________________ [ 113 ] श्वरसूरि-यशोभद्रसूरि-शालिभद्रसूरि-सुमतिसूरयश्च महाशासनप्रभावका प्राचार्या बभूवुः। तत्र यशोभद्रसूरेश्वरितमधिकं चमत्कारजनक पाठकानाच मनोरखकमिति कृत्वा संक्षेपेणात्र लिख्यते / श्री यशोभद्रसूरिचरितम् ___सर्वगुणजेगीयमानकीर्तिरमल विद्याविद्योतितदिङमण्डल आचार्यः श्रीयशोभद्रसूरिर्मारवाडदेशे पलासीप्रामवास्तव्यः प्राग्वटवंशालंकारभूतश्वासीत् / अस्य पुण्यसारनामा जनकः माता च गुणसुन्दरी निखिलगुणनिकेतना / वैक्रमे 957 तमेऽब्दे जनिमलभतासौ। अस्य सौधर्मेति नामकरणमभूत् / ___एकदा सांढेरागच्छीयस्याचार्यः श्रीश्वरसूरिः पञ्चशतसंख्यकैः शिष्यैः सहितो विहरन् धर्मप्रचारमकरोत् / विहरणक्रमेण मुंडाराप्राममाजगाम / स्वस्यानन्तरं पट्टधरस्य समुचितस्य शिष्यस्याभावेन खिनमानसस्तत्र वदरीदेवीमाराधयामास / समुपस्थिता च सा पात्रे सूरिणावतारिता। तदनु ता पप्रच्छ-भगवति ! मदीयोऽयं गच्छो विच्छेदमाप्स्यति, कश्चित् सच्छिष्यलाभो वा भविष्यतीति / पलासीप्रामवासी शाहपुण्यसारम्य गुणसुन्दर्याश्च पुत्रः पाठशालामधीयानो मसीपात्रभंजनेन सहपाठिना ब्राह्मणबाल केन कलहायितः, ब्राह्मणवालकेन तदेव मसीपात्रं याचितम् / असौ च सुवर्णस्य रूप्यस्य च ददामीति तमवादीत् / मदीयमेव देहीति ब्रुवनसौ तं बह्वभसयत् / विवदमानी तो गुरुसमीपं गतो तेन च बोधितौ। तथाप्यसौ स्वीयं दूराग्रह न तत्याज / न केवलमिदमपि तु प्रतिज्ञामप्यकार्षीद-विप्रपुत्र धुरि दई गाली कर करंबु तुम कपाली / जु षट तु वांमण सही नहीं तरी भरइउ भणिजे भई। सौधर्माऽपि रोषाविष्टस्तमत्रवीत्-तवते धइ वोलिड सुधर्म जोजे वामण सही नहीं तरी भरइउ भणिजे भई। सौधर्माऽपि रोषाविष्टस्तमब्रवीत् तवते धइ बोलिउ सुधर्म जोजे वामण माहरुकर्म / मूत्रो न मारु तुज प्राणिड, नहींतर नहीं सुघड वणियो। लवण्यसमयकृतयशोभद्रसूरिरास / एवंविधः सौधर्म एवानेतव्यः / दीक्षितोऽसौ भवदीयगच्छभारं वक्ष्यतीत्युक्त्वसा देवी यथागतमगमत् / सा च तत्र गत्वा सौधर्ममातरमुपदिश्य तमदीक्षयत् / षण्मासानन्तरमेवासी सर्वगुणसंपत्सन्वितः सर्वागमपारगश्च बभूव / सूरीश्वरश्च मुंडागग्राममेत्य द्वादशगोत्रीयैः सह बदरीमाराधयामास / सा संघसमक्षमेव सौधर्मकपाले तिल कं विधाय पुष्पमालामारोप्य सूरिपदं दत्त्वा यशोभद्रसूरीति नाम च कृत्वाऽदृश्यतामगात् / अथाचार्यः श्रीयशोभद्रसूगिविहरन् पाली नगरमगच्छत् / श्रीसंघेन च सत्कृतः / कदाचित् शौचनिवृत्यर्थ सूर्यमन्दिरस्यापरपार्श्वमुपाविशत् / भगवान् सूर्यश्च तदीयां महाप्रभावपूर्णा तपस्यामालक्ष्य तत्समीपं नीलमरकतपद्मरागादीनि रत्नानि प्राक्षिपत्। तथाप्यसो निःस्पृहो न जमाह / ततश्च सूर्यो वृष्टिं पातायामासासूरिश्च सूर्यमन्दिरमाययौ। द्वारश्च तेनावृतम्। किंचिन्मत्सकाशाद् याचस्वेत्युक्तः सूक्ष्मजीवदर्शनाय चूर्ण देहीत्यवोचत्। द्वितीयेऽह्नि स सर्व विद्याराधनप्रकारप्रदर्शक ग्रन्थं यन्त्रयुक्तं, अंजनशलाकामेकां च सूरिनिवासस्थानं गत्वा तस्मा अयच्छत् / तत्रोपदिष्टाः सर्वा अनवविद्या विद्या आत्मसाच्चकार / ततस्वदेव पुस्तकं सूर्यमन्दिर एव स्थापयितुं बलभद्रमुनिमरेषयत् / अनेन च तस्मात् पत्रत्रयं चोरितम् / मन्दिरे निधायोच्चैररुदत / सूर्येणोक्तम्-मुने ! मा रुदिहि मया दत्तमेव तत् पत्रत्रयमतो मा ते शोको भवत्विति / . यशोभद्रसूरीश्वरो नवनिधि-अष्टसिद्धि-आकाशगामिनी-इत्याद्या विविधा विद्या वशीचकार / तत्प्रभावेण प्रतिदिनमसौ शत्रुश्चय-रैवतक सम्मेतशिखरादीनां तीर्थानां यात्रा विधाय भोजनमकरोत् / अथ पालीनगराद्विहरन साढेरावग्राम मन्दिरप्रतिष्ठार्थमाजगाम / दर्शनार्थमागतानां जनानां कृते प्रारब्धे पाकनिर्माणे धृतं प्रमाणापेक्षया न्यूनतां गतम् / श्रुत्वैतत्सूरिरन्यधर्मावलम्बिनो धनिकस्य गृहाद् घृतमानाययामास / कार्ये च समाप्ते व्यवस्थापकास्तस्य मूल्य प्रदानाय तद्गृहं ययुः / तेषु च मूल्यं ददत्सु 15