________________ [ 116 ] महास्य नगरप्रवेशमकारयत् / अथ योगी गुरुवर्यस्यागमनं विदित्वा लाडुकेन सार्द्ध सूरीश्वरसमीपमगमत् / आत्मनः कर्मणा सह संबन्धः कथं संपद्यत इत्यादिका बहुविधां शंकां कृत्वा सिद्धान्तपूर्ण समुचितमुत्तरमाससादाचार्यसकाशात् / संसार कारागृहं मन्यमानावुभौ च दीक्षोद्यतो बभूवतुः / लाडुकोऽसौ महता प्रयासेन कौटुम्विकान् प्रबोध्य भवविनाशिनी दीक्षा योगिना साकमगृह्णात् / अस्य सोमसुन्दरेति नामकरणं कृतं सूरिणा। गुरुचरणभक्तिपरिपूरितमानसः शीघ्रमेवैकादशांगादीन्यागमशाखाण्यध्यैत / तदतिरिक्तम-अध्यात्मवादनयबादपरमाणुवादमन्त्रतन्त्रादिषु शास्त्रेषु परं प्रावीण्यमाससाद / आचार्यवों विविधगुणविभूषितं गच्छभारवाहनक्षम सोमसुन्दरं पारसशाखीयेन नेमाशाहेनानुष्ठिते महामहोत्सवे सर्वसंघानुमत्या स्वपदे प्रतिष्ठापयामास श्रीसिद्धसूरिनाम्ना / योगिराजश्व दीक्षितो धर्मरत्ननाम्ना प्रसिद्धः शतसंख्यकै. शिष्यैः सहितो गुरोराज्ञया सर्वत्र धर्मप्रचारं कुर्वन् प्रीतमानसेन सूरिणोपाध्यायपदेन भूषितः / ___समारोपितशासनकार्यभारः श्रीसिद्धसूरिविहरन्नेकदा सत्यपुरमभिप्रतस्थे / मार्गागतस्य कस्यचिद् देवीमन्दिरस्याभ्याशं संमिलितान् मानवान्, पशुहननोधतान् ददर्श / वधार्थमुपस्थापिता मूका दीनदीनाः पशवोऽपि दृष्टाः। करुणाद्रचेताः सूरि(शमुद्विविजे। त्वरितमेव तत्र गत्वा तानुद्दिश्यावादीत-भव्या ! रुचिरवदना भवन्तः सर्वे महाप्रशस्तकुलोत्पना आकृत्या विलोक्यन्ते / नेदं भवतां सर्वसत्वशिकराणामुचितं कर्म / नात्र भवन्तोऽपराध्यन्ति, कस्यचिद् मांसभक्षणशीलस्य संसर्गजन्यैव प्रवृत्तिरियम् / अतः स्वजातिकुलक्रममनुसरन्तः स्वमभिलषितं सुखेन सम्पादयन्तु / आत्महननतुल्या प्रवृत्तिं च हिंसारूपां निरयमात्रफलां च दूरमुत्सारयन्तु / सौख्यसंवर्वकं मुनिवचः श्रुत्वा केचनात्र विरेमुः / फेचिच्च महात्मन् ! देव्युपम्हारसमपर्णमिदं कुलपरम्परागतं कथं त्यक्तव्यं स्यात् / अस्मदीयपरम्पराचारपद्धतिमजानन् भवानेवात्रोपदेशदानेऽपराध्यति / स्वसुखमाग. धयन् परोपकारधुरंधरोभवान स्थानादस्मात् त्वरितमेवान्यत्र प्रयातु। प्राणिनश्चैते म्रियमाणाः सर्वजनाभिलषणीयं दुरापं स्वर्गमेव प्राप्स्यन्तीति सरोषं सगर्वञ्चोचुः / यद्येवमनेन हिंसनेनालभ्यः स्वर्गलाभस्तर्हि , भवतां कि नाभिलषणीयः सर्गः। स्वयमेवोपहारीभताः प्राप्नुवन्तु स्वर्गम् / स्वकीयेनैव दृष्टान्तेन व्यवहरन्तु / एवं व्यवहारपरिपाटीमाश्रित्य तदनु शास्त्रप्रमाणैश्च वान् बोधयामास / दयाधर्मप्रचुरं वचनमाकये पश्चात्तापदुःख. दुःखितास्ते चौहानवीरमहारावप्रमुखाः सर्वे पशून् बन्धनस्थानादमुञ्चन् / पशवः सूरीश्वरमाशिषा संभावयन्तो मूकवाचा, स्वस्थानं गत्वा परमानन्दमवाप्नुवन् / सूरिश्च तान् धर्मतत्वमुपदिश्य जिनधर्मदीक्षां प्राहयामास / विनयान्वितो महारावो मालपुरागमनमभ्यर्थयामास / अङ्गीकृत्य तद्भावनां सूरिस्तंत्र कतिपयैः शिष्यैः सह ययौ / सर्वेभ्यो धर्मतत्वं तदाचरणसाधनानि च व्याख्यातानि / येन धर्मरुचिना महारावेण भव्यो जिनालयो निर्मापितः / यस्य प्रतिष्ठाविधिः सूरिणा वैक्रमे 1045 तमे वर्षे माघ शुक्लपूर्णिमायां विहितः / महारावस्य पुत्रः शिवनामा / तस्य च सूनुः सांवतः / असौ मनोवाकाय कर्मभिर्जिनधर्माचरणपरायणो बभूव / तद्भक्तिभाववशीभूता देवी सच्चायिका गरुडमारुह्यार्धनिद्रितावस्थायामस्मै दर्शनमदात् / सा च कल्याणिन् ! गोबन्धनस्थलस्याऽवस्तादक्षयो निधिः। तं गृहीत्वा धर्मकार्योपयोगेनात्मानं कृतार्थ कुरु" इत्युक्त्वा विरराम / अर्द्धनिद्रितः केवल मसो गरुडमद्राक्षीत् / तदनु सहसा तुमुलः शब्द उदचरत् / व्यक्तनिद्रो यावदितस्ततः पश्यति तावत्सोऽप्यन्तईितः / प्रबुद्धोऽसो रात्रिशेषं प्रभोगराधनेनात्यवाहयत् / प्रातर्जिनमन्दिरं गत्वा गुरवे निवेदयामास / गुरुश्च तमभ्यनन्दत् / प्राप्तं धननिधि शासनोत्कर्षे दीनानाञ्चोद्धरणे न्ययुक्त / यस्मिन् समये तस्य स्वप्नलाभस्तस्मिन्नेव समये धर्मपत्नी क्षत्रियकुलोत्पन्ना स्वप्ने पार्श्वप्रभुप्रतिमा बदर्श / उत्याय स्वपति निवेदयामास / स च स्वकीयं स्वप्नवृत्तान्तमकथयत् / अपि भाग्यशालिनि ! कोऽस्य.