________________ [4] महामंत्रस्मरणपूर्वकं नश्वरमिदं शरीरममृजत् / सूरीश्वरवियोगदुःखदुखिता जनास्तदीशरीर कथं कथमपि पन्हिसाञ्चक्रुः / आकाशात्केसरवर्णा वृष्टिः पपात शरीरोपरि सुरभीणि च पुष्पाणि / श्रीसंघ समाश्वासयन्ती देवी सच्चायिकाऽदृश्यरूपेणोवाच-आचार्यों देवगुप्त सूरिः परमप्रभावनोपेत: सौधर्मनामनि देवलोके गतः / एकमेव भवमासाद्य मोक्षमेष्यतीति / श्रीसंघोऽपि परमानन्दसन्दोहमग्न प्राचार्यवर्यस्य स्मरणचिह्नरूपमेकं बहुमूल्यं स्तम्भमारोपयामास तत्र संस्कारभूमौ / सत्यमेवोच्यते / कथमपि भुवनेऽस्मिन् तादृशाः संभवन्ति / वि० सं० 520 तः] ३५-प्राचार्यः श्रीसिद्धसूरिः (षष्ठः) वि० सं० 558 50] श्रीदेवगुप्तसूरिपट्टे सकलागमपारदृश्वा योगसमाधिस्वरोदयशास्त्रेष्वनन्यसाधारणशेमुखीचमत्कारचिंता. मणिर्लब्धिसंपन्नः श्रीसिद्धसूरिः स्थानमवाप। असौ च चित्रकोटवास्तव्यो विरहटगोत्रीयश्वासीत् / पिताऽस्य परमधार्मिको वाणिज्यकलाकलापकोविदो धनाढ्यवर उमाशाहो, माता च सतीकुलशेखरमणी रमणीरबसमा• ख्याता श्रीमती नाथीदेवी / तयोरयमाचार्यवर्यः सारंगनामाऽन्वर्थनामा सकलसारदर्शी सूनुरभवत् / वाल्था देवाऽसी दृढसंकल्प: कार्यसूक्ष्मविचारविचक्षणः क्रमशः पितुः पथा वाणिज्यकर्मनिरतो बभूव / नास्य व्यापारी भारत एष केवलमपि तु विदेशेष्वप्यासीत् / प्लवमार्गेण मुहुर्मुहुरसौ गतागतमकरोत् / / एकदा कोटिपरिमितमूल्यानि वस्तूनि प्लवमारोप्य स विदेश जगाम दुर्दैववशास्समुद्रमध्ये प्रचलति प्लवे प्रबलतरपवनः प्लवमुभयतः कल्लोलावलीसमाच्छनमकरोत् / सर्वे च भयविव्हला दिङ्मूढतामवापुः / परमसौ सारंगः "जंजं भगवयाहीहा तं तं पणमिसन्ति" अवश्य भावि तु.प्रयत्नशतेन प्रतिक्रियमाणमपि भवत्येवेति विचार्य सर्वान् समाश्वासयत् / तथापि न केवलमिदं निश्चित्यावस्थानं युक्तमित्यपरे तमवोचन् / सारंगस्तानवादीत्-निश्चयानन्तरमेवोद्योगो भवति न तु तत्प्राक् / अतोऽहं ब्रवीमि यद् भवति तत् श्रेयस एवेति दृढ़ विश्वसन्तु भवन्तः / अत्रैवैको दृष्टान्तो यथा-एकदा वसन्तपुराधिपस्य राज्ञो जयशत्रोरंगुलिश्च्छिन्नाऽ भवत् / सभासद्भिः सर्वैरत्र महान् खेदो दर्शितः / किन्तु तदीयेन मन्त्रिणोक्तं यद् भवति तत् श्रेयस एव / पश्चात् कैश्चिद् दुर्जनै राजा मन्त्रिविषये विरुद्धमुक्तः / तथापि स न तस्मिन् भृशमखिद्यत् / अथेकदा वनविहारार्थमुभी जग्मतुः / मध्ये च राजा पिपासयाऽधिकं पीडितः / मन्त्री च तदर्थ जलान्वेषणायायात् / ततो देवीप्रसादाय बलिमन्विषन्तः पुलिन्दा वृक्षतले स्थितं रमणीयमूर्ति निर्भसिंतमारमूर्ति राजानं दृष्ट्वा गृहीत्वा च देव्यायतनं निन्युः / मन्त्री च प्रत्यागतः स्वबुद्धिबलेन वनेचरव्यवहारादिकं विचार्य सुन्दरं चण्डिकामन्दिरमगात् किरातरूपमास्थायावोचत्सर्वान-ननु सूक्ष्मेक्षिकया दृष्टयाऽवलोकयन्तु सर्वे भवन्तः, एकेनापि शरीरावयववैकल्येनास्य ऋद्धा देव्यस्मान् सर्वानेवैकपदे हनिष्यतीति / दृष्टं च तैः / उक्तश्च भोः छिन्नांगुलिरयम् / त्यज्यतामपरश्चानीयतां कोऽपोति तं विससृजिरे / मन्त्री च केनचिदपदेशेन निर्गत्याने राजानममिलत् / राज्ञा चोक्तं मन्त्रि ! अद्य त्वयैव मे प्राणाः परिरक्षिताः। स चन्यगादीत-स्मयते मदुक्तं यद् भवति तच्छ्रेयस इति ? / तेन चोक्तमोमिति तदारभ्य मन्त्रिण्यसी परमां प्रीतिमबन्धात् / अनन्तरं नगरं प्रत्याजग्मतुः / अत एव दृदं विश्वसनीयमस्माभिरवश्यमेव कल्याणोदकर्को भविष्यतीति / एवं यथाकथंचिद धृतिमवलम्ब्य सर्वे समयमतिवाहयन्ति स्म / परमयं प्रतिकूलतामुपगतः पवनः प्रलयकाल इव प्रबलतरं ववी / दृष्टश्च कोऽपि देवरूपः / ते च तेनोक्ताः। नरबलि भवन्त उपहरन्तु तदैव सर्वेषां कुशलं नान्यथा / सर्वे च ते सारंगं भयविह्वला बल्यर्थमवोचन्। स च तानवादीत्-मयैवेदं कदापि कर्तुमशक्यम् / स्वार्थलुब्धानां भवतां न परकीयशरीरे करुणापेक्षा ? / कोऽस्ति योऽसावात्मानमर्पयितुमस्माकं मध्ये समीहते 1 / सर्वे च मूकीभूताः / एवं पुनरसौ वानगादीत