________________ [ 5 ] तिरश्चक्रुः, न. चात्र ते भिक्षादिकं प्रापुः। यत्र च ययुर्भिक्षार्थ तत्र सुरामिषाद्यभक्ष्यपदार्थान् ददृशुः, अतो भिक्षार्थं महत्कष्टमनुबभूवुस्ते मुनयः। यथैवागतं तथैव तैः प्रत्यागतम् / पात्राणि दृष्ट्वा च मासावधिकं सन्तोषमास्थाय स्थितिं चक्रः / पश्चाद् विहारः कृतः / अनुक्रमेण पुनस्तत्र समाजग्मुः किन्तु कार्यसिद्धिमनवलोक्य पुनर्विहारमैच्छन् / तदा चामुण्डया देव्या कथितम्-भो आचार्य ! सर्वे यूयमत्रैव मासचतुष्टयपर्यन्तं निवसत ! महानुपकारो भविष्यति / न खलु मदीयनगरान्निगंतव्यं संकटेऽपि" इति समाकर्ण्य देवीवाक्यं विश्वस्य च ते 35 संख्यकाः मुनयो मासिका द्विमासिकास्त्रिमासिकाश्चतुर्मासिकाश्च तत्रैव न्यवात्सुः। अन्ये तु चतुर्मासचिकीर्षयाऽन्यत्र प्रतस्थिरे / अस्योपकेशपुराधिपस्य "उत्पलदेवस्य" पाणिपीडनविधिः संग्रामसिंहस्य कन्यया जाल्हणादेव्या सह समभवत् / व्यतीते च कियति काले सा सौभाग्यसुन्दरी नाम तनयां सुषुवे / तदुद्वाहश्चोत्पलदेवेनामात्यपुत्रेण-उहडसुतेन त्रिलोकसिंहेन साकं विहितः। दुर्दैववशात्स कदाचित् केनचिद् भुजंगेन दष्टः / समाहूताश्च सर्वे समन्वतन्त्रविशारदाः किन्तु विफलप्रयत्नास्ते जाताः / कथितं च मृतोऽयं, दाह एषाशु विधीयतां, नात्र प्रतीकारोपायः कश्चित् / सर्वे जनाः सौभाग्यसुन्दरी च सतीभवितुमिच्छती तमादाय दाहार्थ प्रेतचनं (स्मशानं) समावजन् / अस्मिन्नेव काले महानुपकारो भविष्यतीति विचार्य साधुरूपं गृहीत्वा देवी चामुण्डा तत्रैवागता। जनान् सा प्राह सर्वे यूयं जीवन्तमेनं कथं धक्ष्यथ ? इत्याकण्य मन्त्रिणा शवशिविका परावर्तिता, किन्तु स साधुन तेषां दृग्गोचरो बभूव / अथ च सर्वे ते मिलित्वा सूरिपावं ययुः। मृतकविमानोः गुरुसमीपे स्थापितः, रुदन्तस्ते प्रोचुः "दयासिन्धो ! देवोऽस्माकं रुष्टः / पुत्रमरणादस्माकं गृहमरण्यमिव शून्यम् / जीवय सुतम् / याचकानां नो याचनां सफलीकुरु" इति करुणाद्रं वचो निशम्य तेषां किंचिदुष्णं वारि समानीतम् / स्वचरणौ च प्रक्षाल्य तेन तज्जलं मृतकस्योपरि संसिक्तम् / स मन्त्रिपुत्र उज्जीवितः / सर्वे च ते कथयामासुःअहो नूतनं जन्म प्राप्तमनेन पुत्रेण / मन्त्री च सूर्यवर्चसे सूरये तस्मै मणिमुक्ताफलवस्त्रादिकम्पायनमर्पयामास / सूरिणाचोक्तम्-न खलु धनेन मे प्रयोजनम् , अत्रत्याः सर्वे त्वं च निष्कपटं जिनधर्म गृहन्तु समेषामात्मकल्याणाय श्रेयसां पन्था एष एवेति / ते तथैव जिनधर्म स्त्रीचक्रुः / गुरुणा च तेन स्वधर्मोपरि दृढ़श्रद्धार्थ प्रभावपूर्ण सकलजनमनोरञ्जकं व्याख्यानतः शिक्षणं दत्तम् / सपादलक्षकाच जाताः भावकाः / अपरञ्चेयं विशिष्टा घटना, तथाहि श्रावकावस्थायाः पूर्वमेवोहडेन श्रीनारायणमन्दिरनिर्माणार्थ महान् यत्नो विहितः / स दिवा देवालयकायें कारयति रात्रौ च तन्नष्टं भवत्यकस्मादेव / चिन्तासमाकुलषेतसा तेन सर्वे ते दार्शनिकाः पृष्टाः किमत्र कारणमिति, न च तैः समाधानं कृतम्। ततः सः कृताञ्जलिः मूरिपावं गत्वा देवालयपतनकारणमपृच्छत् / तेन सूरिणा चोक्तम्-कस्य देवालयः क्रियते? नारायणस्येति, तदुत्तरं श्रुत्वा पुनः प्रोवाच सरिः-अस्मिन्नेव देवालये महावीरस्य स्थापनां करिष्यामीति संकल्प्य तत्कार्यमारभस्व मङ्गलं ते भविष्यती तद्वचोऽङ्गीकृत्य तेन तथैव प्रतिपन्नं, कार्य