाचार्यः श्रीसिद्धसूरिराचार्यपदं प्राप्याज्ञावशवर्तिनो बहून् मुनीन् स्वधर्मप्रचारकार्य समुचितामुपदिश्य बुद्धि सर्वत्र व्यसृजत् / तदानीमिदं वैशिष्ट्यमासीय भिन्नगच्छीया अपि साधवः परस्परं संगता वादिविजये सह प्रवृत्तिमकाषुः / येन विषमे समयेऽपि सर्वत्र धर्मभावना जनानां मानसाद् दूरं नातिगच्छति स्म / मरुधरलाट-सोराष्ट्र-कच्छ-सिन्ध-पजाब-शूरसेन पचाल-मत्स्य-बुंदेलखगडा-चन्ती-मेदपालपर्यन्तमुपकेशगच्छीयाः साधको