________________ [ . ] कान्मम मन्दिरमागन्तुं निषेधति, मयाऽवश्यमेव किमप्यस्य दर्शयितव्य प्रभुत्वमिति / किन्तु मुनानज्ञानादिक्रियानिरतत्वात्सा कालं प्रतीक्षमाणा स्थिता / एकदा विकालसमये ज्ञानध्यानादेर्निवृत्तस्यास्य वामनेत्रे कापि पीडा विहिता तया / देव्या एवेदं कार्यमिति ज्ञानदृष्ट्या विचार्यैवमेव सः स्थितः / प्रत्यक्षीभूता च सा जगाद-यदि त्वं करडा मरडा (मांस मदिराश्च) दास्यसि तदेव ते पीड़ा नक्ष्यति नान्यथेति / आचार्येणोक्तम्-अवश्य ते दापयिष्यामि। सा चाकण्य तिरोदधे / ____ अन्येधुरुपकेशपुरवास्तव्याः श्रावका आचार्यपाश्र्वंमागत्यावदन्-भो आचार्य ! देव्याः कोपाद्भवतोऽपीदृशी पीडा तदात्वस्माकं का वार्ता ? श्वस्तु नवरात्रदिवसोऽतः किमप्यनुष्ठानमनष्ठेयम्, तच्च परम्पराप्राप्तम्। त्यक्त्वा तद् वयं कथं सुरिवनः स्यामेति श्रुत्वा मुनिनोक्तम्-अहं युष्माभिः सहागच्छामि नात्र कापि चिन्ता विधेयेति श्रद्दधानास्ते शान्तिमवलम्ब्य स्वगृहमगमन् / आगत्य च सूरिकथितविधिना कुंकुंमकर्पूराद्यर्चनोपचारान् सज्जीचक्रुः / अथ सर्वे ते प्रभाते पक्वान्नखज्जकादिकं कुंकुंमकर्पूराद्यपचारांश्चादायाचार्येण सार्द्ध देव्यर्चनाय मन्दिरं ययुः। श्रावकपाात् पूजनं कारयित्वा पाणिभ्यां पक्वान्नं चूर्णयताऽचार्येण प्रोक्तम् देवि 1 तेऽभिमतं गृहाण / ततो रोषारुणनेत्रया तया चोक्तम्-मया कथितमन्यत्, त्वया चोपहृतमप्यन्यद् / आचार्येणेरितम्-त्वया पशुवधरूपो बलियोचितःस तु कर्तुमयितुञ्चाशक्यो न चात्मकल्याणकरः। हे देवि ! लोकास्त्वां प्रीणयितुमेव त्वदने पशुहननं कुर्वन्ति, कृत्वा गृहं गत्वा च त एवादन्ति न तु त्वमश्नासि / मुधैव हिसां कुर्वाणा कारयन्ती च त्वं न खलु नरकाद् बिभेषि ? पापकर्मनिरतानां देवमानुषाणां सर्वेषामेव नारकीया गतिरवश्यमेव भवति / सर्वसिद्धान्तसम्मतो दयाधर्म एव त्वयाऽश्रयणीय इति मुनिकथितं वचः समाकर्ण्य प्रबुद्धा सा प्राह सत्यमुक्तमतः परं साधुसमर्पितरक्तपुष्पमप्यहं न धारयिष्यामि / श्रावकैः कुंकुंमनैवेद्यकुसुमादिभिरेव मे पूजा विधेया / भवतो भवत्परम्परागतस्याचार्य स्य श्रीमहावीरस्य च समुपासकानां समेषामुपद्रवानखिलान्नाशयिष्यामि स्तुता पूजिता चाहं सदैव कुमारीशरीरं प्रविष्टाऽसंशयम् / स्बया ममापि धर्मलाभो देय इति अत्वा सूरिणा च तदङ्गीकृतम् / सा च तिरोदधे / ततःप्रभृति सा सच्चिका ( सत्यका ) इति प्रसिद्धिं जगाम / ब्राह्मणपुत्रकथा मुनेश्चमत्कारश्च / / . कस्मिश्चित्समये कोट्यधीशस्य ब्राह्मणस्य पुत्रः केनचिद् दुष्टभुजंगमेन दष्टो मृतकल्प आसीत् / जनकेनापि मन्त्रतन्त्रज्ञानखिलानाहूय विषापहरणोपायाः कारितास्ते च विफलाऽभवन् / अतो दुःखविव्हलाः पितृप्रभृतयो विप्राः करुणं क्रन्दन्तः शिबिकायां संस्थाप्य ब्राह्मणपुत्रं दाहार्थ स्मशानं ययुः / सरिरप्यन्तर्लब्धसंज्ञं तं जानन् धर्मोन्नत्यै शोकसंविग्नमानसं तज्जनकमाकारयामास / भो विप्र ! यदि जीवेत्तव तनयस्तदा त्वं किं करिष्यसि ? / स आह भगवन् ? तव किंकरो भविष्याम्यहमाजीवनं, किं बहुना श्रावकानामिव भवानेव मे माता पिता देवतेति स्वीकरोमि / ततो मुनिना पादप्रचालितं वारि मृतपुत्रस्योपरि प्रक्षिप्तं येनासौ संज्ञा लेमे / उत्तिष्ठमानः स चैतन्यशीलं किमेतद् इति पृष्ठवान् पितरम् / पित्रोक्तम्-कृपासिन्धुना सूरिणानेन त्वं पुनर्जीवनं लन्धवान् / ज्ञात्वाऽसौ