________________ [6] मारब्धम् / देवप्रासादश्च परिपूर्णो जातः / सर्वे च विस्मयान्विताः बभूवुः / ___ अथ चामुण्डादेव्या सरिः कथितः-भगवन् ! महावीरप्रतिमानिर्माणाय देवगृहादुत्तरस्यां दिशि लुणाव्यभिधानपर्वतोपत्यकायां वालुकया श्रेष्ठिनो घटोध्नीगोदुग्धादहं प्रतिमाविचरनं करोमि। निमार्णकालस्य षण्मासावधिकं मानमित्युक्त्वा सा विरराम / ___ अथैकदा मन्त्री गोदुग्धन्यूनत्वकारणं ज्ञातुं गोपालकमपृच्छत्-तेन च दुग्धस्त्रावस्थलं तस्मै दर्शितम् / किमर्थमत्रैवेयं गौर्दुग्धं स्रावति ? इति कारणान्वेषणाय सोऽखिलान् दार्शनिकानाहूय पप्रच्छ / केचिदत्र स्थले कृष्णस्य, केपि गणपतेः, अपरे बुद्धस्य च प्रतिमाऽधस्ताद् वर्तत इति कथयामासुः / न च ते निश्चयं चक्रुः / अतोऽसौ गत्वा सप्रश्रयं सरि तत्कारणं पप्रच्छ / सूरिया चोक्तम्-भो मन्त्रिन् ! प्रातस्ते सन्देहसमाधानं भविष्यति / तद्वचः श्रद्दधानोऽसौ गृहं प्रत्याययौ / सूरिश्च ध्याने स्थितः / रात्रावागता देवी / सूरिश्च तामुवाच हे देवि ! प्रत्यक्षीभूय सर्वमेतत्कारणं स्वमुखेनैव हि सचिवस्योहडस्य सम्मखम् / सा च निद्रानिलीनं तं प्रत्यक्षीभूय प्रोवाच भो मन्त्रिन् ! मदनुज्ञाता त्वदीया गौस्तत्र दुग्धं स्रवति, तत्क्षीरेणाहं महावीरस्य प्रतिमा विरचयामि-इदं कारणं ज्ञापयितुं गुरुणाप्रेरिताहमत्रागता, अतः संशयं दूरीकुरु, कल्याणं ते भवत्वित्युक्त्व सा तिरोदधे / प्रातःस मरिसमीपं गत्वा रात्रिवृत्तान्तं निवेद्य तदने महावीरप्रतिमादर्शनेच्छां प्रकटीचकार। आचार्येणोक्तम्-अधुना नियतकालाकिंचिदवशिष्टं कार्यस्यातो विलम्वं कंचित्सहस्व / तेनोक्तम्गुरुकृपया तत्प्रतिमाकार्यमवशिष्टमपि पूर्णमेव भविष्यति-इति तदाग्रहात्पूज्यो मुनिस्तेन साई तत्र गतो यत्र जिनेश्वरप्रतिमा / तत्र स्वर्णमययवस्वस्तिककुसुमादीनि च विकीय स्वयमवर्वी खनित्वा मन्त्री जिनप्रतिमा बहिरानयत् / सप्तदिनसमयस्य न्यूनत्वादृये निम्बफलसमग्रन्थियुक्तो महावीरो बहिराजगाम / व्योममण्डलाच पञ्चवर्णा पुष्पवृष्टिः पपात / हस्तिन उपरि समारोप्य प्रतिमां मन्दिरमानयत् / विशुद्धबुद्धिरसौ प्रतिमाप्रतिष्ठापनलग्न सर्वदोषविवर्जितं निश्चिकाय / प्रतिष्ठा माघशुक्लपञ्चम्यां बृहस्पतिवासरे धनुर्लग्ने कर्तव्येति निश्चितम् / तस्मिन्नेव काले कोरंटकात् श्रावकानामाह्वानमागतम् "भगवन् ! प्रतिष्ठार्थ सत्वरमागच्छतु" इति विचार्योवाच-अत्रापि प्रतिष्ठाकार्य तत्रागमनं कथं घटते ? तच्छु त्वा सर्वे कोरंटकवास्तव्या विनिश्चितलग्नसमये विषादान्विता अभवन् / तान् दृष्ट्वा स आह यूय मा विषीदत, तत्राप्यहं आगमिष्यामि / हर्षिताश्च ते प्रत्यागच्छन् / ततः श्रीमत्युपकेशपुरे महावीरप्रतिष्ठाविधि समाप्य निजरूपेण, वैक्रियरूपेण च व्योममार्गेण कोरंटकं गत्वा तस्मिन्नेव धनुर्लग्ने मूर्तिप्रतिष्ठां चकार। श्रीवीरजिनेश्वरनिर्वाणात् सप्ततिवत्सरेपु व्यतीतेष्पकेशपुरे श्रीमद्वीरस्थापनं समजनि / एकदाऽचायेंणोक्तम् "श्रावकाः ! किमर्थं यूय देवीमन्दिरं गच्छथ ? विविधवधस्थान तद्" इति तद्वचः श्रुत्वा ते प्रोचुः प्रभो! युक्तमेतत् किन्तु रौद्रस्वभावां देवीं छलयामस्तदा कुपिता साऽस्मत्कुटुम्बमवसादयेत् / पुनराचार्येणोक्तम्-अहं रक्षा करिष्यामीति श्रुत्वा ते मन्दिरगगमानिवृत्ता बभूवुः / अपरत्र देव्या विचारितम्-अयमेवाचार्यो यस्य मया बहुपकृतम् / सोऽपि मदुपास